[अध्यायः १६]
वेदव्यासः
अध्यायः १६
॥ तारक उवाच॥
राज्येन बुद्बुदाभेन स्त्रीभिरक्षैश्च पानकैः॥
मोहितो जन्म लब्ध्वात्र त्यजते पौरुषं नरः॥ १६.१ ॥
जन्म तस्य वृथा सर्वमाकल्पान्तं न संशयः॥ १६.२ ॥
मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा॥
कीर्तिं हि वा नार्जयते न मानं नरः स जातोऽपि मृतोऽत्र लोके॥ १६.३ ॥
तस्माज्जयायामरपुङ्गवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम्॥
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम्॥ १६.४ ॥
ध्वजं च मे काञ्चनपट्टबन्धं छत्रं च मे मौक्तिकजालबद्धम्॥
अद्याहमासां सुरकामिनीनां धम्मील्लकांश्चाग्रथितान्करिष्ये॥ १६.५ ॥
यथा पुरा मर्कटको जनन्यास्तस्याश्च सत्येन तु तारकः स्याम्॥ १६.६ ॥
॥नारद उवाच॥
तारकस्य वचः श्रुत्वा ग्रसनोनाम दानवः॥
सेनानीर्दैत्यराजस्य तथा चक्रेऽविलम्बितम्॥ १६.७ ॥
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः॥
सज्जं चक्रे रथं दैत्यो दैत्यराजस्य धीमतः॥ १६.८ ॥
गरुडानां सहस्रेण गरुडोपमितत्विषा॥
ते हि पुत्राः सुपर्णस्य संस्थिता मेरुकन्दरे॥ १६.९ ॥
विजित्य दैत्यराजेन वाहनत्वे प्रकल्पिताः॥
अष्टाष्टचक्रः सरथश्चतुर्योजनविस्तृतः॥ १६.१० ॥
नानाक्रीडागृहयुतो गीतवाद्यमनोहरः॥
गन्धर्वनगराकारः संयुक्तः प्रत्यदृस्यत॥ १६.११ ॥
आजग्मुस्तत्र दैत्याश्च दशा चण्डपराक्रमाः॥
कोटिकोटिपरिवारा अन्ये च बहवो रणे॥ १६.१२ ॥
तेषामग्रेसरो जम्भः कुजम्भोनन्तरस्तथा॥
महिषः कुञ्जरो मेषः कालनेमिर्निमिस्तथा॥ १६.१३ ॥
मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः॥
दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः॥ १६.१४ ॥
नानाविधप्रहरणा नानाशस्त्रास्त्रपारगाः॥
तारकस्याभवत्केतुर्बहूरूपो महाभयः॥ १६.१५ ॥
क्वचिच्च राक्षसो घोरः पिशाचध्वाङ्क्षगृध्रकः॥
एवं बहुविधाकारः स केतुः प्रत्यदृश्यत॥ १६.१६ ॥
केतुना मकरेणापि सेनानीर्ग्रसनो बभौ॥
पैशाचं यत्र वदनं जम्भस्यासीदयस्मयम्॥ १६.१७ ॥
खरो विधुतलाङ्गूलः कुजम्भस्याभवद्ध्वजे॥
महिषस्य च गोमायुः कान्तो हैमस्तथां बभौ॥ १६.१८ ॥
गृध्रो वै कुञ्जरस्यासीन्मेषस्याभूच्च राक्षसः॥
कालनेमेर्महाकालो निमेरासीन्महातिमिः॥ १६.१९ ॥
राक्षसी मथनस्यापि ध्वाङ्क्षोऽभूज्जम्भकस्य च॥
महावृकश्च शुम्भस्य ध्वजा एवंविधा बभुः॥ १६.२० ॥
अनेकाकारविन्यासादन्येषां च ध्वजा भवन्॥
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम्॥ १६.२१ ॥
ग्रसनस्य रथो युक्तो महामेघरवो बभौ॥
शतेन चापि सिंहानां रथो जम्भस्य योजितः॥ १६.२२ ॥
कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः॥
तावद्भिर्महिषस्योष्टैर्गजस्य च हयैर्युतः॥ १६.२३ ॥
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः॥
पर्वतं वै समारूढो निश्चित्य विधृतं गजैः॥ १६.२४ ॥
चतुर्दंष्ट्रैर्गन्धवद्भिश्चर्भिर्मेघसन्निभैः॥
शतहस्तायते कृष्णे तुरङ्गे हेमभूषणे॥ १६.२५ ॥
सितचामरजालेन शोभिते पुष्पदामनि॥
