३६

[अध्यायः ३६]

वेदव्यासः

अध्यायः ३६
॥नारद उवाच॥
एवं दृष्ट्वा क्षितौ तानि लिङ्गानि हरसूनुना॥
हरिब्रह्मेन्द्रप्रमुखा देवाः प्रोचुः परस्परम्॥ ३६.१ ॥
अहो धन्यः कुमारोऽयं महीसागरसङ्गमे॥
येन चत्वारी लिङ्गानि स्तापितानि सुदुर्लभे॥ ३६.२ ॥
वयमप्यत्र शुद्ध्यर्थं तोषार्थं स्कन्दरुद्रयोः॥
साध्वर्थे चात्मलाभाय कुर्मो लिङ्गपरम्पराम्॥ ३६.३ ॥
अथवा कोटिशो देवा मुनयो नैव सङ्ख्यया॥
सर्वे चेत्स्थापयिष्यन्ति लिङ्गान्यत्र महीतटे॥ ३६.४ ॥
पूजा तेषां कतं भावि बहुत्वाच्चात्र पठ्यते॥
यस्य राष्ट्रे रुद्रलिङ्गं पूज्यते नैव शक्तितः॥ ३६.५ ॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः॥
सम्भूय स्थापयिष्यामो लिङ्गमेकं ततः शुभम्॥ ३६.६ ॥
इति कृत्वा मतिं सर्वे प्राप्यानुज्ञां महेश्वरात्॥
प्रहर्षिता सुहश्चैव हरिब्रह्ममुखाः सुराः॥ ३६.७ ॥
भूमिभागं शुभं वीक्ष्य विजने लिङ्गमुत्तमम्॥
स्थापयामासुरथ ते स्वयं ब्रह्मविनिर्मितम्॥ ३६.८ ॥
सिद्धार्थैः स्तापितं यस्मा द्देवैर्ब्रह्मादिभिः स्वयम्॥
सिद्धेश्वरमिति प्राह नाम लिङ्गस्य वै गुहः॥ ३६.९ ॥
सर्वैर्देवैस्तत्र लिङ्गे खानितं सर उत्तमम्॥
सर्वतीर्थोदकैः शुभ्रैः पूरितं च महात्मभिः॥ ३६.१० ॥
एतस्मिन्नन्तरे पार्थ पातालाच्छेषनन्दनः॥
कुमुदोनाम आगत्य प्राह शेषाहिपन्नगान्॥ ३६.११ ॥
अस्मिंस्तारकयुद्धे तु प्रलम्बोनाम दानवः॥
पलायित्वा स्कन्दभीत्या पापः पातालमाविशत्॥ ३६.१२ ॥
स वो वसूनि पुत्रांश्च भार्याः कन्या गृहाणि च॥
विध्वंसयति नागेन्द्राः शीघ्रं धावतधावत॥ ३६.१३ ॥
शेषात्मजस्य तद्वाक्यं कुमदस्य निशम्यते॥
औत्सुक्यमापुर्नागेन्द्रा यामयामेति वादिनः॥ ३६.१४ ॥
तान्निवार्य ततः स्कन्दः क्रुद्धः शक्तिमथाददे॥
पातालाय मुमोचाथ प्रोच्य दैत्यो निहन्यताम्॥ ३६.१५ ॥
ततः स्कन्दभुजोत्सृष्टा भुवं निर्भिद्य वेगतः॥
प्रविष्टा सहसा शक्तिर्यथा दैवं नरं प्रति॥ ३६.१६ ॥
सा तं हत्वा प्रलम्बं च कोटिभिर्दशभिर्वृतम्॥
नन्दयित्वा गता नागाञ्जलकल्लोपूर्विका॥ ३६.१७ ॥
यान्त्या शक्त्या तया पार्थ यत्कृतं विवरं भुवि॥
पातालगङ्गातोयेन पूरितं पापहारिणा॥ ३६.१८ ॥
तस्य नाम ददौ स्कन्दः सिद्धकूप इति स्मृतः॥
कृष्माष्टम्यां चतुर्दश्यामुपवासी नरः स्वयम्॥ ३६.१९ ॥
स्नात्वा कूपेऽर्चयेदीशं सिद्धेश्वरमनन्यधीः॥
प्रभूतभवसम्भूतपापं तस्य विलीयते॥ ३६.२० ॥
सिद्धकुण्डे च यः स्नात्वा श्राद्धं कुर्याद्विचक्षणः॥
सर्वकल्मषनिर्मुक्तो भक्तियोग्यो भवेभवे॥ ३६.२१ ॥
वृश्चाप्यक्षयस्तस्य तुष्टो रुद्रो वरं ददौ॥
प्रयाग वटतुल्योऽयमेतत्सत्यं न संशयः॥ ३६.२२ ॥
