२७

[अध्यायः २७]

वेदव्यासः

अध्यायः २७

॥नारद उवाच॥
ततो निरुपमं दिव्यं सर्वरत्नमयं शुभम्॥
ईशाननिर्मितं साक्षात्सह देव्याविशद्गृहम्॥ २७.१ ॥

तत्रासौ मन्दरगिरौ सह देव्या भगाक्षहा॥
प्रासादे तत्र चोद्याने रेमे संहृष्टमानसः॥ २७.२ ॥

एतस्मिन्नन्तरे देवास्तारकेणातिपीडिताः॥
प्रोत्साहितेन चात्यर्थं मया कलिचिकीर्षुणा॥ २७.३ ॥

आसाद्य ते भवं देवं तुष्टुबुर्बहुधा स्तवैः॥
एतस्मिन्नन्तरे देवी प्रोद्वर्तयत गात्रकम्॥ २७.४ ॥

उद्वर्तनमलेनाथ नरं चक्रे गजाननम्॥
देवानां संस्तवैः पुण्यैः कृपयाभिपरिप्लुता॥ २७.५ ॥

पुत्रेत्युवाच तं देवी ततः संहृष्टमानसा॥
एतस्मिन्नन्तरे शर्वस्तत्रागत्य वचोऽब्रवीत्॥ २७.६ ॥

पुत्रस्तवायं गिरिजे श्रृणु यादृग्भविष्यति॥
विक्रमेण च वीर्येण कृपया सदृशो मया॥ २७.७ ॥

यथाहं तादृशश्चासौ पुत्रस्ते भविता गुणैः॥
ये च पापा दुराचारा वेदान्धर्मं द्विषन्ति च॥ २७.८ ॥

तेषामामरणान्तानि विघ्नान्येष करिष्यति॥
ये च मां नैव मन्यन्ते विष्णुं वापि जगद्गुरुम्॥ २७.९ ॥

विघ्निता विघ्नराजेन ते यास्यन्ति महत्तमः॥
तेषां गृहेषु कलहः सदा नैवोपसाम्यति॥ २७.१० ॥

पुत्रस्य तव विघ्नेन समूलं तस्य नश्यति॥
येषां न पूज्याः पूज्यन्ते क्रोधासत्यपराश्च ये॥ २७.११ ॥

रौद्रसाहसिका ये च तेषां विघ्नं करिष्यति॥
श्रुतिधर्माञ्ज्ञातिधर्मान्पालयन्ति गुरूंश्च ये॥ २७.१२ ॥

कृपालवो गतक्रोधास्तेषां विघ्नं हरिष्यति॥
सर्वे धर्माश्च कर्माणि तथा नानाविधानि च॥ २७.१३ ॥

सविघ्नानि भिवष्यन्ति पूजयास्य विना शुभे॥
एवं श्रुत्वा उमा प्राह एवमस्त्विति शङ्करम्॥ २७.१४ ॥

ततो बृहत्तनुः सोऽभूत्तेजसा द्योतयन्दिशः॥
ततो गणैः समं शर्वः सुराणां प्रददौ च तम्॥
यावत्तार कहन्ता वो भवेत्तावदयं प्रभुः॥ २७.१५ ॥

ततो विघ्नपतिर्देवैः संस्तुतः प्रमतार्तिहा॥
चकार तेषां कृत्यानि विघ्नानि दितिजन्मनाम्॥ २७.१६ ॥

पार्वती च पुनर्देवी पुत्रत्वे परिकल्प्य च॥
अशोकस्याङ्कुरं वार्भिरवर्द्धयत स्वादृतैः॥ २७.१७ ॥

सप्तर्षीनथ चाहूय संस्कारमङ्गलं तरोः॥
कारयामास तन्वङ्गी ततस्तां मुनयोऽब्रुवन्॥ २७.१८ ॥

त्वयैव दर्शिते मार्गे मर्यादां कर्तुमर्हसि॥
किं फलं भविता देवि कल्पितैस्तरुपुत्रकैः॥ २७.१९ ॥

॥देव्युवाच॥
यो वै निरुदके ग्रामे कूपं कारयते बुधः॥
यावत्तोयं भवेत्कूपे तावत्स्वर्गे स मोदते॥ २७.२० ॥

