[अध्यायः ३४]
वेदव्यासः
अध्यायः ३४
॥लोमश उवाच॥
राज्यं चकार कैलास दवदवा जगत्पतिः॥
गणैः समेतो बहुभिर्वीरभद्रान्वितो महान्॥ ३४.१ ॥
ऋषिभिः सहितो रुद्रो देवैरिन्द्रादिभिः सह॥
ब्रह्मा यस्य स्तुतिपरो विष्णुः प्रेष्यवदास्थितः॥ ३४.२ ॥
इन्द्रो देवगणैः सार्द्धं सेवाधर्मपरोऽभवत्॥
यस्य च्छत्रधरश्चन्द्रो वायुश्चामरधृक्तथा॥ ३४.३ ॥
सूपान्नकर्ता सततं जातवदा निरन्तरम्॥
गन्धर्वा गायका यस्य स्तावकाश्च पिनाकिनः॥ ३४.४ ॥
विद्याधराश्च बहवस्तथा चाप्सरसां गणाः॥
ननृतुश्चाग्रगा यस्य सोऽसौ कैलासपर्वते॥ ३४.५ ॥
पुत्रैर्गणेशस्कन्दाद्यैस्तथा गिरिजया सह॥
राज्यं प्रतापिभिश्चक्रेऽशङ्कश्चङ्क्रमणेन च॥ ३४.६ ॥
येनान्धको महा दैत्यः स देवानामरिर्महान्॥
दुष्टो विद्धस्त्रिशूलेन गगने स्थापितश्चिरम्॥ ३४.७ ॥
हत्वा गजासुरं येन उत्कृत्त्य चर्म वै कृतम्॥
चिरं प्रावरणं दिव्यं तथा त्रिपुरदीपनम्॥
विष्णुना पाल्यभूतेन रेजे सर्वाङ्गसुन्दरः॥ ३४.८ ॥
तं द्रष्टुकामो भगवान्नारदो दिव्य र्शनः॥
ययौ च पर्वतश्रेष्ठं कैलासं चन्द्रपाण्डुरम्॥ ३४.९ ॥
सुधया परया चापि सेवितं परमाद्भुतम्॥
कर्पूरगौरं च तदा दृष्ट्वा तं सुमहाबलम्॥
नारदो विस्मयाविष्टः प्रविष्टो गन्धमादनम्॥ ३४.१० ॥
अनेकाश्चर्यसंयुक्तं तपनैश्च सुशोभितम्॥
गायद्विद्याधरीभिश्च पूरितं च महाप्रभम्॥ ३४.११ ॥
कल्पद्रुमाश्च बहवो लताभिः परिवेष्टिताः॥
घनच्छायासू तास्वेव विशिष्टा कामधेनवः॥ ३४.१२ ॥
पारिजातवनामोदलम्पटा बहवोऽलयः॥
कलहंसाश्च बहवः क्रीडमानाः सरस्तु च॥ ३४.१३ ॥
शिखण्डिनो महच्चक्रुस्तत्र केकारवं मुदा॥
पञ्चमालापिनः सर्वे विहङ्गाः सम्मदान्विताः॥ ३४.१४ ॥
करिणः करिणीभिश्च मोदमानाः सुवर्चसः॥
सिंहास्तथा गर्जमानाः शार्दूलैः सह सङ्गताः॥ ३४.१५ ॥
वृषभा नन्दिमुख्याश्च रेभमाना निरन्तरम्॥
देवद्रुमाश्च बहवस्तथा चन्दनवाटिकाः॥ ३४.१६ ॥
नागपुन्नागबकुलाश्चम्पका नागकेसराः॥
तथा च वनजम्ब्वश्च तथा कनककेतकाः॥ ३४.१७ ॥
कह्लाराः करवीरिश्च कुमुदानि ह्यनेकशः॥
मन्दाराश्च बदर्यश्च क्रमुकाः पाटलास्तथा॥ ३४.१८ ॥
तथान्ये बहवो वृक्षाः शम्भोस्तोषकराह्यमी॥
ऐकपद्येन दृष्टास्ते नानाद्रुमलतान्विताः॥
आरामा बहवस्तत्र द्विगुणाश्च बभूविरे॥ ३४.१९ ॥
गगनान्निस्सृतः सद्यो गङ्गौघः परमाद्भुतः॥
