॥ ब्रह्मोवाच ॥ ॥
अथाहमुच्चरन्वेदानशेषैर्वदनैः शिवम् ॥
अस्तौषं भक्तिसम्पूर्णं कृत्वा मानसमर्चनम् ॥ १ ॥
नमः शिवाय महते सर्वलोकैकहेतवे ॥
येन प्रकाश्यते सर्वं ध्रियते सततं नमः ॥ २ ॥
विश्वव्याप्तमिदं तेजः प्रकाशयति सन्ततम् ॥
नेक्षन्ते त्वद्दयाहीना जात्यन्धा भास्करं यथा ॥ ३ ॥
भूलिङ्गममलं ह्येतद्दृश्यमध्यात्मचक्षुषा ॥
अन्तस्स्थं वा बहिस्स्थं वा त्वद्भक्तैरनुभूयते ॥ ४ ॥
अपरिच्छेद्यमाकारमन्तरात्मनि योगिनः ॥
तदेतत्तव देवेश ज्वलितं दर्पणो यथा ॥ ५ ॥
अथवा शाङ्करी शक्तिः सत्याऽणोरप्यणीयसी ॥
मत्तो नान्यतरः कश्चिद्यन्मय्यपि विलीयते ॥ ६ ॥
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते ॥
नाधिकोऽस्ति परस्त्वत्तो न मत्तोऽपि तदाश्रयात् ॥ ७ ॥
त्वय्यर्पितं मनस्त्वतो न वियोगमपेक्षते ॥
वाचः कथं प्रवृत्तिः स्यात्तव वैभवकीर्त्तने ॥ ६ ॥
स्वयमीश महादेव प्रसीद भुवनाधिक ॥
आदिश प्रयतं भक्तमपेक्षितनियुक्तिषु ॥ ९ ॥
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः ॥
प्राञ्जलिर्देवदेवेशं न्यषीदं सविधे विभो ॥1.3.1.2.१०॥
अथ विष्णुर्नवाम्भोदगम्भीरध्वनिरभ्यधात् ॥
वाचः कृतार्थन्भूयः शुक्लाः शङ्करकीर्त्तनैः ॥ ११ ॥
जय त्रिभुवनाधीश जय गङ्गाधर प्रभो ॥
जय नाथ विरूपाक्ष जय चन्द्रार्द्धशेखर ॥ १२ ॥
अव्याजममितं शम्भो कारुण्यं तव वर्द्धते ॥
येन निर्धूतमखिलं भक्तेषु ज्ञानमाहितम् ॥ १३ ॥
पालनं सर्वविद्यानां प्रापणं भूतिसञ्चयैः ॥
पुराणं च सपुत्राणां पितुरेव प्रवर्धनम् ॥ ॥ १४ ॥
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः ॥
स्तोतुं न शक्नुमेशान समवायस्तु कि पुनः ॥ १५ ॥
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः ॥
भ्रमरः कीटमाकृष्य स्वात्मानं किं न चानयेत् ॥ १६ ॥
देवास्त्वदंशसम्भूतिप्रभवो न भवन्ति किम् ॥
अप्यायस्याग्निकीलस्य दाहे शक्तिर्न किं भवेत् ॥ १७ ॥
देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः ॥
तथा विषयभेदेन त्वमेकोऽपि विभिद्यसे ॥ १८ ॥
अनुग्रहपरो देव मूर्तिं दर्शय शङ्कर ॥
आवयोरखिलाधार नयनानन्ददायिनीम् ॥ १९ ॥
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् ॥
प्रससाद परं शम्भुः स्तुवतोरावयोर्द्वयोः ॥ 1.3.1.2.२० ॥
तेजःस्तम्भात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः ॥
आविर्बभूव पुरुषः कपिलः कालकन्धरः ॥ २१ ॥
परशुं बालहरिणं करैरभयविश्रमौ ॥
दधानः पुरुषोऽवादीत्पुत्रावावामिति प्रभुः॥ २२ ॥
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि॥
भवतं सर्वलोकानां सृष्टिरक्षाधिपौ युवाम् ॥ २३ ॥
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः ॥
वरं वृणुतमन्यं च वरदोऽहमुपागतः ॥ २४ ॥
इति देवस्य वचनात्सप्रीतौ च कृताञ्जली ॥
विज्ञापयामासिवतौ स्वं स्वमर्थं पृथक्पृथक् ॥ २५ ॥
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः ॥
संस्तुवन्वैदिकैर्मन्त्रैरीशानमपराजितम् ॥ ॥ २६ ॥
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम् ॥
तेजोमयं महादेवं योगिध्येयं निरञ्जनम् ॥ २७ ॥
आपूर्यमाणं भवता तेजसा गगनान्तरम् ॥
परिपृच्छ्यः सुरावासः क्षणाद्देव भविष्यति ॥ २८ ॥
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः ॥
नावसन्दिवि सञ्चारं लभेरंस्तेजसा तव ॥ २९ ॥
पृथ्वी च सकला चैव तप्यमाना तवौजसा ॥
चराचरसमुत्पत्तिक्षमा नैव भविप्यति ॥ 1.3.1.2.३० ॥
उपसंहृत्य तेजः स्वमरुणाचलसञ्ज्ञया ॥
भव स्थावरलिङ्गं त्वं लोकानुग्रहकारणात् ॥ ३१ ॥
ज्योतिर्मयमिदं रूपमरुणाचलसञ्ज्ञितम् ॥
ये नमन्ति नरा भक्त्या ते भवन्त्यमराधिकाः ॥ ३२ ॥
सेवन्तां सकला लोकाः सिद्धाश्च परमर्षयः ॥
