[अध्यायः १७]
वेदव्यासः
अध्यायः १७
॥नारद उवाच॥
ततस्तयोः समायोगः सेनयोरुभयोरभूत्॥
युगान्ते समनुप्राप्ते यथा क्षुब्धसमुद्रयोः॥ १७.१ ॥
सुरासुराणां सम्मर्दे तस्मिन्परमदारुणे॥
तुमुलं सुमहत्क्रान्ते सेनयोरुभयोरपि॥ १७.२ ॥
गर्जतां देवदैत्यानां शङ्खभेरीरवेण च॥
तूर्याणां चैव निर्घोषैर्मातङ्गानां च बृंहितैः॥ १७.३ ॥
हेषितैर्हयवृन्दानां रथनेमिस्वनेन च॥
घोषेण चैव तूर्याणां युगान्त इव चाभवत्॥ १७.४ ॥
रोषेणाबिपरीताङ्गास्त्यक्तजीवितचेतसः॥
समसज्जन्त तेन्योन्यं प्रक्रमेणातिलोहिताः॥ १७.५ ॥
रथा रथैः समासक्ता गजाश्चापि महागजैः॥
पत्तयः पत्तिभिश्चैव हयाश्चापि महाहयैः॥ १७.६ ॥
ततः प्रासाशनिगदाभिण्डिपालपरश्वधैः॥
शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कणयैर्गुडैः॥ १७.७ ॥
चक्रैश्च शक्तिभिश्चैव तोमरैरङ्कुशैरपि॥
कर्णिनालीकनाराचवत्सदन्तार्द्धचन्द्रकैः॥ १७.८ ॥
भल्लैर्वेतसपत्रैश्च शुकतुण्डैश्च निर्मलैः॥
वृष्टिभिश्चाद्भुताकारैर्गगनं समपद्यत॥ १७.९ ॥
सम्प्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत्॥
प्राज्ञायन्त न तेऽन्योन्यं तस्मिंस्तमसि सङ्कुले॥ १७.१० ॥
अदृश्यभूतास्तमसि न्यकृन्तन्त परस्परम्॥
ततो भुजैर्ध्वजैश्छत्रैः शिरोभिश्च सकुण्डलैः॥ १७.११ ॥
गजैस्तुरङ्गैः पादातैः पतद्भिः पतितैरपि॥
आकाशशिरसो भ्रष्टैः पङ्कजैरिव भूश्चिता॥ १७.१२ ॥
भग्नदन्ता भिन्नकुम्भाश्छिन्नदीर्घमहाकराः॥
गजाः शैलनिभाः पेतुर्धरण्यां रुधिरस्रवाः॥ १७.१३ ॥
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः॥
पत्तयः कोटिशः पेतुस्तुरङ्गाश्च सहस्रशः॥ १७.१४ ॥
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम्॥
वैतालानन्ददायिन्यो व्यजायन्त सहस्रशः॥ १७.१५ ॥
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा॥
बाणवर्षेण महता देवसैन्यमकम्पयत्॥ १७.१६ ॥
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः॥
ववर्ष शरवर्षेण विशेषादग्निवर्चसा॥ १७.१७ ॥
स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः॥
कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम्॥ १७.१८ ॥
शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत्॥
ग्रसनेन विमुक्तांस्ताञ्छरान्सोपि निवार्य च॥ १७.१९ ॥
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत्॥
कृतान्तशरवृष्टीनां सन्ततीः प्रतिसर्पतीः॥
चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः॥ १७.२० ॥
विफलां तां समालोक्य यमः स्वशरसन्ततिम्॥ १७.२१ ॥
प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति॥
स तं मुद्गरमायान्तमुत्पत्य रथसत्तमात्॥ १७.२२ ॥
जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा॥
तेनैव मुद्गरेणाथ यमस्य महिषं रुषा॥ १७.२३ ॥
ताडयामास वेगेन स पपात महीतले॥
उत्पत्याथ यमस्तस्मान्महिषान्निपतिष्यतः॥ १७.२४ ॥
प्रासेन ताडयामास ग्रसनं वदने दृढम्॥
स तु प्राप्तप्रहारेण मूर्छितो न्यपतद्भुवि॥ १७.२५ ॥
ग्रसनं पतित दृष्ट्वा जम्भो भीमपराक्रमः॥
यमस्य भिण्डिपालेन प्रहारमकरोद्धृदि ॥ १७.२६ ॥
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात्॥
अतिगाढ प्रहारार्त्तः कृतान्तोमूर्छितोऽभवत्॥ १७.२७ ॥
कृतान्तमर्दितं दृष्ट्वा गदापाणिर्धनादिपः॥
वृतो यक्षायुतगणैर्जम्भं प्रत्युद्ययौ रुषआ॥ १७.२८ ॥
जम्भो रुषा तमायान्तं दानवा नीकसंवृतः॥
जग्राह वाक्यं राज्ञस्तु यता स्निग्धेन भाषितम्॥ १७.२९ ॥
ग्रसनो लब्धसञ्ज्ञोऽथ यमस्य प्राहिणोद्गदाम्॥
मणिहेमपरिष्कारां गुर्वी परिघमर्दिनीम्॥ १७.३० ॥
तामापतन्तीं सम्प्रेक्ष्य गदां महिषवाहनः॥
गदायाः प्रतिघातार्थं जगज्ज्वलनभैरवम्॥ १७.३१ ॥
दण्डं मुमोच कोपेन ज्वालामालासमाकुलम्॥
स गदां वियति प्राप्य ररासाम्बुधरोद्धतम्॥ १७.३२ ॥
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः॥
ताभ्यां निष्पेषनिर्ह्राद जडीकृतदिगन्तरम्॥ १७.३३ ॥
जगद्व्याकुलतां यातं प्रलयागमशङ्कया॥
क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम्॥ १७.३४ ॥
निष्पेषणं तयोर्भीमम भूद्गनगोचरम्॥
निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि॥ १७.३५ ॥
