काल-भीति-स्तुतिः

मानसतरङ्गिणीकृत् - टिप्पनी

This is a beautiful stotra giving the

  • 5 brahma or vaktra mantra-s;
  • the mR^itasaMjIvanI R^ik and
  • the pa~nchAkSharI from the yajurveda conjoined with the praNava.

Can be used by those who don’t have the saMskAra to deploy shruti

विश्वास-प्रस्तुतिः

पापस्य कालं भव-पङ्क-कालं,
कलाकलं, काल-मार्गस्य कालम्॥
देवं महा-कालम् अहं प्रपद्ये,
श्री-काल-कण्ठं भव-काल-रूपम्॥ ४०.१०० ॥

मूलम्

पापस्य कालं भवपङ्ककालं कलाकलं कालमार्गस्य कालम्॥
देवं महाकालमहं प्रपद्ये श्रीकालकण्ठं भवकालरूपम्॥ ४०.१०० ॥

विश्वास-प्रस्तुतिः

ईशान-वक्त्रं प्रणमामि त्वा ऽहं
स्तौति श्रुतिः सर्व-विद्येश्वरस् त्वम्॥
भूतेश्वरस् त्वं प्रपितामहस् त्वं
तस्मै नमस्ते ऽस्तु महेश्वराय॥ ४०.१०१ ॥

मूलम्

ईशानवक्त्रं प्रणमामि त्वाहं स्तौति श्रुतिः सर्वविद्येश्वरस्त्वम्॥
भूतेश्वरस्त्वं प्रपितामहस्त्वं तस्मै नमस्तेस्तु महेश्वराय॥ ४०.१०१ ॥

विश्वास-प्रस्तुतिः

यं स्तौति वेदस्, तम् अहं प्रपद्ये
तत्-पुरुष-सञ्ज्ञं शरणं द्वितीयम्॥
त्वां विद्महे तच् च नस् त्वं प्रदेहि
श्री-रुद्र देवेश नमो नमस् ते॥ ४०.१०२ ॥

मूलम्

यं स्तौति वेदस् तम् अहं प्रपद्ये तत्पुरुषसञ्ज्ञं शरणं द्वितीयम्॥
त्वां विद्महे तच् च नस्त्वं प्रदेहि श्रीरुद्र देवेश नमोनमस्ते॥ ४०.१०२ ॥

विश्वास-प्रस्तुतिः

अघोर-वक्त्रं त्रितीयं प्रपद्ये
अथर्व-जुष्टं तव रूपकाणि॥
अ-घोर-घोराणि च घोर-घोराण्य्
अहं सदा नौमि भूतानि तुभ्यम्॥ ४०.१०३ ॥

मूलम् अघोरवक्त्रं त्रितयं प्रपद्ये अथर्वजुष्टं तव रूपकाणि॥ अघोरघोराणि च घोरघोराण्यहं सदानौमि भूतानि तुभ्यम्॥ ४०.१०३ ॥
विश्वास-प्रस्तुतिः

चतुर्थ-वक्त्रं च सदा प्रपद्ये
सद्योऽभिजाताय नमो नमस् ते॥
भवे भवे नादि-भवो भवस्व
भवोद्भवो मां शिव तत्र तत्र॥ ४०.१०४ ॥

मूलम् चतुर्थवक्त्रं च सदा प्रपद्ये सद्योभिजाताय नमोनमस्ते॥ भवेभवेनादिभवो भवस्व भवोद्भवो मां शिव तत्रतत्र॥ ४०.१०४ ॥
विश्वास-प्रस्तुतिः

नमो ऽस्तु ते वामदेवाय ज्येष्ठ-
रुद्राय कालाय कलाविकारिणे॥
बलङ्करायापि बल-प्रमाथिने
भूतानिहन्त्रे+++(=??-)+++ च मनोन्मनाय॥ ४०.१०५ ॥

मूलम् नमोस्तु ते वामदेवाय ज्येष्ठरुद्राय कालाय कलाविकारिणे॥ बलङ्करायापि बलप्रमाथिने भूतानि हन्त्रे च मनोन्मनाय॥ ४०.१०५ ॥
विश्वास-प्रस्तुतिः

त्रियम्बकं त्वां च यजामहे वयं
सुपुण्यगन्धैः शिव-पुष्टि-वर्धनम्॥
उर्वारुकं पक्वम् इवोग्र-बन्धनाद्
रक्षस्व मां त्र्यम्बक मृत्युमार्गात्॥ ४०.१०६ ॥

मूलम्

त्रियम्बकं त्वां च यजामहे वयं सुपुण्यगन्धैः शिवपुष्टिवर्धनम्॥
उर्वारुकं पक्वमिवोग्रबन्धनाद्रक्षस्व मां त्र्यम्बक मृत्युमार्गात्॥ ४०.१०६ ॥

विश्वास-प्रस्तुतिः

षडक्षरं मन्त्रवरं तवेश
जपन्ति ये मुनयो वीतरागाः॥
तेषां प्रसन्नोऽसि जपामहे तं
त्वोङ्कार-पूर्वं च नमः शिवाय॥ ४०.१०७ ॥

मूलम्

षडक्षरं मन्त्रवरं तवेश जपन्ति ये मुनयो वीतरागाः॥
तेषां प्रसन्नोऽसि जपामहेतं त्वोङ्कारपूर्वं च नमः शिवाय॥ ४०.१०७ ॥