३०

[अध्यायः ३०]

वेदव्यासः

अध्यायः ३०
॥नारद उवाच॥
ततः स्कन्दः सुरैः सार्धं श्वेतपर्वत मस्तकात्॥
उत्तीर्य तारकं हन्तुं दक्षिणां स दिशं ययौ॥ ३०.१ ॥

ततः सरस्वतीतीरे यानि भूतानि नारद॥
ग्रहाश्चोपग्रहाश्चैव वेतालाः शाकिनी गणाः॥ ३०.२ ॥

उन्मादा ये ह्यपस्माराः पलादाश्च पिशाचकाः॥
देवैस्तेषामाधिपत्ये सोऽभ्यषिच्यत पावकिः॥ ३०.३ ॥

यथा ते नैव मर्यादां सन्त्यजन्ति दुराशयाः॥
एतैस्तस्मात्समाक्रान्तः शरण्यं पावकिं व्रजेत्॥ ३०.४ ॥

अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम्॥
आस्तिकं स्कन्दभक्तं च वर्जयन्ति ग्रहादिकाः॥ ३०.५ ॥

महेश्वरं च ये भक्ता भक्ता नारायणं च ये॥
तेषां दर्शनमात्रेण नश्यन्ते ते विदूरतः॥ ३०.६ ॥

ततः सर्वैः सुरैः सार्धं महीतीरं ययौ गुहः॥
तत्र देवैः प्रकथितं महीमाहात्म्यमुत्तमम्॥ ३०.७ ॥

श्रृण्वन्विसिष्मिये स्कन्दः प्रणनाम च तां नदीम्॥
ततो महीदक्षिणतस्तीरमाश्रित्य धिष्ठितम्॥ ३०.८ ॥

प्रणम्य शक्रप्रमुखा गुहं वचनमब्रुवन्॥
अभिषिक्तं विना स्कन्द सेनापतिमकल्मषम्॥ ३०.९ ॥

न शर्म लभते सेना तस्मात्त्वमभिषेचय॥
महीसागरसम्भूतैः पुण्यैश्चापि शिवैर्जलैः॥ ३०.१० ॥

अभिषेक्ष्यामहे त्वां च तत्र नो द्रष्टुमर्हसि॥
यथा हस्तिपदे सर्वपदान्तर्भाव इष्यते॥ ३०.११ ॥

सर्वतीर्थान्तरस्थानं तथार्णवमहीजले॥
सर्वभूतमयो यद्वत्र्यम्बकः परिकीर्त्यते॥ ३०.१२ ॥

सर्वतीर्थमयस्तद्वन्महीसागरसङ्गमः॥
अर्धनारीश्वरं रूपं यथा रुद्रस्य सर्वदम्॥ ३०.१३ ॥

तथा महीसमुद्रस्य स्नानं सर्वफलप्रदम्॥
येनात्र पितरः स्कन्द तर्पिता भक्तिभावतः॥ ३०.१४ ॥

तेन सर्वेषु तीर्थेषु तर्पिता नात्र संशयः॥
न चैतद्धृदि मन्तव्यं क्षारमेतज्जलं हि यत्॥ ३०.१५ ॥

यथा हि कटुतिक्तादि गवा ग्रस्तं हि क्षीरदम्॥
एवमेतत्त्विदं तोयं पितॄणां तृप्ति दायकम्॥ ३०.१६ ॥

एवं ब्रुवत्सु देवेषु कपिलोऽपि मुनिर्जगौ॥
सत्यमेतदुमापुत्र सर्वतीर्थमयी मही॥ ३०.१७ ॥

कर्दमो यस्त्वहमपि ज्ञात्वा तीर्थमहा गुणान्॥
सर्वां भुवं परित्यज्य कृत्वा ह्यश्रममास्तितः॥ ३०.१८ ॥

ततो महेश्वरः प्राह सत्यमेतत्सुरोदितम्॥
ब्रह्माद्यास्तं तथा प्राहुरत्र भूयोऽप्यथो गुरुः॥ ३०.१९ ॥

अत्राभिषेकं ते वीर करिष्यामः समादिश॥
ततः सुविस्मितस्तत्र स्नात्वा स्कन्दो महामनाः॥ ३०.२० ॥

अभिषिञ्चन्तु मां देवा इति तानब्रवीद्वचः॥
ततोऽभिषेकसम्भारान्सर्वान्सम्भृत्य शास्त्रतः॥ ३०.२१ ॥

जुहुवुर्मन्त्रपूतेऽग्नौ चत्वारो मुख्यऋत्विजः॥
ब्रह्मा च कपिलो जीवो विश्वामित्रश्चतुर्थकः॥ ३०.२२ ॥

