४५

[अध्यायः ४५]

वेदव्यासः

अध्यायः ४५

॥नारद उवाच॥
तथा बहूदकस्थाने कथामाकर्णयाद्भुताम्॥
यस्माद्बहूदकं कामरूपे यदस्ति च॥ ४५.१ ॥

तदस्ति चात्र सङ्क्रान्तं तस्मात्प्रोक्तं बहूदकम्॥
कपिलेनात्र तप्त्वा च वर्षाणि सुबहून्यपि॥ ४५.२ ॥

स्थापितं शोभनं लिङ्गं कपिलश्वरसञ्ज्ञितम्॥
तच्च लिगं सदा पार्थ नन्दभद्र इति समृतः॥ ४५.३ ॥

वाणिक्सम्पूजयामास त्रिकालं च कृतादरः॥
सर्वधर्प्रविशेवज्ञः साक्षाद्धर्म इवापरः॥ ४५.४ ॥

नाज्ञातं तस्य किञ्चिच्च यद्धर्मेषु प्रकीर्त्यते॥
सर्वेषां च सुहृन्नित्यं सर्वेषां च हिते रतः॥ ४५.५ ॥

कर्मणा मनसा वाचा धर्ममेनमुपाश्रितः॥
न भूतो न भविष्यश्च न स धर्मोऽस्ति किञ्चन॥ ४५.६ ॥

विदोषो यो हि सर्वत्र निश्चित्यैवं व्यवस्थितः॥
अस्य धर्मसमुद्रस्य सम्प्रवृद्धस्य सर्वतः॥ ४५.७ ॥

निर्मथ्य नन्दभद्रेण आहृतं तन्निशामय॥
वाणिज्यं मन्यते श्रेष्ठं जीवनाय तदा स्थितः॥ ४५.८ ॥

परिच्छिन्नैः काष्ठतृणैः शरणं तेन कारितम्॥
मद्यवर्जं भेदवर्जं कूटवर्जं समं तथा॥ ४५.९ ॥

सर्वभूतेषु वाणिज्यमल्पलाभेन सोऽचरत्॥
अमायया परेभ्योऽसौ गृहीत्वैव क्रयाणकम्॥ ४५.१० ॥

अमाययैव भूतेभ्यो विक्रीणात्यस्य सद्व्रतम्॥
केचिद्यज्ञं प्रशंसन्ति नन्दभद्रो न मन्यते॥ ४५.११ ॥

दोषमेनं विनिश्चत्य श्रृमु तं पाण्डुनन्दन॥
लुब्धोऽनृती दाम्भीकश्च स्वप्रशंसापरायणः॥ ४५.१२ ॥

यजन्यज्ञैर्जगद्धं ति स्वं चान्धतमसं नयेत्॥
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते॥ ४५.१३ ॥

आदित्याज्जायते वृष्टिर्वष्टेरन्नं ततः प्रजाः॥
यद्यदा यजमानस्य ऋत्विजो द्रव्यमेव च॥ ४५.१४ ॥

चौरप्रायस्य कलुषाज्जन्म जायेज्जनस्य हि॥
अदक्षिणे वृथा यज्ञे कृते चाप्यविधानतः॥ ४५.१५ ॥

पशवो लकुटैर्हन्युर्यजमानं मृतं हताः॥
तस्माच्छुद्धैर्यवद्रव्यैर्यजमानः शुभः स्मृतः॥ ४५.१६ ॥

यज्ञ एवं विचार्यासौ यज्ञसारं समास्थितः॥
श्रद्धया देवपूजा या नमस्कारः स्तुतिः शुभा॥ ४५.१७ ॥

नैवेद्यं हविषश्चैव यज्ञोऽयं हि विकल्मषः॥
स एव यज्ञः प्रोक्तो वै येन तुष्यन्ति देवताः॥ ४५.१८ ॥

केचिच्छंसन्ति सन्न्यासं नन्दभद्रो न मन्यते॥
यो हि सन्न्यस्य विषयान्मनसा गृह्यते पुनः॥ ४५.१९ ॥

