३२

[अध्यायः ३२]

वेदव्यासः

अध्यायः ३२

॥लोमश उवाच॥
एवं ते शिवधर्माश्च कथितास्तेन वै द्विजाः॥
सविशेषाः पाशुपताः प्रसादाच्चैव विस्तरात्॥ ३२.१ ॥

अनेकागमसंवीता यथातत्त्वमुदाहृताः॥
कापालिकानां भेदाश्च प्रोक्ता व्याससमासतः॥ ३२.२ ॥

धर्मा नानाविधाः प्रोक्ता नन्दिनं प्रति वै तदा॥ ३२.३ ॥

॥ऋषय ऊचुः॥
श्रुतं कुमारचरितमविशेषं सुमङ्गलम्॥
अस्माभिश्च महाभागकिञ्चित्पृच्छामहे वयम्॥ ३२.४ ॥

श्वेतस्य राजसिंहस्य चरितं परमाद्भुतम्॥
येन सन्तोषितो रुद्रः शिवो भक्त्याऽप्रमेयया॥ ३२.५ ॥

ते भक्तास्ते महात्मानो ज्ञानिनस्ते च कर्मिणः॥
येऽर्चयन्ति महाशम्भुं देवं भक्त्या समावृताः॥ ३२.६ ॥

तस्मात्पृच्छामहे सर्वे चरितं शङ्करस्य च॥
व्यासप्रसादात्सर्वं यज्जानासि त्वं न चापरः॥ ३२.७ ॥

निशम्य वचनं तेषां मुनीनां लोमशोऽब्रवीत्॥ ३२.८ ॥

॥लोमश उवाच॥
आकर्ण्यतां महाभागाश्चरितं परमाद्भुतम्॥
तस्य राज्ञो हि भजतो राजभोगांश्च सर्वशः॥
मतिर्द्धिर्मे समुत्पन्ना श्वेतस्य च महात्मनः॥ ३२.९ ॥

पृथिवीं पालयामास प्रजा धर्मेण पालयन्॥
ब्रह्मण्यः सत्यवाक्छूरः शिवभक्तो निरन्तरम्॥ ३२.१० ॥

राज्यं शशासाथ स शक्तितो नृपो भक्त्या तदा चैव समर्चयत्सदा॥
शम्भुं परेशं परमं परात्परं शान्तं पुराणं परमात्मरूपम्॥ ३२.११ ॥

आयुस्तस्य परिक्षीणमर्चतः परमेश्वरम्॥
अथैतच्च महाभाग चरितं श्रूयतां मम॥ ३२.१२ ॥

वाणी शिवकथायुक्ता परमाश्चर्यसंयुता॥
न वाऽऽधयो हि तस्यैव व्याधयो हि महीपतेः॥ ३२.१३ ॥

तस्य राज्ञो न बाधन्ते तथा चोपद्रवास्त्वमी॥
निरीतिको जनो ह्यासीन्निरुपद्रव एव च॥ ३२.१४ ॥

अकृष्टपच्यौषधयस्तस्य राज्ञोऽभवन्भुवि॥
तपस्विनो ब्राह्मणाश्च वर्णाश्रमयुता जनाः॥ ३२.१५ ॥

न पुत्रमरणे दुःखं नापमानं न मारकाः॥
न दारिद्र्यं च ते सर्वे प्राप्नुवन्ति कदाचन॥ ३२.१६ ॥

एवं बहुतरः कालस्तस्य राज्ञो महात्मनः॥
गतो हि सफलो विप्राः शिवपूजारतस्य वै॥ ३२.१७ ॥

एकदा पूजमानं तं शङ्करं परमार्थदम्॥
यमो हि प्रेषयामास यमदूतान्नृपं प्रति॥ ३२.१८ ॥

वचनाच्चित्रगुप्तस्य श्वेत आनीयतामिति॥
तथेति मत्वा ते दूता आगताः शिवमन्दिरम्॥ ३२.१९ ॥

राजानं नेतुकामास्ते पाशहस्ता महाभयाः॥
यावत्समागता याम्या राजानं ददृशुस्त्वरात्॥ ३२.२० ॥