दशकूपसमावापी दशवापी समं सरः॥
दशसरःसमा कन्या दशकन्यासमः क्रतुः॥ २७.२१ ॥

दशक्रतुसमः पुत्रो दशपुत्रसमो द्रुमः॥ २७.२२ ॥

एषैव मम मर्यादा नियता लोकभाविनी॥
जीर्णोद्धारे कृते वापि फलं तद्द्विगुणं मतम्॥ २७.२३ ॥

॥इति गणेशोत्पत्तिः॥
ततः कदाचिद्भगवानुमया सह मन्दरे॥
मन्दिरे हर्षजनने कलधौतमये शुभे॥ २७.२४ ॥

प्रकीर्णकुसुमामोदमहालिकुलकूजिते॥
किन्नरोद्गीतसङ्गीत प्रतिशब्दितमध्यके॥ २७.२५ ॥

क्रीडामयूरैर्हसैश्च श्रुतैश्चैवाभिनादिते॥
मौक्तिकैर्विविध रत्नैर्विनिर्मितगवाक्षके॥ २७.२६ ॥

तत्र पुण्यकथाभिश्च क्रीडतो रुभयोस्तयोः॥
प्रादुरभून्महाञ्छब्दः पूरिताम्बरगोचरः॥ २७.२७ ॥

तं श्रुत्वा कौतुकाद्देवी किमेतदिति शङ्करम्॥
पर्यपृच्छच्छुभतनूर्हरं विस्मयपूर्वकम्॥ २७.२८ ॥

तामाह देवीं गिरिशो दृष्टपूर्वास्तु ते त्वया॥
एते गणा मे क्रीडन्ति शैलेऽस्मिंस्त्वत्प्रियाः शुभे॥ २७.२९ ॥

तपसा ब्रह्मचर्येण क्लेशेन क्षेत्रसाधनैः॥
यैरहं तोषितः पृथ्व्यां त एते मनुजोत्तमाः॥ २७.३० ॥

मत्समीपमनुप्राप्ता मम लोकं वरानने॥
चराचरस्य जगतः सृष्टिसंहारणक्षमाः॥ २७.३१ ॥

विनैतान्नैव मे प्रीतिर्नैभिर्विरहितो रमे॥
एते अहमहं चैते तानेतान्पस्य पार्वति॥ २७.३२ ॥

इत्युक्ता विस्मिता देवी ददृशे तान्गवाक्षके॥
स्थिता पद्मपलाशाक्षी महादेवेन भाषिता॥ २७.३३ ॥

केचित्कृशा ह्रस्वदीर्घाः केचित्स्थूलमहोदराः॥
व्याघ्रेभमेषाजमुखा नानाप्राणिमहामुखाः॥ २७.३४ ॥

व्याघ्रचर्मपरीधाना नग्ना ज्वालामुखाः परे॥
गोकर्णा गजकर्णाश्च बहुपादमुखेक्षणाः॥ २७.३५ ॥

विचित्रवाहनाश्चैव नानायुधधरास्तथा॥
गीतवादित्रतत्त्वज्ञाः सत्त्वगीतरसप्रियाः॥ २७.३६ ॥

तान्दृष्ट्वा पार्वती प्राह कतिसङ्ख्याभिधास्त्वमी॥ २७.३७ ॥

॥श्रीशङ्कर उवाच॥
असङ्ख्ये यास्त्वमी देवी असङ्ख्येयाभिधास्तथा॥
जगदापूरितं सर्वमेतैर्भीमैर्महाबलैः॥ २७.३८ ॥

सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु॥
दानवानां शरीरेषु बालेषून्मत्तकेषु च॥ २७.३९ ॥

एते विशति मुदिता नानाहारविहारिणः॥
ऊष्मपाः फेनपाश्चैव धूम्रपा मधुपायिनः॥
मदाहाराः सर्वभक्ष्यास्तथान्ये चाप्यभोजनाः॥ २७.४० ॥

गीतनृत्योपहाराश्च नानावाद्यरवप्रियाः॥
अनन्तत्वादमीषां च वक्तुं शक्या न वै गुणाः॥ २७.४१ ॥

॥श्रीदेव्युवाच॥
मनःशिलेन कल्केन य एष च्छुरिताननः॥
तेजसा भास्कराकारो रूपेण सदृशस्तव॥ २७.४२ ॥

आकर्ण्याकर्ण्य ते देव गणैर्गीतान्महागुणान्॥
मुहुर्नृत्यति हास्यं च विदधाति मुहुर्मुहुः॥ २७.४३ ॥