उभयभ्रष्ट एवासौ भिन्ना भूमिर्विनश्यति॥
सन्न्यासस्य तु यत्सारं तत्तेनावृतमुत्तमम्॥ ४५.२० ॥

कस्यचिन्नैव कर्माणि शपते वा प्रशंसति॥
नानामार्गस्थिताल्ँलोकांश्चन्द्रवल्लीयते क्षितौ॥ ४५.२१ ॥

न द्वेष्टि नो कामयते न विरुद्धोऽनुरुध्यते॥
समाश्मकाञ्चनो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥ ४५.२२ ॥

अभयः सर्वभूतेभ्यो यथान्धबधिराकृतिः॥
न कर्मणां फलाकाङ्क्षा शिवस्याराधनं हि तत्॥ ४५.२३ ॥

कारणाद्धर्ममन्विच्छन्न लोभं च ततश्चरन्॥ ४५.२४ ॥

विविच्य नन्दभद्रस्तत्सारं मोक्षेषु जगृहे॥
कृषिं केचित्प्रशंसन्ति नन्दभद्रो न मन्यते॥ ४५.२५ ॥

यस्यां छिन्दन्ति वृषाणां चैव नासिकाम्॥
कर्षयन्ति महाभारान्बध्नन्ति दमयन्ति च॥ ४५.२६ ॥

बहुदंशमयान्देशान्नयन्ति बहुकर्दमान्॥
वाहसम्पीडिता धुर्याः सीदन्त्यविधिना परे॥ ४५.२७ ॥

मन्यन्ते भ्रूणहत्यापि विशिष्टा नास्य कर्मणः॥
अघ्न्या इति गवां नाम श्रुतौ ताः पीडयेत्कथम्॥ ४५.२८ ॥

भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्॥
पञ्चेन्द्रियेषु जीवेषु सर्वं वसति दैवतम्॥ ४५.२९ ॥

आदित्यश्चन्द्रमा वायुः प्रभूत्यैव च तांस्तु यः॥
विक्रीणाति सुमूढस्य तस्य का नु विचारणा॥ ४५.३० ॥

अजोऽग्निर्वरुणो मेषः सूर्यश्च पृथिवी विराट्॥
धेनुर्वत्सश्च सोमो वै विक्रीयैतान्न सिध्यति॥ ४५.३१ ॥

एवंविधसहस्रैश्च युता दोषैः कृषिः सदा॥
अष्टगवं स्याद्धि हलं त्रिंशद्भागं त्यजेत्कृषेः॥ ४५.३२ ॥

धर्मे दद्यात्पशून्वृद्धान्पुष्यादेषा कृषिः कुतः॥
सारमेतत्कृषेस्तेन नन्दभद्रेण चादृतम्॥ ४५.३३ ॥

विसाधितव्यान्यन्नानि स्वशक्त्या देवपितृषु॥
मनुष्य द्विजभूतेषु नियुज्याश्नीत सर्वदा॥ ४५.३४ ॥

केचिच्छंसन्ति चैश्वर्यं नन्दभद्रो न मन्यते॥
मानुषा मानुषानेव दासभावेन भुञ्जते॥ ४५.३५ ॥

वधबन्धनिरोधेन पीडयन्ति दिवानिशम्॥
देहं किमेतद्धातुः स्वं मातुर्वा जनकस्य वा॥ ४५.३६ ॥

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा॥
इति सञ्चिन्त्य व्यहरन्नमरा इव ईश्वराः॥ ४५.३७ ॥

ऐश्वर्यमदपापिष्ठा महामद्यमदादयः॥
ऐश्वर्यमदमत्तो हि ना पतित्वा हि माद्यति॥ ४५.३८ ॥

आत्मवत्सर्वभृत्येषु श्रिया नैव च माद्यति॥ ४५.३९ ॥

आत्मप्रत्ययवान्देही क्वेश्वरश्चेदृशोऽस्ति हि॥
ऐश्वर्यस्यापि सारं स जग्राहैतन्निशामय॥ ४५.४० ॥

