[अध्यायः २९]
वेदव्यासः
अध्यायः २९
॥नारद उवाच॥
व्रजन्ती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनीन्नाम तस्य शैलस्य देवताम्॥ २९.१ ॥
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिङ्ग्योवाच देवता॥ २९.२ ॥
सा चास्यै सर्वमाचख्यौ शङ्करात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसम्मताम्॥ २९.३ ॥
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २९.४ ॥
तदहं सम्प्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २९.५ ॥
त्वयाख्येयं मम शुभे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २९.६ ॥
रम्ये तत्र महाशृङ्गे नानाश्चर्योपशोभिते॥
विभूषणादि सन्न्यस्य वृक्षवल्कलधारिणी॥ २९.७ ॥
तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पञ्चाग्निसन्तप्ता वर्षासु च जलोषिता॥ २९.८ ॥
स्थण्डिलस्था च हेमन्ते निराहारा तताप सा॥
एतस्मिन्नन्तरे दैत्यो ह्यन्धकस्य सुतो बली॥ २९.९ ॥
ज्ञात्वा गतां गिरिसुतां पितुर्वैरमनुस्मरन्॥
आडिर्नाम बकभ्राता रहस्यान्तरप्रेक्षकः॥ २९.१० ॥
जिते किलान्धके दैत्ये गिरिशेनामरद्विषि॥
आडिश्चकार विपुलं तपो हरजिगीषया॥ २९.११ ॥
तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः॥
ब्रूहि किं वासुरश्रेष्ठ तपसा प्राप्तुमिच्छसि॥ २९.१२ ॥
ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे॥
॥ब्रह्मोवाच॥
न कश्चिच्च विना मृत्युं जन्तुरासुर विद्यते॥ २९.१३ ॥
यतस्ततोऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसम्भवम्॥ २९.१४ ॥
रूपस्य परिवर्तो मे यदा स्यात्पद्मसम्भव॥
तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम्॥ २९.१५ ॥
इत्युक्तस्तं तथेत्याह तुष्टः कमलसम्भवः॥
इत्युक्तोऽमरतां मेने दैत्यराज्यस्थितोऽसुरः॥ २९.१६ ॥
आजगाम स च स्थानं तदा त्रिपुरघातिनः॥
आगतो ददृशे तं च वीरकं द्वार्यवस्थितम्॥ २९.१७ ॥
तं चासौ वञ्चयित्वा च आडिः सर्पशरीरभृत्॥
अवारितो वीरकेण प्रविवेश हरान्तिकम्॥ २९.१८ ॥
भुजङ्गरूपं सन्त्यज्य बभूवाथ महासुरः॥
उमारूपी छलयितुं गिरिशं मूढचेतनः॥ २९.१९ ॥
कृत्वोमायास्ततो रूपमप्रतर्क्यमनोहरम्॥
सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम्॥ २९.२० ॥
चक्रे भगान्तरे दैत्यो दन्तान्वज्रोपमान्दृढान्॥
तीक्ष्णाग्रान्बुद्धिमोहेन गिरिशं हन्तुमुद्यतः॥ २९.२१ ॥
कृत्वोमारूपमेवं स स्थितो दैत्यो हरान्तिके॥
तां दृष्ट्वा गिरिशस्तुषुटः समालिङ्ग्य महासुरम्॥ २९.२२ ॥
मन्यमानो गिरिसुतां सर्वै रवयवान्तरैः॥
अपृच्छत्साधु ते भावो गिरिपुत्री ह्यकृत्रिमा॥ २९.२३ ॥
या त्वं मदशयं ज्ञात्वा प्राप्तेह वरवर्णिनि॥
त्वया विरहितः शून्यं मन्योस्मिन्भुवनत्रये॥ २९.२४ ॥
प्राप्ता प्रसन्ना या त्वं मां युक्तमेवंविधं त्वयि॥
इत्युक्ते गूहयंश्चेष्टामुमारूप्यसुरोऽब्रवीत्॥ २९.२५ ॥
यातास्मि तपसश्चर्तुं कालीवाक्यात्तवातुलम्॥
रतिश्च तत्र मे नाभूत्ततः प्राप्ता तवान्तिकम्॥ २९.२६ ॥
इत्युक्तः शङ्करः शङ्कां किञ्चित्प्राप्यवधारयत्॥
कुपिता मयि तन्वङ्गी प्रत्यक्षा च दृढव्रता॥ २९.२७ ॥
अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम॥
रहसीति विचिन्त्याथ अभिज्ञानाद्विचारयन्॥ २९.२८ ॥
