[अध्यायः ३८]
वेदव्यासः
अध्यायः ३८
॥नारद उवाच॥
भूमेर्योजनलक्षे च कौरव्य रविमण्डलम्॥
योजनानां सहस्राणि भास्करस्य रथो नव॥ ३८.१ ॥
ईषादण्डस्ततैवास्य द्विगुणः परिकीर्तितः॥
सार्धकोटिस्तथा सप्त नियुतानि विवस्वतः॥ ३८.२ ॥
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्॥
त्रिनाभि तच्च पञ्चारं षण्नेमि परिकीर्तितम्॥ ३८.३ ॥
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः॥
पञ्च चान्यानि सार्द्धानि स्यन्दनस्य तु पाण्डव॥ ३८.४ ॥
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः॥
ह्रस्वोऽक्षस्तद्युगार्द्धं च ध्रुवाधारं रथस्य वै॥ ३८.५ ॥
द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम्॥
हयाश्च सप्त च्छान्दांसि तेषां नामानि मे श्रृणु॥ ३८.६ ॥
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च॥
अनुष्टुप्पङ्क्तिरित्युक्ताश्छन्दांसि हरयो रवेः॥ ३८.७ ॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः॥
उदयास्तमनाक्यं हि दर्शनादर्शनं रवेः॥ ३८.८ ॥
शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम्॥
विकीर्णोऽतो विकर्णस्थस्त्रिकोणार्धपुरे तथा॥ ३८.९ ॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः॥
ततः कुम्भं च मीनं च राशे राश्यन्तरं तथा॥ ३८.१० ॥
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम्॥
प्रयाति सविता कुर्वन्नहोरात्रं च तत्समम्॥ ३८.११ ॥
ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम्॥
ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः॥ ३८.१२ ॥
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायान्नम्॥
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्तते॥ ३८.१३ ॥
दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते॥
अतिवेगितया कालं वायुमार्गबलाच्चरन्॥ ३८.१४ ॥
तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति॥
कुलालचक्रमध्यस्थो यता मन्दं प्रसर्पति॥ ३८.१५ ॥
तथोदगयने सूर्यः सर्पते मन्दविक्रमः॥
तस्माद्दीर्घेण कालेन भूमिमल्पं निगच्छति॥ ३८.१६ ॥
सन्ध्याकाले च मन्देहाः सूर्यमिच्छन्ति खादितुम्॥
प्रजापतिकृतः शापस्तेषां फाल्गुन रक्षसाम्॥ ३८.१७ ॥
अक्षयत्वं शरीराणां मरणं च दिनेदिने॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम्॥ ३८.१८ ॥
ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपन्ति च॥
तेन दह्यन्ति ते पापाः सन्ध्योपासनतः सदा॥ ३८.१९ ॥
ये सन्ध्यां नाप्युपासन्ते कृतघ्ना यान्ति रौरवम्॥
प्रतिमासं पृथक्सूर्य ऋषिगन्धर्वराक्षसैः॥ ३८.२० ॥
अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः॥
धातार्यमा मित्रवरुणौ विवस्वानिन्द्र एव च॥ ३८.२१ ॥
पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः॥
विष्णुश्चैत्रादिमासेषु आदित्या द्वादश स्मृताः॥ ३८.२२ ॥
ततो दिवाकरस्थानान्मण्डलं शशिनः स्तितम्॥
लक्षमात्रेण तस्यापि त्रिचक्रोरथ उच्यते॥ ३८.२३ ॥
कुन्दाभा दश चैवाश्वा वामदक्षिणतो युताः॥
पूर्णे शतसहस्रे च योजनानां निशाकरात्॥ ३८.२४ ॥
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते॥
चतुर्दश चार्बुदान्यप्यशीतिः सरिताम्पतिः॥ ३८.२५ ॥
विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः॥
द्वे लक्षे चोत्तरे तस्माद्बुधो नक्षत्रमण्डलात्॥ ३८.२६ ॥
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य च॥
पिशङ्गैस्तुर— सोष्टाभिर्वायवेगिभिः॥ ३८.२७ ॥
द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः॥
शुक्रस्यापि रथोष्टाभिर्युक्तोऽभूत्सम्भवैर्हयैः॥ ३८.२८ ॥
लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः॥
अष्टाभिः पाण्डुरैरश्वैर्युक्तोऽस्य काञ्चनोरथः॥ ३८.२९ ॥
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः॥
आकाशसम्भवैरश्वैरष्टाभिः शबलै रथः॥ ३८.३० ॥
स्वर्भानोस्तुरगाश्चाष्टौ भृङ्गाभा धूसरारथम्॥
वहन्ति च सकृद्युक्ता आदित्याधःस्थितास्तथा॥ ३८.३१ ॥
सौरेर् लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम्॥
ऋषिभ्यश्चापि लक्षेण ध्रुवश् चोर्ध्वं व्यवस्थितः॥ ३८.३२ ॥
