१८

[अध्यायः १८]

वेदव्यासः

अध्यायः १८
॥नारद उवाच॥
धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः॥
दिशोपरुद्धाः क्रुद्धेन सैन्यं चाभ्यर्दितं भृशम्॥ १८.१ ॥

तद्दृष्ट्वा कर्म दैत्यस्य धनाध्यक्षः प्रतापवान्॥
आकर्णाकृष्टचापस्तु जम्भमाजौ महाबलम्॥ १८.२ ॥

हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम्॥
स प्रहस्य ततो वीरो बाणानामयुतत्रयम्॥ १८.३ ॥

नियुतं च तथा कोटिमर्बुदं चाक्षिपत्क्षणात्॥
तस्य तल्लाघ्रवं दृषट्वा क्रुद्धो गृह्य महागदाम्॥ १८.४ ॥

धनाध्यक्षः प्रचिक्षेप स्वर्गेप्सुः स्वधनं यथा॥
मुक्तायां वै नादोऽभूत्प्रलये यथा॥ १८.५ ॥

भूतानां बहुधा रावा जज्ञिरे खे महाभयाः॥
वायुश्च सुमहाञ्जज्ञे खमायान्मेघसङ्कुलम्॥ १८.६ ॥

सा हि वैश्रवणस्यास्ते त्रैलोक्याभ्यर्चिता गदा॥
आयान्तीं तां समालोक्य तडित्सङ्घातदुर्द्दशाम्॥ १८.७ ॥

दैत्यो गदाविघातार्थं शस्त्रवृष्टिं मुमोच ह॥
चक्राणि कुणपान्प्रासाञ्छतघ्नीः पट्टिशांस्तथा॥ १८.८ ॥

परिघान्मुशलान्वृक्षान्गिरींश्चातुलविक्रमः॥
कदर्थीकृत्य शस्त्राणि तानि सर्वाणि सा गदा॥ १८.९ ॥

कल्पान्तभास्करो यद्वन्न्यपतद्दैत्यवक्षसि॥
स तया गाढभिन्नः सन्सफेनरुधिरं वमन्॥ १८.१० ॥

निःपपात रथाज्जम्भो वसुधां गतचेतनः॥
जम्भं निपतितं दृष्ट्वा कुजम्भो घोरनिश्चयः॥ १८.११ ॥

धनाधिपस्य सङ्क्रुद्धो नादेनापूरयन्दिशः॥
चक्रे बाणमयं जालं शकुन्तस्येव पञ्जरम्॥ १८.१२ ॥

विच्छिद्य बाणजालं च मायाजालमिवोत्कटम्॥
मुमोच बाणानपरांस्तस्य यक्षाधिपो बली॥ १८.१३ ॥

चिच्छेद लीलया तांश्च दैत्यः क्रोधीव सद्वचः॥
निष्फलांस्तांस्ततो दृष्ट्वा बाणान्क्रुद्धो धनाधिपः॥ १८.१४ ॥

शक्तिं जग्राह दुर्धर्षां शतघण्टामहास्वनाम्॥
प्रेषिता सा तदा शक्तिर्दारयामास तं हृति॥ १८.१५ ॥

यथाल्पबोधं पुरुषं दुःखं संसारसम्भवम्॥
तथास्य हृदयं भित्त्वा जगाम धरणीतलम्॥ १८.१६ ॥

निमेषात्सोभिसंस्तम्भ्य दानवो दारुणाकृतिः॥
जग्राह पट्टिशं दैत्यो गिरीणामपि भेदनम्॥ १८.१७ ॥

स तेन पट्टिसेनाजौ धनदस्य स्तनान्तरम्॥
वाक्येन तीक्ष्णरूपेण मर्माक्षरविसर्पिणा॥ १८.१८ ॥

निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा॥
तेन पट्टिश घातेन धनेशः। परिमूर्छितः॥ १८.१९ ॥

निषसाद रथोपस्थे दुर्वाचा सुजनो यथा॥
तथागतं तु तं दृष्ट्वा धनेशं वै मृतं यथा॥ १८.२० ॥

राक्षसो निर्ऋतिर्देवो निशाचरबलानुगः॥
अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम्॥ १८.२१ ॥

अथ दृष्ट्वातिदुर्धर्षं कुजम्भो राक्षसेश्वरम्॥
नोदयामास दैत्यान्स राक्षसेशरथं प्रति॥ १८.२२ ॥