नापश्यद्वामपार्श्वे तु तस्याङ्कं पद्मलक्षणम्॥
लोम्नामावर्तचरितं ततो देवः पिनाकधृक्॥ २९.२९ ॥
बुद्धा तां दानवीं मायां किञ्चित्प्रहसिताननः॥
मेढ्रे रौद्रास्त्रमाधाय चक्रे दैत्यमनोरथम्॥ २९.३० ॥
स रुदन्भैरवाज्रावानवसादं गतोऽसुरः॥
अबुध्यद्वीरको नैतदसुरेन्द्रनिषूदनम्॥ २९.३१ ॥
हते च मारुतेनाशुगामिना नगदेवता॥
अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यां न्यवेदयत्॥ २९.३२ ॥
श्रुत्वा वायुमुखाद्देवी क्रोधरक्तातिलोचना॥
अपस्यद्वीरकं पुत्रं हृदयेन विदूयता॥ २९.३३ ॥
मातरं मां परित्यज्य यस्मात्त्वं स्नेहविह्वलाम्॥
विहितावसरः स्त्रीणां शङ्करस्य रहोविधौ॥ २९.३४ ॥
तस्मात्ते परुषा रूक्षा जडा हृदय वर्जिता॥
गणेशाक्षरसदृशा शिला माता भविष्यति॥ २९.३५ ॥
एवमुत्सृष्टशापाया गिरिपुत्र्यास्त्वनन्तरम्॥
निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः॥ २९.३६ ॥
पश्चात्तापं समश्रित्य तया देव्या विसर्जितः॥
स तु सिंहः करालास्यो महाकेसरकन्धरः॥ २९.३७ ॥
प्रोद्धूतबललाङ्गूलदंष्ट्रोत्कट गुहामुखः॥
व्यावृतास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः॥ २९.३८ ॥
तस्यास्ये वर्तितुं देवी व्यवस्यत सती तदा॥
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः॥ २९.३९ ॥
आजगामाश्रमपन्द सम्पदामाश्रयं ततः॥
आगम्योवाच तां ब्रह्मा गिरिजां मृष्टया गिरा॥ २९.४० ॥
किं देवी प्राप्तुकामासि किमलभ्यं ददामि ते॥
तच्छ्रुत्वोवाच गिरिजा गुरुगौरवगर्भितम्॥ २९.४१ ॥
तपसा दुष्करेणाप्तः पतित्वे शङ्करो मया॥
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः॥ २९.४२ ॥
स्यामहं काञ्चनाकारा वाल्लभ्येन च संयुता॥
भर्तुर्भूतपतेरङ्गे ह्येकतो निर्विशङ्किता॥ २९.४३ ॥
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच जलजासनः॥
एवं भवतु भूयस्त्वं भर्तुर्देहार्धधारिणी॥ २९.४४ ॥
ततस्तस्याः शरीरात्तु स्त्री सुनीलाम्बुजत्विषा॥
निर्गता साभवद्भीमा घण्टाहस्ता त्रिलोचना॥ २९.४५ ॥
नानाभरणपूर्णाङ्गी पीतकौशेयवासिनी॥
तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम्॥ २९.४६ ॥
अस्माद्भूधरजा रदेहसम्पर्कात्त्वं ममाज्ञया॥
सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुराकृतिः॥ २९.४७ ॥
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने॥
स तेस्तु वाहनो देवी केतौ चास्तु महाबलः॥ २९.४८ ॥
गच्छ विन्ध्याचले तत्र सुरकार्यं करिष्यति॥
अत्र शुम्भनिशुम्भौ च हत्वा तारकसैन्यपौ॥ २९.४९ ॥
पाञ्चालोनाम यक्षोऽयं यक्षलक्षपदानुगः॥
दत्तस्ते किङ्करो देवी महामायाशतैर्युतः॥ २९.५० ॥
इत्युक्ता कौशिकी देवी ततेत्याह पितामहम्॥
निर्गतायां च कौशिक्यां जाता स्वैराश्रिता गुणैः॥ २९.५१ ॥
सर्वैः पूर्वभवोपात्तैस्तदा स्वयमुपस्तितैः॥
उमापि प्राप्तसङ्कल्पा पश्चात्तापपरायणा॥ २९.५२ ॥
मुहुः स्वं परिनिन्दन्ती जगाम गिरिशान्तिकम्॥
सम्प्रयान्तीं च तां द्वारी अपवार्य समाहितः॥ २९.५३ ॥
रुरोध वीरको देवीं हेमवेत्रलताधरः॥
तामुवाच च कोपेन तिष्ठ तिष्ठ क्व यासि च॥ २९.५४ ॥
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भर्त्स्यसे॥
देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह॥ २९.५५ ॥
