[अध्यायः ३५]
वेदव्यासः
अध्यायः ३५
॥नारद उवाच॥
कुमारेण स्थापितोऽत्र कुमारेशस्ततः सुराः॥
प्रणम्य गुहमूचुश्च प्रबद्धकरसम्पुटाः॥ ३५.१ ॥
किञ्चिद्विज्ञापयष्यामो वयं त्वां श्रृणु तत्त्वतः॥
पूर्वप्रसिद्ध आचारः प्रोच्यते जयिनामयम्॥ ३५.२ ॥
जयन्ति ये रणे शत्रूंस्तैः कार्यः स्तम्भचिह्नकः॥
तस्मात्तव जयोद्द्योतनिमित्तं स्तम्ममुत्तमम्॥ ३५.३ ॥
नक्षिपाम वयं यावत्त्मनुज्ञातुमर्हसि॥
विश्वकर्मकृतं यच्च तृतीयं लिङ्गमुत्तमम्॥ ३५.४ ॥
तस्य स्तम्भाग्रतसतं च संस्थापय शिवात्मज॥
एवमुक्ते सुरैः स्कन्दस्ततेत्याह महामनाः॥ ३५.५ ॥
ततो हृष्टाः सुरगणाः शक्राद्याः स्तम्भमुत्तमम्॥
जाम्बूनदमयं शुभ्रं रणभूमौ विनिक्षिपुः॥ ३५.६ ॥
परितः स्थण्डिलं दिक्षु सर्वरत्नमयं तु ते॥
तत्र हृष्टाश्चाप्सरसो ननृतुर्दशधा शुभाः॥ ३५.७ ॥
मातरो मङ्गलान्यस्य जगुः स्कन्दस्य नन्दिताः॥
इन्द्राद्या ननृतुस्तत्र स्वयं विष्णुश्च वादकः॥ ३५.८ ॥
पेतुः खात्पुष्पवर्षाणि देववाद्यानि सस्वनुः॥
एवं स्तम्भं समारोप्य जयाख्यं विश्वनन्दकः॥ ३५.९ ॥
स्तम्भेश्वरस्ततो देवः स्थापितस्त्र्यक्षसूनुना॥
विरिञ्चिप्रमुखैर्देवैर्जातानन्दैः समं तदा॥ ३५.१० ॥
हरिहरादित्युक्तैस्तैः सेन्द्रैर्मुनिगणैरपि॥
तस्यैव पश्चिमे भागे शक्त्यग्रेण महात्मना॥ ३५.११ ॥
गुहेन निर्मितः कूपो गङ्गा तत्र तलोद्भवा॥
माघस्य च चतुर्दश्यां कृष्णायां पितृतर्पणम्॥ ३५.१२ ॥
कूपे स्नानं नरः कृत्वा भक्त्या यः पाण्डुनन्दन॥
गयाश्राद्धेन यत्पुण्यं तत्फलं लभते स्फुटम्॥ ३५.१३ ॥
स्तम्भेश्वरं ततो देवं गन्धपुष्पैः प्रपूजयेत्॥
वाजपेयफलं प्राप्य मोदते रुद्रसद्मानि॥ ३५.१४ ॥
पौर्णमास्याममावास्यां महीसागरसङ्गमे॥
श्राद्धं कृत्वा च योऽभ्यर्च्चेन्त्स्तम्भेश्वरमकल्मषः॥ ३५.१५ ॥
पितरस्तस्य तृप्यन्ति तृप्ता यच्छन्ति चाशिषः॥
स भित्त्वा सर्वपापानि रुद्रलोके महीयते॥ ३५.१६ ॥
इत्याह भगवान्रुद्रः स्कन्दस्य प्रीतये पुरा॥
एवमेव चतुर्थं च स्थापितं लिङ्गमुत्तमम्॥ ३५.१७ ॥
प्रणेमुर्देवताः सर्वे साधुसाध्विति ते जगुः॥ ३५.१८ ॥
इति स्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे स्तम्भेश्वरमाहात्म्यवर्णन नाम पञ्चत्रिंशोऽध्यायः॥ ३५ ॥ छ ॥