३७

[अध्यायः ३७]

वेदव्यासः

अध्यायः ३७
॥श्रीनारद उवाच॥
बर्बरीतीर्थमाहात्म्यमथो वक्ष्यामि तेऽर्जुन॥
यथा बर्बरिका जाता शतश्रृङ्गा नृपात्मजा॥ ३७.१ ॥

कुमारिकेति विख्याता तस्या नाम्ना प्रकथ्यते॥
इदं कौमारिकाखण्डं चतुर्वर्गफलप्रदम्॥ ३७.२ ॥

यया कृता पृथिव्यां च नानाग्रामादिकल्पना॥
इदं भरतखण्डं च यया सम्यक्प्रकल्पितम्॥ ३७.३ ॥

॥धनञ्जय उवाच॥
महदेतन्ममाश्चर्यं श्रोतव्यं परमं मुने॥
कुमारीचरितं सर्वं ब्रूहि मह्यं सविस्तरम्॥ ३७.४ ॥

कथं विश्वमिदं जातं कर्मजातिप्रकल्पितम्॥
कथं वा भारतं खण्डं शुश्रूषेय सदा मम॥ ३७.५ ॥

॥नारद उवाच॥
अव्यक्तोऽस्मिन्निरालोके प्रधानपुरुषावुभौ॥
अजौ समागतावेकौ केवलं श्रृणुमो वयम्॥ ३७.६ ॥

ततः स्वभावकालाभ्यां स्वरूपाभ्यां समीरितम्॥
ईक्षणेनैव प्रकृतेर्महत्तत्त्वमजायत॥ ३७.७ ॥

महत्तत्त्वाद्विकुर्वाणादहन्तत्त्वं व्यजायत॥
त्रिधा तन्मुनिभिः प्रोक्तं सत्त्वरासतामसम्॥ ३७.८ ॥

तामसात्पञ्च जातानि तन्मात्राणि वुदुर्बुधाः॥
तन्मात्रेभ्यश्च भूतानि वेशेषाः पञ्च तद्भवाः॥ ३७.९ ॥

सात्त्विकाच्चाप्यहङ्काराद्विद्वि कर्मेद्रियाणि च॥
एकादशं मनश्चैव राजसं च द्वयोर्विदुः॥ ३७.१० ॥

चतुर्विशतितत्त्वानि जातानीति पुरा विदुः॥
सदाशिवेन वै पुंसा तानि दृष्टानि भारत॥ ३७.११ ॥

बुद्‌बुदाकारतां जग्मुरण्डं जातं ततः शुभम्॥
शकतोटिप्रमाणं च ब्रह्माण्डमिदमुच्यते॥ ३७.१२ ॥

आत्मास्य कथितो ब्रह्मा व्यभजत्स त्रिधा त्विदम्॥
ऊर्ध्वं तत्र स्थिता देवा मध्ये चैव च मानवाः॥ ३७.१३ ॥

नागा दैत्याश्च पाताले त्रिधैतत्परिकल्पितम्॥
ऐकैकं सप्तधाभूय ततस्तेन प्रकल्पितम्॥ ३७.१४ ॥

पातालानि च द्वीपानि स्वर्लोकाः सप्तसप्त च॥
सप्त द्वीपानि वक्ष्यामि श्रृणु तेषां प्रकल्पनाम्॥ ३७.१५ ॥

लक्षयोजनविस्तारं जम्बूद्वीपं प्रकीर्त्यते॥
सूर्यबिम्बसमाकारं तावत्क्षारार्णवावृतम्॥ ३७.१६ ॥

शाकद्वीपं द्विगुणतो जम्बूद्वीपात्ततः परम्॥
तावता क्षीरतोयेन समुद्रेण परीवृतम्॥ ३७.१७ ॥

सुरातोयेन दैत्यानां मोहकार्यर्णवेन हि॥
पुष्करं तु ततो द्वीपं द्विगुणं तावता वृतम्॥ ३७.१८ ॥

कुशद्वीपं द्विगुणतस्ततस्तत्परतः स्मृतम्॥
दधितोयेन परितस्तावदर्णवसंवृतम्॥ ३७.१९ ॥

ततः परं क्रौञ्चसञ्ज्ञं द्विगुणं हि घृताब्धिना॥
ततः शाल्मलिद्वीपं च द्विगुणं तावतैव च॥ ३७.२० ॥

इक्षुसारस्वरूपेण समुद्रेण परिवृतम्॥
गोमेदं तस्य परितो द्विगुणं तावता वृतम्॥ ३७.२१ ॥

