४०

[अध्यायः ४०]

वेदव्यासः

अध्यायः ४०
॥अर्जुन उवाच॥
महाकालस्त्वसौ कश्च कथं सिद्धिमुपागतः॥
अस्मिंस्तीर्थे मुनिश्रेष्ठ महदाश्चर्य मत्र मे॥ ४०.१ ॥

सर्वमेतत्समाख्याहि श्रद्दधानाय पृच्छते॥ ४०.२ ॥

॥नारद उवाच॥
नमस्कृत्य महाकालं वरदं स्थाणुमव्ययम्॥
शक्तितश्चरितं तस्य वक्ष्ये पाण्डुकुलोद्वह॥ ४०.३ ॥

वाराणस्यां पुरि पुरा बभूव जपतां वरः॥
रुद्रजापी महाभागो माण्टिर्नाम महायशाः॥ ४०.४ ॥

तस्यापुत्रस्य पुत्रार्थे रुद्रान्सञ्जपतः किल॥
गतं वर्षशतं तुष्टस्ततस्तं प्राह शङ्करः॥ ४०.५ ॥

माण्टे तव सुतो धीमान्मत्प्रभावपराक्रमः॥
वंशस्य तव सर्वस्य समुद्धर्ता भविष्यति॥ ४०.६ ॥

इति श्रुत्वा रुद्रवचो माण्टिर्हर्षं परं गतः॥
ततः काले कियन्मात्रे पत्नी माण्टेर्महात्मनः॥ ४०.७ ॥

दधार गर्भं चटिका तपोमूर्तिधरा यथा॥
तस्य गर्भस्य वर्षाणि चत्वारि किल संययुः॥ ४०.८ ॥

न पुनर्मातुरुदरन्त्यक्त्वा निर्गच्छते बहिः॥
ततो माण्टिरुपामन्त्र्य सामभिस्तमवोचत॥ ४०.९ ॥

वत्स सामान्यपुत्रोऽपि पित्रोः सुखकरः सदा॥
शुद्धायां मातरी भवोमत्तः किं पीडयस्यलम्॥ ४०.१० ॥

वत्स मानुष्यवासस्य स्पृहा तुभ्यं कथं न हि॥
यत्र धर्मार्थकामानां मोक्षस्यापि च सन्ततिः॥ ४०.११ ॥

कदामनुष्या जायेम पूजा यत्र महाफला॥
पितॄणां देवतानां च नानाधर्माश्च यत्र हि॥ ४०.१२ ॥

इति भूतानि शोचन्ति नानायोनिगतान्यपि॥
तत्त्वं मानुष्यमतुलं स्पृहणीयं दिवौकसाम्॥
अनादृत्य कथं ब्रूहि स्थितश्चोदर एव च॥ ४०.१३ ॥

॥गर्भ उवाच॥
तात जानाम्यहं सर्वमेतत्परम दुर्लभम्॥
किं तु बिभेमि चातिमात्रं कालमार्गस्य नित्यशः॥ ४०.१४ ॥

द्वौ मार्गौ किल वेदेषु प्रोक्तौ कालोऽर्चिरेव च॥
अर्चिषा मोक्षमायान्ति कालमार्गेण कर्मणि॥ ४०.१५ ॥

स्वर्गे वा नरके वापि कालमार्गगतो ह्ययम्॥
न शर्म लभते क्वापि व्याधविद्धमृगो यथा॥ ४०.१६ ॥

तस्यैव हेतोः प्रयतेत्कोविदो यन्न दुःखवित्॥
कालेन घोररुपेण गम्भीरेण समाहितः॥ ४०.१७ ॥

तच्चेन्मम मनस्तात नानादोषैर्न मोह्यते॥
ततोऽहं दुर्लभं जन्म मानुष्यं शीघ्रमाप्नुयाम्॥ ४०.१८ ॥

ततस्तस्य पिता पार्थ कान्दिशीको महेश्वरम्॥
जगाम शरणं देवं त्राहित्राहि महेश्वर॥ ४०.१९ ॥

त्वां विना कोऽपरो देव पुत्रस्याभीष्टदोऽस्ति मे॥
त्वयैव दत्तस्त्वं चामुं जन्म प्रापय मे सुतम्॥ ४०.२० ॥

ततस्तस्यातिभक्त्यासौ प्राह तुष्टो महेश्वरः॥
विभूतीः स्वाधर्मज्ञानवैराग्यैश्वर्यमेव च॥ ४०.२१ ॥

विपरीतश्च शीघ्रं भो माण्टिपुत्रः प्रबोध्यताम्॥
ततस्ता द्योतयन्त्यश्च विभूत्यो गर्भमूचिंरे॥ ४०.२२ ॥

महामते माण्डिपुत्र न धार्यं ते भयं हृदि॥
चत्वारस्त्वां हि धर्माद्या मनस्त्यक्ष्यामहे न ते॥ ४०.२३ ॥

ततोऽपरास्त्वधर्माद्याः प्रोचुर्नैव तथा वयम्॥
भविष्यामो मनस्तुभ्यमस्मत्तव भयं न हि॥ ४०.२४ ॥

इत्युक्ते स विभूतीभिः शीघ्रमेव कुमारकः॥
निःससार बहिर्जातश्चकम्पेतिरुरोद च॥ ४०.२५ ॥

ततो विभूतयः प्राहुर्माण्टे तव सुतस्त्वसौ॥
अद्यापि कालमार्गस्य भीतः कम्पति रोदिति॥ ४०.२६ ॥

कालभीतिरिति ख्यातस्तस्मादेष भविष्यति॥
इति दत्त्वा वरं ताश्च महादेवान्तिकं ययुः॥ ४०.२७ ॥

सोऽपि बालः प्रववृधे शुक्लपक्ष इवोडुपः॥
संस्कृतः स च संस्कारैर्धीमान्पशुपतिव्रती॥ ४०.२८ ॥

पञ्चमन्त्राञ्जपञ्छुद्धस्तीर्थयात्रापरोऽभवत्॥
रुद्रक्षेत्रेषु सस्नौ स जपन्मन्त्रांश्च भारत॥ ४०.२९ ॥

कालभीतिगुप्तक्षेत्रगुणाञ्छ्रुत्वाभ्युपाययौ॥
स्नात्वा ततो महीतोये जप्त्वा मन्त्रांश्च कोटिशः॥ ४०.३० ॥

निवृत्तो नातिदूरेथ बिल्ववृक्षं ददर्श सः॥
दृष्ट्वा तं तस्य चाधस्तल्लक्षमेकं जजाप सः॥ ४०.३१ ॥

जपतस्तस्य विप्रस्य इन्द्रियाणि लयं ययुः॥
केवलं परमानन्दस्वरूपोऽसावभूत्क्षणात्॥ ४०.३२ ॥

तस्यानन्दस्य नौपम्यं स्वर्गादीनां भवेत्क्वचित्॥
गङ्गोदकस्येव मानं केवलं सोऽप्यसावपि॥ ४०.३३ ॥

