२०

[अध्यायः २०]

वेदव्यासः

अध्यायः २०
॥नारद उवाच॥
तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः॥
सरघा इव माक्षिकं रुरुधुः सर्वतस्ततः॥ २०.१ ॥

पर्वताभे गजे भीमे मदस्राविणि दुर्दमे॥
सितचित्रपताके तु प्रभिन्नकरटामुखे॥ २०.२ ॥

स्वर्णवर्णाञ्चिते यद्वन्नगे दावाग्निसंवृते॥
आरुह्यजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली॥ २०.३ ॥

तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः॥
सप्तविंशतिकोट्यश्च किरीटकवचोज्जवलाः॥ २०.४ ॥

अश्वमारुह्य शैलाभं हरिमाद्रवत्॥
पञ्चयोजनप्रग्रीवमुष्ट्रमास्थाय जम्भकः॥ २०.५ ॥

शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम्॥
अपरे दानवेन्द्राश्च यत्ता नानास्त्रापाणयः॥ २०.६ ॥

आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम्॥
परघेण निमिर्दैत्यो मथनो मुद्गरेण च॥ २०.७ ॥

शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा॥
चक्रेण क्रथनः क्रुद्धो जम्भः शक्त्या महारणे॥ २०.८ ॥

जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः॥
तान्यस्त्राणि प्रयुक्तानि विविशुः पुरुषोत्तमम्॥ २०.९ ॥

उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः॥
ततः क्रुद्धो हरिर्गृह्य धनुर्बाणांश्च पुष्कलान्॥ २०.१० ॥

ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा॥
निमिं विव्याध विंशत्या वाणैरनलवर्चसैः॥ २०.११ ॥

मथनं दशभिश्चैव शुम्भं पञ्चभिरेव च॥
शतेन महिषं क्रुद्धो विव्याधोरसि माधवः॥ २०.१२ ॥

जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः॥
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः॥ २०.१३ ॥

चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः॥
चिच्छेदाथ धनुर्ज्यां च निमिर्भल्लेन दानवः॥ २०.१४ ॥

हस्ताच्चापं च संरम्भाच्चिच्छेद महिषासुरः॥
षीडयामासा गरुडं जम्भो बाणायुतैस्त्रिभिः॥ २०.१५ ॥।
भुजावस्य च विव्याध शम्भो बाणायुतेन वै॥
ततो विस्मितचित्तस्तु गदां जग्राह माधवः॥ २०.१६ ॥

तां प्राहिणोत्स वेगेन मथनाय महाहवे॥
तामाप्राप्तां निमिर्बाणैर्मुशलाभैः सहस्रशः॥ २०.१७ ॥

आहत्य पातयामास विनदन्कालमेघवत्॥
ततोंऽतरिक्षे हाहेति भूतानां जज्ञिरे कथाः॥ २०.१८ ॥

नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा॥
तां हरिः पतितां दृष्ट्वा अस्थाने प्रार्थनामिव॥ २०.१९ ॥

जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम्॥
तं मुमोचातिवेगेन निमिमुद्दिश्य दानवम्॥ २०.२० ॥

तमायान्तं वियत्येव त्रयो दैत्या ह्यवारयन्॥
गदया दम्भदैत्यस्तु ग्रसनः पट्टिशेन तु॥ २०.२१ ॥

शक्त्या च महिषो दैत्यो विनदन्तो महाररवम्॥
निराकृतं तमालोक्य दुर्जनैः सुजनं यथा॥ २०.२२ ॥

जग्राह शक्तिमुग्रोग्रां शतघण्टामहास्वनाम्॥
जम्भाय तां समुद्दिश्य प्राहिणोद्भीषणेरणे॥ २०.२३ ॥

तामायान्तीमथालोक्य जम्भोऽन्यस्य रथात्त्वरात्॥
आप्लुत्य लीलया गृह्णन्कामिनीं कामुको यथा॥ २०.२४ ॥

तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली॥
ततो भूयो रथं प्राप्य घनुर्गृह्यभ्ययोजयत्॥ २०.२५ ॥

विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः॥
ततः प्रहस्य तं विष्णुः साधुसाध्विति भारत॥ २०.२६ ॥

करस्पर्शेन कृतवान्विमोहं विनतात्मजम्॥
समाश्वास्य च तं वाग्भिः शक्तिं दृष्ट्वा च निष्फलाम्॥ २०.२७ ॥

कुभार्यस्य यथा पुंसः सर्वंस्याच्चिन्तितं वृथा॥
दृठसारमहामौर्वीमन्यां संयोजयत्ततः॥ २०.२८ ॥

कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः॥
ततोऽस्त्रतेजसा सर्वमाकाशं नैव दृश्यते॥ २०.२९ ॥

भूमिर्दिशश्च विदिशो बामजालमया बुभुः॥
दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः॥ २०.३० ॥

ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम्॥
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकभीषणम्॥ २०.३१ ॥

अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः॥
कालदण्डास्त्रमकरोत्सर्वलोकभयङ्करम्॥ २०.३२ ॥