स्वशक्त्या सर्व भूतेषु यदसौ न पराङ्मुखः॥
तीर्थायेके प्रशंसन्ति नन्दभद्रो न मन्यते॥ ४५.४१ ॥

श्रमेण सङ्करात्तापशीतवातक्षुधा तृषा॥
क्रोधेन धर्मगेहस्य नापि नाशमवाप्नुयात्॥ ४५.४२ ॥

सौख्येन वा धनस्यापि श्रद्धया स्वल्पगोर्थवान्॥
समर्थो हि महत्पुण्यं शक्त आप्तुं क्व वास्ति सः॥ ४५.४३ ॥

सदा शुचिर्देवयाजी तीर्थसारं गृहेगृह॥
नापः पुनन्ति पापानि न शैला न महाश्रमाः॥ ४५.४४ ॥

आत्मा पुनाति पापानि यदि पापान्निवर्तते॥
एवमेव समाचारं प्रादुर्भूतं ततस्ततः॥ ४५.४५ ॥

एकीकृत्य सदा धीमान्नन्दभद्रः समास्थितः॥
तस्यैवं वर्ततः साधोः स्पृहयन्त्यपि देवताः॥ ४५.४६ ॥

वासवप्रमुखाः सर्वे विस्मयं च परं ययुः॥
अत्रैव स्थानके चापि शूद्रोऽभूत्प्रतिवेश्मकः॥ ४५.४७ ॥

स नन्दभद्रं धर्मिष्ठं पुनः पुनरसूयत॥
नास्तिकः स दुराचारः सत्यव्रत इति श्रुतः॥ ४५.४८ ॥

स सदा नन्दभद्रस्य विलोकयति चान्तरम्॥
छिद्रं चेदस्य पश्यामि ततो धर्मान्निवर्तये॥ ४५.४९ ॥

स्वभाव एव क्रूराणां नास्तिकानां दुरात्मनाम्॥
आत्मानं पातयन्त्येव पातयन्त्यपरं च यत्॥ ४५.५० ॥

ततस्त्वेवं वर्ततोऽस्य नन्दभद्रस्य धीमतः॥
एकोऽभूत्तयः कष्टाद्वार्धिके सोऽप्यनश्यत॥ ४५.५१ ॥

तच्च दैवकृतं मत्वा न शुशोच महामतिः॥
देवो वा मानवो वापि को हि दवाद्विमुच्यते॥ ४५.५२ ॥

ततोऽस्य सुप्रिया भार्या सर्वैः साध्वीगुणैर्युता॥
गृहधर्मस्य मूर्तिर्या साक्षादिव अरुन्धती॥ ४५.५३ ॥

विनाशमागता पार्थ कनकानाम नामतः॥
ततो यतेन्द्रियोऽप्येष गृहधर्मविनाशतः॥ ४५.५४ ॥

शुशोच हा कष्टमिति पापोहमिति चासकृत्॥
तत्तस्य चान्तरं दृष्ट्वाऽहृष्यत्यव्रतश्चिरात्॥ ४५.५५ ॥

उपाव्रज्य च हा कष्टं ब्रुवंस्तं नन्दभद्रकम्॥
दधिकर्ण इवासाद्य नन्दभद्रमुवाच सः॥ ४५.५६ ॥

हा नन्दभद्र यद्येवं तवाप्येवंविधं फलम्॥
एतेन मन्ये मनसि धर्मोप्येष वृथैव यत्॥ ४५.५७ ॥

इत्यादि बहुधा प्रोच्य तत्तद्वाक्यं ततस्ततः॥
सत्यव्रतस्ततः प्राह नन्दभद्रं कृपान्वितः॥ ४५.५८ ॥

नन्दभद्र सदा तुभ्यं वक्तुकामोस्मि किञ्चन॥
प्रस्तावस्याप्यभावाच्च नोदितं च मया क्वचित्॥ ४५.५९ ॥