तत्र लीनो मुहुर्तेन पुनश्चाभूद्यथा पुरा॥
ततो विसिष्मिये पार्थ कालभीतिरुवाच ह॥ ४०.३४ ॥

नायं मम महानन्दो वाराणस्यां न नमिषे॥
न प्रभासे न केदारे न चाप्यमरकण्टके॥ ४०.३५ ॥

श्रीपर्वते न चान्यत्र यादृशोद्यप्रवर्त्तते॥
निर्विकाराणि स्वच्छानि गङ्गाम्बांसीवखानि मे॥ ४०.३६ ॥

भूतेषु परमा प्रीतिस्त्रिजगद्द्योतते स्फुटम्॥
धर्ममेकं परं मह्यं चेतश्चाप्यवगच्छति॥ ४०.३७ ॥

अहो स्थानप्रभावोऽयं स्फुटं चाप्यत्र प्रोच्यते॥
निर्दोषं यच्छुचि स्तान सर्वोपद्रववर्जितम्॥ ४०.३८ ॥

तत्र स्थितस्य धर्मार्थस्तद्वद्भूयात्सहस्रधा॥
तदस्माच्च प्रभावाद्धि जानामीतः स्वचेतसि॥ ४०.३९ ॥

विशिष्टं काशिमुख्येभ्यस्तीर्थेभ्यः स्थानकं त्विदम्॥
तस्मादत्रैव संस्थोहं तपस्तप्स्यामि पुष्कलम्॥ ४०.४० ॥

इदं चेदं तीर्थमिति सदा यस्तृषितश्चरेत्॥
न स सिद्धिमवाप्नोति क्लेशेनैव म्रियेत सः॥ ४०.४१ ॥

इति सञ्चिन्त्य बिल्वस्य वृक्षस्याधो व्यवस्थितः॥
जजाप मन्त्रान्रुद्रस्य अङ्गुष्ठाग्रेण धिष्ठितः॥ ४०.४२ ॥

गृहीत्वा नियमं तोयबिन्दुं वर्षशतेऽग्निवत्॥
ततो वर्षशते याते जपतस्तस्य भारत॥ ४०.४३ ॥

कश्चित्तो यभृतं कुम्भं गृहीत्वा नर आव्रजत्॥
सतं प्रणम्य प्राहेदं कालभीतिं प्रहर्षतः॥ ४०.४४ ॥

अद्य ते नियमः पूर्णस्तोयमेतन्महामते॥
गृहाण सफलं मह्यं श्रमं कर्तुमिहार्हसि॥ ४०.४५ ॥

॥कालभीतिरुवाच॥
को भवान्वर्णतो ब्रूहि किमाचारश्च तत्त्वतः॥
जन्माचारौ विदित्वा ते ग्रहीष्याम्यन्यथा न हि॥ ४०.४६ ॥

॥नर उवाच॥
न जाने पितरौ स्वीयौ नष्टौ वा सर्वथा न हि॥
एवमेवापि पश्यामि सर्वदाऽहं स एव च॥ ४०.४७ ॥

आचारैश्चापि धर्मैश्च न कार्यं मम किञ्चन॥
तस्माद्वक्ष्यामि नाप्येतन्न चाप्यस्मि समाचरे॥ ४०.४८ ॥

॥कालभीतिरुवाच॥
यद्येवं नोदकं तुभ्यं ग्रहीष्याम्यस्मि कर्हिचित्॥
श्रृणुष्वात्र वचो यन्मे गुरुराह श्रुतीरितम्॥ ४०.४९ ॥

न ज्ञायते कुलं यस्य बीजशुद्धिं विना ततः॥
तस्य खादन्पिबन्वापि साधुः सीदति तत्क्षणात्॥ ४०.५० ॥

यश्च रुद्रं न जानाति रुद्रभक्तश्च यो नहि॥
अन्नोदकं तस्य भुञ्जन्पातकी स्यान्न संशयः॥ ४०.५१ ॥

अज्ञात्वा यः शिवं भुक्ते कथ्यते सोऽत्र ब्रह्महा॥
मार्ष्टि च ब्रह्महान्नादे तस्मात्तस्य न भक्षयेत्॥ ४०.५२ ॥

गङ्गोदकुम्भः स्याद्यद्वत्तन्मध्ये मद्य बिन्दुना॥
अशिवज्ञस्य यो भुङ्क्ते शिवज्ञोऽपि तथैव सः॥ ४०.५३ ॥

हीनवर्णश्च यः स्याद्धि शिवभक्तोऽपि नैव सः॥
प्रतिगृह्यौ गुणौ तस्माद्विलोक्यौ द्वौ प्रतिग्रहे॥ ४०.५४ ॥

॥नर उवाच॥
एतेन तव वाक्येन हास्यं सञ्जायते मम॥
अहो मुग्धोऽसि मिथ्या त्वमपस्मारी जडोऽपि च॥ ४०.५५ ॥

सदा सर्वेषु भूतेषु शिवो वसति नित्यशः॥
साध्वसाधु ततो वाक्यं नैव निन्दा शिवस्य सा॥ ४०.५६ ॥

आत्मनश्च परस्यापि यः करोत्यन्तरो हरम्॥
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥ ४०.५७ ॥

अथवा का हि पानीये भवेदशुचिता वद॥
मृत्तिकोद्भवकुम्भोऽयं पावकेनापि पाचितः॥ ४०.५८ ॥

पूर्णश्च पयसा कस्मिन्नेषामसुचिता कुतः॥ ४०.५९ ॥

अथ चेन्मम संसर्गादशुचित्वं च मीयते॥
तदस्यां संस्थितः पृथ्व्यामहन्त्वं च कुतो वद॥ ४०.६० ॥

कुतः पृथिव्यां चरसि खे त्वं नैव चरस्युत॥
एवं विचार्यमाणे ते भाषितं मुग्धवद्भवेत्॥ ४०.६१ ॥

॥कालभीतिरुवाच॥
सर्वभूतेषु चेदेवं शिव एवेति चोच्यते॥
नास्तिकां मृत्तिका कस्माद्भक्षयन्ति नभस्यके॥ ४०.६२ ॥

शुद्ध्यर्थं तेन विश्वस्य स्थापिता संस्थितिर्यथा॥
फलेन पालिता सा च नान्यथा तां श्रृणुष्व च॥ ४०.६३ ॥

ससर्जेति पुरा धाता रूपात्मकमिदं जगत्॥
तच्च नामप्रपञ्चेन बद्धं दाम्ना च गौर्यथा॥ ४०.६४ ॥

स च नामप्रपञ्चस्तु चतुर्द्धा भिद्यते किल॥
ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम्॥ ४०.६५ ॥

तत्र ध्वनिर्नादमयो वर्णाश्चाकारपूर्वकाः॥
पदं `शा वमि’ ति प्रोक्तं वाक्यं चेति शिवम्’ भजेत्॥ ४०.६६ ॥