प्रविष्टो न च दृष्टोऽसौ स च देवेन घातितः॥
घातिते चाहमाक्षिप्तो नीलकण्ठेन धीमता॥ २९.५६ ॥
कापि स्त्री नापि मोक्तव्या त्वया पुत्रेति सादरम्॥
तस्मात्त्वमत्र द्वारिस्था वर्षपूगान्यनेकशः॥ २९.५७ ॥
भविष्यसि न चाप्यत्र प्रवेशं लप्स्यसे व्रज॥
एका मे प्रविशेदत्र माता या स्नेहवत्सला॥ २९.५८ ॥
नगाधिराजतनया पार्वती रुद्रवल्लभा॥
इत्युक्ता तु ततो देवी चिन्तयामास चेतसा॥ २९.५९ ॥
न सा नारी तु दैत्योऽसौ वायोर्नैवावबासत॥
वृथैव वीरकः शप्तो मया क्रोधपरीतया॥ २९.६० ॥
अकार्यं क्रियते मूढैः प्रायः क्रोधसमन्वितैः॥
क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम्॥ २९.६१ ॥
अपरिच्छिन्नसर्वार्था पुत्रं शापितवत्यहम्॥
विपरीतार्थबोद्धॄणां सुलभा विपदो यतः॥ २९.६२ ॥
सञ्चिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा॥
अधो लज्जाविकारेण वदनेनाम्बुजत्विषा॥ २९.६३ ॥
अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः॥
शङ्करस्यास्मि दयिता सुता तु हिमभूभृतः॥ २९.६४ ॥
मम गात्रस्थितिभ्रान्त्या मा शङ्कां पुत्र भावय॥
तुष्टेन गौरता दत्ता ममेयं पद्मयोनिना॥ २९.६५ ॥
मया शप्तोऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते॥
ज्ञात्वा नारीप्रवेशं तु शङ्करे रहसि स्तिते॥ २९.६६ ॥
न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते॥
मानुष्यां तु शिलायां त्वं शिलादात्सम्भविष्यसि॥ २९.६७ ॥
पुण्ये चाप्यर्बुदारण्ये स्वर्गमोक्षप्रदे नृणाम्॥
अचलेश्वरलिङ्गं तु वर्तते यत्र वीरक॥ २९.६८ ॥
वाराणस्यां विश्वनाथसमं तत्फलदं नृणाम्॥
प्रभासस्य च यात्राभिर्दशभिर्यत्फलं नृणाम्॥ २९.६९ ॥
तदेकयात्रया प्रोक्तमर्बुदस्य महागिरेः॥
यत्र तप्त्वा तपो मर्त्या देहधातून्विहाय च॥ २९.७० ॥
संसारी न पुनर्भूयान्महेश्वरवचो यथा॥
अर्बुदो यदि लभ्येत सेवितुं जन्मदुःखितैः॥ २९.७१ ॥
वाराणसीं च केदारं किं स्मरन्ति वृथैव ते॥
तत्राराध्य भवं देवं भवान्नन्दीति नामभृत्॥ २९.७२ ॥
शीघ्रमेष्यसि चात्रैव प्रतीहारत्वमाप्स्यसि॥
एवमुक्ते हृष्टरोमा वीरकः प्रणिपत्य ताम्॥ २९.७३ ॥
संस्तूय विविधैर्वाक्यैर्मातरं समभाषत॥
धन्योऽहं देवि यो लप्स्ये मानुष्यमतिदुर्लभम्॥ २९.७४ ॥
शापोऽनुग्रहरूपोऽयं विशेषादर्बुदाचले॥
समीपे यस्य पुण्योऽस्ति महीसागरसङ्गमः॥ २९.७५ ॥
ऊधः पृथिव्या देशोऽयं यो गिरेश्चार्णवान्तरे॥
तत्र गत्वा महत्पुण्यमवाप्य भवभक्तितः॥ २९.७६ ॥
पुनरेष्यामि भो मातरित्युक्त्वाभूच्छिलासुतः॥
देवी च प्रविवेशाथ भवनं शशिमौलिनः॥ २९.७७ ॥
॥इत्यार्बुदाख्यानम्॥
ततो दृष्ट्वा च तां प्राह धिग्नार्य इति त्र्यम्बकः॥ २९.७८ ॥
सा च प्रण्म्य तं प्राह सत्यमेतन्न मिथ्यया॥
जडः प्रकृतिभागोयं नार्यश्चार्हन्ति निन्दनाम्॥ २९.७९ ॥
पुरुषाणां प्रसादेन मुच्यन्ते भवसागरात्॥
ततः प्रहृष्टस्तामाह हरो योग्याऽधुना शुभे॥ २९.८० ॥
पुत्रं दास्यामि येन त्वं ख्यातिमाप्स्यसि शोभने॥
ततो रेम हि देव्या स नानाश्चर्यालयो हरः॥ २९.८१ ॥
ततो वर्षसहस्रेषु देवास्त्वरितमानसाः॥
ज्वलनं नोदयामासुर्ज्ञातुं शङ्करचेष्टितम्॥ २९.८२ ॥
द्वारि स्थितं प्रतिहारं वञ्चयित्वा च पावकः॥
पारावतस्य रूपेण प्रविवेश हरान्तिकम्॥ २९.८३ ॥
ददृशे तं च देवेशो विनतां प्रेक्ष्य पार्वतीम्॥
