॥ श्रीगणेशाय नमः॥ ॥
अथ श्रीमदरुणाचलमाहात्म्यपूर्वार्धः प्रारभ्यते॥ ॥
ललाटे त्रैपुण्ड्री निटिलकृतकस्तूरितिलकः स्फुरन्मालाधारः स्फुरितकटिकौपीनवसनः ॥
दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते ॥१॥
॥ व्यास उवाच ॥ ॥
अथाहुर्मुनयः सूतं नैमिषारण्यवासिनः ॥
अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम् ॥ २ ॥
तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् ॥
॥ श्रीसूत उवाच ॥ ॥
एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा ॥ ३ ॥
शृणुतावहिता यूयं तद्वो वक्ष्यामि साम्प्रतम् ॥
यदाकर्णयतां भक्त्या नराणां पापनाशनम् ॥ ४ ॥
सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् ॥
सनकः परिपप्रच्छ प्रणतः प्राञ्जलिः स्थितः ॥ ५ ॥
॥ सनक उवाच ॥ ॥
भुवनाधार देवेश वेदवेद्य चतुर्मुख ॥
आसीदशेषविज्ञानं प्रसादाद्भवतो मम ॥ ६ ॥
भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे ॥
बिम्बते सकलं ज्ञानं सकृदेवोपदेशतः ॥ ७ ॥
सारार्थं वेदवेदानां शिवज्ञानमनाकुलम् ॥
लब्धवानहमत्यन्तं कटाक्षैस्ते जगद्गुरोः ॥ ८ ॥
लिङ्गानि भुवि शैवानि दिव्यानि च कृपानिधे ॥
मानुषाणि च सैद्धानि भौतानि सुरनायक ॥ ९ ॥
नामस्मरणमात्रेण यत्पातकविनाशनम् ॥
शिवसारूप्यदं नित्यं मह्यं वद दयानिधे ॥ ११ ॥
अनादिजगदाधारं यत्तेजः शैवमव्ययम् ॥
यच्च दृष्ट्वा कृतार्थः स्यात्तन्मह्यमुपदिश्यताम् ॥ १२ ॥
इति भक्तिमतस्तस्य कौतूहलसमन्वितम् ॥
वाक्यमाकर्ण्य भगवान्प्रससाद तपोनिधिः ॥ ॥ १३ ॥
दध्यौ च सुचिरं शम्भुं पङ्कजासनसंस्थितः ॥
अन्तरङ्गसुखाम्भोधिमग्नचेताश्चतुर्मुखः ॥ १४ ॥
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तम्भमयं शिवम् ॥
उत्तीर्णसकलाधारं न किञ्चित्प्रत्यबुध्यत ॥ १५ ॥
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः ॥
निर्वर्त्त्य हृदयं योगात्सस्मार सुतमानतम् ॥ १६ ॥
शिवदर्शनसञ्जातपुलकाङ्कितविग्रहः ॥
आनन्दवाष्पवन्नेत्रः सगद्गदमभाषत ॥ १७ ॥
॥ ब्रह्मोवाच ॥ ॥
अतः संस्मारितः पुत्र भवताऽहं पुरातनम् ॥
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात् ॥१८॥
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव ॥
तया मदीयं हृदयं व्यावर्त्तितमिव क्षणात् ॥ १९ ॥
पावयन्ति जगत्सर्वं चरितैस्ते निराकुले ॥
येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिकी ॥ 1.3.1.1.२० ॥
सम्भाषणं सहावासः क्रीडा चैव विमिश्रणम् ॥
दर्शनं शिवभक्तानां स्मरणं चाघनाशनम्॥ २१ ॥
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा ॥
अव्याजकरुणापूर्णमरुणाद्र्यभिधं महः ॥ २२ ॥
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् ॥
बहु स्यामिति सङ्कल्पं वितन्वानात्सदाशिवात् ॥ २३ ॥
स्वभावेन समुद्भूतौ विवदन्तौ परस्परम् ॥