तच्चापि वाक्यं त्रिविधं भवेदिति श्रुतेर्मतम्॥
प्रभुसम्मतमेकं च सुहृत्सम्मतमेव च॥ ४०.६७ ॥

कान्तासम्मतमेवापि वाक्यं हि त्रिविधं विदुः॥
प्रभुः स्वामी यथा भृत्यमादिशत्येतदाचर॥ ४०.६८ ॥

तथा श्रुतिस्मृती चोभे प्राहतुः प्रभुसम्मतम्॥
इतिहासपुराणादि सुहृत्सम्मतमुच्यते॥ ४०.६९ ॥

सुहृद्वत्प्रतिबोध्यैनं प्रवर्तयति तत्त्वतः॥
काव्यालापादिकं यच्च कान्तासम्मतमुच्यते॥ ४०.७० ॥

प्रभुवाक्यं स्मृतं यच्च सबाह्याभ्यन्तरं शुचि॥
सुहृद्वाक्यं तथा शौचं पालयेत्स्वर्गकाङ्क्षया॥ ४०.७१ ॥

तदेतत्पालनीयं स्याद्भूमिजानां श्रुतिर्वदेत्॥
त्वया नास्तिक्यवाक्येन चेदेतदभिधीयते॥ ४०.७२ ॥

एतेन श्रुतिशास्त्राणि पुराणं च वृतैव किम्॥
अग्रे सप्तर्षिपूर्वा ये ब्राह्मणाः क्षत्रिया भवन्॥ ४०.७३ ॥

मुग्धाः सर्वेऽभवन्दक्षा ये हि वेदं गता ह्यनु॥
तथा वेदान्तवचनं सत्त्वस्था ह्यूर्ध्वगामिनः॥ ४०.७४ ॥

तिष्ठन्ति राजसा मध्ये ह्यधो गच्छन्ति तामसाः॥
सत्त्वाहारैः सत्त्ववृत्त्या स्वर्गगामी भवेत्ततः॥ ४०.७५ ॥

न चैतदप्य सूयामो यद्भूतेषु शिवो न हि॥
अस्त्येव सर्वभूतेषु श्रृण्वत्राप्युपमानकम्॥ ४०.७६ ॥

यथा सुवर्णजातानि भूषणानि बहूनि च॥
कानिचिच्छ्रद्धरूपाणि हीनरूपाणि कानिचित्॥ ४०.७७ ॥

स्वर्णं सर्वेषु चास्त्येव तथैव स सदाशिवः॥
हीनरूपं शोधितं सच्छुद्धिमेति न चैकताम्॥ ४०.७८ ॥

तथेदं शोधितं देहं शुद्धं दिवि व्रजेत्स्फुटम्॥
तस्मात्सर्वात्मना हीनान्न ग्राह्यं बत धीमता॥ ४०.७९ ॥

चेदिदं शोधयेद्देहं नैव ग्राह्यं समन्ततः॥
सर्वतो यः प्रति ग्राही निहाराहारयोर्न च॥ ४०.८० ॥

शुचिः स्यादल्पदिवसात्पाषाणोऽसौ भवेत्स्फुटम्॥
तस्मात्सर्वात्मना नैव ग्रहीष्येहं जलं स्फुटम्॥ ४०.८१ ॥

साधुवाप्यथवाऽसाधु प्रमाणं नः श्रुतिः परा॥
एवमुक्ते स च नरः प्रहसन्दक्षिणेन च॥ ४०.८२ ॥

अङ्गुष्ठेन लिखन्भूमिं चक्रे गर्तं महोत्तमम्॥
तत्र चिक्षेप तत्तोयं तेन गर्तः स्म पूरितः॥ ४०.८३ ॥

अत्यरिच्यत तोयं च चक्रे पादेन संलिखन्॥
चक्रे सरः पूरितं चाप्यतिरिक्तजलेन तत्॥ ४०.८४ ॥

तदद्भुतं महद्दृष्ट्वा नैव विप्रो विसिष्मिये॥
यतो बहुविधं चित्रं भवेद्भूताद्युपासिषु॥ ४०.८५ ॥

तच्चित्रेण न जह्याच्च श्रुतिमार्गं सनातनम्॥ ४०.८६ ॥

॥नर उवाच॥
अतिमूर्खोसि विप्रत्वं प्रज्ञावादांश्च भाषसे॥
किं न श्रुतस्त्वया श्लोकः पुराविद्भिरुदीरितः॥
कूपोन्यस्य घटोऽन्यस्य रज्जुरन्यस्य भारत॥ ४०.८७ ॥

पायन्त्यन्ये पिबन्त्यन्ये सर्वे ते समभागिनः॥
तज्जलं मम कस्मात्त्वं धर्मज्ञो न पिबस्यसि॥ ४०.८८ ॥

॥नारद उवाच॥
ततो विममृशे श्लोको बहुधा समभागिनाम्॥
अनिश्चयाद्विचार्यासौ घटाद्यैः समभागिता॥ ४०.८९ ॥

बहुपोतद्रव्यक्षेपः सर्वैः सा समभागिता॥
एवं कर्तुः फलैः सर्वैः समं स्याच्च पुनःपुनः॥ ४०.९० ॥

यः शुचिश्च शिवं ध्यायन्प्रासादकूपकर्तरि॥
जलप्रतिग्रहाभावात्पिबतोऽस्य समं फलम्॥ ४०.९१ ॥

इति निश्चित्य प्रोवाच कालभीतिर्नरं च तम्॥
सत्यमेत्किं तु कुम्भपयसा गर्तपूरणे॥ ४०.९२ ॥

दृष्ट्वा प्रत्यक्षतो मादृक्कथं पिबति भो वद॥
साधु वाप्यथवाऽसाधु न पिबेयं कथञ्चन॥ ४०.९३ ॥

एवं विनिश्चयं दृष्ट्वास्य स्थिरं कुरुनन्दन॥
पुरुषोऽसौ प्रहस्यैव क्षणादन्तर्दधे ततः॥ ४०.९४ ॥

कालभीतिश्च परमं विस्मयं समुपागतः॥
वृत्तान्तः कोयमित्येव चिन्तयामास भूयसा॥ ४०.९५ ॥

ततश्चिन्तयतस्तस्य बिल्वाधस्तात्सुशोभनम्॥
उच्छ्रितं सुमहालिङ्गं पृथिव्या द्योतयद्दिशः॥ ४०.९६ ॥

प्रादुर्भावे ततस्तस्य महालिङ्गस्य भारत॥
ननर्त खेप्सरोवृन्दं गधर्वा ललितं जगुः॥ ४०.९७ ॥

पारिजातमयीं पुष्पवृष्टिमिन्द्रो मुमोच ह॥
जयेति देवा मुनयस्तुष्टुवुर्विविधैः स्तवैः॥ ४०.९८ ॥

तस्मिन्महति कौरव्य वर्तमाने महोत्सवे॥
कालभीतिः प्रमुदितः प्रणम्य स्तोत्रमैरयत्॥ ४०.९९ ॥