अत्रागत्य महाभागः क्षाद्धं कुर्यात्सुभक्तितः॥
पितॄणामक्षयं तच्च सर्वेषां पिण्डपातनम्॥ ३६.२३ ॥
ततो ब्रह्मादयो देवाः स्कन्देन सहितास्तदा॥
सिद्धाम्बिकां महाशक्तिं प्रार्थयामासुरीश्वरीम्॥ ३६.२४ ॥
त्वयाविष्टो हि भगवान्मत्स्यरूपी जनार्दनः॥
जगदुद्धारणार्थाय चक्रे कर्माम्यनेकशः॥ ३६.२५ ॥
इति तां प्रार्थयामासुरत्र त्याज्यं न ते शुभे॥
अत्र स्थिताः सर्व इमे क्षेत्रपाला महाबलाः॥ ३६.२६ ॥
अष्टम्यां वा चतुर्दश्यां बलिपुष्पैश्च त्वां शुभे॥
ये पूजयन्ति ते पाल्याः सर्वापत्सु च या सदा॥ ३६.२७ ॥
एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत॥
स्थापयामासुरथ तां लिङ्गादुत्तरभागतः॥ ३६.२८ ॥
ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम्॥
सिद्धेयं नाम क्षेत्रस्य रक्षार्थं निदधुः स्वयम्॥ ३६.२९ ॥
त्वां च ये पूजयिष्यन्ति कार्यारभेषु सर्वदा॥
वर्षे वर्षे राजमाषबलिना च विशेषतः॥ ३६.३० ॥
तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान्॥
सिद्धिकृतो देवास्तत्र सिद्धिविनायकम्॥ ३६.३१ ॥
कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा॥
तं च ये पूजयन्त्यत्र कार्यारम्भेषु सर्वदा॥ ३६.३२ ॥
तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः॥
यद्यत्र पूजयेद्यस्तु सततं सिद्धसप्तकम्॥ ३६.३३ ॥
पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते॥
सिद्धेश्वरः सिद्धवटश्च साक्षात्सिद्धाम्बिका सिद्धविनायकश्च॥
सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त॥ ३६.३४ ॥
अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान्॥
वैशाखमासस्याष्टम्यां कृष्णायां सिद्धकूपके॥ ३६.३५ ॥
स्नात्वा पिण्डान्वटे कृत्वा पूजयन्मां च सिद्धभाक्॥
सदा योऽभ्यर्चयेन्मां च ब्रह्मचारी जितेन्द्रियः॥ ३६.३६ ॥
अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः॥
मन्त्रजाप्यं बलिं होममत्र यः कुरुते नरः॥ ३६.३७ ॥
एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात्॥
समाहितमनाश्चाथ सिद्धेशं यस्तु पश्यति॥ ३६.३८ ॥
तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते॥
सिद्धाम्बिका महादेवी ह्यत्र सन्निहितास्ति या॥ ३६.३९ ॥
सिद्धिदा साधकेन्द्राणां महाविद्यां जपन्ति ये॥
धीरेभ्यो ब्रह्मचारिभ्यः सत्यचित्तेभ्य एव च॥ ३६.४० ॥
मन्त्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः॥
पातालस्य बिलं चैतद्गुहशक्त्या कृतं महत्॥ ३६.४१ ॥
सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम॥
