३३

[अध्यायः ३३]

वेदव्यासः

अध्यायः ३३
॥ऋषय ऊचुः॥
किन्नामा च किरातोऽभूत्किं तेन व्रतमाहितम्॥
तत्त्वं कथय विप्रेन्द्र परं कौतूहलं हि नः॥ ३३.१ ॥

तत्सर्वं श्रोतुमिच्छामो याथातथ्येन कथ्यताम्॥
न ह्यन्यो विद्यते लोके त्वद्विना वदतां वरः॥
तस्मात्कथ भो विप्र सर्वं शुश्रूषतां हि नः॥ ३३.२ ॥

एवमुक्तस्तदा तेन शौनकेन महात्मना॥
कथयामास तत्सर्वं पुष्कसेन कृतं यत्॥ ३३.३ ॥

॥लोमश उवाच॥
आसीत्पुरा महारौद्रश्चडोनाम दुरात्मवान्॥
क्रूरसङ्गो निष्कृतिको भूतानां भयवाहकः॥ ३३.४ ॥

जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं खलु॥
भल्लैर्मृगाञ्छापदांश्च कृष्णसारांश्च शल्लकान्॥ ३३.५ ॥

खड्गांश्चैव च दुष्टात्मा दृष्ट्वा कांश्चिच्च पापवान्॥
पक्षिणोऽघातयत्क्रुद्धो ब्राह्मणांश्च विशेषतः॥ ३३.६ ॥

लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः॥
भार्या तथाविधआ तस्य पुष्कसस्य महाभया॥ ३३.७ ॥

एवं विहरतस्तस्य बहुकालोत्यवर्तत॥
गते बहुतिथेकाले पापौघनिरतस्य च॥ ३३.८ ॥

निषङ्गे जलमादाय क्षुत्पिपासार्द्दितो भृशम्॥
एकदा निशि पापीयाच्छ्रीवृक्षोपरि संस्थितः॥
कोलं हन्तुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि॥ ३३.९ ॥

माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः॥
मृगमार्गविलोकार्थी बिल्वपत्राण्यपातयत्॥ ३३.१० ॥

श्रीवृक्षपर्णानि बहूनि तत्र स च्छेदयामास रुषान्वितोपि॥
श्रीवृक्षमूले परिवर्तमाने लिङ्गं तस्योपरिदृष्टभावः॥ ३३.११ ॥

ववर्ष गण्डूषजलं दुरात्मा यदृच्छया तानि शिवे पतन्ति॥
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्वं शिवपूजनं तत्॥ ३३.१२ ॥

गण्डूषवारिणा तेन स्नपनं च कृतं महत्॥
बिल्वपत्रैरसङ्ख्यातैरर्चनं महत्कृतम्॥ ३३.१३ ॥

अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना॥
माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये॥ ३३.१४ ॥

पुष्कसोऽथ दुराचारो वॉक्षादवततार सः॥
आगत्य जलसङ्काशं मत्स्यान्हन्तुं प्रचक्रमे॥ ३३.१५ ॥

लुब्ध कस्यापि भार्याभून्नाम्ना चैव घनोदरी॥
दुष्टा सा पापनिरता परद्रव्यापहारिणी॥ ३३.१६ ॥

गृहान्निर्गत्य सायाह्ने पुरद्वारबहिः स्थिता॥
वनमार्गं प्रपश्यन्ती पत्युरागमनेच्छया॥ ३३.१७ ॥

चिराद्भर्तरी नायाते चिन्तयामास लुब्धकी॥
अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः॥ ३३.१८ ॥

तमः स्तोमेन सञ्छन्नाश्चतस्रो विदिशो दिशः॥
रात्रौ यामद्वयं यातं किं मतङ्गः समागतः॥ ३३.१९ ॥

किं वा केसरलोभेन सिंहेनैव विदारितः॥
किं भुजङ्गफणारत्नहारी सर्पविषार्दितः॥ ३३.२० ॥