पतितो मस्तके तस्य पर्वतस्य सुशोभिते॥ ३४.२० ॥
कूपो हि पयसां ये न पवित्रं वर्तते जगत्॥
सोपि द्विधा तदा दृष्टो नारदेन महात्मना॥ ३४.२१ ॥
सर्वं तदा द्विधाभूतं दृष्टं तेन महात्मना॥
नारदेन तदा विप्राः परमेण निरीक्षितः॥ ३४.२२ ॥
एवं विलोकमानोऽसौ नारदो भगवानृषिः॥
त्वरितेन तथा यातः शिवालोकनतत्परः॥ ३४.२३ ॥
यावद्द्वारि स्थितोपश्यन्महदाश्चर्यमेव च॥
द्वारपालौ तदा दृष्टौ कृतकौ विश्वक्मणा॥ ३४.२४ ॥
नारदो मोहितो ह्यासीत्पप्रच्छ च स तौ तदा॥
अहं प्रवेष्टुमिच्छामि शिवदर्शनलालसः॥ ३४.२५ ॥
तस्मादनुज्ञा दातव्या दर्शनार्थं शिवस्य च॥
अश्रृण्वन्तौ तदा दृष्ट्वा नारदो विस्मितोऽभवत्॥ ३४.२६ ॥
ज्ञानदृष्ट्या विलोक्याथ दूष्णीम्भूतोऽभवत्तदा॥
कृत्रिमौ हि च तौ ज्ञात्वा प्रविष्टो हि महामनाः॥ ३४.२७ ॥
तथान्ये तत्सरूपाश्च दृष्टास्तेन महात्मना॥
ऋषिः प्रणमितस्तैश्च नारदो भगवान्मुxx॥ ३४.२८ ॥
एवमादीन्यनेकानि आश्चर्याणि ददर्श सः॥
ददर्शाथ च सुव्यक्तं त्र्यम्बकं गिरिजान्वितम्॥ ३४.२९ ॥
अर्धासनगता साध्वी शङ्करस्य महात्मनः॥
तनया गिरिराज्य यया व्याप्तं जगत्त्रयम्॥ ३४.३० ॥
गौरी सितेक्षणा बाला तन्वङ्गी चारुलोचना॥
यया रूपी कृतः शम्भुरुपादेयः कृतो महान्॥ ३४.३१ ॥
निर्विकानि विकारैश्च बहुभिर्विकलीकृतः॥
अर्द्धागलग्ना सा देवी दृष्टा तेन शिवस्य च॥ ३४.३२ ॥
नारदेन तथा शम्भुर्दृष्टस्त्रिभुवनेश्वरः॥
शुद्धचामी करप्रख्यः सेव्यमानः सुरासुरैः॥ ३४.३३ ॥
शङ्खेन भोगिवर्येण सेवितं चाङ्घ्रिपङ्कजम्॥
धृतराष्ट्रेण च तथा तक्षकेण विशेषतः॥
तथा पद्मेन महा शेषेणापि विशेषतः॥ ३४.३४ ॥
अन्यैश्च नागवर्यैश्च सेवितो हि निरन्तरम्म्॥
वासुकिः कण्ठलग्नो हि हारभूतो महाप्रभः॥ ३४.३५ ॥
कम्बलाश्वतरौ नित्यं कर्णभूषणभूषितौ॥
जटामूलगताश्चान्ये महाफणिवरा ह्यमी॥ ३४.३६ ॥
अनेकजातिसंवीता नानावर्णाश्च पद्मिनः॥
तक्षकः कुलिकः शङ्खो धृतराष्ट्रो महाप्रभः॥ ३४.३७ ॥
पद्मो दम्भः सुदम्भश्च करालो भीषणस्तथा॥
एते चान्ये च बहवो नागाश्चाशीविषा ह्यमी॥ ३४.३८ ॥
अङ्गभूता हरस्या सन्पूज्यस्यास्य जगत्त्रये॥
फणैकया शोभमानाः केचिद्धि पन्नगोत्तमाः॥ ३४.३९ ॥
फणानां द्वितयं केषां त्रितयं च महाप्रभम्॥
चतुष्क पञ्चकषट्कं सप्तकं चाष्टकं तथा॥ ३४.४० ॥