ततस्तां ज्वलनं प्राह नैतद्योग्यं त्वया कृतम्॥ २९.८४ ॥
यदिदं भुक्षुतं स्थानान्मम तेजो ह्यनुत्तमम्॥
गृहाण त्वं सुदुर्बुद्धे नो वा धक्ष्यामि त्वां रुषा॥ २९.८५ ॥
भीतस्ततोऽसौ जग्राह सर्वदेवमुखं च सः॥
तेन ते वह्निसहिता विह्वलाश्च सुराः कृताः॥ २९.८६ ॥
विपाट्य जठराण्येषां वीर्यं माहेश्वरं ततः॥
निष्क्रान्तं तत्सरो जातं पारदं शतयोजनम्॥ २९.८७ ॥
वह्निश्च व्याकुलीभूतो गङ्गायां मुमुचे सकृत्॥
दह्यमाना च सा देवी तरङ्गैर्वहिरुत्सृजत्॥ २९.८८ ॥
जातस्त्रिभुवनक्यातस्तेन च श्वेतपर्वतः॥
एतस्मिन्नन्तरे वह्निराहूतश्च हिमालये॥ २९.८९ ॥
सप्तर्षिभिर्वह्निहोमं कुर्वद्भिर्मन्त्रवीर्यतः॥
आगत्य तत्र जग्राह वह्निर्भागं च तं हुतम्॥ २९.९० ॥
गतेऽह्न्यत्वस्मिंश्च तत्रस्थः पत्नी स्तेषामपश्यत॥
सुवर्णकदलीस्तम्भनिभास्ताश्चन्द्रलेखया॥ २९.९१ ॥
पश्यमानः प्रफुल्लाक्षो वह्निः कामवशं गतः॥
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत्॥ २९.९२ ॥
साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम्॥
पापमेतत्कर्म चोग्रं नश्यामि तृमवत्स्फुटम्॥ २९.९३ ॥
कृत्वैतन्नश्यते कीर्तिर्यावदाचन्द्रतारकम्॥
एवं सञ्चिन्त्य बहुधा गत्वा चैव वनान्तरम्॥ २९.९४ ॥
संयन्तुं नाभवच्छक्त उपायैर्बहुभिर्मनः॥
ततः स कामसन्तप्तो मूर्छितः समपद्यत॥ २९.९५ ॥
ततः स्वाहा च भार्यास्य बुबुधे तद्विचेष्टितम्॥
ज्ञात्वा च चिन्तयामास प्रहृष्टा मनसि स्वयम्॥ २९.९६ ॥
स्वां भार्यामथ मां त्यक्त्वा बहुवासादवज्ञया॥
भार्याः कामयते नूनं सप्तर्षीणां महात्मनाम्॥ २९.९७ ॥
तदासां रूपमाश्रित्य रमिष्ये तेन चाप्यहम्॥
ततस्त्वङ्गिरसो भार्या शिवानामेति शोभना॥ २९.९८ ॥
तस्या रूपं समाधाय पावकं प्राप्य साब्रवीत्॥
मामग्ने कामसन्तप्तां त्वं कामयितुमर्हसि॥ २९.९९ ॥
न चेत्करिष्यसे देव मृतां मामुपधारय॥
अहमङ्गिरसो भार्या शिवानाम हुताशन॥ २९.१०० ॥
सर्वाभिः सहिता प्राप्ता ताश्च यास्यन्त्यनुक्रमात्॥
अस्माकं त्वं प्रियो नित्यं त्वच्चित्ताश्च वयं तथा॥ २९.१०१ ॥
ततः स कामसन्तप्तः सम्बभूव तया सह॥
प्रीते प्रीता च सा देवी निर्जगाम वनान्तरात्॥ २९.१०२ ॥
चिन्तयन्ती ममेदं चेद्रूपं द्रक्ष्यन्ति कानने॥
ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावकात्॥ २९.१०३ ॥
तस्मादेतद्रक्षमाणा गरुडी सम्भवाम्यहम्॥
सुपर्णा सा ततो भूत्वा ददृशे श्वेतपर्वतम्॥ २९.१०४ ॥
शरस्तम्बैः सुसम्पृक्तं रक्षोभिश्च पिशाचकैः॥
सा तत्र सहसा गत्वा शैलपूष्ठं सुदुर्गमम्॥ २९.१०५ ॥
प्राक्षिपत्काञ्चने कुण्डे शुक्रं तद्धारणेऽक्षमा॥
शिष्टानामपि देवीनां सप्तर्षीणां महात्मनाम्॥ २९.१०६ ॥
पत्नीसरूपतां कृत्वा कामयामास पावकम्॥
दिव्यं रूपमरून्धत्याः कर्तुं न शकितं तया॥ २९.१०७ ॥
तस्यास्तपःप्रभावेण भर्तुः शुश्रूषणेन च॥
षट्कृत्वस्तत्तु निक्षिप्तमग्निरेतः कुरुद्वह॥ २९.१०८ ॥
कुण्डेऽस्मिंश्चैत्रबहुले प्रतिपद्येव स्वाहया॥
ततश्च पावको दुःखाच्छुशोच च मुमोह च॥ २९.१०९ ॥
आः पापं कृतमित्येव देहन्यासेऽकरोन्मतिम्॥
ततस्तं खेचरी वाणी प्राह मा मरणं कुरु॥ २९.११० ॥
भाव्यमेतच्च भाव्यर्थात्को हि पावक मुच्यते॥
भाव्यर्थेनापि यत्ते च परदारोप सेवनम्॥ २९.१११ ॥
कृतं तच्चेतसा तेन त्वामजीर्णं प्रवेक्ष्यति॥