किं वा वराहदंष्ट्राग्रघातैः पञ्चत्वमागतः॥
मधुलोभेन वृक्षाग्रात्स वै प्रपतितो भुवि॥ ३३.२१ ॥

क्वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति॥
एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति॥ ३३.२२ ॥

नैवान्नं नो जलं किञ्चिन्न भुक्तं तद्दिने तया॥
चिन्तयन्ती पतिं चापि लुब्धकी त्वयन्निशाम्॥ ३३.२३ ॥

अथ प्रभाते विमले पुष्कसी वनमाययौ॥
अशनार्थं च तस्यान्नमादाय त्वरिता सती॥ ३३.२४ ॥

भ्रममाणावने तस्मिन्ददर्श महतीं नदीम्॥
तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता॥ ३३.२५ ॥

तदन्नं कूलनः स्थाप्य नदीं तर्तुं प्रचक्रमे॥
निरीक्ष्य चाथ मत्स्यान्स जालप्रोतान्समानयत्॥ ३३.२६ ॥

तावत्तयोक्तश्चण्डोऽसावेहि शीघ्रं च भक्षय॥
अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया॥ ३३.२७ ॥

कृतं किमद्य रे मन्द गतेऽहनि च किं कृतम्॥
नाऽशितं च त्वया मूढ लङ्घितेनाद्य पापिना॥ ३३.२८ ॥

नद्यां स्नातौ तथा तौ च दम्पती च शुचि व्रतौ॥
यावद्गतश्च भोक्तुं स तावच्छ्वा स्वयमागतः॥ ३३.२९ ॥

तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि॥
चण्डी प्रकुपिता चैव श्वानं हन्तुमुपस्थिता॥ ३३.३० ॥

आवयोर्भक्षितं चान्नमनेनैव च पापिना॥
किं च भक्षयसे मूढ भविताद्य वुभुक्षितः॥ ३३.३१ ॥

एवं तयोक्तश्चण्डोऽसौ बभाषे तां शिवप्रियः॥
यच्छुना भक्षितं चान्नं तेनाहं परितोषितः॥ ३३.३२ ॥

किमनेन शरीरेण नश्वरेण गतायुषा॥
शरीरं दुर्लभं लोके पूज्यते क्षणभङ्गुरम्॥ ३३.३३ ॥

ये पुष्णन्ति निजं देहं सर्वभावेन चाहताः॥
मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः॥ ३३.३४ ॥

तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम्॥
स्वस्था भव विमर्शेन तत्त्वबुद्ध्या स्थिरा भव॥ ३३.३५ ॥

बोधिता तेन चण्डी सा पुष्कसेन तदा भृशम्॥
जागरादि च सम्प्राप्तः पुष्कसोऽपि चतुर्दशीम्॥ ३३.३६ ॥

शिवरात्रिप्रसङ्गाच्च जायते यद्ध्यसंशयम्॥
तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसङ्गतः॥ ३३.३७ ॥

यामद्वयं च सञ्जातममावास्यां तु तत्र वै॥
आगताश्च गणास्तत्र बहवः शिवनोदिताः॥ ३३.३८ ॥

विमानानि बहून्यत्र आगतानि तदन्तिकम्॥
दृष्टानि तेन तान्येव विमानानि गणास्तथा॥ ३३.३९ ॥

उवाच परया भक्त्या पुष्कसोऽपि च तान्प्रति॥
कस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः॥ ३३.४० ॥

विमानस्थाश्च केचिच्च वृषारूढाश्च केचन॥
सर्वे स्फटिकसङ्काशाः सर्वे चन्द्रार्द्धशेखराः॥ ३३.४१ ॥

कपर्द्दिनश्चर्मपरीतवाससो भुजङ्गभोगैः कृतहारभूषणाः॥
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम्॥ ३३.४२ ॥

पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्पदाः॥
रुद्रस्य देवदेवस्य सन्नम्राः कमलेक्षणाः॥ ३३.४३ ॥

॥गणा ऊचुः॥
प्रेषिताः स्मो वयं चण्ड शिवेन परमेष्ठिना॥
आगच्छ त्वरितो भुत्वा सस्त्रीको या नमारुह॥ ३३.४४ ॥

लिङ्गार्च्चनं कृतं यच्च त्वया रात्रौ शिवस्य च॥
तेन कर्मविपाकेन प्राप्तोऽसि शिवसन्निधिम्॥ ३३.४५ ॥

तथोक्तो वीरभद्रेण उवाच प्रहसन्निव॥
पुष्कसोऽपि स्वया बुद्ध्या प्रस्तावसदृशं वचः॥ ३३.४६ ॥

॥पुष्कस उवाच॥
किं मया कृतमद्यैव पापिना हिंसकेन च॥
मृगयारसिकेनैव पुष्कसेन दुरात्मना॥ ३३.४७ ॥

पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम्॥
कथं लिङ्गार्चनमिदं कृतमस्ति तदुच्यताम्॥ ३३.४८ ॥

परं कौतुकमापन्नः पृच्छामि त्वां यथातथम्॥
कथयस्व महाभाग सर्वं चैव यथाविधि॥ ३३.४९ ॥

इत्येवं पृच्छतस्तस्य पुष्कसस्य यथाविधि॥
कथयामास तत्सर्वं शिवधर्म मुदान्वितः॥ ३३.५० ॥

॥वीरभद्र उवाच॥
देवदेवो महादेवो देवानां पतिरीश्वरः॥
परितुष्टोऽद्य हे चण्ड स महेश उमापतिः॥ ३३.५१ ॥
प्रासङ्गिकतया माघे कृतं लिङ्गार्चनं त्वया॥
शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः॥
शिवरात्र्यां प्रसङ्गेन कृतमर्चनमेव च॥ ३३.५२ ॥

कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि॥
च्छेदितानि त्वया चण्ड पतितानि तदैव हि॥
लिङ्गस्य मस्तके तानि तेन त्वं सुकृती प्रभो॥ ३३.५३ ॥

ततश्च जागरो जातो महान्वृक्षोपरि ध्रुवम्॥
तेनैव जागरेणैव तुतोष जगदीश्वरः॥ ३३.५४ ॥

छलेनैव महाभाग कोलसन्दर्शनेन हि॥
शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः॥ ३३.५५ ॥

तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा॥
तव प्रसादाय महानुभावो ददाति सर्वान्वरदो महांश्च॥ ३३.५६ ॥

एवमुक्तस्तदा तेन वीरभद्रेण धीमता॥
पुष्कसोऽपि विमानाग्र्यमारुहोह च पश्यताम्॥ ३३.५७ ॥

गणानां देवतानां च सर्वेषां प्राणिनामपि॥
तदा दुन्दुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः॥ ३३.५८ ॥

वीणावेणुमृदङ्गानि तस्य चाग्रे गतानि च॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः॥ ३३.५९ ॥

विद्याधरगणाः सर्वे तुष्टुवुः सिद्धचारणाः॥
चामरैवर्वीज्यमानो हि च्छत्रैश्च विविधैरपि॥
महोत्सवेन महता आनीतो गन्धमादनम्॥ ३३.६० ॥

शिवसान्निध्यमागच्चण्डोसौ तेन कर्मणा॥
शिवरात्र्युपवासेन परं स्थानं समागमत्॥ ३३.६१ ॥

पुष्कसोऽपि तथा प्राप्तः प्रसङ्गेन सदाशिवम्॥
किं पुनः श्रद्धया युक्ताः शिवाय परमात्मने॥ ३३.६२ ॥

पुष्पादिकं फलं गन्धं ताम्बूलं भक्ष्यमृद्धिमत्॥
ये प्रयच्छन्ति लोकेऽस्मिन्रुद्रास्ते नात्र संशयः॥ ३३.६३ ॥