न च श्रान्तौ नियुध्यन्तौ साहङ्कारौ कदाचन ॥२४॥
परस्परं रणोत्साहमावयोरतिभीषणम् ॥
आलोक्य करुणामूर्तिरचिन्तयदथेश्वरः ॥ २५ ॥
किमर्थमनयोर्युद्धं जायते लोकनाशनम् ॥
मया सृष्टमहं पातेति विवादमधितस्थुषोः ॥ २६ ॥
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम् ॥
यदि युद्धं न रोत्स्यामि तदा स्याद्भुवनक्षयः ॥ २७ ॥
वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम् ॥
न जानाते इमौ मुग्धौ क्रोधतो गलितस्मृती ॥ २८ ॥
सर्वोपि जन्तुरात्मानमधिकं मन्यते भृशम् ॥
अमतान्यसमाधिक्यस्त्वधः पतति दुर्मतिः ॥ २९ ॥
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः ॥
तदा तद्रूपविज्ञानात्स आत्मा सोपि मामियात् ॥ 1.3.1.1.३० ॥
इति निश्चित्य मनसा स्वयमेव सदाशिवः ॥
आवयोर्युध्यतोर्मध्ये वह्निस्तम्भः समुद्यतः ॥ ३१ ॥
अतीत्य सकलाल्ँलोकान्सर्वतोऽग्निरिव ज्वलन् ॥ ३२ ॥
अनाद्यन्ततया चाथ दृगार्तौ संव्यतिष्ठताम् ॥
तेजःस्तम्भं ज्वलन्तं तमालोक्य शिथिलाशयौ ॥ ३३ ॥
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी ॥
किमर्थं बालकौ युद्धं कल्प्यते मूढमानसौ ॥ ३४ ॥
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते ॥
तेजःस्तभमयं रूपमिदं शम्भोर्व्यवस्थितम् ॥ ३५ ॥
आद्यन्तयोर्यदि युवामीक्षिषाथां बलाधिकौ ॥
इति तां गिरमाकर्ण्य नियुद्धाद्विरतौ तदा ॥ ३६ ॥
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ ॥
अग्निस्तम्भमयं रूपं शम्भोराद्यन्तवर्जितम् ॥ ३७ ॥
आलोकितुं व्यवसितावावामाद्यन्तभागतः ॥
बिम्बितं व्योमगं चन्द्रं यथा बालौ जिघृक्षतः ॥३८॥
तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः॥
अथ विष्णुर्महोत्साहात्क्रोडोऽभूत्सुमहावपुः ॥ ३९ ॥
तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् ॥
अहं च हंसतां प्राप्तो महावेगं समुत्पतन् ॥ 1.3.1.1.४० ॥
दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम् ॥
अधोधोदारयन्क्षोणिमशेषामपि माधवः ॥ ४१ ॥
आविर्भूतमिवाधस्तादग्निस्तम्भमवैक्षत ॥
अनेककोटिवर्षाणि विचिन्वन्नपि तेजसः ॥ ४२ ॥
अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः ॥
विशीर्णदंष्ट्रबलयो विगलत्सन्धिबन्धनः ॥ ४३ ॥
श्रमातुरस्तृषाक्रान्तो नो यातुमशकद्धरिः ॥
वाराहं रूपमतुलं सन्धारयितुमक्षमः ॥ ४४ ॥
विहन्तुमपि विश्रान्तो विषसाद रमापतिः ॥
अचिन्तयदमेयात्मा परिश्रान्तशरीरवान् ॥ ४५ ॥
गलितश्रीः क्रियाश्रान्तः शरण्यं शिवमाश्रयन् ॥
धिङ्ममेदं महन्मौग्ध्यमहङ्कारसमुद्भवम् ४८॥।
येनाहमात्मनो नाथमात्मानं नावबुद्धवान् ॥
अयं हि सर्ववेदानां देवानां जगतामपि ॥ ४७ ॥
मूलभूतः शिवः साक्षान्मूलमस्य कथं भवेत् ॥
अस्मादेव समुद्भूतोऽस्म्यहमाद्यन्तवर्जितात् ॥ ४८ ॥
यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता ॥
अव्याजकरुणाबन्धोः पितुः शम्भोः प्रसादतः ॥ ४९ ।
पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना ॥
स्वयमेव महादेवः शम्भुर्यं पातुमिच्छति ॥ 1.3.1.1.५० ॥
तस्य सद्यो भवेज्ज्ञानमनहङ्कारमात्मजम् ॥
न शक्नोमि पुनः कर्तुं पूजामस्य जगद्गुरोः ॥ ५१ ॥
निवेदयामि चात्मानं शरणं यामि शङ्करम् ॥
इति दध्यौ शिवं विष्णुः स्तुत्यामर्पितचेतनः ॥। ॥ ५२ ॥
सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ ॥
अहं च गगनेऽभ्राम्यमनेकानपि वत्सरान् ॥ ५३ ॥
आघूर्णमाननयनः श्लथपक्षः श्रमं गतः ॥।
उपर्युपरि चापश्यं ज्वलनं पुरतः स्थितम् ॥ ५४ ॥
तेजःस्तम्भं स्थूललिङ्गाभं शैवं तेजः सुरार्चितम् ॥
आहुः स्म केचिदालोक्य सिद्धास्तेजोंशसम्भवाः ॥ ५५ ॥
नित्यां शम्भोः परां कोटिं दिदृक्षुं मां कृतोद्यमम् ॥
अहोऽयं सत्यमुग्धत्वमद्यापि च चिकीर्षति ॥ ५६ ॥
आसन्नदेहपातोऽपि नाहङ्कारोऽस्य वै गतः ॥
विशीर्यमाणपक्षोऽयं श्रान्त्वा विभ्रान्तलोचनः ॥ ५७ ॥
अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति ॥
एवं व्याकुलचित्तोऽयं क्रोडरूपी जनार्दनः ॥ ५८ ॥
व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा ॥
ईदृशां ब्रह्ममुख्यानां सुराणां कोटिसम्भवः ॥ ५९ ॥
यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते ॥
स्वात्मनो यो गतो ध्यात्वा समये भगवाञ्छिवः ॥ 1.3.1.1.६० ॥
यदि बुद्धिं ददात्यस्मै तस्य नश्येदहङ्क्रिया ॥
इत्येवं वदतां तेषां सिद्धानां सदयं वचः ॥ ६१ ॥
आकर्ण्य शीर्णाहङ्कारो ह्यहमात्मन्यचिन्तयम् ॥
न वेदराशिविज्ञानात्तपस्तीर्थनिषेवणात् ॥ ६२ ॥
सञ्जायते शिवज्ञानमस्यैवानुग्रहादृते ॥
शीर्णेऽपि पक्षयुगले सीदत्यङ्गे ह्यचञ्चले ॥ ६३ ॥
पुनरुत्सहते चेतः स्वाहङ्कारस्य सङ्ग्रहे ॥
धिङ्मामहं क्रियाक्रान्तमनात्मबलवेदिनम् ॥ ६४ ॥
शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः ॥
येषां संसर्गलब्धेन तपसा शोधिताशयः ॥ ६५ ॥
शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम् ॥
यत्प्रसादोपलब्धेन विभवेन समन्विताः ॥ ६६ ॥
देवाः सर्वे भविष्यन्ति सततं शमितारयः ॥
यस्य वेदा न जानन्ति परमार्थं महागमैः ॥ ६७ ॥
तमेव शरणं यामि शम्भुं विश्वविलक्षणम् ॥
अवादिषमथाभाष्यं विष्णुं कमललोचनम् ॥ ६८ ॥
लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम् ॥
अहो किमिदमाश्चर्यमागतं शौर्यशालिनाम् ॥ ६९ ॥
शम्भुना यत्समुद्भूतमहङ्कारमुपाश्रितौ ॥
आवां परस्परं युद्धमाकर्ण्य विपुलं महत् ॥ 1.3.1.1.७० ॥
स एव शङ्करः सर्वमहङ्कारमथावयोः ॥
अपाहरदमेयात्मा स्वमाहात्म्यप्रकाशनात् ॥ ७१ ॥
इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम् ॥
अभिपूजयितुं प्रवर्तते स भवेद्वै भवसागरस्य नौः ॥ ७२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मसनकसंवादे लिङ्गप्रादुर्भाववर्णनन्नाम प्रथमोऽध्यायः ॥ १ ॥