सदाशिवशिवेत्येवं विह्वलो वक्ति यो मुहुः॥
धन्योऽमीदृशी यस्य भक्तिस्त्वयि महेश्वरे॥ २७.४४ ॥

एनं विज्ञातुमिच्छामि किन्नामासौ गणस्तव॥
॥श्रीशङ्कर उवाच॥
स एष वीरक देवी सदा मेद्रिसुते प्रियः॥ २७.४५ ॥

नानाश्चर्यगुणाधारः प्रतीहारो मतोंऽबिके॥
॥देव्युवाच॥
ईदृशस्य सुतस्यापि ममोऽकण्ठा पुरान्तक॥ २७.४६ ॥

कदाहमीदृशं पुत्रं लप्स्याम्यानन्ददायकम्॥
॥शर्व उवाच॥
एष एव सुतस्तेस्तु यावदीदृक्परो भवेत्॥ २७.४७ ॥

इत्युक्ता विजयां प्राह शीघ्रमानय वीरकम्॥
विजया च ततो गत्वा वीरकं वाक्यमब्रवीत्॥ २७.४८ ॥

एहि वीरक ते देवी गिरिजा तोषिता शुभा॥
त्वममाह्वयति सा देवी भवस्यानुमते स्वयम्॥ २७.४९ ॥

इत्युक्तः सम्भ्रमयुतो मुखं सम्मार्ज्य पाणिना॥
देव्याः समीपमागच्छज्जययाऽनुगतः शनैः॥ २७.५० ॥

तं दृष्ट्वा गिरिजा प्राह गिरामधुरवर्णया॥
एह्येहि पुत्र दत्तस्त्वं भवेन मम पुत्रकः॥ २७.५१ ॥

इत्युक्तो दण्डवद्देवीं प्रणम्यावस्थितः पुरः॥
माता ततस्तमालिङ्ग्य कृत्वोत्सङ्गे च वीरकम्॥ २७.५२ ॥

चुचुम्ब च कपोले तं गात्राणि च प्रमार्जयत्॥
भूषयामास दिव्यैस्तं स्वयं नानाविभूषणैः॥ २७.५३ ॥

एवं सङ्कल्प्य तं पुत्रं लालयित्वा उमाचिरम्॥
उवाच पुत्र क्रीडेति गच्छ सार्धं गणैरिति॥ २७.५४ ॥

ततश्चिक्रीड मध्ये स गणानां पार्वतीसुतः॥
मुहुर्मुहुः स्वमनसि स्तुवन्भक्तिं स शाङ्करीम्॥ २७.५५ ॥

प्रणम्य सर्वभूतानि प्रार्थयाम्यस्मि दुष्करम्॥
भक्त्या भजध्वमीशानं यस्या भक्तेरिदं फलम्॥ २७.५६ ॥

क्रीडितुं वीरके याते ततो देवी च पार्वती॥
नानाकथाभिस्चिक्रीड पुनरेव जटाभृता॥ २७.५७ ॥

ततो गिरिसुताकण्ठे क्षिप्तबाहुर्महेश्वरः॥
तपसस्तु विशेषार्थं नर्म देवीं किलाब्रवीत्॥ २७.५८ ॥

स हि गौरतनुः शर्वो विशेषाच्छशिशोभितः॥
रञ्जिता च विभावर्या देवी नीलोत्पलच्छविः॥ २७.५९ ॥

॥शर्व उवाच॥
शरीरे मम तन्वङ्गी सिते भास्यसितद्युतिः॥
भुजङ्गीवासिता शुभ्रे संश्लिष्टा चन्दने तरौ॥ २७.६० ॥

चन्द्रज्योत्स्नाभिसम्पृक्ता तामसी रजनी यथा॥
रजनी वा सिते पक्षे दृष्टिदोषं ददासि मे॥ २७.६१ ॥

इत्युक्ता गिरिजा तेन कण्ठं शर्वाद्विमुच्य सा॥
उवाच कोपरक्ताक्षी भृकुटीविकृतानना॥ २७.६२ ॥

स्वकृतेन जनः सर्वो जनेन परिभूयते॥
अवश्यमर्थी प्राप्नोति खण्डनां शशिखण्डभृत्॥ २७.६३ ॥