श्वेतकेतोर्महायज्ञे घृतधाराभितर्पितम्॥ २९.११२ ॥
शोकं च त्यज नैतास्ताः स्वाहै वेयं तव प्रिया॥
श्वेतपर्वतकुण्डस्थं पुत्रं त्वं द्रष्टुमर्हसि॥
ततो वह्निस्तत्र गत्वा ददृशे तनयं प्रभुम्॥ २९.११३ ॥
॥अर्जुन उवाच॥
कस्मात्स्वाहा करोद्रूपं षण्णां तासां महामुने॥ २९.११४ ॥
यत्ता भर्तृपराः साध्व्यस्तपस्विन्योग्निसन्निभाः॥
न बिभेति च किं ताभ्यः षड्भ्यः स्वाहाऽपराधिनी॥
भर्तृभक्त्या जगद्दग्धुं यतः शक्ताश्च ता मुने॥ २९.११५ ॥
॥नारद उवाच॥
सत्यमेतत्कुरुश्रेष्ठ श्रृणु तच्चापि कारणम्॥
येन तासां कृतं रूपं न वा शापं ददुश्च ताः॥ २९.११६ ॥
यत्र तद्वह्निना क्षिप्तं रुद्रतेजः सकृत्पुरा॥
गङ्गायां तत्र सस्नुस्ताः षटत्न्योऽज्ञनाभावतः॥ २९.११७ ॥
ततस्ता विह्वलीभूतास्तेजसा तेन मोहिताः॥
लज्जया च स्वभर्तॄणां गङ्गातीरस्थिता रहः॥ २९.११८ ॥
एतदन्तमालोक्य चिकीर्षन्ती मनीषितम्॥
स्वाहा शरीरमाविश्यतासां तेजो जहार तत्॥ २९.११९ ॥
चिक्रीड वह्निजायापि यथा ते कथितं मया॥ २९.१२० ॥
उपकारमिमं ताभिः स्मरन्तीभिश्च भारत॥
न शप्ता सा यतः शापो न देयश्चोपकारिणि॥ २९.१२१ ॥
ततः सप्तर्षयो ज्ञात्वा ज्ञानेनासुचितां गताः॥
तत्यजुः षट् तदा पत्नीर्विना देवीमरुन्धतीम्॥ २९.१२२ ॥
विश्वामित्रस्तु भगवान्कुमारं शरणं गतः॥
स्तवं दिव्यं सम्प्रचक्रे महासेनस्य चापि सः॥ २९.१२३ ॥
अष्टोत्तरशतं नाम्नां श्रृणु त्वं तानि फाल्गुन॥
जपेन येषां पापानि यान्ति ज्ञानमवाप्नुयात्॥ २९.१२४ ॥
त्वं ब्रह्मवादी त्वं ब्रह्मा ब्राह्मणवत्सलः॥
ब्रह्मण्यो ब्रह्मदेवश्च ब्रह्मदो ब्रह्मसङ्ग्रहः॥ २९.१२५ ॥
त्वं परं परमं तेजो मङ्गलानां च मङ्गलम्॥
अप्रमेयगुणश्चैव मन्त्राणां मन्त्रगो भवान्॥ २९.१२६ ॥
त्वं सावित्रीमयो देव सर्वत्रैवापराजितः॥
मन्त्र शर्वात्मको देवः षडक्षरवतां वरः॥ २९.१२७ ॥
माली मौली पताकी च जटी मुण्डी शिखण्ड्यपि॥
कुण्डली लाङ्गली बालः कुमारः प्रवरो वरः॥ २९.१२८ ॥
गवाम्पुत्रः सुरारिघ्नः सम्भवो भवभावनः॥
पिनाकी शत्रुहा श्वेतो गूढः स्कन्दः कराग्रणीः॥ २९.१२९ ॥
द्वादशो भूर्भुवो भावी भुवः पुत्रो नमस्कृतः॥
नागराजः सुधर्मात्मा नाकपृष्ठः सनातनः॥ २९.१३० ॥
त्वं भर्ता सर्वभूतात्मा त्वं त्राता त्वं सुखावहः॥
शरदक्षः शिखी जेता षड्वक्त्रो भयनाशनः॥ २९.१३१ ॥
हेमगर्भो महागर्भो जयश्च विजयेश्वरः॥
त्वं कर्ता त्वं विधाता च नित्यो नित्यारिमर्दनः॥ २९.१३२ ॥
महासेनो महातेज वीरसेनश्च भूपतिः॥
सिद्धासनः सुराध्यक्षो भीमसेनो निरामयः॥ २९.१३३ ॥
शौरिर्यदुर्महातेजा वीर्यवान्सत्यविक्रमः॥
तेजोगर्भोऽसुररिपुः सुरमूर्तिः सुरोर्ज्जितः॥ २९.१३४ ॥
कृतज्ञो वरदः सत्यः शरण्यः साधुवत्सलः॥
सुव्रतः सूर्यसङ्काशो वह्निगर्भः कणो भुवः॥ २९.१३५ ॥
पिप्पली शीघ्रगो रौद्री गाङ्गेयो रिपुदारणः॥
कार्त्तिकेयः प्रभुः क्षन्ता नीलदंष्ट्रो महामनाः॥ २९.१३६ ॥
निग्रहो निग्रहाणां च नेता त्वं सुरनन्दनः॥
प्रग्रहः परमानन्दः क्रोधघ्नस्तार उच्छ्रितः॥ २९.१३७ ॥
कुक्कुटी बहुली दिव्यः कामदो भूरिवर्धनः॥
अमोघोऽमृतदो ह्यग्निः शत्रुघ्नः सर्वमोदनः॥ २९.१३८ ॥
अव्ययो ह्यमरः श्रीमानुन्नतो ह्यग्निसम्भवः॥
पिशाचराजः सूर्याभः शिवात्मा शिवनन्दनः॥ २९.१३९ ॥
अपारपारो दुर्ज्ञेयः सर्वभूतहिते रतः॥