न चक्रिरे तदा दूता आज्ञां धर्मस्य चैव हि॥
ज्ञात्वा सर्वं यमश्चैव आगतः स्वयमेव हि॥ ३२.२१ ॥

उद्धृत्य दण्डं सहसा नेतुकामस्तदा नृपम्॥
ददर्श च महाबाहुः शिवध्यानपरायणम्॥ ३२.२२ ॥

शिवभक्तियुतं शान्तं केवलं ज्ञानसंयुतम्॥
यमोऽपि दृष्ट्वा राजानं परं क्षोभमुपागमत्॥ ३२.२३ ॥

चित्रस्थो ह्यभवत्स्द्यः प्रेतराजोऽतिविह्वलः॥
कालरूपश्च यो नित्यं प्रजानां क्षयकारकः॥ ३२.२४ ॥

आगतस्तत्क्षणादेव नृपं प्रति रुषान्वितः॥
खड्गेन सितधारेण चर्मणा परमेम हि॥ ३२.२५ ॥

तावत्तं ददृशे सोऽपि स्थितं द्वारि भयावृतम्॥
उवाच कालो हि तदा यमं वैवस्वतं प्रति॥ ३२.२६ ॥

कस्मात्त्वया धरमराज नो नीतोऽयं नृपो महान्॥
यम दूतसहायश्च भीतवत्प्रतिभासि मे॥ ३२.२७ ॥

कालात्ययो न कर्त्तव्यो वचनान्मम सुव्रत॥
कालेनोक्तस्तदा धर्म उवाच प्रस्तुतं वचः॥ ३२.२८ ॥

तवाज्ञां च करिष्यामि नात्र कार्या विचारणा॥
असौ हुरत्ययोऽस्माकं शिवभक्तो निरन्तरम्॥ ३२.२९ ॥

चित्रस्था इव तिष्ठाम भयाद्देवस्य शूलिनः॥
यमस्य वचनं श्रुत्वा कालः क्रोधसमन्वितः॥
राजानं हन्तुमारेभे त्वरितः खड्गमाददे॥ ३२.३० ॥

त्रिगुणाष्टाक्रसङ्काशं प्रविवेश शिवालयम्॥
यावत्कोपेन महता तावद्दृष्टः पिनाकिना॥
स्वभक्तं हन्तुकामोसौ श्वेतराजानमुत्तमम्॥ ३२.३१ ॥

ध्यानस्थितं चात्मनि तं विशुद्धज्ञानप्रदीपेन विशुद्धचित्तम्॥
आत्मानमात्मात्मतया निरन्तरं स्वयम्प्रकाशं परमं पुरस्तात्॥ ३२.३२ ॥

एवंविधं तं प्रसमीक्ष्य कालं सञ्चिन्त्यमानं मनसाऽचलेन॥
शैवं पदं यत्परमार्थरूपं कैवल्यसायुज्यकरं स्वरूपतः॥ ३२.३३ ॥

सदाशिवेन दृष्टोऽसौ कालः कालान्तकेन च॥
उच्छृङ्खलः खलो दर्पाद्विशमानो निजान्तिके॥ ३२.३४ ॥

नन्दिकेश्वरमध्यस्थो यावद्दृष्टो निजान्तिके॥
शिवेन जगदीशेन भक्तवत्सलबन्धुना॥ ३२.३५ ॥

निरीक्षितस्तृतीयेन चक्षुषा परमेष्ठिना॥
स्वभक्तं रक्षमाणेन भस्मसादभवत्क्षणात्॥ ३२.३६ ॥

ददाह तं कालमनेकवर्णं व्यात्ताननं भीमबहूग्ररूपम्॥
ज्वालावलीभिः परिदह्यमानमतिप्रचण्डं भुवनैकभक्षणम्॥ ३२.३७ ॥

ददर्शिरे देवगणाः समेताः सयक्षगन्धर्वपिशाचगुह्यकाः॥
सिद्धाप्सरःसर्वखगाश्च पन्नगाः पतत्रिणो लोकपालास्तथैव॥ ३२.३८ ॥