एवं स्तुतो महादेवो लिङ्गान्निःसृत्य भारत॥
त्रिजगद्द्योतयन्मभासा प्रत्यक्षः प्राह च द्विजम्॥ ४०.१०८ ॥

यत्त्वयात्र महातीर्थे भृशमाराधितो द्विज॥
तेनाति तुष्टस्ते वत्स नेशः कालः कथञ्चन॥ ४०.१०९ ॥

अहं च नररूपी यो दृष्ट्वा ते धर्मसंस्थितिम्॥
धन्यस्तद्धर्ममार्गोऽयं पाल्यते यद्भवद्विधैः॥ ४०.११० ॥

सर्वतीर्थोदकैर्गरतः पूरितो मे सरस्तथा॥
जलमेतन्महापुण्यं त्वदर्थं मे समाहृतम्॥ ४०.१११ ॥

सप्तमन्त्ररहस्यं च यत्कृतं स्तवनं मम॥
अनेन पठ्यमानेन सप्तमन्त्रफलं भवेत्॥ ४०.११२ ॥

अभीष्टं च वरं मत्तो वृणीष्व मनसेप्सितम्॥
त्वयातितोषितो ह्यस्मिनादेयं विद्यते तव॥ ४०.११३ ॥

॥कालभीतिरुवाच॥
धन्योऽस्म्यनुगृहीतोऽस्मि यत्त्वं तुष्टोऽसि शङ्कर॥
त्वत्तोषात्सफला धर्माः श्रमायैवान्यतामताः॥ ४०.११४ ॥

यदि तुष्टोऽसि सान्निद्यं लिङ्गेऽत्र क्रियतां सदा॥
अक्षयं तत्कृतं चास्तु यल्लिङ्गे क्रियतेऽत्र च॥ ४०.११५ ॥

जपतो यत्फलं देवपञ्चमन्त्रायुतेन च॥
तत्फलं जायतां नणामस्य लिङ्गस्य दर्शने॥ ४०.११६ ॥

कालमार्गादहं यस्मान्मोचितोऽहं महेश्वर॥
महाकालमिति ख्यातं लिङ्गं तस्माद्भवत्विदम्॥ ४०.११७ ॥

अस्मिंश्च कूपे यो मर्त्यः स्नात्वा तर्पयते पितॄन्॥
सर्वतीर्थफलं चास्तु पितॄणामक्षया गतिः॥ ४०.११८ ॥

इति तस्यवचः श्रुत्वा प्रीतस्तं शङ्करोऽब्रवीत्॥
स्वायम्भुवं यत्र लिङ्गं तत्र नित्यं वसाम्यहम्॥ ४०.११९ ॥

स्वयम्भुबाणरत्नोत्थदातुपाषाणलोहजम्॥
लिङ्गं क्रमेण फलदमन्त्यात्पूर्वं दशोत्तरम्॥ ४०.१२० ॥

आकाशे तारकालिङ्गं पाताले हाटकेश्वरम्॥
स्वायम्भुवं धारपृष्ठे तदेतत्त्रितयं समम्॥ ४०.१२१ ॥

विशेषात्प्रार्थितं यच्च तच्च भविष्यति॥
अत्र पुष्पं फलं पूजा नैवेद्यं स्तवनक्रिया॥ ४०.१२२ ॥

दानं वान्यश्च यत्किञ्चिदक्षयं तद्भविष्यति॥
माघासितचतुर्दश्यां शिवयोगे च पुत्रक॥ ४०.१२३ ॥

लिङ्गाच्च पूर्वतः कूपेस्नात्वा यस्तर्पयेत्पितॄन्॥
सर्वतीर्थफलावाप्तिः पितॄणां चाक्षया गतिः॥ ४०.१२४ ॥

तस्यां रात्रौ महाकालं यामेयामे प्रपूजयेत्॥
यः क्षिपेत्सर्वलिङ्गेषु स जागरफलं लभेत्॥ ४०.१२५ ॥

जितेन्द्रियश्च यो नित्यं मां लिङ्गेत्र प्रपूजयेत्॥
भुक्तिमुक्ती न दूरस्थे तस्य नित्यं द्विजोत्तम॥ ४०.१२६ ॥

माघे चतुर्दश्यष्टम्यां सोमवारे च पर्वणि॥
स्नात्वा सरसि योऽभ्यर्च्य लिङ्गमेतच्छिवं व्रजेत्॥ ४०.१२७ ॥

दानं तपो रुद्रजापः सर्वमक्षयमेव च॥
त्वं च नन्दी द्वितीयो मे प्रतीहारो भविष्यसि॥ ४०.१२८ ॥

कालमार्गजयाद्वत्स महाकाला भिधश्चिरम्॥
करन्धमोऽत्र राजर्षिरचिरादागमिष्यति॥ ४०.१२९ ॥

तस्य प्रोच्य भवान्धर्मांस्ततो मल्लोकमाव्रज॥
इत्युक्त्वा भगवान्रुद्रो लिङ्गमध्ये न्यलीयत॥ ४०.१३० ॥

महाकालोऽपि मुदितस्तत्र तेपे महत्तपः॥ ४०.१३१ ॥

॥इति महाकालप्रादुर्भावः॥
॥नारद उवाच॥
अथ केनापि कालेन पार्थ राजा करन्धमः॥
विशेषमिच्छुर्धर्मेषु श्रुत्वा तीर्थमहागुणान्॥ ४०.१३२ ॥

महाकालचरित्रं च तत्रैव समुपाययौ॥
महीसागर तोयेऽसौ स्नात्वा लिङ्गान्यथार्चयत्॥ ४०.१३३ ॥

महाकालमनुप्राप्य परमां प्रीतिमागतः॥
स पश्यन्सुमहालिङ्गं नातृप्यत जनेस्वरः॥ ४०.१३४ ॥

यथा दरिद्रः कृपणो निधिकुम्भमवाप्य च॥
सफलं जीवितं मेने महाकालं निरीक्ष्य सः॥ ४०.१३५ ॥

पञ्चमन्त्रायुतजपफलं यस्येह दर्शनात्॥
ततः सपर्ययाक्ष्यर्च्य महत्यासौ प्रणम्य च॥ ४०.१३६ ॥

श्रुत्वा च लिङ्गप्रवरं महाकालमुपासदत्॥
ततो रुद्रवचः स्मृत्वा महाकालः स्मयन्निव॥ ४०.१३७ ॥

प्रत्युद्गम्य नृपं पूजामर्घं च प्रत्यपादयत्॥
ततः कुशलप्रश्रादि कृत्वा शान्तमुखं नृपः॥ ४०.१३८ ॥

महाकालमुपामन्त्र्य कथान्ते वाक्यमब्रवीत्॥
भगवन्संशयो मह्यं सदाऽयं परिवर्तते॥ ४०.१३९ ॥

यदिदं तर्पणन्नाम पितॄणां क्रियते नृभिः॥
जलमध्ये जलं याति कथं तृप्यन्ति पूर्वजाः॥ ४०.१४० ॥