नवकं दशकं चैव तथैकादशकं त्वथ॥
द्वादशकं चाष्टादशकमेकोनविंशकं तथा॥ ३४.४१ ॥
चत्वारिंशत्फणाः केऽपि पञ्चाशत्कं च षष्टिकम्॥
सप्ततिश्चाप्यशीतिश्च नवतिश्च तथैव च॥ ३४.४२ ॥
तथा शतसहस्राणि ह्ययुतप्रयुतानि च॥
अर्बुदानि च रत्नानि तथा शङ्खमितानि च॥ ३४.४३ ॥
अनन्ताश्च फणा येषां ते सर्पाः शिवभूषणाः॥
दृष्टास्तदानीं ते सर्वे नारदेन महात्मना॥ ३४.४४ ॥
विद्यावन्तोऽपि ते सर्वे भोगिनोऽपि सुशोभिताः॥
हारभूषणभूतास्ते मणिमन्तोऽमितप्रभाः॥ ३४.४५ ॥
अर्द्धचन्द्राङ्कितो यस्य कपर्द्दस्त्वतिसुन्दरः॥
चक्षुषा च तृतीयेन भालस्थेन विराजितः॥ ३४.४६ ॥
पञ्चवक्त्रो महादेवो बाहुभिर्द्दशभिर्वृतः॥
तथा मरकतश्यामकन्धरोऽतीवसुन्दरम्॥ ३४.४७ ॥
उरो यस्य विशालं च तथोरुजघनं परम्॥
चरणद्वयं च रुद्रस्य शोभितं परमं महत्॥ ३४.४८ ॥
तद्दृष्टं चरणारविन्दमतुलं तेजोमयं सुन्दरं सन्ध्यारागसुमङ्गलं च परमं
तापापनुत्तिङ्करम्॥
तेजोराशिकरं परात्परमिदं लावण्यलीलस्पदं सर्वेषां सुखवृद्धिकारणपरं शम्भोः
पदं पावनम्॥ ३४.४९ ॥
तथैव दृष्ट्वा परमं पराणां परा सती रूपवती च सुन्दरी॥
सौभाग्यलावण्यमहाविभूत्या विराजमाना ह्यतिसुन्दरी शुभा॥ ३४.५० ॥
दृष्ट्वा तौ दपती शुद्धौ राजमानौ जगत्त्रये॥
अभिन्नौ भेदमापन्नौ निर्गुणौ गुणिनौ च तौ॥ ३४.५१ ॥
साकारौ च निराकारौ निरातङ्कौ सुखप्रदौ॥
ववन्दे च मुदा तौ स नारदो भगवत्प्रियः॥
उत्थायोत्थाय च तदा तुष्टाव जगदीश्वरौ॥ ३४.५२ ॥
॥नारद उवाच॥
नतोस्म्यहं देववरौ युवाभ्यां परात्पराभ्यां कलया तथापि॥
दृष्टौ मया दम्पती राजमानौ यौ वीजभूतौ सचराचरस्य ॥ ३४.५३ ॥
पितरौ सर्वललोकस्य ज्ञातौ चाद्यैव तत्त्वतः॥
मया नास्त्यत्र सन्देहो भवतोः कृपया तथा॥ ३४.५४ ॥
एवं स्तुतौ तदा तेन नारदेन महात्मना॥
तुतोष भगवाञ्छम्भुः पार्वत्या सहितस्तदा॥ ३४.५५ ॥
॥महादेव उवाच॥
सुखेन स्थीयते ब्रह्मन्किं कार्यं करवाणि ते॥
तच्छ्रुत्वा वचनं शम्भोर्नारदो वाक्यमब्रवीत्॥ ३४.५६ ॥
दर्शनं जातमद्यैव तेन तुष्टोऽस्म्यहं विभो॥
दर्शनात्सर्वमेवाद्य शम्भो मम न संशयः॥ ३४.५७ ॥
क्रीडनार्थमिहायातः कैलासं पर्वतोत्तमम्॥
हृदिस्थो हि सदा नॄणामास्थितो भगवन्प्रभो॥ ३४.५८ ॥
तथापि दर्शनं भाव्यं सततं प्राणिनामिह॥ ३४.५९ ॥
॥गिरिजोवाच॥
का क्रीडा हि त्वया भाव्या वद शीघ्रं ममाग्रतः॥