अग्राह्यः कारणं कर्ता परमेष्ठी परं पदम्॥ २९.१४० ॥
अचिन्त्यः सर्वभूतात्मा सर्वात्मा त्वं सनातनः॥
एवं स सर्वभूतानां संस्तुतः परमेश्वरः॥ २९.१४१ ॥
नाम्नामष्टशतेनायं विश्वामित्रमहर्षिणा॥
प्रसन्नमूर्तिराहेदं मुनीन्द्रं व्रियतामिति॥ २९.१४२ ॥
मम त्वया द्विजश्रेष्ठ स्तुतिरेषा निरूपिता॥
भविष्यति मनोऽभीष्टप्राप्तये प्राणिनां भुवि॥ २९.१४३ ॥
विवर्धते कुले लक्ष्मीस्तस्य यः प्रपठेदिमम्॥
न राक्षसाः पिशाचा वा न भूतानि न चापदः॥ २९.१४४ ॥
विघ्नकारीणि तद्गेहे यत्रैव संस्तुवन्ति माम्॥
दुःस्वप्नं च न पश्येत्स बद्धो मुच्यते बन्धनात्॥ २९.१४५ ॥
स्तवस्यास्य प्रभावेण दिव्यभावः पुमान्भवेत्॥
त्वं च मां श्रुतिसंस्कारैः सर्वैः संस्कर्तुमर्हसि॥ २९.१४६ ॥
संस्काररहितं जन्म यतश्च पशुवत्स्मृतम्॥
त्वं च मद्वरदानेन ब्रह्मर्षिश्च भविष्यसि॥ २९.१४७ ॥
ततो मुनिस्तस्य चक्रे जातकर्मादिकाः क्रियाः॥
पौरोहित्यं तथा भेजे स्कन्दस्यैवाज्ञया प्रभुः॥ २९.१४८ ॥
ततस्तं वह्निरभ्यागाद्ददर्श च सुतं गुहम्॥
षट्छीर्षं द्विगुणश्रोत्रं द्वादशाक्षिभुजक्रमम्॥ २९.१४९ ॥
एकग्रीवं चैककायं कुमारं स व्यलोकयत्॥
कलिलं प्रथमे चाह्नि द्वितीये व्यक्तितां गतम्॥ २९.१५० ॥
दृतीयायां शिशुर्जातश्चतुर्थ्यां पूर्ण एवच॥
पञ्चम्यां संस्कृतः सोऽभूत्पावकं चाप्यपश्यत॥ २९.१५१ ॥
ततस्तं पावकः पार्थ आलिलिङ्ग चुचुम्ब च॥
पुत्रेति चोक्त्वा तस्मै स शक्त्यस्त्रम ददात्स्वयम्॥ २९.१५२ ॥
स च शक्तिं समादाय नमस्कृत्य च पावकम्॥
श्वेतश्रृङ्गं समारूढो मुखैः पश्यन्दिशो दश॥ २९.१५३ ॥
व्यनदद्भैरवं नादं त्रास यन्सासुरं जगत्॥
ततः श्वेतगिरेः श्रृङ्गं रक्षः पद्मदशावृतम्॥ २९.१५४ ॥
बिभेद तरसा शक्त्या शतयोजनविस्तृतम्॥
तदेकेन प्रहारेण खण्डशः पतितं भुवि॥ २९.१५५ ॥
चूर्णीकृता राक्षसास्ते सततं धर्मशत्रवः॥
ततः प्रव्यथिता भूमिर्व्यशीर्यत समन्ततः॥ २९.१५६ ॥
भीताश्च पर्वताः सर्वे चुक्रुशुः प्रलयाद्यथा॥
भूतानि तत्र सुभृशं त्राहित्राहीति चोज्जगुः॥ २९.१५७ ॥
एवं श्रुत्वा ततो देवा वासवं सह तेऽब्रुवन्॥
येनैकेन प्रहारेण त्रैलोक्यं व्याकुली कृतम्॥ २९.१५८ ॥
स सङ्क्रुद्धः क्षणाद्विश्वं संहरिष्यति वासव॥
वयं च पालनार्थाय सृष्टा देवेन वेधसा॥ २९.१५९ ॥
तच्च त्राणं सदा कार्यं प्राणैः कण्ठगतैरपि॥
अस्माकं पश्यतामेवं यदि सङ्क्षोभ्यते जगत्॥ २९.१६० ॥
धिक्ततो जन्म वीराणां श्लाघ्यं हि मरणं क्षणात्॥
तदस्माभिः सहैनं त्वं क्षतुमर्हसि वासव॥ २९.१६१ ॥
एवमुक्तस्तथेत्युक्त्वा देवैः सार्धं तमभ्ययात्॥
विधित्सुस्तस्य वीर्यं स शक्रस्तूर्णतरं तदा॥ २९.१६२ ॥
उग्रं तच्च महावेगं देवानीकं दुरासदम्॥
नर्दमानं गुहऋ प्रेक्ष्य ननाद जलधिर्यथा॥ २९.१६३ ॥
तस्य नादेन महता समुद्धूतोदधिप्रभम्॥
बभ्राम तत्रतत्रैव देव सैन्यमचेतनम्॥ २९.१६४ ॥
जिघांसूनुपसम्प्राप्तान्देवान्दृष्ट्वा स पावकिः॥
विससर्ज्ज मुखात्तत्र प्रवृद्धाः पावकार्चिषः॥ २९.१६५ ॥
अदहद्देवसैन्यानि चेष्ट मानानि भूतले॥
ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः॥ २९.१६६ ॥
प्रच्युताः सहसा भान्ति दिवस्तारागणा इव॥
दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम्॥ २९.१६७ ॥