अन्ये च शतशस्तत्र मुनयो वेदपारगाः॥
तत्राद्भुतं महादेवो दर्शयामास भारत॥ ३०.२३ ॥

यदग्निकुण्डमध्यस्थो लिङ्गमूर्तिर्व्यदृश्यत॥
अहमेवाग्निमध्यस्थो हविर्गृह्णामि नित्यशः॥ ३०.२४ ॥

एतत्सन्दर्शनार्थाय लिङ्गमूर्तिरभूद्विभुः॥
तल्लिङ्गमतुलं देवा नमश्चक्रुर्मुदान्विताः॥ ३०.२५ ॥

सर्वपापापहं पार्थ सर्वकामफलप्रदम्॥
तत्र होमावसाने च दत्ते हिमवता शुभे॥ ३०.२६ ॥

दिव्यरत्नान्विते स्कन्दो निषण्णः परमासने॥
सर्वमङ्गलसम्भारैर्विधिमन्त्रपुरस्कृतम्॥ ३०.२७ ॥

अभ्यषिञ्चंस्ततो देवाः कुमारं शङ्करात्मजम्॥
इन्द्रो विष्णुर्महावीर्यो ब्रह्मरुद्रौ च फाल्गुन॥ ३०.२८ ॥

आदित्याद्य ग्रहाः सर्वे तथोभावनिलानलौ॥
आदित्या वसवो रुद्राः साध्याश्चैवाश्विनावुभौ॥ ३०.२९ ॥

विश्वेदेवाश्च मरुतो गन्धर्वाप्सरसस्तथा॥
देवब्रह्मर्षयश्चैव वालखिल्या मरीचिपाः॥ ३०.३० ॥

विद्याधरा योगसिद्धाः पुलस्त्यपुलहादयः॥
पितरः कश्यपोऽत्रिश्च मरीचिर्भृगुरङ्गिराः॥ ३०.३१ ॥

दक्षोऽथ मनवो ये च ज्योतींषि ऋतवस्तथा॥
मूर्तिमत्यश्च सरितो महीप्रभृतिकास्तथा॥ ३०.३२ ॥

लवणाद्याः समुद्राश्च प्रभासाद्याश्च तीर्थकाः॥
पृथिवी द्यौर्दिशश्चैव पादपाः पार्वतास्तथा॥ ३०.३३ ॥

आदित्याद्या मातरश्च कुर्वन्त्यो गुहमङ्गलम्॥
वासुकिप्रमुखा नागास्थथोभौ गरुडारुणौ॥ ३०.३४ ॥

वरुणो धनदश्चैव यमः सानुचरस्तथा॥
राक्षसो निर्ऋतिश्चैव भूतानि च पलाशनाः॥ ३०.३५ ॥

धर्मो बृहस्पतिश्चैव कपिलो गाधिनन्दनः॥
बहुलत्वाच्च ये नोक्ता विविधा देवतागणाः॥ ३०.३६ ॥

ते च सर्वे महीकूले ह्यभ्यषिञ्चन्मुदा गुहम्॥
ततो महास्वनामुग्रां देवदैत्यादिदर्पहाम्॥ ३०.३७ ॥

ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम्॥
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम्॥ ३०.३८ ॥

उमा ददौ चारजसी वाससी सूर्यसप्रभा॥
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम्॥ ३०.३९ ॥

मही महानदी तस्य चाक्षमालां ससागरा॥
ददौ मुदा कुमाराय दण्डं चैव बृहस्पतिः॥ ३०.४० ॥

गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम्॥
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम्॥ ३०.४१ ॥

छागं च वरुणो राजा बलवीर्यसमन्वितम्॥
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ जयम्॥ ३०.४२ ॥

चतुरोऽनुचरांश्चैव महावीर्यान्बलोत्कटान्॥
नन्दिसेनं लोहिताक्षं घण्टाकर्णं च मानसान्॥ ३०.४३ ॥

चतुर्थं चाप्यतिबलं ख्यातं कुसुममालिनम्॥
ततः स्थाणुर्ददौ देवो महापारिषदं क्रतुम्॥ ३०.४४ ॥

स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम्॥
जघान दोर्भ्यां सङ्क्रुद्धः प्रयुतानि चतुर्दश॥ ३०.४५ ॥

यमः प्रादादनुचरौ यमकालोपमौ तदा॥
उन्माथं च प्रमाथं च महावीर्यौ महाद्युती॥ ३०.४६ ॥

सुभ्राजौ भास्करस्यैव यौ सदा चानुयायिनौ॥
तौ सूर्यः कार्तिकेयाय ददौ पार्थ मुदान्वितः॥ ३०.४७ ॥