सन्धीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ॥
चकम्पे च मही देवी भिन्नाश्चाम्बुधयोऽभवन्॥ २०.३३ ॥

तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः॥
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे॥ २०.३४ ॥

नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच॥
ऐषीकमस्त्रं च चकार जम्भो युद्धस्य दण्डास्त्र निवारणाय॥ २०.३५ ॥

यावच्च सन्धानवशं प्रयान्ति नारायणादीनि निवारणाय॥
तावत्क्षणेनैव जघान कोटीन्दैत्येश्वराणां किल कालदण्डः॥ २०.३६ ॥

अनन्तरं शान्तभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम्॥
शान्तं तदालोक्य हरिः स्वमस्त्रं कोपेन कालानलतुल्यमूर्तिः॥ २०.३७ ॥

जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम्॥
चिक्षेप सेनापतये ज्वलन्तं चतुर्भूजः संयति सम्प्रगृह्य॥ २०.३८ ॥

तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात्॥
नाशक्नुन्वारयितुं प्रचण्डं दैवं यथा पूर्वमिवोपपन्नम्॥ २०.३९ ॥

तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे॥
तद्रक्तधारा रुणघोरनाभि जगाम भूयोपि करं मुरारेः॥ २०.४० ॥

चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि॥
दैत्याश्च शेषा भृशशौकमापुः क्रोधं च केचित्पिपिषुर्भुजांश्च॥ २०.४१ ॥

ततो विनिहते दैत्ये ग्रसने बलनायके॥
निर्मर्यादमयुध्यन्त हरिणा सह दानवाः॥ २०.४२ ॥

पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि॥
तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च॥ २०.४३ ॥

तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः॥
एकैकं शतधा चक्रे बाणैरग्नि शिखोपमैः॥ २०.४४ ॥

जघान तेषां सङ्क्रुद्धः कोटिकोटिं जनार्दनः॥
ततस्ते सहसा भूत्वा न्यपतन्केशवोपरि॥ २०.४५ ॥

गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः॥
ललम्बिरे च पक्षाभ्यां मुखे चान्ये ललम्बिरे॥ २०.४६ ॥

केशवस्यापि धनुषि भुजयोः शीर्ष एव च॥
ललम्बिरे महादैत्या निनदन्तो मुहुर्मुहुः॥ २०.४७ ॥

तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः॥
हाहेति मुमुचुर्नादसम्बरे चास्तुवन्हरिम्॥ २०.४८ ॥

ततो हरिर्विनिर्धूय पातयामास तान्भुवि॥
यथा प्रबुद्धः पुरुषो दोषान्संसारसम्भवान्॥ २०.४९ ॥

विकोशं च ततः नन्दकं खड्गमुत्तमम्॥
चर्म चाप्यमलं विष्णुः पदातिस्तानधावत॥ २०.५० ॥

ततो मुहूर्तमात्रेण पद्मानि दश केशवः॥
चकर्त्त मार्गे बहुभिर्विचरन्दैत्यसत्तमान्॥ २०.५१ ॥

ततो निमिप्रभृतयो विनद्यासुरसत्तमाः॥
अधावन्त महेष्वासाः केशवं पादचारिणम्॥ २०.५२ ॥

गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः॥
उवाच च गरुत्मन्तं तस्मिंश्च तुमुले रणे॥ २०.५३ ॥९
अश्रान्तो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज॥
श्रान्तश्चेच्च मुहूर्तं त्वं रणादपसृतो भव॥ २०.५४ ॥
॥तार्क्ष्य उवाच॥
न मे श्रमोऽस्ति लोकेश किञ्चित्संस्मरतश्च मे॥
यन्मे सुतान्वाहनत्वे कल्पयामास तारकः॥ २०.५५ ॥

इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत्॥
दैत्यस्तवभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम्॥ २०.५६ ॥

जघान भिण्डिपालेन शितधारेण वक्षसि॥
तं प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे॥ २०.५७ ॥

जघान पञ्चभिर्बाणैर्गिरीन्द्रस्यापि भेदकैः॥
आकर्णकृष्टैर्दशभिः पुनर्विद्धः स्तनान्तरे॥ २०.५८ ॥

विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः॥
गृहीत्वा परिघं मूर्ध्नि जनार्दनमताडयत्॥ २०.५९ ॥

विष्णुस्तेन प्रहारेण किञ्चिदाघूर्णितोऽभवत्॥
ततः कोपविवृत्ताक्षो गदां जग्राह माधवः॥ २०.६० ॥

तया सन्ताडयामास मथनं हृदये दृढम्॥
स पपात तथा भूमौ चूर्णिताङ्गो ममार च॥ २०.६१ ॥

तस्मिन्निपतिते भूमौ मथने मथिते भृशम्॥
अवसादं युयुर्दैत्याः सर्वे ते युद्धमण्डले॥ २०.६२ ॥

ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु॥
चुकोप रक्तनयनो महिषो दानवेश्वरः॥ २०.६३ ॥

प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः॥
रीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्॥ २०.६४ ॥

शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम्॥
ततो विवृत्य वदनं महामलगुहानिभम्॥ २०.६५ ॥

ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मन्तमच्युतम्॥
अथाच्‌युतोऽपि विज्ञाय दानवस्य चिकीर्षितम्॥ २०.६६ ॥

वदनं पूरयामास दिव्यैस्त्रैर्महाबलः॥
स तैर्बाणैरभिहतो महिषोऽचलसन्निभः॥ २०.६७ ॥

परिवर्तितकायार्धः पपाताथ ममार च॥
महिषं पतितं दृष्ट्वा जीवयित्वा पुनर्हरिः॥ २०.६८ ॥

महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव॥
योषिद्वध्यः पुरोक्तस्त्वं साक्षात्कमलयोनिना॥ २०.६९ ॥

उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात्॥
इत्युक्तो हरिणा तस्माद्देशादपगतोऽसुरः॥ २०.७० ॥

तस्मिन्पराङ्मुखे दैत्ये महिषे शुम्भदानवः॥
सन्दष्टौष्ठपुटाटोपो भृकुटीकुटिलाननः॥ २०.७१ ॥

निर्मध्य पाणिना पाणिं धनुरादाय भैरवम्॥
सज्जीकृत्य महाघोरान्मुमोच शतशः शरान्॥ २०.७२ ॥

स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः॥
बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसङ्ख्यैः प्रतिघाहीनैः॥ २०.७३ ॥

विष्णुश्च दैत्येन्द्रशरार्दितो भृशं भुशुण्डिमादाय कृतान्ततुल्याम्॥
तया मुखं चास्य पिपेष सङ्ख्ये शुम्भस्य जत्रुं च धराधराभम्॥ २०.७४ ॥

ततस्त्रिभिः शम्भुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम्॥
विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य बाणैर्ज्वलनार्कवर्णैः॥ २०.७५ ॥

स तैश्च विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणिताक्तः॥
ततोऽस्य किञ्चिच्चलितस्य धैर्यादुवाच शङ्खाम्बुजसार्ङ्गपाणिः॥ २०.७६ ॥

योषित्सुवध्योऽसि रणं विभुञ्च शुम्भाऽशुभ स्वल्पतरैरहोभिः॥
मत्तोर्हसि त्वं न वृथैव मूढ ततोऽपयातः स च शम्भदानवः॥ २०.७७ ॥

जम्भोऽथ तद्विष्णुमुखान्निशम्य जगर्ज चोच्चैः कृतसिंहनादः॥
प्रोवाच वाक्यं च सलीलमाजौ महाट्टहासेन जगद्विकम्प्य॥ २०.७८ ॥

किमेभिस्ते जलावास दैत्यैर्हीनपराक्रमैः॥
मामासादय युद्धेऽस्मिन्यदि ते पौरुषं क्वचित्॥ २०.७९ ॥

यत्ते पूर्वं हता दैत्या हिरण्याक्षमुखाः किल॥
जम्भस्तदाभवन्नैव पश्य मामद्य संस्थितम्॥ २०.८० ॥

पश्य तालप्रती काशौ भुजावेतौ हरे मम॥
वक्षो वा वज्रकठिनं मयि प्रहर तत्सुखम्॥ २०.८१ ॥

इत्युक्तः केशवस्तेन सृक्किणी संलिहन्रुषा॥
मुमोच परिघङ्घोरं विरीणामपि दारणम्॥ २०.८२ ॥

ततस्तस्याप्यनुपदं कालायसमयं दृढम्॥
मुमोच मुद्गरं विष्णुर्द्वितीयं पर्वतं यथा॥ २०.८३ ॥

तदायुधद्वयं दृष्ट्वा जम्भो न्यस्य रथे धनुः॥
आप्लुत्य परिघं गृह्य गरुडं तेन जघ्निवान्॥ २०.८४ ॥

द्वितीयं मुद्गरं चानु गृहीत्वा विनदन्रणे॥
सर्वप्राणेन गोविन्दं तेन मूर्ध्नि जघान सः॥ २०.८५ ॥

ताभ्यां चातिप्रहाराभ्यामुभौ गरुडकेशवौ॥
मोहाविष्टौ विचेतस्कौ मृतकल्पाविवासताम्॥ २०.८६ ॥

तदद्भुतं महद्दृष्ट्वा जगर्जुर्दैत्यसत्तमाः॥
नैतान्हर्षमदोद्धूतानिदं सेहे जगत्तदा॥ २०.८७ ॥

सिंहनादैस्तलोन्नाहैर्धनुर्नादैश्च बाणजैः॥
जम्भं ते हर्षयामासुर्वासांस्यादुधुवुश्च ते॥ २०.८८ ॥

शङ्खांश्च पूरयामासुश्चिक्षिपुर्देवता भृशम्॥ २०.८९ ॥

सञ्ज्ञामवाप्याथ महारणे हरिः सवैनतेयः परिरभ्य जम्भम्॥
पराङ्मुखः संयुगादप्रधृष्यात्पलायनं वेगपरश्चकार॥ २०.९० ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे दैत्यैः सह विष्णोर्युद्धवर्णनन्नाम विंशोऽध्यायः॥ २० ॥ छ ॥