तस्यास्तद्वचनं श्रुत्वा उवाच प्रहसन्निव॥ ३४.६० ॥
द्यूतक्रीडा महादेव दृश्यते विविधात्र च॥
भवेद्द्वाभ्यां च द्यूते हि रमणाच् महत्सुखम्॥ ३४.६१ ॥
इत्येवमुक्त्वो परतं सती भृशमुवाच वाक्यं कुपिता ऋषिं प्रति॥
कथं विजानासि परं प्रसिद्धं द्यूतं च दुष्टोदरकं मनस्विनाम्॥ ३४.६२ ॥
त्वं ब्रह्मपुत्रोऽसि मुनिर्मनीषिणां शास्ता हि वाक्यं विविधैः
प्रसिद्धैः॥
चरिष्यमाणो भुवनत्रये न हि त्वदन्यो ह्यपरो मनस्वी॥ ३४.६३ ॥
एवमुक्तस्तदा देव्या नारदो देवदर्शनः॥
उवाच वाक्यं प्रहसन्गिरिजां शिवसन्निधौ॥ ३४.६४ ॥
॥नारद उवाच॥
द्यूतं न जानामि न चाश्रयामि ह्यहं तपस्वी शिवकिङ्करश्च कथं च मां
पृच्छसि राजकन्यके योगीश्वराणां परमं पवित्रे॥ ३४.६५ ॥
निशम्य वाक्यं गिरिजा सती तदा ह्युवाच वाक्यं च विहस्य तं प्रति॥
जानासि सर्वं च बटोऽद्य पश्य मे द्यूतं महेशेन करोमि तेऽग्रतः॥ ३४.६६ ॥
इत्येवमुक्त्वा गिरिराजकन्यका जग्राह चाक्षान्भुवनैकसुन्दरी॥
क्रीडां चकाराथ महर्षिसाक्ष्यके तत्रास्थिता सा हि भवेन संयुता॥ ३४.६७ ॥
तौ दम्पती क्रीडया सज्जमानौ दृष्टौ तदा ऋषिणा नारदेन॥
सविस्मयोत्फुल्लमना मनस्वी विलोकमानोऽतितरां तुतोष॥ ३४.६८ ॥
सखीजनेन संवीता तदा द्यूतपरा सती॥
शिवेन सह सङ्गत्य च्छलाद्द्यूतमकारयत्॥ ३४.६९ ॥
स पणं च तदा चक्रे छलेन महता वृतः॥
जिता भवानी च तदा शिवेन प्रहसन्निव॥ ३४.७० ॥
नारदोऽस्याः शिवेनाथ उपहासकरोऽभवत्॥
निशम्य हारितं द्यूतमुपहासं निशम्य च॥ ३४.७१ ॥
नारदस्य दुरुक्तैश्च कुपिता पार्वती भृशम्॥
उवाच त्वरिता चैव दत्त्वा चैवार्द्धचन्द्रकम्॥ ३४.७२ ॥
तथा शिरोमणी चैव तरले च मनोहरे॥
मुखं सुखोभनं चैव तथा कुपितसुन्दरम्॥
दृष्टं हरेण च पुनः पुनर्द्यूतमकारयत्॥ ३४.७३ ॥
तथा गिरिजया प्रोक्तः शङ्करो लोकशङ्करः॥
हारितं च मया दत्तः पण एव च नान्यथा॥ ३४.७४ ॥
क्रियते च त्वया शम्भो कः पणो हि तदुच्यताम्॥
ततः प्रहस्य चोवाच पार्वतीं च त्रिलोचनः॥ ३४.७५ ॥
मया पणोऽयं क्रियते भवानि त्वदर्थमेतच्च विभूषणं महत्॥
सा चन्द्रलेखा हि महान्हि हारस्तथैव कर्णोत्पलभूषणद्वयम्॥ ३४.७६ ॥
इदमेव त्वया तन्वि मां जित्वा गृह्यतां सुखम्॥
ततः प्रवर्तितं द्यूतं शङ्करेण सहैव च॥ ३४.७७ ॥
एवं विक्रीडमानौ तावक्षविद्याविशारदौ॥
