[अध्यायः २८]
वेदव्यासः
अध्यायः २८
॥नारद उवाच॥
व्रजन्ती गिरिजाऽपश्यत्सखीं मातुर्महाप्रभाम्॥
कुसुमामोदिनीन्नाम तस्य शैलस्य देवताम्॥ २८.१ ॥
सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा॥
क्वपुनर्गच्छसीत्युच्चैरालिङ्ग्योवाच देवता॥ २८.२ ॥
सा चास्यै सर्वमाचख्यौ शङ्करात्कोपकारणम्॥
पुनश्चोवाच गिरिजा देवतां मातृसम्मताम्॥ २८.३ ॥
नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते॥
सर्वं च सन्निधानं च मयि चातीव वत्सला॥ २८.४ ॥
तदहं सम्प्रवक्ष्यामि यद्विधेयं तवाधुना॥
अथान्य स्त्रीप्रवेशे तु समीपे तु पिनाकिनः॥ २८.५ ॥
त्वयाख्येयं मम शुबे युक्तं पश्चात्करोम्यहम्॥
तथेत्युक्ते तया देव्या ययौ देवी गिरिं प्रति॥ २८.६ ॥
रम्ये तत्र महाशृङ्गे नानाश्चर्योपशोभिते॥
विभूषणादि सन्यस्य वृक्षवल्कलधारिणी॥ २८.७ ॥
तपस्तेपे गिरिसुता पुत्रेण परिपालिता॥
ग्रीष्मे पञ्चाग्निसन्तप्ता वर्षासु च जलोषिता॥ २८.८ ॥
यथा न काचित्प्रविशेद्योषिदत्र हरान्तिके॥
दृष्ट्वा परां स्त्रियं चात्र वदेथा मम पुत्रक॥ २८.९ ॥
शीघ्रमेव करिष्यामि ततो युक्तमनन्तरम्॥
एवमस्त्विति तां देवीं वीरकः प्राह साम्प्रतम्॥ २८.१० ॥
मातुराज्ञा सुतो ह्लाद प्लाविताङ्गो गतज्वरः॥
जगाम त्र्यक्षं सन्द्रष्टुं प्रणिपत्य च मातरम्॥ २८.११ ॥
गजवक्त्रं ततः प्राह प्रणम्य समवस्थितम्॥
साश्रुकण्ठं प्रयाचन्तं नय मामपि पार्वति॥ २८.१२ ॥
गजवक्त्रं हि त्वां बाल मामिवोपहसिष्यति॥
तदागच्छ मया सार्धं या गतिर्मे तवापि सा॥ २८.१३ ॥
पराभवाद्धि धूर्तानां मरणं साधु पुत्रक॥
एवमुक्त्वा समादाय हिमाद्रिं प्रति सा ययौ॥ २८.१४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वत्यस्तपोर्थं गमनवर्णनन्नामाष्टाविंशोऽध्यायः॥ २८ ॥ छ ॥