२४

[अध्यायः २४]

वेदव्यासः

अध्यायः २४
॥नारद उवाच॥
एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः॥
प्रणम्य मामिति प्राह यद्येवं पुण्यवानहम्॥ २४.१ ॥

पुनः किञ्चित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः॥
उत्तानः कारणं किं तच्छ्रोतुमिच्छामि नारद॥ २४.२ ॥

इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा॥
सर्वदैव करो ह्यस्याः सर्वेषां प्राणिनां प्रति॥ २४.३ ॥

अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः॥
एषा भार्या जगद्भर्तुर्वृषाङ्कस्य महीधर॥ २४.४ ॥

जननी सर्वलोकस्य भाविनी भूतभाविनी॥
तद्यथा शीघ्रमेवैषा योगं यातु पिनाकिना॥ २४.५ ॥

त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम॥
अस्त्यत्र सुमहतकार्यं देवानां हिमभूधर॥ २४.६ ॥

इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत्॥
मम भूयस्तु कर्तव्यं तन्मया कृतमेव हि॥ २४.७ ॥

किं तु पञ्चशरः प्रेर्यः कार्यशेषेऽत्र वासव॥
इत्यादिश्य गतश्चाहं तारकं प्रति फाल्गुन॥ २४.८ ॥

कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम्॥
हिमाद्रिरपि मे वाक्यप्रेरितः पार्वतीं प्रति॥ २४.९ ॥

भवस्याराधनां कर्तुं ससखीमादिशत्तदा॥
सा तं परिचचारेशं तस्या दृष्ट्वा सुशीलताम्॥ २४.१० ॥

पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात्॥
महेन्द्रोपि च मद्वाक्यात्स्मरं सस्मार भारत॥ २४.११ ॥

स च तत्स्मरणं ज्ञात्वा वसन्तरतिसंयुतः॥
चूताङ्कुरास्त्रःऋ सहसा प्रादुरासीन्मनोभवः॥ २४.१२ ॥

तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन्॥
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय॥ २४.१३ ॥

चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम्॥
तथापि त्वां वदिष्यामि स्वकार्यपरतां स्मरन्॥ २४.१४ ॥

ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ॥
महेश्वरं कृपानाथं सतीभार्यावियोजितम्॥ २४.१५ ॥

संयोजय पुनर्देव्या हिमाद्रिगृहजातया॥
देवी देवश्च तुष्टौ ते करिष्यत इहेप्सितम्॥ २४.१६ ॥

॥मदन उवाच॥
अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः॥
नान्यासादयितव्यानि तेजांसि मुनरब्रवीत्॥ २४.१७ ॥

वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः॥
महाशनो महापाप्मा कामोऽयम नलो गहान्॥ २४.१८ ॥

आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा॥
तस्मादयं सदा त्याज्यः कामऽहिरिव सत्तमैः॥ २४.१९ ॥

एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः॥
मद्यपस्येव पापस्य वासुदेवो जगद्गुरः॥ २४.२० ॥

॥इन्द्र उवाच॥
मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि॥
धर्ममर्थं तथा कामं मोक्षं वा प्राप्तुमीश्वरः॥ २४.२१ ॥

यत्किञ्चित्साध्यते लोके मूलं तस्य च कामना॥
कथं कामं विनिन्दति तस्मात्ते मोक्षसाधकाः॥ २४.२२ ॥

सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम्॥
तामसं राजसं चैव सात्त्विकं चापि मन्मथ॥ २४.२३ ॥

अमुक्तितः कामनया रूपं तत्तामसं तव॥
सुखबुद्ध्या स्पृहा या च रूपं तद्राजसं तव॥ २४.२४ ॥

केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव॥
तत्ते रूपत्रयमिदं ब्रूहि नोपासते हि के॥ २४.२५ ॥

त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः॥
अथ वा पीडितान्दृष्ट्वा सामान्यानपि पण्डिताः॥
स्वप्राणैरपि त्रायान्ति परमेतन्महाफलम्॥ २४.२६ ॥