तदा जितो भवान्याथ शङ्करो बहुभूषणः॥ ३४.७८ ॥
प्रहस्य गौरी प्रोवाच शङ्करं त्वतिसुन्दरी॥
हारितं च पणं देहि मम चाद्यैव शङ्कर॥ ३४.७९ ॥
तदा महेशः प्रहसन्सत्यं वाक्यमुवाच ह॥
न जितोऽहं त्वया तन्वि तत्त्वतो हि विमश्यताम्॥ ३४.८० ॥
अजेयोऽहं प्राणिनां सर्वथैव तस्मान्न वाच्यं तु वोच हि साध्वि॥
द्यूतं कुरुष्वाद्य यथेष्टमेव जेष्यामि चाहञ्च पुनः प्रपश्या॥ ३४.८१ ॥
तदाम्बिकाह स्वपतिं महेशं मया जितोऽस्यद्य न विस्मयोऽत्र॥
एवमुक्त्वा तदा शम्भुं करे गृह्य वरानना॥
जितोऽसि त्वं न सन्देहस्त्वं न जानासि शङ्कर॥ ३४.८२ ॥
एवं प्रहस्य रुचिरं गिरिजा तु शम्भुं सा प्रेक्ष्या नर्मवचसा स तयाभिभूतः॥
देहीति म सकलमङ्गलमङ्गलेश यद्धारितं स्मररिपो वचसानुमोदितम्॥ ३४.८३ ॥
॥शिव उवाच॥
अजेयोऽहं विशालाक्षि तव नास्त्यत्र संशयः॥
अहङ्कारेण यत्प्रोक्तं तत्त्वतस्तद्विमृश्यताम्॥ ३४.८४ ॥
तस्य तद्वचनं श्रुत्वा प्रोवाच च विहस्य सा॥
अजेयो हि महादेवः सर्वेषामपि वै प्रभो॥ ३४.८५ ॥
मयैकया जितोऽसि त्वं द्यूतेन विमलेन हि॥
न जानासि च किञ्चिच्च कार्याकार्यं विवक्षितम्॥॥ ३४.८६ ॥
एवं विवदमानौ तौ दम्पती परमेश्वरौ॥
नारदः प्रहसन्वाक्यमुवाच ऋषिसत्तमः॥ ३४.८७ ॥
॥नारद उवाच॥
आकर्णयाऽऽकर्णविशालनेत्रे वाक्यं तदेकं जगदेकमङ्गलम्॥
असौ महाभाग्यवतां वरेण्यस्त्वया जितः किं च मृषा ब्रवीषि॥ ३४.८८ ॥
अजितो हि महादेवो देवानां परमो गुरुः॥
अरूपोऽयं सुरूपोयं रूपातीतोऽयमुच्यते॥ ३४.८९ ॥
एक एव परं ज्योतिस्तेषामपि च यन्महः॥
त्रैलोक्यनाथो विश्वात्मा शङ्करो लोकशङ्करः॥ ३४.९० ॥
कथं त्वया जितो देवि ह्यजेयो भुवनत्रये॥
शिवमेनं न जानासि स्त्रीभावाच्च वरानने॥ ३४.९१ ॥
नारदेनैवमुक्ता सा कुपिता पार्वती भृशम्॥
बभाषे मत्सरग्रस्ता साक्षेपं वचनं सती॥ ३४.९२ ॥
॥पार्वत्युवाच॥
चापल्याच्च न वक्त्व्यं ब्रह्मपुत्र नमोस्तु ते ॥
तव भीतास्मि भद्रं ते देवर्षे मौनमावह॥ ३४.९३ ॥
कथं शिवो हि देवर्ष उक्तोऽतो हि त्वया बहु॥
मत्प्रसादा स्छवो जात ईश्वरो यो हि पठ्यते॥ ३४.९४ ॥
मया लब्धप्रतिष्ठोऽयं जातो नास्त्यत्र संशयः॥ ३४.९५ ॥
एवं बहुविधं श्रुत्वा नारदो मौनमाश्रयत्॥
पस्थितं च तद्दृष्ट्वा भृङ्गी वाक्यमथाब्रवीत्॥ ३४.९६ ॥
॥भृङ्ग्युवाच॥
त्वया बहु न वक्तव्यं पुनरेव च भामिनि॥