तपोभिर्दीप्तचरितैर्यत्त्वां प्रार्थितवत्यहम्॥
तस्य मे नियमस्यैवमवमानः पदेपदे॥ २७.६४ ॥

नैवाहं कुटिला शर्व विषमा न च धूर्जटे॥
स्वदोषैस्त्वं गतः क्षान्तिं तथा दोषाकरश्रियः॥ २७.६५ ॥

नाहं मुष्णामि नयने नेत्रहन्ता भवान्भव॥
भगस्तत्ते विजानाति तथैवेदं जगत्त्रयमा॥ २७.६६ ॥

मूर्ध्नि शूलं जनयसे स्वैर्दोषैर्मामदिक्षिपन्॥
यत्त्वं मामाह कृष्णेति महाकालोऽसि विश्रुतः॥ २७.६७ ॥

यास्याम्यहं परित्यक्तुमात्मानं तपसा गिरिम्॥
जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया॥ २७.६८ ॥

निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः॥
उवाचाथ च सम्भ्रान्तो दुर्ज्ञेयचरितो हरः॥ २७.६९ ॥

न तत्त्वज्ञासि गिरिजे नाहं निन्दापरस्तव॥
चाटूक्तिबुद्ध्या कृतवांस्त वाहं नर्मकीर्तनम्॥ २७.७० ॥

विकल्पः स्वच्छचित्तेति गिरिजैषा मम प्रिया॥
प्रायेण भूतिलिप्तानामन्यथा चिन्तिता हृदि॥ २७.७१ ॥

अस्मादृशानां कृष्णाङ्गि प्रवर्तन्तेऽन्यथा गिरः॥
यद्येवं कुपिता भीरु न ते वक्ष्याम्यहं पुनः॥ २७.७२ ॥

नर्मवादी भविष्यामि जहि कोपं सुचिस्मिते॥
शिरसा प्रणतस्तेऽहं रचितस्ते मयाञ्जलिः॥ २७.७३ ॥

दीनेनाप्यपमानेन निन्दिता नमि विक्रियाम्॥
वरमस्मि विनम्रोऽपि न त्वं देवि गुणान्विता॥ २७.७४ ॥

इत्यनेकैश्चाटुवाक्यैः सूक्तैर्देवेन बोधिता॥
कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता॥ २७.७५ ॥

अवष्टब्धावथ क्षिप्त्वा पादौ शङ्करपाणिना॥
विपर्यस्तालका वेगाद्गन्तुमैच्छत शैलजा॥ २७.७६ ॥

तस्यां व्रजन्त्यां कोपेन पुनराह पुरान्तकः॥
सत्यं सर्वैरवयवैः सुतेति सदृशी पितुः॥ २७.७७ ॥

हिमाचलस्य श्रृङ्गैस्तैर्मेघमालाकुलैर्मनः॥
तथा दुरवागाह्योऽसौ हृदयेभ्यस्तवाशयः॥ २७.७८ ॥

काठिन्यं कष्टमस्मिंस्ते वनेभ्यो बहुधा गतम्॥
कुटिलत्वं नदीभ्यस्ते दुःसेव्यत्वं हिमादपि॥ २७.७९ ॥

सङ्क्रान्तं सर्वमेवैतत्तव देवी हिमाचलात्॥
इत्युक्ता सा पुनः प्राह गिरिशं सैलजा तदा॥ २७.८० ॥

कोपकम्पितधूम्रास्या प्रस्फुरद्दशनच्छदा॥
मा शर्वात्मोपमानेन निन्द त्वं गुणिनो जनान्॥ २७.८१ ॥

तवापि दुष्टसम्पर्कात्सङ्क्रान्तं सर्वमेवहि॥
व्यालेभ्योऽनेकजिह्वत्वं भस्मनः स्नेहवन्ध्यता॥ २७.८२ ॥

हृत्कालुष्यं शशाङ्कात्ते दुर्बोधत्वं वृषादपि॥
अथवा बहुनोक्तेन अलं वाचा श्रमेण मे॥ २७.८३ ॥

श्मशानवास आसीस्त्वं नग्नत्वान्न तव त्रपा॥
निर्घृणत्वं कपालित्वादेवं कः शक्नुयात्तवम्॥ २७.८४ ॥

इति श्रीस्कान्दे महापुराण एकाशी तिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये पार्वतीप्रकोपवर्णनन्नाम सप्तविंशोऽध्यायः॥ २७ ॥ छ ॥