मथनोनाम दैत्येन्द्रः पाशहस्तो व्यराजत॥ १६.२६ ॥
किङ्किणीमालिनं चोष्ट्रमारूढोऽभूच्च जम्भकः॥
कालमुञ्चं महामेघमारूढः शुम्भदानवः॥ १६.२७ ॥
अन्ये च दानवा वीरा नानावाहनहेतयः॥
प्रचण्डचित्रवर्माणः कुण्डलोष्णीषभूषिताः॥ १६.२८ ॥
नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः॥
नानासुगन्धगन्धाढ्या नानाबन्धिशतस्तुताः॥ १६.२९ ॥
नानावाद्यपरिस्यन्दसाग्रेसरमहारथाः॥
नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महारथाः॥ १६.३० ॥
तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत॥
भूमिरेणुसमालिङ्गत्तुरङ्गरथपत्तिकम्॥ १६.३१ ॥
स च दैत्येश्वरः क्रुद्धः समारूढो महारथम्॥
दशभिः शुशुबे दैत्यैर्दशबाहुरिवेश्वरः॥
जगद्धन्तुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति॥ १६.३२ ॥
एतस्मिन्नन्तरे वायुर्देवदूतः सुरालयम्॥
दृष्ट्वा तद्दानव बलं जगामेन्द्रस्य शंसितुम्॥ १६.३३ ॥
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः॥
शशम्स मध्ये देवानामिदं कार्यमुपस्थितम्॥ १६.३४ ॥
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः॥
बृहस्पतिमुवाचेदं वाक्यं काले महामतिः॥ १६.३५ ॥
॥इन्द्र उवाच॥
सम्प्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह॥
कार्यं किमत्र तद्ब्रुहि नीत्युपायोपबृंहितम्॥ १६.३६ ॥
एतच्छ्रुत्वा च वचनं महेन्द्रस्य गिराम्पतिः॥
प्रत्युवाच महाभागो बॉहस्पति रुदारधीः॥ १६.३७ ॥
॥बृहस्पतिरुवाच॥
सामपूर्वं स्मृता नीतिश्चतुरङ्गामनीकिनीम्॥
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी॥ १६.३८ ॥
साम दानं च भेदश्च चतुर्थो दण्ड एव च॥
नीतौ क्रमात्प्रयोज्याश्च देशकालविशेषतः॥ १६.३९ ॥
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च॥
दानं लुब्धेषु भेदश्च शङ्कितोष्वितो निश्चयः॥ १६.४० ॥
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु॥
साम दैत्येषु नैवास्ति निर्गुणत्वाद्दुरात्मसु।. १६.४१ ॥
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत्॥
जातिधर्मेण चाभेद्या विधातुरपि ते मताः॥ १६.४२ ॥
एको ह्युपायो दण्डोऽत्र भवतां यदि रोचते॥
दुर्जनः सुजनत्वाय कल्पते न कदाचन॥ १६.४३ ॥
लालितः पालितो वापि स्वस्वभावं न मुञ्चति॥
एवं मे मन्यते बुद्धिर्भवन्तो यद्व्यवस्यताम्॥ १६.४४ ॥
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह॥
कर्तव्यतां च सञ्चिन्त्य प्रोवाचामरसंसदि॥ १६.४५ ॥
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः॥ १६.४६ ॥
भवन्तो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः॥
स्वेस्वे पदे स्थिता नित्यं जगतः पालने रताः॥ १६.४७ ॥
भवतां च निमित्तेन बाधन्ते दानवेश्वराः॥
तेषां समादि नैवास्ति दण्ड एव विधीयताम्॥ १६.४८ ॥
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति॥
आवाद्यन्तां च शस्त्राणि पूज्यं तां शस्त्रदेवताः॥ १६.४९ ॥
इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः॥