स दृष्ट्वा नोदितां सेनां प्रबलास्त्रां सुभीषणाम्॥
रथादाप्लुत्य वेगेन निर्ऋती राक्षसेश्वरम्॥ १८.२३ ॥

खड्गेन तीक्ष्णधारेण चर्मपाणिरधावत॥
प्रविश्य दानवानीकं गजः पद्मसरो यथा॥ १८.२४ ॥

लोडयामास बहुधा विनिष्कृत्य सहस्रशः॥
चिच्छेद कांश्चिच्छतशो बिभेदान्यान्वरासिना॥ १८.२५ ॥

सन्दष्टौष्ठमुखैः पृथ्वीं दैत्यानां सोऽभ्यपूरयत्॥
ततो निःशेषितप्रायां विलोक्य स्वां चमूं तदा॥ १८.२६ ॥

मुक्त्वा धनपतिं दैत्यः कुजम्भो निर्ऋतिं ययौ॥
लब्धसञ्ज्ञस्तु जम्भोऽपि धनाध्यक्षपदानुगान्॥ १८.२७ ॥

जीवग्राहं स जग्राह बद्धा पाशैः सहस्रधा॥
मूर्तिमन्ति च रत्ननि पद्मादींश्च निधींस्तथा॥ १८.२८ ॥

वाहनानि च दिव्यानि विमानानि च सर्वशः॥
धनेशो लब्धसञ्ज्ञस्तु तामवस्थां विलोक्य सः॥ १८.२९ ॥

निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः॥
ध्यात्वास्त्रं गारुडं दिव्यं बाणं सन्धाय कार्मुके॥ १८.३० ॥

मुमोच दानवानीके तं बाणं शत्रुदारणम्॥
प्रथमं कार्मुकं तस्य वह्निज्वालमदृश्यत॥ १८.३१ ॥

निश्चेरुर्विस्फुलिङ्गानां कोटयो धनुषस्तथा॥
ततो ज्वालाकुलं व्योम चक्रे चास्त्रं समन्ततः॥ १८.३२ ॥

तदस्त्रं सहसा दृष्ट्वा जम्भो भीमपराक्रमः॥
संवर्तं मुमुचे तेन प्रशान्तं गारुडं तदा॥ १८.३३ ॥

ततस्तं दानवो दृष्ट्वा कुबेरं रोषविह्वलः॥
अभिदुद्राव वेगेन पदातिर्धनदं नदन्॥ १८.३४ ॥

अथाभिमुखमायान्तं दैत्यं दृष्ट्वा धनाधिपः॥
बभूव सम्भ्रमाविष्टः पलायनपरायणः॥ १८.३५ ॥

ततः पलायतस्तस्य मुकुटो रत्नमण्डितः॥
पपात भूतले दीप्तो रविबिम्बमिवाम्बरात्॥ १८.३६ ॥

यक्षणामभिजातानां भग्नं प्रववृते रणात्॥
मर्तुं सङ्ग्राम शिरसि युक्तं नो भूषणाय तत्॥ १८.३७ ॥

इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः॥
युयुत्सवस्तथा यक्षा मुकुटं परिवार्य ते॥ १८.३८ ॥

अभिमान धना वीरा धनस्य पदानुगाः॥
तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः॥ १८.३९ ॥

भुशुण्डीं भीषणाकारां गृहीत्वा शैलगौरवाम्॥
रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान्॥ १८.४० ॥

तान्प्रमथ्याथ नियुतं मुकुटं तं स्वके रथे॥
समारोप्यामररिपुर्जित्वा धनदमाहवे॥ १८.४१ ॥

धनानि च निधीन्गृह्य स्वसैन्येन समावृतः॥
नादेन महता देवान्द्रावयामास सर्वशः॥ १८.४२ ॥

धनदोऽपि धनं सर्वं गृहीतो मुक्तमूर्धजः॥
पदातिरेकः सन्त्रस्तः प्राप्यैवं दीनवत्स्थितः॥ १८.४३ ॥

कुजम्भेनाथ संसक्तो रजनीचरनन्दनः॥
मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः॥ १८.४४ ॥

मोहयामास दैत्येन्द्रो जगत्कृत्वा तमोमयम्॥
ततो विफलनेत्राणि दानवानां बलानि च॥ १८.४५ ॥