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम्॥
सतु तेन प्रहारेण दृष्ट्वा सतिमिरादिशः॥ १७.३६ ॥
पपात भूमौ निःसञ्ज्ञो भूमिरेणुविभूषितः॥
ततो हाहारवो घोरः सेनयोरुभयोरभूत्॥ १७.३७ ॥
ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम्॥
अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणाम्बराम्॥ १७.३८ ॥
स चापि चिन्तयामास कृतप्रतिकृतक्रियाम्॥
धिगस्तु पौरुषं मह्यं प्रभोरग्रेसरः कथम्॥ १७.३९ ॥
मय्याश्रितानि सैन्यानि जिते मयि जितानि च॥
असम्भावितरूपो हि सज्जनो मोदते सुखम्॥ १७.४० ॥
सम्भावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा॥
एवं सञ्चिन्त्य वेगेन समुत्तस्थौ महाबलः॥ १७.४१ ॥
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसन्निभम्॥
ग्रसनो घोरसङ्कल्पः सन्दष्टौष्ठपुटच्छदः॥ १७.४२ ॥
रथेन त्वरितोऽगच्छदाससादान्तकं रणे॥
समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम्॥ १७.४३ ॥
वेगेन महता रौद्रं चिक्षेप यममूर्धनि॥
विलोक्य मुद्गरं दीप्तं यमः सम्भ्रान्तलोचनः॥ १७.४४ ॥
वञ्चयामास दुर्द्धर्षं मुद्गरं तं महाबलः॥
तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम्॥ १७.४५ ॥
याम्यानां किङ्कराणां च अयुतं निष्पिपेष ह॥
ततस्तदयुतं दृष्ट्वा हतं किङ्करवाहिनी॥ १७.४६ ॥
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत॥
ग्रसनस्तु समालोक्य तां किङ्करमयां शुभाम्॥ १७.४७ ॥
मेने यमसहस्राणि तादृग्रूपबला हि सा॥
विगाह्य ग्रसनं सेना ववर्ष शरवृष्टिभिः॥ १७.४८ ॥
कल्पान्तघोरसङ्काशो बभूव स महारणः॥
केचिच्छैलेन बिभिदुः केचिद्बाणैरजिह्यगैः॥ १७.४९ ॥
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः॥
केचित्प्रासप्रहारैश्च ताडयामासुरुद्धताः॥ १७.५० ॥
अपरे किङ्करास्तस्य ललम्बुर्बाहुमण्डले॥
शिलाभिरपरे जघ्नुर्द्रुमैरन्ये महोच्छ्रयैः॥ १७.५१ ॥
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन्॥
अपरे मुष्टिभिः पृष्ठं किङ्करास्ताडयन्ति च ॥ १७.५२ ॥
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः॥
उत्साद्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः॥ १७.५३ ॥
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किङ्करान्रणे॥
कांश्चित्पादप्रहारेण धावन्नन्यानचूर्णयत्॥ १७.५४ ॥
क्षणैकेन स तान्निन्ये यमलोकायभारत॥
स च किङ्करयुद्धेन ववृधेऽग्निरिवैधसा॥ १७.५५ ॥
तमालोक्य यमोऽश्रान्तं श्रान्तंस्तांश्च हतान्स्वकान्॥
आजगाम समुद्यम्य दण्डं महिषवाहनः॥ १७.५६ ॥
ग्रसनस्तु तमायान्तमाजघ्ने गदयोरसि॥
अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तकोऽरिहा॥ १७.५७ ॥
व्याघ्रान्दण्डेन सञ्जघ्ने स रथान्न्य पतद्भुवि॥
ततः क्षणेन चोत्थाय सञ्चिन्त्यात्मानमुद्धतः॥ १७.५८ ॥
वायुवेगेन सहसा ययौ यमरथं प्रति॥
पदातिः स रथं तं च समारुह्य यमं तदा॥ १७.५९ ॥
योधयामास बाहुभ्यामाकृष्य बलिनां वरः॥
यमोऽपि शस्त्राण्युत्सृज्च बाहुयुद्धे प्रवर्तते॥ १७.६० ॥
ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः॥
भ्रामयामास वेगेन सम्भ्रमाविष्टचेतसम्॥ १७.६१ ॥
विमोच्याथ यमः कष्टात्कण्ठेऽवष्टभ्य चासुरम्॥
बाहुभ्यां भ्रामयामास सोऽप्यात्मानममोचयत्॥ १७.६२ ॥
ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ॥
दैत्येन्द्रस्यातिवीर्यत्वात्परिश्रान्ततरो यमः॥ १७.६३ ॥
स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत॥
तमा लक्ष्य ततो दैत्यः श्रान्तमुत्पाट्य चौजसा॥ १७.६४ ॥
निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः॥
ततो यमस्य वदनात्सुस्राव रुधिरं बहु॥ १७.६५ ॥
निर्जीवमिति तं दृष्ट्वा ततः सन्त्यज्य दानवः॥
जयं प्राप्योद्धतं नादं मुक्त्वा सन्त्रास्य देवताः॥ १७.६६ ॥
स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः॥ १७.६७ ॥
नादेन तस्य ग्रसनस्य सङ्ख्ये महायुधैश्चार्दितसर्वगात्राः॥
गते कृथान्ते वसुधां च निष्प्रभे चकम्पिरे कान्दिशिकाः सुरास्ते॥ १७.६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोर्युद्धवर्णनं नाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