[अध्यायः ३१]
वेदव्यासः
अध्यायः ३१
॥नारद उवाच॥
ते चैनं योज्य चाशीर्भिरयाचन्त वरं गुहम्॥
एष एव वरोऽस्माकं यत्पापं तारकं जहि॥ ३१.१ ॥
एवमस्त्विति तानुक्त्वा योगोयोग इति ब्रुवन्॥
तारकारिमहातेजा मयूरं चाध्यरोहत॥ ३१.२ ॥
शक्तिहस्तो विनद्याथ गुहो देवांस्तदाब्रवीत्॥
यद्यद्य तारकं पापं नाहं हन्मि सुरोत्तमाः॥ ३१.३ ॥
गोब्राह्मणावमन्तॄणां ततो यामि गतिं स्फुटम्॥
एवं तेन प्रतिज्ञाते शब्दोऽतिसुमहानभूत्॥ ३१.४ ॥
योगोयोग इति प्राहुराज्ञया शरजन्मनः॥
अरजो वाससी रक्ते वसानः पार्वतीसुतः॥ ३१.५ ॥
अथाग्रे सर्वदेवानां स्थितो वीरो ययौ मुदा॥
तस्य केतुरलं भाति चरणायुधशोभितः॥ ३१.६ ॥
चरणाभ्यां चरणाभ्यां गिरीञ्छक्तो यो विदारयितुं रणे॥
या चेष्टा सर्वभूतानां प्रभा शान्तिर्बलं यथा॥ ३१.७ ॥
तन्मया गुहशक्तिः सा भृशं हस्ते व्यरोचत॥
यद्दार्ढ्यं सर्वलोकेषु तन्मयं कवचं तथा॥ ३१.८ ॥
योत्स्यमानस्य वीरस्य देहेप्रादुरभूत्स्वयम्॥
धर्मः सत्यमसम्मोहस्तेजः कान्तत्वमक्षतिः॥ ३१.९ ॥
बलमोजः कृपा चव बद्धा करयुगं तथा॥
आदेशकारीण्यग्रेऽस्य स्वयं तस्थुर्महात्मनः॥ ३१.१० ॥
तमग्रे चापि गच्छन्तं पृष्ठतोनुययौ हरः॥
रथेनादित्यवर्णेन पार्वत्या सहितः प्रभुः॥ ३१.११ ॥
निर्मितेन हरेणैव स्वयमीशेन लीलया॥
सहस्रं तस्य सिंहानां तस्मिन्युक्तं रथोत्तमे॥ ३१.१२ ॥
अभीषून्पुरुषव्याघ्र ब्रह्मा च जगृहे स्वयम्॥
ते पिबन्त इवाकाशं त्रासयन्तश्चराचरम्॥ ३१.१३ ॥
सिंहा रथस्य गच्छन्तो नदन्तश्चारुकेसराः॥
तस्मिन्रथे पशुपतिः स्थितो भात्युमया सह॥ ३१.१४ ॥
विद्युता मेडितः सूर्यः सेन्द्रचापघनो यथा॥
अग्रतस्तस्य भगवान्धनेशो गुह्यकैः सह॥ ३१.१५ ॥
आस्थाय रुचिरं याति पुष्पकं नरवाहनः॥
ऐरावणं समास्ताय शक्रश्चापि सुरैः सह॥ ३१.१६ ॥
पृष्ठतोनुययौ यान्तं वरदं वृषभध्वजम्॥
तस्य दक्षिणतो देवा मरुतश्चित्रयोधिनः॥ ३१.१७ ॥
गच्छन्ति वसुभिः सार्धं रुद्रैश्च सह सङ्गताः॥
यमश्च मृत्युना सार्धं सर्वतः परिवारितः॥ ३१.१८ ॥
घोरैर्व्याधिशतैश्चापि सव्यतो याति कोपितः॥
यमस्य पृष्ठतश्चापि घोरस्त्रिशिखरः सितः॥ ३१.१९ ॥
विजयोनाम रुद्रस्य याति शूलः स्वयं कृतः॥
तमुग्रपाशो भगवन्वरुणः सलिलेश्वरः॥ ३१.२० ॥
परिवार्य शतैयाति यादोभिर्विविधैर्वृतः॥
पृष्ठतो विजयस्यापि याति रुद्रस्य पट्टिशः॥ ३१.२१ ॥
गदामुशलशक्त्याद्यैर्वरप्रहरणैर्वृतः॥
पट्टिशं चान्वगात्पार्थ अस्त्रं पाशुपतं महत्॥ ३१.२२ ॥
बहुशीर्षं महाघोरमेकपादं बहूदरम्॥
कमण्डलुश्चास्य पश्चान्महर्षिगणसेवितः॥ ३१.२३ ॥
तस्य दक्षिणतो भाति दण्डो गच्छञ्छ्रिया वृतः॥
भृग्वङ्गिरोभिः सहितो देवैरप्य भिपूजितः॥ ३१.२४ ॥
राक्षसाश्चान्यदेवाश्च गन्धर्वा भुजगास्तथा॥
नद्यो नदाः समुद्राश्च मुनयोऽप्सरसां गणाः॥ ३१.२५ ॥
नक्षत्राणि ग्रहाश्चैव जङ्गमं स्थावरं तथा॥
मातरश्च महादेवमनुजग्मुः क्षुधान्विताः॥ ३१.२६ ॥
सर्वेषां पृष्ठतश्चासीत्तार्क्ष्यस्थो बुद्धिमान्हरिः॥