अप्रस्तावं ब्रुवन्वाक्यं बृहस्पतिरपिध्रुवम्॥
लभते बुद्ध्यवज्ञानमवमानं च हीनवत्॥ ४५.६० ॥

॥नन्दभद्र उवाच॥
ब्रूहिब्रूहि न मे किञ्चित्साधु गोप्यं प्रियं परम्॥
वचोभिः शुद्धसत्त्वानां न मोक्षोऽप्युपमीयते॥ ४५.६१ ॥

॥सत्यव्रत उवाच॥
नवभिर्नवभिश्चैव विमुक्तं वाग्विदूषणैः॥
नवभिर्बुद्धिदोषैश्च वाक्यं वक्ष्याम्यदोषवत्॥ ४५.६२ ॥

सौक्ष्म्यं सङ्ख्याक्रमश्चापि निर्णयः सप्रयोजनः॥
पञ्चैतान्यर्थजातानि यत्र तद्वाक्यमुच्यते॥ ४५.६३ ॥

धर्ममर्थं च कामं च मोक्षं चोद्दिश्य चोच्यते॥
प्रयोजनमिति प्रोक्तं प्रथमं वाक्यलक्षणम्॥ ४५.६४ ॥

धर्मार्थकाममोक्षेषु प्रतिज्ञाय विशेषतः॥
इदं तदिति वाक्यान्ते प्रोच्यते स विनिर्णयः॥ ४५.६५ ॥

इदं पूर्वमिदं पश्चाद्वक्तव्यं यत्क्रमेण हि॥
क्रमयोगं तमप्याहुर्वाक्यतत्तविदो बुधाः॥ ४५.६६ ॥

दोषाणां च गुणानां च प्रमाणं प्रविभागतः॥
उभयार्थमपि प्रेक्ष्य सा सङ्ख्येत्युपधार्यताम्॥ ४५.६७ ॥

वाक्यज्ञेयेषु भिन्नेषु यत्राभेदः प्रदृश्यते॥
तत्रातिशयहेतुत्वं तत्सौक्ष्म्यमिति निर्दिशेत्॥ ४५.६८ ॥

इति वाक्यगुणानां च वाग्दोषान्द्विनव श्रृणु॥
अपेतार्थमभिन्नार्थमपवृत्तं तथाधिकम्॥ ४५.६९ ॥

अश्लक्ष्णं चापि सन्दिग्धं पदान्ते गुरु चाक्षरम्॥
पराङ्मुखमुखं यच्च अनृतं चाप्यसंस्कृतम्॥ ४५.७० ॥

विरुद्धं यत्त्रिवर्गेण न्यूनं कष्टातिशब्दकम्॥
व्युत्क्रमाभिहृतं यच् सशेषं चाप्यहेतुकम्॥ ४५.७१ ॥

निष्कारणं च वाग्दोषान्बुद्धिजाञ्छृणु त्वं च यान्॥
कामात्क्रोधाद्भयाच्चैव लोभाद्दैन्यादनार्यकात्॥ ४५.७२ ॥

हीनानुक्रोशतो मानान्न च वक्ष्यामि किञ्चन॥
वक्ता श्रोता च वाक्यं च यदा त्वविकलं भवेत्॥ ४५.७३ ॥

सममेति विवक्षायां तदा सोऽर्थः प्रकाशते॥
वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते॥ ४५.७४ ॥

श्रोता चाप्यथ वक्तारं तदा वाक्यं न रोहति॥
अथ यः स्वप्रियं ब्रूयाच्छ्रोतुर्वोत्सृज्ययदृतम्॥ ४५.७५ ॥

विशङ्का जायते तस्मिन्वाक्यं तदपि दोषवत्॥
तस्माद्यः स्वप्रियं त्यक्त्वा श्रोतुश्चाप्यथ यत्प्रियम्॥ ४५.७६ ॥

सत्यमेव प्रभाषेत स वक्ता नेतरो भुवि॥
मिथ्यावादाञ्छास्त्रजालसम्भवान्यद्विहाय च॥ ४५.७७ ॥