एवं पिण्डादिपूजा च सर्वमत्रैव दृश्यते॥
कथमेवं स्म मन्यामः पित्राद्यैरुपभुज्यते॥ ४०.१४१ ॥

न चैतदस्ति यत्तेषां नोपतिष्ठति किञ्चन॥
स्वप्ने यथाक्रम्य नरं दृश्यन्ते याचकाश्च ते॥ ४०.१४२ ॥

देवानां चापि दृश्यन्ते प्रत्यक्षाः प्रत्ययाः सदा॥
तत्कथं प्रतिगृह्णन्ति मनो मेऽत्र प्रमुह्यति॥ ४०.१४३ ॥

॥महाकाल उवाच॥
योनिरेवंविदा तेषां पितॄणां च दिवौकसाम्॥
दूरोक्तं दूरपूजा च दूरस्तुतिरथापि यत्॥ ४०.१४४ ॥

भव्यं भूतं भविष्यच्च सर्वं जानन्ति यान्ति च॥
पञ्चतन्मात्ररूपं च मनोबुद्धिरहञ्जडाः॥ ४०.१४५ ॥

नवतत्तवमयं देहं दशमः पुरुषो मतः॥
तस्माद्गन्धेन तृप्यन्ति रसतत्त्वेन ते तथा॥ ४०.१४६ ॥

शब्दतत्त्वेन तुष्यन्ति स्पर्शतत्त्वं च गृह्णते॥
शुचि दृष्ट्वा त तुष्यन्ति नात्र राजन्भवेन्मृषा॥ ४०.१४७ ॥

यता तृणं पशूनां च नराणामन्नमुच्यते॥
एवं दैवतयोनीनामन्नसारस्य भोजनम्॥ ४०.१४८ ॥

शक्तयः सर्वभावानामचिन्त्या ज्ञानगोचराः॥
तस्मात्तत्त्वं प्रगृह्णन्ति शेषमत्रैवदृश्यते॥ ४०.१४९ ॥

॥करन्धम उवाच॥
पितृभ्यो दीयते श्राद्धं स्वकर्मवशगाश्च ते॥
स्वर्गस्था नरकस्था वा कथं तैरुपभुज्यते॥ ४०.१५० ॥

अथ स्वर्गेऽथ नरेक स्थिताः कर्माभियन्त्रिताः॥
शक्नुवन्ति वरानेतान्दातुं ते चेश्वराः कथम्॥ ४०.१५१ ॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुकानि च॥
प्रयच्छन्तु तथा राज्यं प्रीता नॄणां पितामहाः॥ ४०.१५२ ॥

॥महाकाल उवाच॥
सत्यमेततस्वकर्मस्थाः पितरो यन्नृपोत्तम॥
किं तु देवासुराणां च यक्षादीनाममूर्तकाः॥ ४०.१५३ ॥

मूर्ताश्चतुर्णां वर्णानां पितरः सप्तधा स्मृताः॥
ते हि सर्वे प्रयच्छन्ति दातुं सर्वं यतोप्सितम्॥ ४०.१५४ ॥

एकत्रिंशद्गणा येषां पितॄणां प्रबला नृप॥
कृतं च तदिदं श्राद्धं तर्पयेत्तान्परान्पितॄन्॥ ४०.१५५ ॥

ते तृप्तास्तर्पयन्त्यस्य पूर्वजान्यत्र संस्थितान्॥
एवं स्वानां चोपतिष्ठेच्छ्राद्धं यच्छन्ति ते वरान्॥ ४०.१५६ ॥

॥राजोवाच॥
भूतादिभ्यो यथा विप्र नाम्ना वोद्दिश्य दीयते॥
सुरादीनां कथं चैव सङ्क्षेपेण न दीयते॥ ४०.१५७ ॥

इदं पितृभ्यो देवेभ्यो द्विजेभ्यः पावकाय च॥
एवं कस्माद्विस्तराः स्युर्मनः कायादिकष्टदाः॥ ४०.१५८ ॥

॥महाकाल उवाच॥
उचिता प्रतिपत्तिश्च कार्या सर्वेषु नित्यशः॥
प्रतिपत्तिं चोचितां ते विना गृह्णन्ति नैव च॥ ४०.१५९ ॥

यथा श्वा गृहद्वारस्थोबलिं गृह्णाति किं तथा॥
प्रधानपुरुषो राजन्गृह्णाति च शुना समः॥ ४०.१६० ॥

एवं ते भूतवद्देवा न हि गृह्णन्ति कर्हिचित्॥
शुचि कामं जुषन्ते न हविरश्रद्दधानतः॥ ४०.१६१ ॥

विना मन्त्रैश्च यद्दत्तं न तद्गृह्णन्ति तेऽमलाः॥
श्रुतिरप्यत्र प्राहेदं मन्त्राणां विषये नृप॥ ४०.१६२ ॥

“मन्त्रा दैवता यद्यद्विद्वान्मन्त्रवत्करोति देवताभिरेव तत्करोति यद्ददानि देवतभिरेव तद्ददाति यत्प्रतिगृह्णाति देवताभिरेव तत्प्रतिगृह्णाति तस्मान्नामन्त्रवत्प्रतिगृह्णीयात् नामन्त्रवत्प्रतिपद्यते” इति॥ ४०.१६३ ॥

तस्मान्मन्त्रैः सदा देयं पौराणैर्वैदिकैरपि॥
अन्यथा ते न गृह्णन्ति भूतानामुपतिष्ठति॥ ४०.१६४ ॥

॥राजोवाच॥
दर्भांस्तिलानक्षतांश्च तोयं चैतैः सुसंयुतम्॥
कस्मात्प्रदीयते दानं ज्ञातुमिच्छामि कारणम्॥ ४०.१६५ ॥

॥महाकाल उवाच॥
पुरा किल प्रदत्तानि भूमेर्दानानि भूरिशः॥
प्रत्यगृह्णन्त दैत्याश्च प्रविश्याभ्यन्तरं बलात्॥ ४०.१६६ ॥

ततो देवाश्च पितरः प्रत्यूचुः पद्मसम्भवम्॥ ४०.१६७ ॥

स्वामिन्नः पश्यतामेव सर्वं दैत्यैः प्रगृह्यते॥
विधेहि रक्षां तेषां त्वं न नष्टः स्मो यथा वयम्॥ ४०.१६८ ॥

ततो विमृश्यैव विधी रक्षो पायमचीकरत्॥
तिलैर्युक्तं पितॄणां च देवानामक्षतैः सह॥ ४०.१६९ ॥

तोयं दर्भांश्च सर्वत्र एवं गृह्णन्ति नासुराः॥
एतान्विना प्रदत्तं यत्फलं दैत्यैः प्रगृह्यते॥ ४०.१७० ॥

निःश्वस्य पितरो देवा यान्ति दातुः फलं न हि॥
तस्माद्युगेषु सर्वेषु दानमेव प्रदीयते॥ ४०.१७१ ॥