न शेकुश्चलितुं तत्र पदादपि पदं तदा॥
ततो नानास्त्रवर्षेण दानवानां महाचमूः॥ १८.४६ ॥

जघान निर्ऋतिर्देवस्तमसा संवृता भृशम्॥
हन्यमानेषु दैत्येषु कुजम्भे मूढचेतसि॥ १८.४७ ॥

महिषो दानवेन्द्रस्तु कल्पान्तां भोदसन्निभः॥
अस्त्रं चकार सावित्रमुल्कासङ्घातमण्डितम्॥ १८.४८ ॥

विजृम्भत्यथ सावित्रे परमास्त्रे प्रातपिनि॥
प्रणासमगमत्तीव्रं तमो घोरमनन्तरम्॥ १८.४९ ॥

ततोऽस्त्रविस्फुलिङ्गाङ्कं तमः शुक्लं व्यजायत॥
प्रोत्फुल्लारुणपद्मौघं शरदीवामलं सरः॥ १८.५० ॥

ततस्तमसि संशान्ते दैत्येन्द्राः प्राप्तचक्षुषः॥
चक्रुः क्रुरेण तमसा देवानीकं महाद्भुतम्॥ १८.५१ ॥

अथादाय धनुर्घोरमिषुं चाशीविषोपमम्॥
कुजम्भोऽधावत क्षिप्रं रक्षोदेवबलं प्रति॥ १८.५२ ॥

राक्षसेन्द्रस्तथायान्तं दृषट्वा तं स पदानुगः॥
विव्याध निशितैर्बाणैः कालाशनिसमस्वनैः॥ १८.५३ ॥

नादानं न च सन्धानं न मोक्षो वास्य लक्ष्यते॥
चिच्छेदोग्रैः शरव्रातैस्ताञ्छरानतिलाघवात्॥ १८.५४ ॥
ध्वजं शरेण तीक्ष्णेन निचकर्तामरद्विषः॥
सारथिं चास्य भल्लेन रथनीडादपाहरत्॥ १८.५५ ॥

कालकल्पेन बाणेन तं च वक्षस्याताडयत्॥
स तु तेन प्रहारेण चकम्पे पीडितो भृशम्॥ १९.५६ ॥

दैत्येन्द्रो राक्षसेन्द्रेण क्षितिकम्पेनगो यथा॥
स सुहूर्तात्समाश्वास्य मत्वा तं दुर्जयं रणे॥ १८.५७ ॥

पदातिरासाद्य रथं रक्षो वामकरेण च॥
केशेषु निर्ऋतिं गृह्य जानुनाक्रम्य च स्थितः॥ १८.५८ ॥

ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः॥
ततः कलकलो जज्ञे देवानां सुमहांस्तदा॥
कुजम्भस्य वशं प्राप्तं दृष्ट्वा निर्ऋतिमाहवे॥ १८.५९ ॥

एतस्मिन्नन्तरे देवो वरुणः पाशभृद्धृतः॥
पाशेन दानवेन्द्रस्य बबन्धाशु भुजद्वयम्॥ १८.६० ॥

ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम्॥
ताडयामास गदया दयामुत्सृज्य पाशभृत्॥ १८.६१ ॥

स तु तेन प्रहारेण स्रोतोभिः क्षतजं स्रवन्॥
दधार कालमेघस्य रूपं विद्युल्लताभृतम्॥ १८.६२ ॥

तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः॥
व्यावृत्तवदनारावो भोक्तुमैच्छत्सुरावुभौ॥ १८.६३ ॥

निर्ऋति वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः॥
तावभिप्रायमा लोक्य तस्य दैत्यस्य दूषितम्॥ १८.६४ ॥

त्यक्त्वा रथावुभौ भीतौ पदाती प्रद्रुतौ द्रुतम्॥
जग्मतुर्महिषाद्भीतौ शरणं पाकशासनम्॥ १८.६५ ॥

क्रुद्धोऽथ महिषो दैत्यो वरुणं समुपाद्रवत्॥
तमन्तकमुखासन्नमालोक्य हिमदीधितिः॥ १८.६६ ॥

चक्रे शस्त्रं विसृष्टं हि हिमसङ्घातमुल्बणम्॥
वायव्यं चास्त्र मतुलं चन्द्रश्चक्रे द्वितीयकम्॥ १८.६७ ॥