वाजिनामयुतेनाजौ हेमपट्टपरिष्कृताः॥ १६.५० ॥
वाहनानि विमानानि योजयन्तु ममामराः॥
यमं सेनापतिं कृत्वा शीघ्रं निर्यात देवताः॥ १६.५१ ॥
नानाश्चर्यगुणोपेता दुर्जया देवदानवैः॥
रथो मातलिना युक्तो महेन्द्रस्याप्यदृश्यत॥ १६.५२ ॥
यमो महिषमास्थाय सेनाग्रे समवर्तत॥
चण्डकिङ्किणिवृन्देन सर्वतः परिवारितः॥ १६.५३ ॥
कल्पकालोज्जवालापूरिताम्बरगोचरः॥
हुताश उरणारूढः शक्तिहस्तो व्यवस्थितः॥ १६.५४ ॥
पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः॥
महाऋक्षं समारूढं सेनाग्रे समदृश्यत॥ १६.५५ ॥
भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम्॥
महापाशधरो वीरः सेनायां समवर्तत॥ १६.५६ ॥
नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत्॥
महासिंहरवो युद्धे गदाहस्तो व्यवस्थितः॥ १६.५७ ॥
राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः॥
धन्वी रक्षोगणवृतो महारावो व्यदृश्यत॥ १६.५८ ॥
चन्द्रादित्यावश्विनौ च वसवः साध्यदेवताः॥
विश्वेदेवाश्च रुद्राश्च सन्नद्धास्तस्थुराहवे॥ १६.५९ ॥
हेमपीठत्तरासङ्गाश्चित्रवर्मायुधध्वजाः॥
गन्धर्वाः प्रत्यदृश्यन्त कृत्वा विश्वावसुं मुखे॥ १६.६० ॥
तथा रक्तोत्तरासङ्गा निर्मलायोविभूषणाः॥
गृध्रध्वजा अदृश्यन्त राक्षसा रक्तमूर्धजाः॥ १६.६१ ॥
तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः॥
यक्षास्तत्र व्यदृश्यन्त मणिभद्रादिकोटिशः॥ १६.६२ ॥
ताम्रोलूकध्वजा रौद्रा द्वीपिचर्माम्बरास्तथा॥
पिशाचास्तत्र राजन्ते महावेगपुरःसराः॥ १६.६३ ॥
तथैव श्वेतवसनाः सितपट्टपताकिनः॥
मत्तेभवाहनप्रायाः किन्नरास्तस्थुराहवे॥ १६.६४ ॥
मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः॥
केतुर्जलधिनाथस्य सौम्यरूपो व्यराजत॥ १६.६५ ॥
पञ्चरागमहारत्नविटङ्को धनदस्य च॥
ध्वजः समुत्थितो भाति यातुकाम इवाम्बरम्॥ १६.६६ ॥
कार्ष्णलोहमयो ध्वाङ्क्षो यमस्याभून्महाध्वजः॥
राक्षसेशस्य वदनं प्रेतस्य ध्वज आबभौ॥ १६.६७ ॥
हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति॥
कुम्भेन चित्रवर्णेन केतुराश्विनयोरभूत्॥ १६.६८ ॥
मातङ्गो हेमरचितश्चित्ररत्नपरिष्कृतः॥
ध्वजः शतक्रतोरासीत्सितचा मरसंस्थितः॥ १६.६९ ॥
अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे॥
सनागयक्षगन्धर्वमहोरगनिशाचरा॥ १६.७० ॥
सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत॥
कोटयस्तास्त्रयस्त्रिंशन्नानादेवकायिनाम्॥ १६.७१ ॥
हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि॥
कृताभिरामोज्ज्वलकुङ्कुमाङ्कुरे कपोललीताविविमुक्तरावे॥ १६.७२ ॥
श्रितस्तदैरावणनामकुञ्जरे महाबलश्चित्रविशेषिताम्बरः॥
विशालवज्राङ्गवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः॥ १६.७३ ॥
सहस्रदृग्बन्दिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः॥ १६.७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे कौमारीकाखण्डे तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनन्नाम
षोडशोऽध्यायः॥ १६ ॥