अजेयो निर्विकारो हि स्वामी मम सुमध्यमे॥ ३४.९७ ॥
स्त्रीभावयुक्तासि वरानने त्वं देवं न जानासि परं पराणाम्॥
कामं पुरस्कृत्य पुरा भवानि समागतास्येव महेशमुग्रम॥ ३४.९८ ॥
यथा कृतं तेन पिनाकिना पुरा एतत्स्मृतं किं सुभगे वदस्व नः॥
कृतो ह्यनङ्गो हि तदा ह्यनेन दग्धं वनं तस्य गिरेः पितुस्ते॥ ३४.९९ ॥
xxxवात्त्वयाराधित एव एष शिवः पराणां परमः परात्मा॥ ३४.१०० ॥
भृङ्गिणेत्येवमुक्ता सा ह्युवाच किपिता भृशम्॥
श्रृण्वतो हि महेशस्य वाक्यं पृष्टा च भृङ्गिणम्॥ ३४.१०१ ॥
॥पार्वत्युवाच॥
हं भृङ्गिन्पक्षपातित्वाद्यदुक्तं वचनं मम॥
शिवप्रियोऽसि रे मन्द भेदबुद्धिरतो ह्यसि॥ ३४.१०२ ॥
अहं शिवात्मिका मूढ शिवो नित्यं मयि स्थितः॥
कथं शिवाभ्यां भिन्नत्वं त्वयोक्तं वाग्बलेन हि॥ ३४.१०३ ॥
श्रुतं च वाक्यं शुभदं पार्वत्या भृङ्गिणा तदा॥
उवाच पार्वतीं भृङ्गी रुषितः शिवसन्निधौ॥ ३४.१०४ ॥
पुतुर्यज्ञे च दक्षस्य शिवनिन्दा त्वया श्रुता॥
अप्रियक्षवणात्सद्यस्त्वया त्यक्तं कलेवरम्॥ ३४.१०५ ॥
तत्क्षणादेव नन्वङ्गि ह्यधुना किं कृतं त्वया॥
सम्भ्रमात्किं न जानासि शिवनिन्दकमेव च॥ ३४.१०६
कथं वा पर्वतश्रेष्ठाज्जाता से वरवर्णिनि॥
कथं वा तपसोग्रेण सन्तप्तासि सुमध्यमे॥ ३४.१०७ ॥
सप्रेमा च शिवे भक्तिस्तव नास्तीह सम्प्रातम्॥
शिवप्रियासि तन्वङ्गि तस्नादेवं ब्रवीमि ते॥ ३४.१०८ ॥
शिवात्परतरं नान्यत्त्रिषु लोकेषु विद्यते॥
शिवे भक्तिस्त्वया कार्या सप्रेमा वरवर्णिनि॥ ३४.१०९ ॥
भक्तासि त्वं महादेवि महाभाग्यवतां वरे॥
संसेव्यतां प्रयत्नेन तपसोपार्जितस्त्वया॥ ३४.११० ॥
शिवो वरेण्यः सर्वेशो नान्यथा कर्तुमर्हसि॥
भृङ्गिणो वचनं श्रुत्वा गिरिजा तमुवाचह॥ ३४.१११ ॥
॥गिरिजोवाच॥
रे भृङ्गिन्मौनमालम्ब्य स्थिरो भवाथ वा व्रज॥
वाच्यावाच्यं न जानासि किं ब्रवीषि पिशाचवत्॥ ३४.११२ ॥
तपसा केन चानीतः कया चापि शिवो ह्ययम्॥
काहं कोऽसौ त्वया ज्ञातो भेदबुद्ध्या ब्रवीषि मे॥ ३४.११३ ॥
कोऽसि त्वं केन युक्तोऽसि कस्माच्च बहु भाषसे॥
शापं तव प्रदास्यामि शिवः किं कुरुतेऽधुना॥ ३४.११४ ॥
भृङ्गिणोक्ता तिरस्कृत्य तदा शापं ददौ सती॥
निमामो भव रे मन्द रे भृङ्गिञ्छिङ्करप्रिय॥ ३४.११५ ॥
एवमुक्त्वा तदा देवी पार्वती शङ्करप्रिया॥