देवा वज्रधरं प्रोचुस्त्यज वज्रं शतक्रतो॥
उक्तो देवैस्तदा शक्रः स्कन्दे वज्रवासृजत्॥ २९.१६८ ॥
तद्विसृष्टं जघानाशु पार्श्व स्कन्दस्य दक्षिणम्॥
बिभेद च कुरुश्रेष्ठ तदा तस्य महात्मनः॥ २९.१६९ ॥
वज्रप्रहारात्स्कन्दस्य सञ्जातः पुरुषोऽपरः॥
युवा काञ्चनसन्नाहः शक्तिधृग्दिव्य कुण्डलः॥ २९.१७० ॥
शाख इत्यभिविख्यातः सोपि व्यनददद्भुतम्॥
ततश्चेन्द्रः पुनः क्रुद्धो हृदि स्कन्दं व्यदारयत्॥ २९.१७१ ॥
तत्रापि तादृशो जज्ञे नैगमेय इति श्रुतः॥
ततो विनद्य स्कन्दाद्याश्चत्वारस्तं तदाभ्ययुः॥ २९.१७२ ॥
तदेन्द्रो वज्रमुत्सृज्य प्राञ्जलिः शरणं ययौ॥
तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तमः॥ २९.१७३ ॥
ततः प्रहृष्टास्त्रभिदशा वादित्राण्यभ्यवादयन्॥
वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः॥ २९.१७४ ॥
या हरं ति शिशूञ्जातान्गर्भस्थांश्चैव दारुणाः॥
काकी च हिलिमा चैव रुद्रा च वृषभा तथा॥ २९.१७५ ॥
आया पलाला मित्रा च सप्तैताः शिशुमातरः॥
एतासांवीर्यसम्पन्नः शिशुश्चाभूत्सुदारुणः॥ २९.१७६ ॥
स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयङ्करः॥
एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोऽद्भुतः॥ २९.१७७ ॥
पूजनीयः सदा भक्त्या सर्वापस्मारशान्तिदः॥
उपातिष्ठत्ततः स्कन्दं हिरण्यकवचस्रजम्॥ २९.१७८ ॥
लोहिताम्बरसंवीतं त्रैलोक्यस्यापि सुप्रभम्॥
युवानं श्रीः स्वयं भेजे तं प्रणम्य शरीरिणी॥ २९.१७९ ॥
श्रिया जुष्टं च तं प्राहुः सर्वे देवाः प्रणम्य वै॥
हिरण्यवर्ण्ण भद्रं ते लोकानां शङ्करो भव॥ २९.१८० ॥
भवानिन्द्रोऽस्तु नो नाथ त्रैलोक्यस्य हिताय वै॥ २९.१८१ ॥
॥स्कन्द उवाच॥
किमिन्द्रः सर्वलोकानां करोतीह सुरोत्तमाः॥
कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः॥ २९.१८२ ॥
॥देवा ऊचुः॥
इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम्॥
प्रज्ञां प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः॥ २९.१८३ ॥
दुर्वृत्तानां स हरति वृत्तस्थानां प्रयच्छति॥
अनुशास्ति च भूतानि कार्येषु बलवत्तरः॥ २९.१८४ ॥
असूर्ये च भवेत्सूर्यस्तथाऽचन्द्रे च चन्द्रमाः॥
भवत्यग्निश्च वायुश्च पृथिव्यां जीवकारणम्॥ २९.१८५ ॥
एतदिन्द्रेण कर्तव्यमिन्द्रो हि विपुलं बलम्॥
त्वं चेन्द्रो भव नो वीर तारकं जहि ते नमः॥ २९.१८६ ॥
॥इन्द्र उवाच॥
त्वं भवेन्द्रो महाबाहो सर्वेषां नः सुखावहः॥
प्रणम्य प्रार्थये स्कन्द तारकं जहि रक्ष नः॥ २९.१८७ ॥
॥स्कन्द उवाच॥
शाधि त्वमेव त्रैलोक्यं भवानिन्द्रोस्तु सर्वदा॥
करिष्ये चेन्द्रकर्माणि न ममेन्द्रत्वमीप्सितम्॥ २९.१८८ ॥
त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च॥
करोमि किं च ते शक्रशासनं ब्रूहि तन्मम॥ २९.१८९ ॥
॥इन्द्र उवाच॥
यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया॥
अभिषिच्छस्व देवानां सैनापत्ये महाबल॥
अहमिन्द्रो भविष्यामि तव वाक्याद्यशोऽस्तु ते॥ २९.१९० ॥
॥स्कन्द उवाच॥
दानवानां विनाशाय देवानामर्थसिद्धये॥
गोब्राह्मणस्य चार्थाय एवमस्तु वचस्तव॥ २९.१९१ ॥
इत्युक्ते सुमहानादः सुराणामभ्यजायत॥
भूतानां चापि सर्वेषां त्रैलोक्याङ्कपकारकः॥ २९.१९२ ॥
जयेति तुष्टुवुश्चैनं वादित्राण्यभ्यवादयन्॥
