३३

[अध्यायः ३३]

वेदव्यासः

अध्यायः ३३
॥नारद उवाच॥
ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि॥
आलिङ्गितमिव पृथ्व्या गुणिन्या गुणिनं यथा॥ ३३.१ ॥

दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः॥
केचित्समीपमागन्तुं बिभ्यति त्रिदिवौकसः॥ ३३.२ ॥

उत्थाय तारको दैत्यः कदा चिन्नो निहन्ति चेत्॥
तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः॥ ३३.३ ॥

आसीद्दीनमनाः पार्थ शुशोच च महामतिः॥
स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत्॥ ३३.४ ॥

शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः॥
पञ्चानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते॥ ३३.५ ॥

स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत्॥
स्वायम्भुवेन गीतश्च श्लोकः संश्रूयते तथा॥ ३३.६ ॥

वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते॥
यथाकथञ्चित्पुरुषो न हन्तव्यस्ततो बुधैः॥ ३३.७ ॥

पापशीलस्य हनने दोषो यद्यपि नास्ति च॥
तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि॥ ३३.८ ॥

तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किञ्चन॥
प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम्॥ ३३.९ ॥

इति संशोचतस्तस्य शिवपुत्रस्य धीमतः॥
वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत्॥ ३३.१० ॥

श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज॥
प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते॥ ३३.११ ॥

स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान्॥
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्॥ ३३.१२ ॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी॥
गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्॥ ३३.१३ ॥

पापिनं पुरुषं यो हि समर्थो न निहन्ति च॥
तस्य तावन्ति पापानि तदर्धं सोऽप्यवाश्रुते॥ ३३.१४ ॥

पापिनो यदि वध्यन्ते नैव पालनसंस्थितैः॥
ततोऽयमक्षमो लोकः कं याति शरणं गुह॥ ३३.१५ ॥

कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः॥
तस्मात्त्वया पुण्यमाप्तं न च पापं कथञ्चन॥ ३३.१६ ॥

अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो॥
तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम्॥ ३३.१७ ॥

आजन्मसम्भवैः पापैः पुमान्येन विमुच्यते॥
आकल्पान्त च वा येन रुद्रलोके प्रमोदते॥ ३३.१८ ॥

कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते॥
रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि॥ ३३.१९ ॥

न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम्॥
श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत्॥ ३३.२० ॥

अकाण्डे यच्च ब्रह्माण्डक्षयोद्युक्तं हलाहलम्॥
कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत्॥ ३३.२१ ॥

दुःखताण्डवदीनोऽभूदण्डसङ्कीर्णमानसः॥
मारमारश्च यो देवः कस्तस्मात्परमो भवेत्॥ ३३.२२ ॥

वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः॥
बभूव यस्य शिरसि कस्तस्मात्परमो भवेत्॥ ३३.२३ ॥

यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा॥
दक्षोऽत्र सत्यदृष्टान्तः कस्तस्मात्परमो भवेत्॥ ३३.२४ ॥

क्षोणी रथो विधिर्यन्ता शरोऽहं मन्दरो धनुः॥
रथाङ्गे चापि चन्द्रार्कौ युद्धे यस्य च त्रैपुरे॥ ३३.२५ ॥

आराधनं तस्य केचिद्योगमार्गेण कुर्वते॥
दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम्॥ ३३.२६ ॥

तस्मात्तस्यार्चयेल्लिङ्गं भुक्तिमुक्ती य इच्छति॥
सृष्ट्यादौ लिङ्गरूपी स विवादो मम ब्रह्मणः॥ ३३.२७ ॥

अभूद्यस्य परिच्छेदे नालमावां बभूविव॥
चराचरं जगत्सर्वं यतो लीनं सदात्र च॥ ३३.२८ ॥

तस्माल्लिङ्गमिति प्रोक्तं देवै रुद्रस्य धीमतः॥
तोयेन स्नापयेल्लिङ्गं श्रद्धया शुचिना च यः॥ ३३.२९ ॥

ब्रह्मादितृणपर्यन्तं तेनेदं तर्पितं जगत्॥
पञ्चामृतेन तल्लिङ्गं स्नापयेद्यश्च बुद्धिमान्॥ ३३.३० ॥

तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम्॥
पुष्पैरभ्यर्चयेल्लिङ्गं यथाकालोद्भवैश्चयः॥ ३३.३१ ॥

तेन सम्पूजितं विश्वं सकलं नात्र संशयः॥
नैवेद्यं तत्र यो दद्याल्लिङ्गस्याग्रे विचक्षणः॥ ३३.३२ ॥

भोजितं तेन विश्वं स्याल्लिङ्गस्यैवं फलं महत्॥
किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु॥ ३३.३३ ॥

लिङ्गस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम्॥
तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः॥ ३३.३४ ॥