॥करन्धम उवाच॥
चतुर्युगव्यवस्थानं श्रोतुमिच्छमि तत्त्वतः॥
महतीयं विवित्सा मे सदैव परिवर्तते॥ ४०.१७२ ॥

॥महाकाल उवाच॥
आद्यं कृतयुगं विद्धिततस्त्रेतायुगं स्मृतम्॥
द्वापरं च कलिश्चेति चत्वारश्च समासतः॥ ४०.१७३ ॥

सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः॥
कलिस्तमस्तु विज्ञेयं युगवृत्तं युगेषु च॥ ४०.१७४ ॥

ध्यानं परं कृकयुगे त्रेतायां यज्ञ उच्यते॥
वृत्तं च द्वापरे सत्यं दानमेव कलौ युगे॥ ४०.१७५ ॥

कृते तु मानसी सृष्टिर्वृत्तिः साक्षाद्रसोल्लसा॥
तेजोमय्यः प्रजास्तृप्ताः सदानन्दाश्च भोगिनः॥ ४०.१७६ ॥

अधमोत्तमो न तासां ता निर्विशेषाः प्रजाः शुभाः॥
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे॥ ४०.१७७ ॥

न चाप्रीतिर्न च द्वन्द्वो न द्वेषो नापि च क्लमः॥
पर्वतोदधिवासिन्यो ह्यनुक्रोशप्रियास्तु ताः॥ ४०.१७८ ॥

वर्णाश्रमव्यवस्था च तदासीन्न हि सङ्करः॥
एकमन्यं न ध्यायन्ति परमं ते सदा शिवम्॥ ४०.१७९ ॥

चतुर्थे च ततः पादे नष्ट साऽभूद्रसोल्लसा॥
प्रादुरासंस्ततस्तासां वृक्षाश्वगृहसञ्ज्ञिताः॥ ४०.१८० ॥

वस्त्राणि च प्रसूयन्ते फलान्याभरणानि च॥
तेष्वेव जायते तासां गन्धवर्णरसान्वितम्॥ ४०.१८१ ॥

सुमाक्षिकं महावीर्यं पुटके पुटके मधु॥
तेन ता वर्तयन्ति स्म कृतस्यान्ते प्रजास्तदा॥ ४०.१८२ ॥

हृष्टपुष्टास्तथा वृद्धाः प्रजा वै विगतज्वराः॥
ततः कालेन केनापि तासां वृद्धे रसेन्द्रिये॥ ४०.१८३ ॥

युगभावात्तथा ध्याने स्वल्पीभूते शिवस्य च॥
वृक्षांस्तान्पर्यगृह्णन्त मधु वा माक्षिकं बलात्॥ ४०.१८४ ॥

तासां तेनोपचारेण लोभदोषकृतेन वै॥
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित्॥ ४०.१८५ ॥

तस्यां चाप्यल्पशिष्टायां द्वन्द्वान्यभ्युत्थितानि वै॥
शीतातपैर्मनोदुःखैस्ततस्ता दुःखिता भृशम्॥ ४०.१८६ ॥

चक्रुरावरणार्थं हि केतनानि ततस्ततः॥
ततः प्रदुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः॥ ४०.१८७ ॥

वृष्ट्या बभूवुरौषध्यो ग्राम्यारण्याश्चतुर्दश॥
अकृष्टपच्यानूप्तास्तोयभूमिसमागमात्॥ ४०.१८८ ॥

ऋतु पुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे॥
तैश्च वृत्तिरभूत्तासां धान्यैः पुष्पैः फलैस्तथा॥ ४०.१८९ ॥

ततः पुनरभूत्तासां रागो लोभश्च सर्वतः॥
कालवीर्येण वा गृह्य नदीक्षेत्राणि पर्वतान्॥ ४०.१९० ॥

वृक्षगुल्मौषधीश्चैव प्रसह्याशु यथाबलम्॥
विपर्ययेण चौषध्यः प्रनष्टाश्च चतुर्दश॥ ४०.१९१ ॥

नत्वा धरां प्रविष्टास्ता ओषध्यः पीडिताः प्रजाः॥
दुदोह गां पृथुर्वैन्यः सर्वभूतहिताय वै॥ ४०.१९२ ॥

तदाप्रभृति चौषध्यः फालकृष्टाः प्रजास्ततः॥
वार्त्तया वर्तयन्ति स्म पाल्यमानाश्च क्षत्रियैः॥ ४०.१९३ ॥

वर्णाश्रमप्रतिष्ठा च यज्ञस्त्रेतासु चोच्यते॥
सदाशिवध्यानमयं त्यक्त्वा मोक्षमचेतनाः॥ ४०.१९४ ॥

पुष्पितां वाचमाश्रित्य रागात्स्वर्गमसाधयन्॥
द्वापरे च प्रवर्तन्ते मतिभेदास्ततो नृणाम्॥ ४०.१९५ ॥

मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति॥
लोभोऽधृतिः शिवं त्यक्त्वा धर्माणां सङ्करस्तथा॥ ४०.१९६ ॥

वर्णाश्रमपरिध्वंसाः प्रवर्तन्ते च द्वापरे॥
तदा व्यासैश्चतुर्द्धा च व्यस्यते द्वापरात्ततः॥ ४०.१९७ ॥

एको वेदश्चतुष्पादैः क्रियते द्विजहेतवे॥
इतिहासपुराणानि भिद्यन्ते लोकगौरवात्॥ ४०.१९८ ॥

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा॥
तथान्यन्नारदीय च मार्कण्डेयं च सप्तमम॥ ४०.१९९ ॥

आग्नेयमष्टमं प्रोक्तं भविष्यं नवमं स्मृतम्॥
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं तथा॥ ४०.२०० ॥

वाराहं द्वादशं चैव स्कान्दं चैव त्रयोदशम्॥
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम्॥ ४०.२०१ ॥

मात्स्यं षोडशकं प्रोक्तं गारुडं च ततः परम्॥
अतः परं तु ब्रह्माण्डमेवञ्चाष्टादशानि हि॥ ४०.२०२ ॥

अस्मिन्वाराहकल्पे च व्यासानाकर्णयस्व च॥
ऋतुः सत्यो भार्गवश्च अङ्गिराः सविता तथा॥ ४०.२०३ ॥

मृत्युः शतक्रतुर्धीमान्वसिष्ठो भविताऽधुना॥
सारस्वतस्त्रिधामा च वेदवित्त्रिवृतो मुनिः॥ ४०.२०४ ॥

शततेजाः स्वयं विष्णुर्नारायण इति स्मृतः॥
करकश्चारुणिर्धीमास्तथा देव ऋतञ्जयः॥ ४०.२०५ ॥

कृतञ्जयो भरद्वाजो गौतमः कविसत्तमः॥
वाजश्रवा मुनिश्चैव तथा युष्मायणो मुनिः॥ ४०.२०६ ॥

तृणबिन्दुस्तथा ऋक्षः शक्तिः पाराशरस्तथा॥
जातूकर्ण्योऽथ विष्णुश्च स्वयन्द्वैपायनो मुनिः॥ ४०.२०७ ॥