ननृस्तष्टुवुश्चैवं कराघातांश्च चक्रिरे॥ २९.१९३ ॥
तेन शब्देन महता विस्मिता नगनन्दिनी॥
शङ्करं प्राह को देव नादोऽयमतिवर्तते॥ २९.१९४ ॥
॥रुद्र उवाच॥
अद्य नुनं प्रहृष्टानां सुराणां विविधा गिरः॥
श्रूयन्ते च तथा देवी यथा जातः सुतस्तव॥ २९.१९५ ॥
गवां च ब्राह्मणानां च साध्वीनां च दिवौकसाम्॥
मार्जयिष्यति चाश्रूणि पुत्रस्ते पुण्यवत्यपि॥ २९.१९६ ॥
एवं वदति सा देवी द्रष्टुं तमुत्सुकाऽभवत्॥
शङ्करश्च महातेजाः पुत्रस्नेहाधिको यतः॥ २९.१९७ ॥
वृषभं तत आरुह्य देव्या सह समुत्सुकः॥
सगणो भव आगच्छत्पुत्र दर्शनलालसः॥ २९.१९८ ॥
ततो ब्रह्मा महासेनं प्रजापतिरथाब्रवीत्॥
अभिगच्छ महादेवं पितरं मातरं प्रभो॥ २९.१९९ ॥
अनयोर्वीर्यसंयोगात्तवोत्पत्तिस्तु प्राथमी॥
एवमस्त्विति चाप्युक्त्वा महासेनो महेश्वरम्॥ २९.२०० ॥
अपूजयदमेयात्मा पितरं मातरं च ताम्॥
ततस्तमालिङ्ग्य सुतं चिरं संयोज्य चाशिषः॥ २९.२०१ ॥
चिरं जहृषतुश्चोभौ पार्वतीपरमेश्वरौ॥
सिद्धसारस्य तत्त्वं च ददौ तुष्टोऽस्य शङ्करः॥ २९.२०२ ॥
देवी प्रकृतिमोक्षं च तुष्टा हर्षपरिप्लुता॥
एतस्मिन्नेव काले तु षड्देव्यस्तं समागमन्॥ २९.२०३ ॥
ऋषिभिस्ताः परित्यक्तास्तं पुत्रेति जगुस्तदा॥
पार्वती च ततः प्राह मम पुत्रो न वस्त्वयम्॥ २९.२०४ ॥
स्वाहा ममेति च प्राह पावकश्च ममेति च॥
रुद्रो ममेति च प्राह मम देवनदीति च॥ २९.२०५ ॥
चक्रुस्ते कलहं घोरं विवदन्तः परस्परम्॥
पुत्रस्नेहो हि बलवान्पार्थ किङ्किं न कारयेत्॥ २९.२०६ ॥
ततस्तान्प्रहसन्नाह विवादो युज्यते न च॥
सर्वेषां वो गुहः पुत्रो मत्तो वै व्रियतां वरः॥ २९.२०७ ॥
ततः प्राहुश्च षड्देव्यः स्वर्गो नो ह्यक्षयो भवेत्॥
तथेति ता गृहः प्राह शक्रस्तत्रान्तरेऽब्रवीत्॥ २९.२०८ ॥
रोहिण्याश्चानुजा स्कन्द स्पर्धमानाभिजित्खला॥
इत्छन्ती ज्येष्ठतां देवी पृथत्क्वं च तपोरता॥ २९.२०९ ॥
ततः प्रभृति मूढोऽस्मि तत्स्थाने स्थापयप्रभो॥
ततस्तथेति च प्रोक्ते कृत्तिकास्ता दिवं गताः॥ २९.२१० ॥
नक्षत्रं सप्तशीर्षाभं भाति तद्वह्निदैवतम्॥
अथैनमब्रवीत्स्वाहा प्रिया नाहं महार्चिषः॥
तदग्नेः प्रियतां देहि सहवासं सदैव च॥ २९.२११ ॥
॥स्कन्द उवाच॥
हव्यं कव्यं च यत्किञ्चिद्द्विजा होष्यन्ति पावके॥ २९.२१२ ॥
तत्ते नाम्ना प्रदास्यन्ति वासः सार्धं भवेत्तव॥
पावकः प्रार्थयामास यज्ञभागान्पुनः सुतान्॥ २९.२१३ ॥
स चाप्याहाद्यप्रभृति यज्ञभागानवाप्नुहि॥
इतरे प्रार्थयामासुः ख्यातो नस्त्वं सुतो भव॥ २९.२१४ ॥
एवमेवेति तानाह स्कन्दस्तद्धि सुदुर्लभम्॥
ततस्तं योगिनः सर्वे सम्भूय सनकादयः॥
अभ्यषिञ्चन्गिरौ तस्मिन्योगिनामादिपत्यके॥ २९.२१५ ॥
योगीश्वरमिति प्राहुस्ततस्तं योगिनस्तथा॥
जहृपुर्देवताश्चैव नानावाद्यन्यवादयन्॥ २९.२१६ ॥
अभिषिक्तेन तेनासौ शुशुभे श्वेतपर्वतः॥
आदित्येनेवांशुमता सुरम्य उदयाचलः॥ २९.२१७ ॥
ततो देवाः सगन्धर्वा नृत्यन्त्यप्सरसस्तथा॥
हृष्टानां सर्वभूतानां श्रूयते निनदो महान्॥ २९.२१८ ॥
एवं सेन्द्रं जगत्सर्वं श्वेतपर्वतसंस्थितम्॥
प्रहृष्टं प्रेक्ष्य तं स्कन्दं न च तृप्यति दर्शनात्॥ २९.२१९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये स्कन्दकुमारस्य सर्वदेवसैनाधिपत्यभिषेकोत्सववर्मनन्नामैकोनत्रिंशोऽध्यायः॥ २९ ॥ छ ॥