चण्डेन वै पुष्कसेन सफलं तस्य चाभवत्॥
प्रसङ्गेनापि तेनैव कृतं तच्चाल्पबुद्धिना॥ ३३.६४ ॥

॥ऋषय ऊचुः॥
किं फलं तस्य चोद्देशः केन चैव पुना कृतम्॥
कस्माद्व्रतमिदं जातं कृतं केन पुरा विभो॥ ३३.६५ ॥

॥लोमश उवाच॥
यदा सृष्टं जगत्सर्वं ब्रह्मणा परमेष्ठिना॥
कालचक्रं तदा जातं पुरा राशिमन्विताम्॥ ३३.६६ ॥

द्वादश राशयस्तत्र नक्षत्राणि तथैव च॥
सप्तविंशतिसङ्ख्यानि मुख्यानि xxxxxx सिद्धये॥ ३३.६७ ॥

एभिः सर्वं प्रचण्डं च राशिभिरुडुभिस्तथा॥
कालचक्रान्वितः कालः क्रीडयन्सृजते जगत्॥ ३३.६८ ॥

आब्रह्मस्तम्बपर्यन्तं सृजत्य वति हन्ति च॥
निबद्धमस्ति तेनैव कालेनैकेन भो द्विजाः॥ ३३.६९ ॥

कालो हि बलवाल्ँलोके एक एव न चापरः॥
तस्मात्कालात्मकं सर्वमिदं नास्त्यत्र संशयः॥ ३३.७० ॥

आदौ कालः कालनाच्च लोकनायकनायकः॥
ततो लोका हि सञ्जाताः सृष्टिश्च तदनन्तरम्॥ ३३.७१ ॥

सृष्टेर्लवो हि सञ्जातो लवाच्च क्षणमेव च॥
क्षणाच्च निमिषं जातं प्राणिनां हि निरन्तरम्॥ ३३.७२ ॥

निमिषाणां च षष्ट्या वै फल इत्यभिधीयते॥
पञ्चदश्या अहोरात्रैः पक्षइत्यभिधीयते॥ ३३.७३ ॥

पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः॥
तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः॥ ३३.७४ ॥

प्रतिपद्दिनमारभ्य पौर्णमास्यन्तमेव च॥
पक्षं पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते॥ ३३.७५ ॥

पूर्णचन्द्रमसी या तु सा पूर्णा देवताप्रिया॥
नष्टस्तु चन्द्रो यस्यां वा अमा सा कथिता बुधैः॥ ३३.७६ ॥

अग्निष्वात्तादिपितॄणां प्रियातीव बभूव ह॥
त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च॥
तेषां मध्ये विशेषो यस्तं श्रृणुध्वं द्विजोत्तमाः॥ ३३.७७ ॥

योगानां वा व्यतीपात ऊडूनां श्रवणस्तथा॥
अमावास्या तिथीनां च पूर्णिमा वै तथैव च॥ ३३.७८ ॥

सङ्क्रान्तयस्तथाज्ञेयाः पवित्रा दानकर्मणि॥
तथाष्टमी प्रिया शम्भोर्गणेशस्य चतुर्थिका॥ ३३.७९ ॥

पञ्चमी नागराजस्य कुमारस्य च षष्ठिका॥
भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया॥ ३३.८० ॥

ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा॥
विष्णुप्रिया द्वादशी च अन्तकस्य त्रयोदशी॥ ३३.८१ ॥

चतुर्द्दशी तथा शम्भोः प्रिया नास्त्यत्र संशयः॥
निशीथसंयुता या तु कृष्णपक्षे चतुर्द्दशी॥
उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी॥ ३३.८२ ॥

शिवरात्रितिथिः ख्याता सर्वपापप्रणाशिनी॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥ ३३.८३ ॥