वायुना तेन चण्डम्न संशुष्केण हिमेन च॥
महाहिमनिपातेन शस्त्रैश्चन्द्रप्रणोदितैः॥ १८.६८ ॥

गात्राण्यसुरसैन्यानामदह्यन्त समन्ततः॥
व्यथिता दानवाः सर्वे सीतच्छादितपौरुषाः॥ १८.६९ ॥

न शेकुश्चलिन्तुं तत्र नास्त्राण्यादातुमेव च॥
महिषो निष्प्रयत्नश्च शीतेनाकम्पिताननः॥ १८.७० ॥

अंसमालिङ्ग्य पाणिभ्यामुपविष्टो ह्यधोमुखः॥
सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः॥ १८.७१ ॥

रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः॥
तत्राब्रवीत्कालनेमिर्दैत्यान्क्रोधविदीपितः॥ १८.७२ ॥

भोभोः श्रृङ्गारिणः क्रूराः सर्वशस्त्रास्त्रपारगाः॥
एकैकोऽपि जगत्कृस्नं शक्तस्तुलयितुं भुजैः॥ १८.७३ ॥

एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम्॥
एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः॥ १८.७४ ॥

किं त्रस्तनयनाश्चैव समरे परिनिर्जिताः॥
न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम्॥ १८.७५ ॥

राज्ञश्च तारकस्यापि दर्शयिष्यथ किं मुखम्॥
विरतानां रणाच्चासौ क्रुद्धः प्राणान्हरिष्यति॥ १८.७६ ॥

इति ते प्रोच्यमानापि नोचुः किञ्चिन्महासुराः॥
शीतेन नष्टश्रुतयो भ्रष्टवाक्याश्च ते तथा॥ १८.७७ ॥

मूकास्तथाभवन्दैत्या मृतकल्पा महारणे॥
तान्दृष्ट्वा नष्टचेतस्कान्दैत्याञ्छीतेन पीडितान्॥ १८.७८ ॥

मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः॥
आश्रित्य मानवीं मायां वितत्य च महावपुः॥ १८.७९ ॥

पूरयामास गगनं विदिश एव च॥
निर्ममे दानवेन्द्रोऽसौ शरीरेभास्करायुतम्॥ १८.८० ॥

दिशश्च विदिशश्चैव पूरयामास पावकैः॥
ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्॥ १८.८१ ॥

तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम्॥
ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ॥ १८.८२ ॥

तद्बलं दानवेन्द्राणां मायया कालनेमिनः॥
तद्दृष्ट्वा दानवानीकं लब्धसञ्ज्ञं दिवाकरः॥
उवाचारुणमत्यर्थं कोपरक्तान्तलोचनः॥ १८.८३ ॥

॥दिवाकर उवाच॥
नयारुण रथं शीघ्रं कालनेमिरथो यतः॥ १८.८४ ॥

विमर्दे तत्र विषमे भविता भूतसङ्क्षयः॥
जित एषशशाङ्कोऽथ वयं यद्बलमाश्रिताः॥ १८.८५ ॥

इत्युक्तश्चोदयामास रथं गरुडपूर्वजः॥
रथे स्थितोऽपि तैरश्वैः सितचामरधारिभिः॥ १८.८६ ॥

जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः॥
शरौघो वै पाण्डुपुत्र क्षिप्रमासीद्विषद्युतिः॥ १८.८७ ॥

शम्बरास्त्रेण सन्धाय बाणमेकं ससर्ज ह॥
द्वितीयं चेन्द्रजालेनायोजितं प्रमुमोच ह॥ १८.८८ ॥

शम्बरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम्॥
देवानां दानवं रूपं दानवानां च दैविकम्॥ १८.८९ ॥

मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात्॥
कालनेमी रुषाविष्टः कृतान्त इव सङ्क्षये॥ १८.९० ॥

कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः॥
कांश्चिद्गदाभिर्घोराभिः कांश्चिद्धोरैः परश्वधैः॥ १८.९१ ॥

शिरांसि केषाचिदपातयद्रथाद्भुजांस्तथा सारथींस्चोग्रवेगान्॥
कांश्चित्पिपेषाथरथस्य वेगात्कांश्चित्तथात्यद्भुतमुष्टिपातैः॥ १८.९२ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिका खण्डे तारकसैन्यदेवसैन्ययोर्युद्धवर्णनन्नामाष्टादशोऽध्यायः॥ १८ ॥ छ ॥