पालयन्पृतनां सर्वां स्वपरीवारसंवृतः॥ ३१.२७ ॥
एवं सैन्यसमोपेत उत्तरं तटमागतः॥
ताम्रप्राकारमाश्रित्य तस्थौ त्र्यम्बकनन्दनः॥ ३१.२८ ॥
स तारकपुरस्यापि पश्यनृद्धि मनुत्तमाम्॥
विसिष्मिये महासेनः प्रशशम्स तपोऽस्य च॥ ३१.२९ ॥
स्थितः पश्यन्स शुशुभे मयूरस्थो गुहस्तदा॥
छत्रेण ध्रियमाणेन स्वयं सोमसमस्त्विषा॥ ३१.३० ॥
वीज्यमानश्चामराभ्यां वाय्वग्रिभ्यां महाद्युतिः॥
मातृभिश्च सुरैर्दत्तैः स्वैर्गणैरपि संवृतः॥ ३१.३१ ॥
ततः प्रणम्य तं शक्रो देव मध्ये वचोऽब्रवीत्॥
पश्यपश्य महासेन दैत्यानां बलशालिनाम्॥ ३१.३२ ॥
ये त्वां कालं न जानन्ति मर्त्या गृहरता इव॥
एतेषां च गृहे दूतो यस्त्वां शंसतु तारकम्॥ ३१.३३ ॥
वीराणामुचितं त्वेतत्कीर्तिदं च महाजने॥
अनुज्ञया ततः स्कन्दभक्तं शक्रो धनञ्जय॥ ३१.३४ ॥
मामादिश्यासुरेन्द्राय प्राहिणोद्दौत्ययोग्यकम्॥
अहं स्वयं गन्तुकामः शक्रेणापि च प्रेषितः॥ ३१.३५ ॥
प्रासादे स्त्रीसहस्राणां प्रावोचं मध्यतोऽप्यहम्॥
असुराधमदुर्बुद्धे शक्रस्त्वामाह तच्छृणु॥ ३१.३६ ॥
यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया॥
तस्याहं नाशकस्तेऽद्य पुरुषश्चेद्भविष्यसि॥ ३१.३७ ॥
शीघ्रं निःसर पापिष्ठ निःसरिष्यसि चेन्न हि॥
क्षणात्तव पुरं क्षेप्स्ये पावित्र्यायैव सागरे॥ ३१.३८ ॥
इति श्रुत्वा रूक्षवाचं क्रुद्धः स्त्रीगणसंवृतः॥
मुष्टिमुद्यम्यमाऽधावद्भीतश्चाहं पलायितः॥ ३१.३९ ॥
व्याकुलस्तत्र वृत्तान्तं कुमाराय न्यवेदयम्॥
मयि चाप्यागते दैत्यश्चिन्तयामास चेतसि॥ ३१.४० ॥
नालब्ध संश्रयः शक्रो वक्तुमेतदिहार्हति॥
निमित्तानि च घोराणि सन्त्रासं जनयन्ति मे॥ ३१.४१ ॥
एवं विचिन्त्य चोत्थाय गवाक्षं सोध्यरोहत॥
सहस्रभौमिकावासश्रृङ्गवातायनस्थितः॥ ३१.४२ ॥
अपश्यद्देवसैन्यं स दिवं भूमिं च संवृतम्॥
रतैर्गजैर्हयैश्चापि नादिताश्च दिशो दश॥ ३१.४३ ॥
विमानैश्चाद्भुताकारैः किन्नरोद्गीतनादितैः॥
दुन्दुभिभिर्गोविषाणैस्तालैः शङ्खैश्च नादितैः॥ ३१.४४ ॥
अक्षोभ्यामिव तां सेनां दृष्ट्वा सोऽचिन्तयत्तदा॥
एते मया जिताः पूर्वं कस्माद्भूयः समागताः॥ ३१.४५ ॥
इति चिन्तापरो दैत्यः शुश्राव कटुकाक्षरम्॥
देवबन्दिभिरुद्वुष्टं घोरं हृदयदारणम्॥ ३१.४६ ॥
जयातु लशक्तिदीधितिपिञ्जररुचारुणमण्डलभुजोद्भासितदेवसैन्य पुरवनकुमुदकाननविकासनेन्दो कुमारनाथ जय दितिकुलमहोदधिवडवानल मधुररवमयूररवासुरमुकुटकूटकुट्टितचरणनखाङ्कुर महासेन तारकवंशशुष्कतृमदावानल योगीश्वरयॉ योगिजनहृदयगगनविततचिन्तासन्तानसन्तमसनोदनखरकिरणकल्पनखनिकरविराजितचरणकमल स्कन्द जय बाल सप्तवासर भुवनावलिशोकसन्दहन॥ ३१.४७ ॥
नमो नमस्तेस्तु मनोरमाय नमोस्तु ते साधुभयापहाय॥
नमोस्तु ते बालकृताचलाय नमोनमो नाशय देवशत्रून्॥ ३१.४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारस्य तारकासुनरनगरं प्रति गमनवर्णनन्नामैकत्रिंशोऽध्यायः॥ ३१ ॥ छ ॥