ब्राह्मणी विधवा काचित्पुरा ह्यासीच्च चञ्चला॥
श्वपचाभिरता सा च कामुकी कामहेतुतः॥ ३३.८४ ॥

तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः॥
दुः सहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः॥ ३३.८५ ॥

महापापप्रयोगाच्च पापमारभते सदा॥
कितवश्च सुरापायी स्तेयी च गुरुतल्पगः॥ ३३.८६ ॥

मृगयुश्च दुरात्मासौ कर्मचण्डाल एव सः॥
अधर्मिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम्॥
शिवरात्र्यां च सम्प्राप्तो ह्युषितः शिवसन्निधौ॥ ३३.८७ ॥

श्रवणं शैवशास्त्रस्य यदृच्छाजातमन्तिके॥
शिवस्य लिङ्गरूपस्य स्वयम्भुवो यदा तदा॥ ३३.८८ ॥

स एकत्रोषितो दुष्टः शिवरात्र्यां तु जागरात्॥
तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान्॥ ३३.८९ ॥

भुक्त्वा पुण्यतामाल्ँलोकानुषित्वा शाश्वतीः समाः॥
चित्राङ्गदस्य पुत्रोभूद्भूपालेश्वरलक्षणः॥ ३३.९० ॥

नाम्ना विचित्रवीर्योऽसौ सुभगः सन्दुरी प्रियः॥
राज्यं महत्तरं प्राप्य निःस्तम्भो हि महानभूत्॥ ३३.९१ ॥

शिवे भक्तिं प्रकुर्वाणः शिवकर्मपरोऽभवत्॥
शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः॥
रात्रौ जागरणं यत्नात्करोति शिवसन्निधौ॥ ३३.९२ ॥

शिवस्य गाथा गायंस्तु आनन्दाश्रुकणान्मुहुः॥
प्रमुञ्चंश्चैव नेत्राभ्यां रोमाञ्चपुलकावृतः॥ ३३.९३ ॥

आयुष्यं च गतं तस्य शिवध्यानपरस्य च॥
शिवो हि सुलभो लोके पशूनां ज्ञाननिनामपि॥ ३३.९४ ॥

संसेवितुं सुखप्राप्त्यै ह्येक एव सदाशिवः॥
शिवरात्र्युपवासेन प्राप्तो ज्ञानमनुत्तमम्॥ ३३.९५ ॥

ज्ञानात्सर्वमनुप्राप्तं भूतसाम्यं निरन्तरम्॥
सर्वभूतात्मकं ज्ञात्वा केवलं च सदा शिवम्॥
विना शिवेन यत्किञ्चिन्नास्ति वस्त्वत्र न क्वचित्॥ ३३.९६ ॥

एवं पूर्णं निष्प्रपञ्चं ज्ञानं प्राप्नोति दुर्लभम्॥
प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः॥ ३३.९७ ॥

मुक्तिं सायुज्यतां प्राप्तः शिवरात्रेरुपोषणात्॥
तेन लब्धं शिवाज्जन्म पुरा यत्कथितं मया॥ ३३.९८ ॥

दाक्षायणीवीयो गाच्च जटाजूटेन विस्तरात्॥
य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः॥
वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः॥ ३३.९९ ॥

शिवरात्रिव्रतेनैव तारिता बहवः पुरा॥
प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः॥ ३३.१०० ॥

मान्धाता धुन्धुमारिश्च हरिश्चन्द्रादयो नृपाः॥
प्राप्ताः सिद्धिमनेनेव व्रतेन परमेण हि॥ ३३.१०१ ॥

ततो गिरीशो गिरिजासमेतः क्रीडान्वितोऽसौ गिरिराजमस्तके॥
द्यूतं तथैवाक्षयुतं परेशो युक्तो भवान्या स भृशं चकार॥ ३३.१०२ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्त्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवरात्रिव्रतमाहात्म्यवर्णनन्नाम त्रयस्त्रिंशोऽध्यायः॥ ३३ ॥ छ ॥