इति सञ्चिन्त्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्॥ २४.२७ ॥

इत्या कर्ण्य तथेत्युक्त्वा वसन्तरतिसंयुतः॥
पिकादिसैन्यसम्पन्नो हिमाद्रिं प्रययौ स्मरः॥ २४.२८ ॥

तत्रापश्यत शम्भोः स पुण्यमाश्रममण्डलम्॥
नानावृक्षसमाकीर्णं शान्तसत्त्वसमाकुलम्॥ २४.२९ ॥

तत्रापश्यत्त्रिनेत्रस्य वीरकन्नाम द्वारपम्॥
यथा साक्षान्महेशानं गणआंश्चायुतशोऽस्य च॥ २४.३० ॥

ददर्श च महेशानं नासाग्रकृतलोचनम्॥
देवदारुद्रुमच्छायावेदिका मध्यमाश्रितम्॥
समाकायं सुखासीनं समाधिस्थं महेश्वरम्॥ २४.३१ ॥

निस्तरङ्गं विनिर्गृह्य स्थितमिन्द्रियगोचरान्॥
आत्मानमात्मना देवं प्रविष्टं तपसो निधिम्॥ २४.३२ ॥

तं तथाविधमालोक्य सोन्तर्भेदाय यत्नवान्॥
भ्रमरध्वनिव्याजेन विवेश मदनो मनः॥ २४.३३ ॥

एतस्मिन्नन्तरे देवो विकासितविलोचनः॥
सस्मार नगराजस्य तनयां रक्तमानसः॥ २४.३४ ॥

निवेदिता वीरकेण विवेश च गिरेः सुता॥
तस्मिन्काले महाभागा सदा यद्वदुपैति सा॥ २४.३५ ॥

ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च॥
निगृह्य लीलया देवः स्वकं पृष्ठमवैक्षत॥
तावदापूर्णधनुषमपश्यत रतिप्रियम्॥ २४.३६ ॥

तन्नाशकृपया देवो नानास्थानेषु सोऽगमत्॥
तावत्पस्यति पृष्ठस्तमाकृष्य धनुषः शरम्॥ २४.३७ ॥

स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा॥
परिभ्रमन्महादेवः पृष्ठस्थं तमवैक्षत॥ २४.३८ ॥

जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम्॥
पृष्ठस्थमेव तं वीक्ष्य निःश्वासं मुमुचे हरः॥ २४.३९ ॥

ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम्॥
क्रोशतां गमितः कामो भस्मत्वं पाण्डुनन्दन॥ २४.४० ॥

सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः॥
व्यजृम्भत जगद्दग्धुं ज्वालापूरितदिङ्‌मुखः॥ २४.४१ ॥

ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्॥
साहङ्कारे जने चन्द्रे सुमनस्सु च गीतके॥ २४.४२ ॥

भृङ्गेषु कोकिलास्येषु विहारेषु स्मरानलम्॥
तत्प्राप्तौ स्नेहसंयुक्तं कामिनां हृदयं किल॥ २४.४३ ॥

ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः॥
विलोक्य हरनिःश्वासज्वालाभस्मीकृतं स्मरम्॥ २४.४४ ॥

विललाप रतिर्द्दीना मधुना बन्धुना सह॥
विलपन्ती सुबहुशो मधुना परिसान्त्विता॥ २४.४५ ॥

रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः॥
कृपया परया प्राह कामपत्नीं निरीक्ष्य च॥ २४.४६ ॥

अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव॥
रतिकाले ध्रुवं बाले करिष्यति न संशयः॥ २४.४७ ॥

यदा विष्णुश्च भविता वसुदेवात्मजो विभुः॥
तदै तस्य सुतो यः स्यात्सपतिस्ते भविष्यति॥ २४.४८ ॥

सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः॥
जगाम स्वेच्छया गत्या वसन्तादिभिरन्विता॥ २४.४९ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कामदहनोनाम चतुर्विशोऽध्यायः॥ २४ ॥ छ ॥