अथ कोपेन संयुक्ता पार्वती शङ्करं तदा॥ ३४.११६ ॥
कर गृह्य च तन्वङ्गी भुजङ्गं वासुकिं तथा॥
उदतारयत्कण्ठात्सा तथान्यानि बहूनि च॥ ३४.११७ ॥
शम्भोर्जग्राह कुपिता भूषणानि त्वरान्विता॥
हृत चन्द्रकला तस्य गजाजिनमनुत्तमम्॥ ३४.११८ ॥
कम्बलाश्वतरौ नागौ महेशकृतभूषणौ॥
हृतौ तया महादेव्या छलोक्त्यां च प्रहस्य वै॥ ३४.११९ ॥
कौपीनाच्छा दनं तस्या च्छलोक्त्या च प्रहस्य वै॥
तदा गणाश्च सख्यश्च त्रपया पीडिता भवन्॥ ३४.१२० ॥
पराङ्गमुखाश्च सञ्जाता भृङ्गी चैव महातपाः॥
तथा चण्डो हि मुण्डश्च महालोमा महोदरः॥ ३४.१२१ ॥
एते चान्ये च बहवो गणास्ते दुःखिनोऽभवन्॥
तांश्च दृष्ट्वा तथाभूतन्महेशो लज्जितोऽभवत्॥ ३४.१२२ ॥
उवाच वाक्यं रुषितः पार्वतीं प्रति शङ्करः॥ ३४.१२३ ॥
॥रुद्र उवाच॥
उपहासं प्रकुर्वन्ति सर्वे हि ऋषयो भृशम्॥
तथा ब्रह्मा च विष्णुश्च तथा चेन्द्रादयो ह्यमी॥ ३४.१२४ ॥
उपहासपराः सर्वे किं त्वयाद्य कृतं शुभे॥
कुले जातासि तन्वङ्गि कथमेवं करिष्यसि॥ ३४.१२५ ॥
त्वया जितो ह्यहं सुभ्रु यदि जानासि तत्त्वतः॥
तर्ह्येवं कुरु मे देहि कौपीनाच्छादनं परम्॥
देहि कौपी नामात्रं मे नान्यथा कर्तुमर्हसि॥ ३४.१२६ ॥
एवमुक्ता सती तेन शम्भुना योगिना तदा॥
प्रहस्य वाक्यं प्रोवाच पार्वती रुचिरानना॥ ३४.१२७ ॥
किं कौपीनेन ते कार्यं मुनिना भावितात्मना॥
दिगम्बरेणैव तदा कृतं दारुवनं तथा॥ ३४.१२८ ॥
भिक्षाटनमिषेणैव ऋषिपत्न्यो विरोहिताः॥
गच्छ तस्ते तदा शम्भो पूजनं तैर्महत्कृतम्॥ ३४.१२९ ॥
कौपीनं पतितं तत्र मुनिभिर्नान्यथोदितम्॥
तस्मात्त्वया प्रहातव्यं द्यूतोहारितमेव तत्॥ ३४.१३० ॥
तच्छ्रुत्वा कुपितो रुद्रः पार्वतीं परमेश्वरः॥
निरीक्षमाणोऽतिरुषा तृतीयेनैव चक्षुषा॥ ३४.१३१ ॥
कुपितं शङ्करं दृष्ट्वा सर्व देवगणास्तदा॥
भयेन महताविष्टास्तथा गणकुमारकाः॥ ३४.१३२ ॥
ऊचुः सर्वे शनैस्तत्र शङ्कितेन परस्परम्॥
अद्यायं कुपितो रुद्रो गिरिजां प्रति सम्प्रति॥ ३४.१३३ ॥
यथा हि मदनो दग्धस्तथेयं नान्यथा वचः॥
एवं मीमांसमानास्ते गणा देवर्षयस्तदा॥ ३४.१३४ ॥
विलोकितास्तया देव्या सर्वे सौभाग्यमुद्रया॥
उवाच प्रहसन्नेव सती सत्पुरुषं तदा॥ ३४.१३५ ॥
किमालोकपरो भूत्वा चक्षुषा परमेण हि॥
नाहं कालो न कामोऽहं नाहं दभस्य वै मखः॥ ३४.१३६ ॥
त्रिपुरो नैव वै शम्भो नान्धको वृषभध्वज॥