गणाश्च विविधा भूमौ मानुषं भावमास्थिताः ॥ ३३ ॥
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः ॥
सेविनस्त्वां प्ररोहन्तु भरिता विविधैः फलैः ॥ ३४ ॥
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः ॥
प्रशान्ताः परिवर्त्तन्ता पापकल्मषनाशनम् ॥ ३५ ॥
अयनद्वयभिन्नेन गमनेनापि संयुतः ॥
न लङ्घयिष्यति रविः शृङ्गं लिङ्गतनोस्तव ॥ ३६ ॥
दिव्य दुन्दुभिशङ्खानां घोषैः पुष्पौघवृष्टिभिः ॥
सेवितो भव देव त्वमप्सरोनृत्यगीतिभिः ॥ ३७ ॥
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम् ॥
लभन्तां मानुषा नित्यं त्वत्सन्निधिमुपागताः ॥ ३८ ॥
ईशत्वं च वशित्वं च सौभाग्यं कालवञ्चनम् ॥
त्वामाश्रित्य नरास्सर्वे लभन्तामरुणाचल ॥ ३९ ॥
सर्वावयवदानेन सर्वव्याधिविनाशनात् ॥
सर्वाभीष्टप्रदानेन दृश्यो भव महीतले ॥1.3.1.2.४०॥
तथेति वरदं देवमरुणाद्रिपतिं शिवम्॥
प्रणम्य कमलानाथः प्रार्थयन्निदमब्रवीत् ॥ ४१ ॥
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो ॥
महेश सर्वलोकानां हिताय प्रकटोदय ॥ ४२ ॥
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः ॥
श्रीपतित्वमनुप्राप्तस्तदा भक्ता भवन्तु ते ॥ ४३ ॥
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम् ॥
मया च ब्रह्मणा चैवमदृष्टपदशेखरः ॥ ४४ ॥
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः ॥
त्वामर्चयन्ति ये मर्त्याः कृतार्थास्ते गतांहसः ॥ ४५ ॥
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः ॥
त्वामर्चयन्ति मनुजाः सार्वभौमा भवन्तु ते ॥ ४६ ॥
आरामं मण्डपं चापि कूपं विधिविशोधनम् ॥
कुर्वतामरुणाद्रीश सन्निधाने पुनर्भव ॥ ४७ ॥
अङ्गप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः ॥
अशेषपातकैः सद्यो विमुक्तो निर्मलाशयः ॥ ४८ ॥
आवामप्यविमुञ्चन्तौ सदा त्वत्पादपङ्कजम् ॥
ध्यातव्यं मनुजैः सर्वैस्तव सन्निधिमागतैः ॥ ४९ ॥
तथास्त्विति वरं दत्त्वा विष्णवे चन्द्रशेखरः ॥
भरुणाचलरूपेण प्राप्तः स्थावरलिङ्गताम् ॥ 1.3.1.2.५० ॥
तैजसं लिङ्गमेतद्धि सर्वलोकैककारणम् ॥
अरुणाद्रिरिति ख्यातं दृश्यते वसुधातले ॥ ५१ ॥
युगान्तसमये क्षुब्धैश्चतुर्भिरपि सागरैः ॥
अपि निर्मग्नलोकान्तैरस्पृष्टान्तिकभूतलम् ॥ ५२ ॥
गजप्रमाणैः पृषतैः पूरयन्तो जगत्त्रयम् ॥
पुष्कराद्या महामेघा विश्रान्ता यस्य सानुनि ॥ ५३ ॥
प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसञ्चरे ॥
भविष्यत्सर्वबीजानि निषेदुर्यत्र निश्चयम् ॥ ५४ ॥
मया चाहूयमानेभ्यः प्रलयानन्तरं पुनः ॥
यत्पादसेविविप्रेभ्यो वेदाध्ययनसङ्ग्रहः ॥ ५५ ॥
सर्वासामपि विद्यानां कलानां शास्त्रसम्पदाम् ॥
आगमानां च वेदानां यत्र सत्यव्यवस्थितिः ॥ ५६ ॥
यद्गुहागह्वरान्तस्स्था मुनयः शंसितव्रताः ॥
जटिनः सम्प्रकाशन्ते कोटिसूर्याग्नितेजसः ॥ ५७ ॥
पञ्चब्रह्ममयैर्मन्त्रैः पञ्चाक्षरवपुर्धरैः ॥
अकारपीठिकारूढो नादात्मा यः सदाशिवः ॥ ५८ ॥
अष्टभिश्च सदा लिङ्गैरष्टदिक्पालपूजितः ॥
अष्टमूर्त्तितया योऽयमष्टसिद्धिप्रदायकः ॥ ५९ ॥
यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः॥
अपेक्षन्ते स्थिता मुक्तिं विहाय कनकाचलम् ॥1.3.1.2.६०॥
एवं वसुन्धरापुण्यपरिपाकसमुच्चयः ॥
अरुणाद्रिरिति ख्यातो भक्तभक्तिवरप्रदः ॥६१॥
कैलासान्मेरुशिखरादागतैर्देवसञ्चयैः ॥
पूज्यते शोणशैलात्मा शम्भुः सर्ववरप्रदः ॥६२॥
इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या ॥
विरचितविनयः प्रणम्य पुत्रः पितरमपृच्छदशेषवेदसारम् ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मविष्णुस्तुतिपूर्वकं शङ्करस्य स्थावरलिङ्गमाहात्म्यवर्णनन्नाम द्वितीयोऽध्यायः ॥ २ ॥