सत्यमेव व्रतं यस्मात्तस्मात्सत्यव्रतस्त्वहम्॥
सत्यं ते सम्प्रवक्ष्यामि मन्तुमर्हसि तत्तथा॥ ४५.७८ ॥

यदाप्रभृति भद्र त्वं पाषाणस्यार्चने रतः॥
तदाप्रभृति किञ्चिच्च न हि पश्यामि शोभनम्॥ ४५.७९ ॥

एकः सोऽपि सुतो नष्टो भार्या चार्याऽप्यनश्यत॥
कूटानां कर्मणां साधो फलमेवंविधं भवेत्॥ ४५.८० ॥

क्व देवाः सन्ति मिथ्यैतद्दृश्यन्ते चेद्भवन्त्यपि॥
सर्वा च कूटविप्राणां द्रव्यायैषा विकल्पना॥ ४५.८१ ॥

पितॄनुद्दिश्य यच्छन्ति मम हासः प्रजायते॥
अन्नस्योपद्रवं यच्च मृतो हि किमशिष्यत॥ ४५.८२ ॥

यत्त्विदं बहुधा मूढा वर्णयन्ति द्विजाधमाः॥
विश्वनिर्माणमखिलं तथापि श्रृणु सत्यतः॥ ४५.८३ ॥

उत्पत्तिश्चापि भङ्गश्च विश्वस्यैतद्द्वयं मृषा॥
एवमेव हि सर्वं च सदिदं वर्तते जगत्॥ ४५.८४ ॥

स्वभावतो विश्वमिदं हि वर्तते स्वभावतः सूर्यमुखा भ्रमन्त्यमी॥
स्वभावतो वायवो वान्ति नित्यं स्वभावतो वर्षति चाम्बुदोऽयम्॥ ४५.८५ ॥

स्वभावतो रोहति धान्यजातं स्वभावतो वर्षशीतातपत्वम्॥
स्वभावतः संस्थिता मेदिनी च स्वभावतः सरितः संस्रवन्ति॥ ४५.८६ ॥

स्वभावतः पर्वता भान्ति नित्यं स्वभावतो वारिधिरेष संस्थितः॥
स्वभावतो गर्भिणी सम्प्रसूते स्वभावतोऽमी बहवश्च जीवाः॥ ४५.८७ ॥

यथा स्वभावेन भवन्ति वक्रा ऋतुस्वबावाद्बदरीषु कण्टकाः॥
तथा स्वभावेन हि सर्वमेतत्प्रकाशते कोऽपि कर्ता न दृश्यः॥ ४५.८८ ॥

तदेवं संस्थिते लोके मूढो मुह्यति मत्तवत्॥
मानुष्यमपि यद्धूर्ता वदन्त्यग्र्यं श्रृणुष्वतत्॥ ४५.८९ ॥

मानुष्यान्न परं कष्टं वैरिणां नो भवेद्धि तत्॥
शोकस्थानसहस्राणि मनुष्यस्य क्षणेक्षणे॥ ४५.९० ॥

मानुष्यं हि स्मृताकारं सभाग्योऽस्माद्विमुच्यते॥
पशवः पक्षिणः कीटाः कृमयश्च यथासुखम्॥ ४५.९१ ॥

अबद्धा विहरन्त्येते योनिरेषां सुदुर्लभा॥
निश्चिन्ताः स्थावरा ह्येते सौख्यमेषां महद्भुवि॥ ४५.९२ ॥

बहुना किं मनुष्येभ्यः सर्वो धन्योऽन्ययोनिजः॥
स्वभावमेव जानीहि पुण्यापुण्यादिकल्पना॥ ४५.९३ ॥

यदेके स्थावराः कीटाः पतङ्गा मानुषादिकाः॥
तस्मान्मित्या परित्यज्य नन्दभद्र यथासुखम्॥
पिब क्रीडनकैः सार्धं भोगान्सत्यमिदं भुवि॥ ४५.९४ ॥