अश्वत्थाममुखाश्चैते भविष्याः सूचितास्तव॥
धर्मशास्त्राणि लोकार्थं भिद्यन्ते चापि द्वापरे॥ ४०.२०८ ॥

मन्वत्रिविष्णुहारितयाज्ञवल्क्योशनोङ्गिराः॥
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती॥ ४०.२०९ ॥

पराशरव्यासशङ्खलिखिता दक्षगौतमौ॥
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः॥ ४०.२१० ॥

ततो द्वापरसन्ध्यायां प्रवर्तति कलौ युगे॥
नश्यमाने शैवयोगे जायन्ते योगनन्दनाः॥ ४०.२११ ॥

आद्ये श्वेतकलौरुद्रः सुतारस्तारणस्तथा॥
सुहोत्रः कङ्कणश्चैव लोकाख्यश्च महामुनिः॥ ४०.२१२ ॥

जैगीषव्यश्च भाव्यो वै भगवान्दधिवाहनः॥
ऋषभश्च मुनिर्धर्मउग्रश्चात्रिः सबालकः॥ ४०.२१३ ॥

गौतमौ वेदशीर्णश्च गोकर्णश्च शिखण्डिभृत्॥
गृहावासी जटामाली अट्टहासश्च दारुणः॥ ४०.२१४ ॥

लाङ्गली संयमी शूली डिण्डी जुण्डीश्वरः स्वयम्॥
सहिष्णुः सोमशर्मा च लकुलीशश्च पार्थिव॥ ४०.२१५ ॥

कायावरोहणो भावीत्याद्या योगेश्वराः क्रमात्॥
एते सङ्क्षिप्त वक्ष्यन्ति शिवधर्मं कलौ युगे॥ ४०.२१६ ॥

एवं कलियुगे राजञ्छास्त्रसङ्क्षेप उच्यते॥
श्रृणु तिष्यप्रवृत्तिं च हर्षोद्वेगकरीं किल॥ ४०.२१७ ॥

तिष्ये मायामसूयां च वधं चैव तपस्विनाम्॥
साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः॥ ४०.२१८ ॥

कलौ प्रमाथको रागः सततं क्षुद्भयानि च॥
अनावृष्टिभयं घोरं देशानां च विपर्ययः॥ ४०.२१९ ॥

न प्रमाणं श्रुतेरस्ति नृणां चाधर्मसेवनात्॥
अधार्मिकास्त्वनाचारा महाकोपाल्पतेजसः॥ ४०.२२० ॥

अनृतं ब्रुवते लुब्धा नारीप्रायाश्च दुष्प्रजाः॥
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः॥ ४०.२२१ ॥

विप्राणां कर्मदोषैश्च प्रजानां जायते क्षयः॥
उत्सीदन्ति क्षत्रविशो वर्धन्ते शूद्रविप्रकाः॥ ४०.२२२ ॥

शूद्रा विप्रैः सहासन्ते शयनासनभोजनैः॥
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः॥ ४०.२२३ ॥

राजवृत्त्यां स्थिताश्चौराश्चौराचाराश्च पार्थिवाः॥
एकपत्न्यो न शिष्यन्ति वर्धयन्त्यभिसारिकाः॥ ४०.२२४ ॥

तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला॥
अरक्षितारो हर्तारो राजानः पापनिर्भयाः॥ ४०.२२५ ॥

अक्षत्रियास्तु राजानो विप्राः शूद्रोषजीविनः॥
शूद्रा विवादिनः सर्वे ब्राह्मणैरभिनन्दिताः॥ ४०.२२६ ॥

आसनस्थान्द्विजान्दृष्ट्वा चलन्त्यत्यलपबुद्धयः॥
आस्ये निधाय वै हस्तं कर्णे शूद्रास्य च द्विजाः॥ ४०.२२७ ॥

नीचस्यापि तदा वाक्यं वक्ष्यन्ति विनयेन तम्॥
उच्चासनस्थाञ्छूद्रांश्च द्विजानां पश्यतामपि॥ ४०.२२८ ॥

ज्ञात्वा न हिंसते राजा पश्य कालबलं नृप॥
पुष्पैः शुभसितैश्चैव तथान्यैर्मण्डनैर्द्विजाः॥ ४०.२२९ ॥

शूद्रानभ्यर्चयन्त्यल्पश्रुतभाग्यबलान्विताः॥
पाषण्डिनां च गृह्णन्ति ब्राह्मणाः कुप्रतिग्रहम्॥ ४०.२३० ॥

येन ते रौरवं यान्ति सुदुस्तारं द्विजाधमाः॥
तपोयज्ञफलानां च विक्रेतारो द्विजास्तथा॥ ४०.२३१ ॥

यतयश्च भविष्यन्ति बहवः कोटिशः कलौ॥
पुरुषाल्पबहुस्त्रीको नृणां चापत्यसम्भवः॥ ४०.२३२ ॥

निन्दन्ति वेदवाक्यानि वेदार्थांश्च कलौ युगे॥
शूद्रैः स्वयं निर्मितं यत्प्रमाणं शास्त्रमेव तत्॥ ४०.२३३ ॥

श्वापदप्रबलत्वं च गवां चापि परिक्षयः॥
कस्यचिद्दानप्रभृतिधर्मस्यास्ति न शुद्धता॥ ४०.२३४ ॥

साधूनां बहवो नाशाः पार्थिवाश्चाप्यरक्षिणः॥
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः॥ ४०.२३५ ॥

प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे॥
स्त्रीप्रधानानि गेहानि कुचैलास्ताश्च कर्कशाः॥ ४०.२३६ ॥

बहुभक्ष्यावलिप्ताश्च कृत्या इव भवन्ति च॥
सर्वे वणिग्जनाश्चापि चित्रवर्षी च वासवः॥ ४०.२३७ ॥

कुशीलचर्यापाषण्डैर्वृथारूपैः समावृतः॥
बहुयाचनको लोको भविष्यति परस्परी॥ ४०.२३८ ॥

अशङ्कश्चैव पापेषु तदा लोको भविष्यति॥
हर्तारः पररत्नानां परदारप्रधर्षकाः॥ ४०.२३९ ॥

ऊनषोडशवर्षाश्च प्रजायन्ते युगक्षये॥
तथा द्वादशवर्षाश्च प्रसवन्ति स्त्रियस्तदा॥ ४०.२४० ॥

चौराश्चौरस्य हर्तारो हर्तुर्हर्त्ता तथापरः॥
ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते॥ ४०.२४१ ॥

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान्॥
वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः॥ ४०.२४२ ॥

ते तदा प्रोद्भविष्यन्ति तेषआं वृद्धिश्च पार्थिव॥
दुःखं पुत्रकलत्राद्यं देहोत्सादः सरोगता॥ ४०.२४३ ॥

अधर्माभिनिवेशत्वात्तमसो जायते कलौ॥
कलेर्दोषनिधेश्चैव श्रृणुष्वैवं महागुणम्॥ ४०.२४४ ॥