स्वादुतोयेन रम्येण समुद्रेण समन्ततः॥
एवं कोटिद्वयं पार्थ लक्षपञ्चाशतत्रयम्॥ ३७.२२ ॥

पञ्चाशच्च सहस्राणि सप्तद्वीपाः ससागराः॥
दशोत्तराणि पञ्चैव अङ्गुलानां शतानि च॥ ३७.२३ ॥

अपां वृद्धिक्षयो दृष्टः पक्षयोः शुक्लकृष्णयोः॥
ततो हेममयी भूमिर्दशकोट्यः कुरूद्वह॥ ३७.२४ ॥

देवानां क्रीडनस्थानं लोकालोकस्ततः परम्॥
पर्वतो वलयाकारो योजनायुतविस्तृतः॥ ३७.२५ ॥

अस्य बाह्ये तमो घोरं दुष्प्रेक्ष्यं जीववर्जितम्॥
पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाण्येकोनविंशतिः॥ ३७.२६ ॥

चत्वारिंशत्सहस्राणि योजनानां च फाल्गुन॥
सप्तसागरमानस्तु गर्भोदस्तदनन्तरम्॥ ३७.२७ ॥

कोटियोजनविस्तारः कटाहऋ संव्यवस्थितः॥
ब्रह्मणोंऽडं कटाहेन संयुक्तं मेरुमध्यतः॥ ३७.२८ ॥

पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः॥
जम्बुद्वीपस्य मध्ये तु मेरुनामास्ति पर्वतः॥ ३७.२९ ॥

स लक्षयोजनो ज्ञेयो ह्यधश्चोर्ध्वं प्रमाणतः॥
षोडशैव सहस्राणि योजनानामधः स्थितः॥ ३७.३० ॥

उच्छ्रयश्चतुराशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः॥
त्रिभिः शृङ्गैः समायुक्तः शरावाकृतिमस्तकः॥ ३७.३१ ॥

मध्यशृङ्गे ब्रह्मवास ऐशान्यां त्र्यम्बकस्य च॥
नैर्ऋत्ये वासुदेवस्य हेमशृङ्गं च ब्रह्मणः॥ ३७.३२ ॥

रत्नजं शङ्करस्यापि राजतं केशवस्य च॥
मेरुदिक्षु चतसृषु विष्कम्भा गिरयः स्मृताः॥ ३७.३३ ॥

पूर्वेण मन्दरो नामदक्षिणे गन्धमादनः॥
विपुलः पश्चिमो ज्ञेयः सुपार्श्वस्तु तथोत्तरे॥ ३७.३४ ॥

कदम्बो मन्दरे ज्ञेयोजम्बुर्वै गन्धमादने॥
अश्वत्थो विपुले चैव सुपार्श्वेच वटोमतः॥ ३७.३५ ॥

एकादशशतायामाश्चत्वारो गिरिकेतवः॥
एतेषां सन्ति चत्वारि वनानि जयमूर्धसु॥ ३७.३६ ॥

पूर्वं चैत्ररथं नामदक्षिणे गन्धमादनम्॥
वैभ्राजम्पश्चिमे ज्ञेयमुदक्चित्ररथं वनम्॥ ३७.३७ ॥

सरांसि चापि चत्वारि चतुर्दिक्षु निबोध मे॥
प्राच्येऽरुणोदसञ्ज्ञं तु मानसं दक्षिणे सरः॥ ३७.३८ ॥

प्रत्यक्छीतो दकन्नाम उत्तरे च महाह्रदः॥
विष्कम्भगिरयो ह्येत उच्छ्रिताः पञ्चविंशतिः॥ ३७.३९ ॥

योजनानां सहस्राणि सहस्रं पिण्डतः स्मृतम्॥
अन्ये च सन्ति बहुशस्तत्र वै केसराचलाः॥ ३७.४० ॥

मेरोर्दक्षिणतश्चैव त्रयो मर्यादपर्वताः॥
निषधो हेमकूटश्च हिमवानिति ते त्रयः॥ ३७.४१ ॥

लक्षयोजनदीर्घाश्च विस्तीर्णा द्विसहस्रकम्॥
त्रयश्चोत्तरतो मेरोर्नीलः श्वेतोऽथ श्रृङ्गवान्॥ ३७.४२ ॥

माल्यवान्पूर्वतो मेरोर्गन्धाख्यः पश्चिमे तथा॥
इत्येते गिरयः प्रोक्ता जम्बुद्वीपे समन्ततः॥ ३७.४३ ॥

गन्धमादनसंस्थाया महागजप्रमाणतः॥
फलानि जम्बवास्तन्नाम्ना जम्बूद्वीपमिति स्मृतम्॥ ३७.४४ ॥