कैलासश्रृङ्गसङ्काशौ श्वेतमाल्यानुलेपनौ॥
सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च॥ ३०.४८ ॥

ज्वालजिह्वं ज्योतिषं च ददावग्निर्महाबलौ॥
परिघं च बलं चैव भीमं च सुमहाबलम्॥ ३०.४९ ॥

स्कन्दाय त्रीननुचरान्ददौ विष्णुरुरुक्रमः॥
उत्क्रोशं पञ्चजं चैव वज्रदण्डधरावुभौ॥ ३०.५० ॥

ददौ महेशपुत्राय वासवः परवीरहा॥
तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून्॥ ३०.५१ ॥

वर्धनं बन्धनं चैव आयुर्वेदविशारदौ॥
स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ॥ ३०.५२ ॥

बलं चातिबलं चैव महावक्त्रौ महाबलौ॥
प्रददौ कार्तिकेयाय वायुश्चानुचरावुभौ॥ ३०.५३ ॥

घसं चातिघसं वीरौ वरुणश्च ददौ प्रभुः॥
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम्॥ ३०.५४ ॥

हिमवान्प्रददौ पार्थ साक्षाद्दौहित्रकाय वै॥
काञ्चनं च ददौ मेरुर्मेघमालिनमेव च॥ ३०.५५ ॥

उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ॥
स्वाहेयाय ददौ प्रीतः स विन्ध्यः पार्षदौ शुभौ॥ ३०.५६ ॥

सङ्ग्रहं विग्रहं चैव समुद्रोऽपि गधाधरौ॥
प्रददौ पार्षदौ विरौ महीनद्या समन्वितः॥ ३०.५७ ॥

उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च॥
प्रददावग्निपुत्राय पार्वती शुभदर्शना॥ ३०.५८ ॥

जयं महाजयं चैव नागौ ज्वलनसूनवे॥
प्रददुर्बलिनां श्रेष्ठौ सुपर्णः पार्षदावुभौ॥ ३०.५९ ॥

एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा॥
सर्वे जगति ये मुख्या ददुः स्कन्दाय पार्षदान्॥ ३०.६० ॥

नानावीर्यान्महावीर्यान्नानायुधविभूषणान्॥
बहुलत्वान्न शक्यन्ते सङ्ख्यातुं ते च फाल्गुन॥ ३०.६१ ॥

मातश्च ददुस्तस्मै तदा मातृगणान्प्रभो॥
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः॥ ३०.६२ ॥

प्रभावती विशालाक्षी गोपाला गोनसा तथा॥
अप्सुजाता बृहद्दण्डी कालिका बहुपुत्रका॥ ३०.६३ ॥

भयङ्करी च चक्राङ्गी तीर्थनेमिश्च माधवी॥
गीतप्रिया अलाताक्षी चटुला शलभामुखी॥ ३०.६४ ॥

विद्युज्जिह्वा रुद्रकाली शतोलूखलमेखला॥
शतघण्टाकिङ्किणिका चक्राक्षी चत्वरालया॥ ३०.६५ ॥

पूतना रोदना त्वामा कोटरा मेघवाहिनी॥
ऊर्ध्ववेणीधरा चैव जरायुर्जर्जरानना॥ ३०.६६ ॥

खटखेटी दहदहा तथा धमधमा जया॥
बहुवेणी बहुशीरा बहुपादा बहुस्तनी॥ ३०.६७ ॥

शतोलूकमुखी कृष्णा कर्णप्रावरणा तथा॥
शून्यालया धान्यवासा पशुदा धान्यदा सदा॥ ३०.६८ ॥

एताश्चान्याश्च बह्व्यश्च मातरो भरतर्षभ॥
बहुलत्वादहं तासां न सङ्ख्यातुमिहोत्सहे॥ ३०.६९ ॥

वृक्षचत्वरवासिन्यश्चतुष्पथनिवेशनाः॥
गुहास्मशानवासिन्यः शैलप्रस्रवणालयाः॥ ३०.७० ॥

नानाभरणवेषास्ता नानामूर्तिधरास्तथा॥
नानाभाषायुधधराः परिवव्रुस्तदा गुहम्॥ ३०.७१ ॥

ततः स शुशुभे श्रीमान्गुहो गुह इवापरः॥
सैनापत्ये चाभिषिक्तो देवैर्नानामुनीश्वरैः॥ ३०.७२ ॥

ततः प्रणम्य सर्वांस्ता नेकैकत्वेन पावकिः॥
व्रियतां वर इत्याह भवब्रह्मपुरोगमान्॥ ३०.७३ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कार्तिकेयस्य सेनानीत्वेऽभिषेकवर्णनन्नाम त्रिंशोऽध्यायः॥ ३० ॥ छ ॥