॥नारद उवाच॥
इत्येतैरमुखैर्वाक्यैरयुक्तैरसमञ्जसैः॥ ४५.९५ ॥

सत्यव्रतस्य नाकम्पन्नन्दभद्रो महामनाः॥
प्रहसन्निव तं प्राह स्वक्षोभ्यः सागरो यथा॥ ४५.९६ ॥

यद्भवानाह धर्मिष्ठाः सदा दुःखस्य भागिनः॥
तन्मिथ्या दुःखजालानि पश्यामः पापिनामपि॥ ४५.९७ ॥

वधबन्धपरिक्लेशाः पुत्रदारादि पञ्चता॥
पापिनामपि दृश्यन्ते तस्माद्धर्मो गुरुर्मतः॥ ४५.९८ ॥

अयं साधुरहो कष्टं कष्टमस्य महाजनाः॥
साधोर्वदन्त्येतदपि पापिनां दुर्लभं त्विदम्॥ ४५.९९ ॥

दारादिद्रव्यलोभार्यं विशतः पापिनो गृहे॥
भवानपि बिभेत्यस्माद्द्वेष्टि कुप्यति तद्वृथा॥ ४५.१०० ॥

यथास्य जगतो ब्रूषे नास्ति हेतुर्महेश्वरः॥
तद्बालभाषितं तुभ्यं किं राजानं विना प्रजाः॥ ४५.१०१ ॥

यच्च ब्रवीषि पाषाणं मिथ्या लिङ्गं समर्चसि॥
तद्भवाल्ँलिङ्गमाहात्म्यं वेत्ति नान्धो यथा रविम्॥ ४५.१०२ ॥

ब्रह्मादायः सुरा सर्वे राजानश्च महर्द्धिकाः॥
मानवा मुनयश्चैव सर्वे लिङ्गं यजन्ति च॥ ४५.१०३ ॥

स्वनामकानि चिह्नानि तेषां लिङ्गानि सन्ति च॥
एते किं त्वभवत्मूर्खास्त्वं तु सत्यव्रतः सुधीः॥ ४५.१०४ ॥

प्रतिष्ठाप्य पुरा ब्रह्मा पुष्करे नीललोहितम्॥
प्राप्तवान्परमां सिद्धिं ससर्जेमाः प्रजाः प्रभुः॥ ४५.१०५ ॥

विष्णुनापि निहत्याजौ रावणं पयसान्निधेः॥
तीरे रामेश्वरं लिङ्गं स्थापितं चास्ति किं मुधा॥ ४५.१०६ ॥

वृत्रं हत्वा पुरा शक्रो महेन्द्रे स्थाप्य शङ्करम्॥
लिङ्गं विमुक्तपापोऽथ त्रिदिवेद्यापि मोदते॥ ४५.१०७ ॥

स्थापयित्वा शिवं सूर्यो गङ्गासागरसङ्गमे॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधौ॥ ४५.१०८ ॥

काश्यां यमश्च धनदः सह्ये गरुडकश्यपौ॥
नैमिषे वायुवरुणौ स्थाप्य लिङ्गं प्रमोदिताः॥ ४५.१०९ ॥

अस्मिन्नेव स्तम्भतीर्थे कुमारेणं गुहो विभुः॥
लिङ्गं संस्थापयामास सर्वपापहरं न किम्॥ ४५.११० ॥

एवमन्यैः सुरैर्यानि पार्थिवैर्मुनिभिस्तथा॥
संस्तापितानि लिङ्गानि तन्न सङ्ख्यातुमुत्सहे॥ ४५.१११ ॥

पृथिवीवासिनः सर्वे ये च स्वर्गनिवासिनः॥
पातालवासिनस्तृप्ता जायन्ते लिङ्गपूजया॥ ४५.११२ ॥

यच्च ब्रवीषि गीर्वाणा न सन्ति सन्ति चेत्कुतः॥
कुत्रापि नैव दृश्यन्ते तेन मे विस्मयो महान्॥ ४५.११३ ॥