मेढी+++(=यूपी)+++-भूतः समस्तस्य ज्योतिश्-चक्रस्य वै ध्रुवः॥
ध्रुवोऽपि शिंशुमारस्य पुच्छाधारे व्यवस्थितः॥ ३८.३३ ॥
यम् आहुर् वासुदेवस्य रूपम् आत्मानम् अव्ययम्॥
वायुपाशैर् ध्रुवे बद्धं सर्वम् एतच् च फाल्गुन॥ ३८.३४ ॥
नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम्॥
द्विगुणं सूर्यविस्तारान्मण्डलं शशिनः स्मृतम्॥ ३८.३५ ॥
तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति॥
उद्धृत्य पृथिवीच्छायां निर्मलां मण्डलाकृतिः॥ ३८.३६ ॥
चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते॥
भार्गवात्पादहीनस्तु विज्ञेयोऽथ बृहस्पतिः॥ ३८.३७ ॥
बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा॥
शतानि पञ्च चत्वारित्रीणि द्वे चैकयोजनम्॥ ३८.३८ ॥
योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते॥
भूमिलोकश्च भूर्लोकः पादगम्यः प्रकीर्तितः॥ ३८.३९ ॥
भूमिसूर्यान्तरं तच्च भुवर्लोकः प्रकीर्तितः॥
ध्रुवसूर्यान्तरं तच्च नियुतानि चतुर्दश॥ ३८.४० ॥
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः॥
ध्रुवादूर्ध्वं तथा कोटचिर्महर्लोकः प्रकीर्तितः॥ ३८.४१ ॥
द्वे कोट्यौ च जनो यत्र निवसन्ति चतुःसनाः॥
चतुर्भिश्चापि कोटीभिस्तपोलोकस्ततः स्मॉतः॥ ३८.४२ ॥
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः॥
षड्गुणेन तपोलोकात्सत्यलोको विराजते॥ ३८.४३ ॥
अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः॥
अष्टादस तथा कोट्यो लक्षाण्यशीतिपञ्च च॥ ३८.४४ ॥
शुभं निरुपमं स्थानं तदूर्ध्वं सम्प्रकाशते॥
भूर्भूवःस्वरिति प्रोक्तं त्रैलोक्यं कृतकं त्विदम्॥ ३८.४५ ॥
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम्॥
कृतकाकृतयोर्मध्ये मर्हर्लोक इति स्मृतः॥ ३८.४६ ॥
शून्यो भवति कल्पान्ते योत्यन्तं न विनश्यति॥
एते सप्त समाख्याता लोकाः पुण्यैरुपार्जिताः॥ ३८.४७ ॥
यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः॥
वेदादिप्रोक्तैरन्यैश्च साध्याल्ँलोकानिमान्विदुः॥ ३८.४८ ॥
ततश्चाण्डस्य शिरसो धारा नीरमयी शिवा॥
सर्वलोकान्समाप्लाव्य गङ्गा मेरावुपागता॥ ३८.४९ ॥
ततो महीतलं सर्वं पातालं प्रविवेश सा॥
अण्डमूर्ध्नि स्थिता देवी सततं द्वारवासिनी॥ ३८.५० ॥
देवीनां कोटिकोटीभिः संवृता पिङ्गलेन च॥
तत्र स्थिता सदा रक्षां कुरुतेऽण्डस्य सा शुभा॥ ३८.५१ ॥
निहन्ति दुष्टसङ्घातान्महाबलपराक्रमा॥
वायुस्कन्धानि सप्तापिश्रृणुयद्वत्स्थितान्यपि॥ ३८.५२ ॥
पृथिवीं समभिक्रम्य संस्थितो मेघमण्डले॥
प्रवहोनाम यो मेघान्प्रवहत्यतिशक्तिमान्॥ ३८.५३ ॥
धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः॥
तोयैर्भवन्ति नीलाङ्गा वर्षिष्ठाश्चैव भारत॥ ३८.५४ ॥
द्वितीयश्चावहो नाम निबद्धः सूर्यमण्डले॥
तेन बद्धं ध्रुवेणेदं भ्राम्यते सूर्यमण्डलम्॥ ३८.५५ ॥
तृतीयश्चोद्वहो नाम चन्द्रस्कन्धे प्रतिष्ठितः॥
बद्धं ध्रुवेण येनेदं भ्राम्यते चन्द्रमण्डलम्॥ ३८.५६ ॥
चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले॥
वातरश्मिभिराबद्धं ध्रुवेण सह भ्राम्यते॥ ३८.५७ ॥
ग्रहेषु पञ्चमः सोऽपि विवहो नाम मारुतः॥
ग्रहचक्रमिदं येन भ्राम्यते ध्रुवसन्धितम्॥ ३८.५८ ॥
षष्ठः परिवहो नाम स्थितः सप्तर्षिमण्डले॥
भ्रमन्ति ध्रुवसम्बद्धा येन सप्तर्षयो दिवि॥ ३८.५९ ॥
सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः॥
येन संस्थापितं ध्रौव्यं चक्रं चान्यानि भारत॥ ३८.६० ॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे॥
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः॥ ३८.६१ ॥
एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः॥
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः॥ ३८.६२ ॥
ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम्॥
स्वतेजसा स्वशक्त्या चाधिष्ठितास्ते हि नित्यदा॥ ३८.६३ ॥
इत्यूर्ध्वं ते समाख्यान्तं पातालान्यथ मे श्रृणु॥ ३८.६४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाक्याने लोकव्यवस्थितिवर्मनन्नामाष्टत्रिंशोऽध्यायः॥ ३८ ॥ छ ॥