आसीत्स्वायम्भुवोनाम मनुराद्यः प्रजापतिः॥
आसीत्स्त्री शतरूपा तामुदुवोढ प्रजापतिः॥
प्रियव्रतोत्तानपादौ तस्याऽऽस्तां तनयावुभौ॥ ३७.४५ ॥

ध्रुवश्चोत्तानपादस्य पुत्रः परमधार्मिकः॥
भक्त्या स विष्णुमाराध्य स्थानं चैवाक्षयं गतः॥ ३७.४६ ॥

प्रियव्रतस्य राजर्षेरुत्पन्ना दश सूनवः॥
त्रयः प्रव्रजितास्तत्र परम्ब्रह्म समाश्रिताः॥ ३७.४७ ॥

सप्त सप्तसु द्वीपेषु तेन पुत्राः प्रतिष्ठिताः॥
जम्बूद्वीपाधिपो ज्येष्ठ आग्नीध्र इति विश्रुतः॥ ३७.४८ ॥

तस्यासन्नव सुताः पार्थ नववर्षेश्वराः स्मृताः॥
तेषां नाम्ना च ते वर्षास्तिष्ठन्त्यद्यापि चाङ्किताः॥ ३७.४९ ॥

योजनानां सहस्राणि नव प्रत्येकशः स्मृताः॥
मेरोश्चतुर्दशं खण्डं गन्धमाल्यवतोर्द्वयोः॥ ३७.५० ॥

अन्तरे हेमभूमिष्ठमिलावृतमिहोच्यते॥
माल्यवत्सागरान्तस्य भद्राश्वमिति प्रोच्यते॥ ३७.५१ ॥

गन्धवत्सागरान्तस्य केतुमालमिति स्मृतम्॥ ३७.५२ ॥

श्रृङ्गवज्जलधेरन्तः कुरुखण्डमिति स्मृतम्॥
श्रृङ्गवच्छ्वेतमध्ये च खण्डं प्रोक्तं हिरण्मयम्॥ ३७.५३ ॥

सुनीलश्वेतयोर्मध्ये खण्डमाहुश्च रम्यकम्॥
निषधो हेमकूटश्च हरिखण्डं तदन्तरा॥ ३७.५४ ॥

हिमवद्धिमकूटान्तः खण्डं किम्पुरुषं स्मृतम्॥
हिमाद्रिजलधेरन्तर्नाभि खण्डमिति स्मृतम्॥ ३७.५५ ॥

नाभिखण्डं च कुरवो द्वे वर्षे धनुपाकृती॥
हिमवांश्च गिरिश्रृङ्गी ज्यास्थाने परिकीर्तितौ॥ ३७.५६ ॥

नाभेः पुत्रश्च ऋषभ ऋषभाद्बरतोऽभवत्॥
तस्य नाम्ना त्विदं वर्षं भारतं चेति कीर्त्यते॥ ३७.५७ ॥

अत्र धर्मार्थकामानां मोक्षस्य च उपार्जनम्॥
अन्यत्र भोगभूमिश्च सर्वत्र कुरुनन्दन॥ ३७.५८ ॥

शाकद्वीपे च शाकोऽस्ति योजनानां सहस्रकः॥
तस्य नाम्ना च तद्वर्षं शाकद्वीपमिति स्मृतम्॥ ३७.५९ ॥

तस्य च प्रियव्रत एवाधिपतिर्नाम्ना मेधातिथिरिति॥ ३७.६० ॥

तस्य पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहुरूपविश्वचारसञ्ज्ञानि पुत्रनामानि सप्त वर्षाणि॥ ३७.६१ ॥

शाकद्वीपे च वर्ष ऋतव्रतसत्यव्रतानुव्रतनामानो वाय्यवात्कमं भगवन्तं जपन्ति॥ ॥

अन्तः प्रविश्य भूतानि यो विभज्यात्मकेतुभिः॥
अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे जगत्॥ ३७.६३ ॥

॥इति जपः॥
कुशद्वीपे कुशस्तम्बो योजनानां सहस्रकः॥
तच्चिह्नचिह्नितं तस्मात्कुशद्वीपं ततः स्मृतम्॥ ३७.६४ ॥

तद्द्वीपपतिश्च प्रैयव्रतो हिरण्यरोमा तत्पुत्रवसुवसुदानदृढकविनाभिगुप्तसत्यव्रतवामदेवनामाङ्कितानि सप्त वर्षाणि॥
वर्णाश्च कुलिशकोविदाभियुक्तकुलकसञ्ज्ञा जातवेदसं भगवन्तं स्तुवन्ति॥ ३७.६५ ॥