तदाल्पेनैव काले न सिद्धिं गच्छन्ति मानवाः॥
त्रियुगीना वदन्त्येवं धन्या धर्मं चरन्ति ये॥ ४०.२४५ ॥

श्रुतिस्मृतिपुराणोक्तं कलौ श्रद्धापरायणाः॥
त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः॥ ४०.२४६ ॥

यथा क्लेशं चरन्प्राज्ञस्तदह्ना प्राप्यते कलौ॥
युगत्रयेण तावन्तः सिद्धिं गच्छन्ति पार्थिवः॥ ४०.२४७ ॥

यावन्तः सिद्धिमायान्ति कलौ हरिहरव्रताः॥
अष्टाविंशे कलौ यच्च भावि तत्त्वं निबोध मे॥ ४०.२४८ ॥

त्रिषु वर्षसहस्रेषु कलेर्यातेषु पार्थिवः॥
त्रिशतेषु दशन्यूनेष्वस्यां भुवि भविष्यति॥ ४०.२४९ ॥

शूद्रकोनाम वीराणामधिपः सिद्धिमत्र सः॥
चर्चितायां समाराध्य लप्स्यते भूभरापहः॥ ४०.२५० ॥

ततस्त्रिषु सहस्रेषु दशाधिकशतत्रये॥
भविष्यं नन्दराज्यं च चाणक्यो यान्हनिष्यति॥ ४०.२५१ ॥

शुक्लतीर्थे सर्वपापनिर्मुक्तिं योऽभिलप्स्यति॥
ततस्त्रिषु सहस्रेषु विंशत्या चाधिकेषु च॥ ४०.२५२ ॥

भविष्यं विक्रमादित्यराज्यं सोऽथ प्रलप्स्यते॥
सिदधिप्रसादाद्दुर्गाणां दीनान्यो ह्युद्धरिष्यति॥ ४०.२५३ ॥

ततः शतसहस्रेषु शतेनाप्यधिकेषु च॥
शकोनाम भविष्यश्च योऽतिदारिद्र्यहारकः॥ ४०.२५४ ॥

ततस्त्रिषु सहस्रेषु षट्‌शतैरधिकेषु च॥
मागधे हेमसदनादञ्जन्यां प्रभविष्यति॥ ४०.२५५ ॥

विष्णोरंशो धर्मपाता बुधः साक्षात्स्वयं प्रभुः॥
तस्य कर्माणि भूरिणि भविष्यन्ति महात्मनः॥ ४०.२५६ ॥

ज्योतिर्बिदुमुखानुग्रान्स हनिष्यति कोटिशः॥
चतुःषष्टिं स वर्षाणि भुक्त्वा द्वीपानि सप्त च॥ ४०.२५७ ॥

भक्तेभ्यः स्वयशो मुक्त्वा दिवं पश्चाद्गमिष्यति॥
सर्वेषां चावताराणआं गुणैः समधिको यतः॥ ४०.२५८ ॥

ततो वक्ष्यन्ति तं भक्त्या सर्वपापहरं बुधम्॥
चतुर्षु च सहस्रेषु शतेष्वपि चतुर्षु च॥ ४०.२५९ ॥

साधिकेषु महान्राजा प्रमितिः प्रभविष्यति॥
गोत्रेषु वै चन्द्रमसो बहुसेनापतिर्बली॥ ४०.२६० ॥

म्लेच्छान्स कोटिशो हत्वा पाषण्डानि च सर्वशः॥
वैदिकं केवलं शुद्धं सद्धर्मं वर्तयिष्यति॥ ४०.२६१ ॥

गङ्गायमुनयोर्मध्ये निष्ठां यास्यति पार्थिवः॥
ततः प्रजाश्च कालेन केनापि भृशपीडिताः॥ ४०.२६२ ॥

घोरं वा धर्ममाश्रित्य शाठ्येन च भवन्ति ताः॥
अप्रग्रहास्ततस्ता वै लोभाविष्टाश्च वृन्दशः॥ ४०.२६३ ॥

उपहिंसन्ति चान्योन्यं व्याकुलाः श्रमपीडिताः॥
नष्टे श्रौते तथा स्मार्ते परस्परहतास्तदा॥ ४०.२६४ ॥

निर्मर्यादा निष्करुणा निस्स्नेहा निरपत्रपाः॥
गृहदाराणि सन्त्यज्य ह्रस्वकाः पण्टविंशतिः॥ ४०.२६५ ॥

हाहाभूताश्चरिष्यन्ति विषादव्याकुलेन्द्रियाः॥
अनावृष्टिहताश्चैव वार्तामुत्सृज्य दुःखिताः॥ ४०.२६६ ॥

प्रत्यन्तांस्ता निषेवन्ति हित्वा जनपदान्स्वकान्॥
सरित्सागरकूलांश्च सेवन्ते पर्वतांस्तथा॥ ४०.२६७ ॥

मांसैर्मूलफलैस्चैव वर्तयन्ति सुदुःखिताः॥
चीरपत्राजिनधरा निष्क्रिया निष्परिग्रहाः॥ ४०.२६८ ॥

धर्मस्य वासमात्रं च शाल्वो म्लेच्छो हनिष्यति॥
उत्तमाधममध्यत्वं सर्वमुच्छिद्य घोरकृत्॥ ४०.२६९ ॥

ततस्तस्य वधार्थाय विष्णुः साक्षाज्जगत्पतिः॥
शम्भले विष्णुयशसो भूत्वा पुत्रो नृपोत्तम॥ ४०.२७० ॥

द्विजोत्तमैः परिवृतः शाल्वं तं संहरिष्यति॥
कोटिशोऽर्बुदशः पापान्निहत्य च निखर्वशः॥ ४०.२७१ ॥

पालयिष्यति तं धर्मं यो धर्मः श्रुतिपूर्वकः॥ ४०.२७२ ॥

कृत्वा पोतं धर्मरूपं साधूनां परमेश्वरः॥
गमिष्यति परं लोकं कृत्वा कर्मामि भूरिशः॥ ४०.२७३ ॥

ततः कृतयुगं भूयः प्रवर्तिष्यति पार्थिव॥
आद्यं कृतयुगं चान्यं तदन्येभ्यो विशिष्यते॥ ४०.२७४ ॥

अष्टाविंशकलिश्चैव शेषः प्रावर्त अन्यतः॥
ततः कृते सूर्यवंशः प्रवत्स्यति॥ ४०.२७५ ॥

मरुराजाच्च देवापेः श्रुतदेवाच्च ब्राह्मणाः॥
इति चातुर्युगी राजन्व्यवस्था परिवर्तते॥
चतुर्युगे च ते धन्या ये भजन्ति हराच्युतौ॥ ४०.२७६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाकालकरन्धमसंवादे चतुर्युगव्यवस्थावर्णनन्नाम चत्वारिंशत्तमोऽध्यायः॥ ४० ॥ छ ॥