वीक्षितेनैव किं तेन तव चाद्य भविष्यति॥
वृथैव त्वं विरूपाक्षो जातोऽसि मम चाग्रतः॥ ३४.१३७ ॥
एवमादीन्यनेकानि हयुवाच परमेश्वरी॥
निशम्य देवो वाक्यानि गमनाय मनो दधे॥ ३४.१३८ ॥
वनमेव वरं चाद्य विजनं परमार्थतः॥
एकाकी यतचित्तात्मा त्यक्तसर्वपरिग्रहः॥ ३४.१३९ ॥
स सुखी परमार्थज्ञः स विद्वान्स च पण्डितः॥
येन मुक्तौ कामरागौ स मुक्तः स सुखी भवेत्॥ ३४.१४० ॥
एवं विमृश्य च तदा गिरिजां विहाय श्रीशङ्करः परमकारुणिकस्तदानीम्॥
यातः प्रियाविरहितो वनमद्भुतं च सिद्धाटवीं परमहंसयुतां तथैव॥ ३४.१४१ ॥
निर्गतं शङ्करं दृष्ट्वा सर्वे कैलासवासिनः॥
निर्ययुश्च गणाः सर्वे वीरभद्रादयोऽनु तम्॥ ३४.१४२ ॥
छत्रं भृङ्गी समादाय जगाम तस्य पृष्ठतः॥
चामरे वीज्यमाने च गङ्गायमुनसन्निभे॥ ३४.१४३ ॥
ताभ्यां युक्तस्तदा नन्दी पृष्ठतोऽन्वगमत्सुधीः॥
वृषभों ह्यग्रतो भूत्वा पुष्पकेण विराजितः॥ ३४.१४४ ॥
शोभमानो महादेव एभिः सर्वैः सुशोभनैः॥
अन्तःपुरगता देवी पार्वती सा हि दुर्मनाः॥ ३४.१४५ ॥
सखीभिर्बहुभिस्तत्र तथान्याभिः सुसंवृता॥
गिरिजा चिन्तयामास मनसा परमेश्वरम्॥ ३४.१४६ ॥
ततो दूरं गतः शम्भुर्विसृज्य च गणांस्तदा॥
गणेशं च कुमारं च वीरभद्रं तथाऽपरान्॥ ३४.१४७ ॥
भृङ्गिणं नन्दिनं चण्डं सोमनन्दिनमेव च॥
एतानन्यांश्च सर्वांश्च कैलासपुरवासिनः॥ ३४.१४८ ॥
विसृज्य च महादेव एक एव महातपाः॥
गतो दूरं वनस्यान्ते तथा सिद्धवटं शिवः॥ ३४.१४९ ॥
काश्मीररत्नोपलसिद्धरत्नवैदूर्यचित्रं सुधया परिष्कृतम्॥
दिव्यासनं तस्य च कल्पितं भुवा तत्रास्थितो योगपतिर्महेशः॥ ३४.१५० ॥
पद्मासने चोपविष्टो महेशो योगवित्तमः॥
केवलं चात्मनात्मानं दध्यौ मीलितलोचनः॥ ३४.१५१ ॥
शुशुभे स महादेवः समाधौ चन्द्रशेखरः॥
योगपट्टः कृतस्तेन शेषस्य च महात्मनः॥
वासुकिः सर्पराजश्च कटिबद्धः कृतो महान्॥ ३४.१५२ ॥
आत्मानमात्मात्मतया च संस्तुतो वेदान्तवेद्यो न हि विश्वचेष्टितः॥
एको ह्यनेको हि दुरन्तपारस्तथा ह्यर्क्यो निजबोधरूपः॥
स्थितस्तदानीं परमं पराणां निरीक्षमाणो भुवनैकभर्ता॥ ३४.१५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे शिवपार्वतीद्यूतप्रसङ्गेन पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनन्नाम चतुस्त्रिंशोऽध्यायः॥ ३४ ॥ छ ॥