रङ्कवत्किं स्म ते देवा याचन्तां त्वां कुलत्थवत्॥
यमिच्छिसि महाप्राज्ञ साधको हि गुरुस्तव॥ ४५.११४ ॥

स्वबावान्नैव सर्वार्थाः संसिद्धा यदि ते मते॥
भोजनादि कथं सिध्येद्वद कर्तारमन्तरा॥ ४५.११५ ॥

बदरीमन्तरेणापि दृश्यन्ते कण्टका न हि॥
तस्मात्कस्यास्ति निर्माणं यस्य यावत्तथैव तत्॥ ४५.११६ ॥

यच्च ब्रवीषि पश्वाद्याः सुखिनो धन्यकास्त्वमी॥
त्वदृते नेदमुक्तं च केनापि श्रुतमेव वा॥ ४५.११७ ॥

तामसा विकला ये च कष्टं तेषां च श्लाघ्यताम्॥
सर्वेन्द्रिययुताः श्रेष्ठाः कुतो धन्या न मानुषाः॥ ४५.११८ ॥

सत्यं तव व्रतं मन्ये नरकाय त्वयाऽऽदृतम्॥
अत्यनर्थे न भीः कार्या कामोयं भविताचिरात्॥ ४५.११९ ॥

आदावाडम्बरेणैव ध्रुवतोऽज्ञानमेव मे॥
इत्थं निःसारता व्यक्तमादावाडम्बारात्तु यत्॥ ४५.१२० ॥

मायाविनां हि ब्रुवतां वाक्यं चाण्डबरावृतम्॥
कुनाणकमिवोद्दीप्तं परीक्षेयं सदा सताम्॥ ४५.१२१ ॥

आदौ मध्ये तथा चान्ते येषां वाक्यमदोषवत्॥
कषदाहैः स्वर्णमिव च्छेदेऽपि स्याच्छुभं शुभम्॥ ४५.१२२ ॥

त्वयान्यथा प्रतिज्ञातमुक्तं चैवान्यथा पुनः॥
त्वद्दोषो नायमस्माकं तद्वचः श्रृणुमो हि ये॥ ४५.१२३ ॥

नास्तिकानां च सर्पाणां विषस्य च गुणस्त्वयम्॥
मोहयन्ति परं यच्च दोषो नैषपरस्य तु॥ ४५१२४ ॥

आपो वस्त्रं तिलास्तैलं गन्धो वा स यथा तथा॥
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ ४५.१२५ ॥

मोहजालस्य यो योनिर्मूढैरिह समागमः॥
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ ४५.१२६ ॥

तस्मात्प्राज्ञैश्च वृद्धैश्च शुद्धभावैस्तपस्विभिः॥
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ ४५.१२७ ॥

न नीचैर्नाप्यविद्वद्भिर्नानात्मज्ञैर्विशेषतः॥
येषां त्रीण्यवदातानि योनिर्विद्या च कर्म च॥ ४५.१२८ ॥

तांश्च सेवेद्विशेषेण शास्त्रं येषां हि विद्यते॥
असतां दर्शनस्पर्शसञ्जल्पासनभोजनैः॥ ४५.१२९ ॥

धर्माचारात्प्रहीयन्ते न च सिध्यन्ति मानवाः॥
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्॥ ४५.१३० ॥

मध्यैश्च मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥
इति धर्मं स्मरन्नाहं सङ्गमार्थी पुनस्तव॥
यन्निन्दसि द्विजानेव यैरपेयोऽर्णवः कृतः॥ ४५.१३१ ॥

वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम्॥
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम्॥ ४५.१३२ ॥

इतिरयित्वा वचनं महात्मा स नन्दभद्रः सहसा तदैव॥
गृहाद्विनिःसृत्य जगाम पुण्यं बहूदकं भट्टरवेस्तु कुण्डम्॥ ४५.१३३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कपिलेश्वरतीर्थमाहात्म्ये नन्दभद्रवणिग्वृत्तान्तवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः॥ ४५ ॥ छ ॥