स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते॥
यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः॥ ३३.३५ ॥

तच्च स्थापयतो लिङ्गं शिवस्य शुभलक्षणम्॥
यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते॥ ३३.३६ ॥

तथैव सर्वजगतां मुखं लिङ्गं न संशयः॥
प्रारम्भान्मुच्यते पापैः सर्वजन्मकृतैरपि॥ ३३.३७ ॥

अतीतं च तथागामि कुलानां तारयेच्छतम्॥
मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च॥ ३३.३८ ॥

कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम्॥
कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः॥ ३३.३९ ॥

आकल्पान्तं रुद्रलोके मोदते रुद्रवत्सुखी॥
एवंविधफलं लिङ्गमतो भूयोऽप्यधो न हि॥ ३३.४० ॥

तस्मादत्र महासेन लिङ्गं स्थापितुमर्हसि॥
यदुक्तमेतदश्लीलं यदि किञ्चन चात्र चेत्॥ ३३.४१ ॥

तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः॥
एवं वदति गोविन्दे साधुवादो महानभूत्॥ ३३.४२ ॥

महादेवो ह्यथालिङ्ग्य स्कन्दं वचनब्रवीत्॥
यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम्॥ ३३.४३ ॥

तेनापि परमा प्रीतिर्मम जाता तवोपरि॥
किं तु यद्भगवानाह वासुदेवो जगद्गुरुः॥ ३३.४४ ॥

तत्त्था नान्यथा किञ्चिदत्र प्रोक्तं हि विष्णुना॥
यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता॥ ३३.४५ ॥

नावयोरन्तरं किञ्चिद्दीपयोरिव सुव्रत॥
एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः॥ ३३.४६ ॥

इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि॥ ३३.४७ ॥

॥स्कन्द उवाच॥
एवमेवास्मि जानामि त्वां च विष्णुं च शङ्कर॥ ३३.४८ ॥

यच्च लिङ्गकृते प्राह हरिर्मां धर्मवत्सलः॥
खे वाणी तारकवधे एवमेव पुराह माम्॥ ३३.४९ ॥

लिङ्गं संस्थापयिष्यामि सर्वपापा पहं ततः॥
एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च॥ ३३.५० ॥

द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत्॥
तृतीयं यत्र निहतो हत्या पापोपशान्तिदम्॥ ३३.५१ ॥

इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः॥
त्रीणि लिङ्गानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि॥ ३३.५२ ॥

वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः॥
त्रीणि लिङ्गानि शुद्धानि न्यवेदयत तानि च॥ ३३.५३ ॥

ततो ब्रह्मादिभिः सार्धं विष्णुना शङ्करेण च॥
पूर्वं संस्थापयामास पश्चिमायामदूरतः॥ ३३.५४ ॥

प्रतिज्ञेश्वरमित्येव लिङ्गं परमशोभनम्॥
अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च॥ ३३.५५ ॥

पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः॥
इत्याह स्कन्दप्रीत्यर्थं स्वयं तत्र महेश्वरः॥ ३३.५६ ॥

ततो द्वितीयं लिङ्गं तु वह्निकोणाश्रितं तथा॥
स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ॥ ३३.५७ ॥

कपालेश्वरमित्येव लिङ्गं पापापहं शुभम्॥
शक्तिं च तामभिष्टूय स्थापयामास तत्र च॥ ३३.५८ ॥

कपालेश्वरसान्निध्यं देवीं कापालिकेश्वरीम्॥
तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते॥ ३३.५९ ॥

पातालगङ्गा यत्रास्तिं सर्वपापहरा शिवा॥
तत्र स्नात्वा ददौ स्कन्दः कृपयाभिपरिप्लुतः॥ ३३.६० ॥

तदा तोयं तारकाय सहितः सर्वदैवतैः॥ ३३.६१ ॥

काश्यपेयाय वज्राङ्गतनयाय महात्मने॥
रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति॥ ३३.६२ ॥

ततो महेश्वरः प्रीतः प्राह स्कन्दस्य श्रृण्वतः॥
चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः॥
स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्॥ ३३.६३ ॥

तेजोवधसमुद्भूतपातकेन स मुच्यते॥ ३३.६४ ॥

अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम्॥
षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि॥
स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति॥ ३३.६५ ॥

कपालेशस्य सान्निध्ये शक्तिच्छिद्रं हि कीर्त्यते॥
तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते॥ ३३.६६ ॥

इति श्रुत्वा रुद्रवाक्यं स्कन्दः प्रीतोऽभवद्भृशम्॥
देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः॥ ३३.६७ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारस्थापितज्ञेश्वरशक्तिच्चिद्रेश्वर माहात्म्यवर्णनं नाम त्रयस्त्रिंशो.़ध्यायः॥ ३३ ॥ छ ॥