परस्य ब्रह्णः साक्षाज्जातवेदासि हव्यवाट्॥
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजः॥ ३७.६६ ॥

॥इति स्तुतिः॥
क्रौञ्चद्वीपे क्रौञ्चनामा पर्वतो योजनायतः॥
योऽसौ गुहेन निर्भिन्नस्तच्चिह्नं क्रौञ्चद्वीपकम्॥ ३७.६७ ॥

तत्र च प्रैयव्रतो घृतपृष्टिनामा तत्पुत्राममधुरुहमेघपृष्ठस्वदामऋताश्वलोहितार्णववनस्पतिइतिसप्तपुत्रनामाङ्कितानि सप्त वर्षाणि॥ ३७.६८ ॥

वर्णाश्च गुरुऋषभद्रविणदेवकसञ्ज्ञाः॥ ३७.६९ ॥

आपोमयं भगवन्तं स्तुवन्ति॥ ३७.७० ॥

आपः पुरुषवीर्याश्च पुनन्तीर्भूर्भूवःस्वश्च॥
तैः पुनरमीवघ्नाःसंस्पृशेतात्मना भुवः॥ ३७.७१ ॥

॥इति जपः॥
शाल्मलेर्नाम वृक्षस्य तत्रवासः सहस्रं योजनानां तच्चिह्नं शाल्मलिद्विपमुच्यते॥ ३७.७२ ॥

तस्याधिपतिः प्रैयव्रतो यज्ञबाहुस्तत्पुत्रसुरोचनसौमनस्यरमणकदेवबर्हिपारिभद्राप्यायनाभिज्ञाननामानि सप्तवर्षाणि॥ ३७.७३ ॥

वर्णाश्च श्रुतधरवीर्यवसुन्धरइषन्धरसञ्ज्ञा भगवन्तं सोमं यजन्ति॥ ३७.७४ ॥

स्वयोनिः पितृदेवेभ्यो विभजञ्छुक्लकृष्णयोः॥
अधः प्रजानां सर्वासां राजा नः सोमोस्तु॥ ३७.७५ ॥

इति जपः गोमेदनामा प्लक्षोस्ति सुरम्यो यस्य च्छायया॥
मोदोवृद्धिं गतं लौल्याद्गोमेदं द्वीपमुच्यते॥ ३७.७६ ॥

तत्र प्रैयव्रत इध्मजिह्वः पतिस्तत्पुत्रसिवसुरम्यसुभद्र शान्त्यशप्तमृताभयनामाङ्कितानि सप्त वर्षाणि॥ ३७.७७ ॥

वर्णाश्च हंसपतङ्गोर्ध्वाञ्चनसत्याङ्गसञ्ज्ञाश्चत्वारो भगवन्तं सूर्यं यजन्ते॥ ॥

प्रश्रस्य विष्णुरूपंयत्तत्रोत्थस्य ब्रह्मणोऽमृतस्य च॥
मृत्योश्च सूर्यमात्मानं धीमहि॥ ३७.७९ ॥

॥इति जपः॥
स्वर्णपत्राणि नियुतं योजनानां सहस्रकम्॥
पुष्करं ज्वलदा भाति तच्चिह्नं द्वीपपुष्करम्॥ ३७.८० ॥

तस्याधिपतिः प्रैयव्रतो वीतहोत्रनामा तत्पुत्रौ रमणकघातकौ॥ ३७.८१ ॥

तन्नामचिह्नतं खण्डद्वयम्॥ ३७.८२ ॥

तयोरन्तरालेमानसाचलो नाम वलयाकारः पर्वतो यस्मिन्भ्रमति भगवान्भास्कर इति॥ ॥

तत्र वर्णाश्च न सन्ति केवलं समानास्ते ब्रह्म ध्यायन्ति॥ ३७.८४ ॥

यद्यत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोर्चयन्॥
भेदेनैकान्तमद्वैतं तस्मै भगवते नमः॥ ३७.८५ ॥

॥इति जपः॥
नैषु क्रोधो न मात्सर्यं पुण्यपापार्जनेन च॥
अयुतं द्विगुणं चापि क्रमादायुः प्रकीर्तितम्॥ ३७.८६ ॥

जपन्तः कामिनीयुक्ता विहरन्त्यमरा इव॥
अथ ते सम्प्रवक्ष्यामि ऊर्ध्वलोकस्य संस्थितिम्॥ ३७.८७ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाख्याने भूसंस्थितिवर्णनन्नाम स्पतत्रिंशोऽध्यायः॥ ३७ ॥ छ ॥