प्रत्यक्षं भविता यत्र नानाश्चर्याणि भूरिशः॥ ३६.४२ ॥
अत्र सिद्धिं प्रयास्यन्ति कोटिशः पुरुषाः सुराः॥
विद्याधरत्वं देवत्वं गन्धर्वत्वं च नागता॥ ३६.४३ ॥
यक्षत्वं चामरत्वं च प्राप्स्यन्त्यत्र च साधकाः॥
अत्र वै विजयोनाम स्थण्डिलस्य प्रभावतः॥ ३६.४४ ॥
सिद्धाम्बिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम्॥
यो मां द्रक्ष्यति चात्रस्थं यश्च मां पूजयिष्यति॥
वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति॥ ३६.४५ ॥
॥नारद उवाच॥
त्र्यम्बकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः॥ ३६.४६ ॥
प्रहृष्टाः समपद्यन्त गाथां चेमां जगुस्तदा॥
तेन यज्ञैर्जपैःस्तोत्रैस्तपो भिस्तोषिता वयम्॥ ३६.४७ ॥
सर्वे देवाः सिद्धिलिङ्गं यो नरः पूजयिष्यति॥
सर्वकामफलावाप्तिरित्येवं शङ्करोऽब्रवीत्॥ ३६.४८ ॥
इत्युक्त्वा ते जयं प्राप्ताः स्कन्देन सहिताः सुराः॥
काराय्यं रम्यप्रासादान्रम्यैस्तारकसम्भवैः॥ ३६.४९ ॥
चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः॥
केचित्स्कन्दं प्रशंसन्तस्तीर्थमन्ये हरिं परे॥ ३६.५० ॥
केचिल्लिङ्गानि पञ्चापि युद्धं केचिद्दिवं ययुः॥
ततोंऽतरिक्षे चालिङ्ग्य महासेनं हरोऽब्रवीत्॥ ३६.५१ ॥
सप्तमे मारुतस्कन्धे व स नित्यं प्रियात्मज॥
कार्येष्वहं त्वया पुत्र सम्प्रष्टव्यः सदैव हि॥ ३६.५२ ॥
दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि॥
स्तम्भतीर्थे च वत्स्येऽहं न विमोक्ष्यामि कर्हिचित्॥ ३६.५३ ॥
इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः॥
ब्रह्मविष्णुमुखांश्चैव भक्त्या तैरभिनन्दितः॥ ३६.५४ ॥
विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च॥
शर्वो जगाम कैलासं स्कन्धं वै सप्तमं गुहः॥ ३६.५५ ॥
इत्येतत्कथितं पार्थ लिङ्गपञ्चकसम्भवम्॥
यः पठेत्स्कन्दसम्बद्धां कथां मर्त्यो महामतिः॥ ३६.५६ ॥
श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः॥
बह्वायुः सुभगः श्रीमान्कान्तिमाञ्छुभदर्शनः॥ ३६.५७ ॥
भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः॥
शुचिर्भूत्वा पुमान्यश्च कुमारेश्वरसन्निधौ॥ ३६.५८ ॥
श्रृणुयात्स्कन्दचरितं महाधनपतिर्भवेत्॥
बालानां व्याधिदुष्टानां राजद्वारोपसेविनाम्॥ ३६.५९ ॥
इदं तत्परमं धन्यं सर्वदोषहरं सदा॥
तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः॥ ३६.६० ॥
वरमेनं ददुर्देवाः स्कन्दस्याथ गता दिवम्॥ ३६.६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे पञ्चलिङ्गोपाख्यानसमाप्तिवर्णनन्नाम षट्‌त्रिंशोऽध्यायः॥ ३६ ॥ छ ॥