ज्वालामालावृतं कालमीश्वरस्याग्रतः स्थितम्॥
लब्धसञ्ज्ञस्तदा राजा कालं स्वं हन्तुमागतम्॥ ३२.३९ ॥

पुनः पुनर्द्ददर्शाथ दह्यमानं कृशानुना॥
प्रार्थयामास स व्यग्रो रुद्रं कालाग्निसन्निभम्॥ ३२.४० ॥

॥राजोवाच॥
नमो रुद्राय शान्ताय स्वज्योत्स्नायात्मवेधसे॥
निरन्तराय सूक्ष्माय ज्योतिषां पतये नमः॥ ३२.४१ ॥

त्राता त्वं हि जगन्नाथ पिता माता सुहृत्सखा॥
त्वमेव बन्धुः स्वजनो लोकानां प्रभुरीश्वरः॥ ३२.४२ ॥

किं कृतं हि त्वया शम्भो कोऽसौ दग्धो ममाग्रतः॥
न जानामि च किं जातं कृतं केन महत्तरम्॥ ३२.४३ ॥

एवं प्रार्थयतस्तस्य श्रुत्वा च परिदेवनम्॥
उवाच शङ्करो वाक्यं बोधयन्निव तं नृपम्॥ ३२.४४ ॥

॥रुद्र उवाच॥
मया दग्धो ह्ययं कालस्तवार्थे च तवाग्रतः॥
दह्यमानो हि दृष्टस्ते ज्वाला मालाकुलो महान्॥ ३२.४५ ॥

एवमुक्तस्तदा तेन शम्भुना राजसत्तमः॥
उवाच प्रश्रितो भूत्वा वचनं शिवमग्रतः॥ ३२.४६ ॥

किमनेन कृतं शम्भो अकृत्यं वद तत्त्वतः॥
य इमां प्राप्तितोऽवस्थां प्राणात्ययकरीं भव॥ ३२.४७ ॥

एवं विज्ञापितस्तेन ह्युवाच परमेश्वरः॥
भक्षकोऽयं महाराज सर्वेषां प्राणिनामिह॥ ३२.४८ ॥

भक्षणार्थं तव विभो सोऽयं क्रूरोऽधुनाऽऽगतः॥
ममान्तिकं महाराज तस्माद्दग्धो मया विभो॥ ३२.४९ ॥

बहूनां क्षेममन्विच्छंस्तवार्थेऽन्हं विशेषतः॥ ३२.५० ॥

ये पापिनो ह्यधर्मिष्ठा लोकसंहारकारकाः॥
पाषण्डवादसंयुक्ता वध्यास्ते मम चैव हि॥
वाक्यं निशम्य रुद्रस्य श्वेतो वचनमब्रवीत्॥ ३२.५१ ॥

कालेनैव हि लोकोऽयं पुण्यमाचरते सदा॥
धर्मनिष्ठाश्च केचित्तु भक्त्या परमया युताः॥ ३२.५२ ॥

उपासनारताः केचिज्ज्ञानिनो हि तथा परे॥
केचिदध्यात्मसंयुक्ताश्चान्ये मुक्ताश्च केचन॥ ३२.५३ ॥

कालो हि हर्ता च चराचराणां तथा ह्यसौ पालकोऽप्यद्वितीयः॥
स स्रष्टा वै प्राणिनां प्राणभूतस्तस्मादेनं जीवयस्वाशु भूयः॥ ३२.५४ ॥

यदि सृष्टिपरोऽसि त्वं कालं जीवय सत्वरम्॥
यदि संहारभूतोऽसि सर्वेषां प्राणिनामिह॥ ३२.५५ ॥

तर्ह्येवं कुरु शम्भो त्वं कालस्य च महात्मनः॥
विना कालेन यत्किञ्चिद्भविष्यति न शङ्कर॥ ३२.५६ ॥

इति विज्ञापितस्तेन राज्ञा शम्भुः प्रतापिना॥
चकार वचनं तस्य भक्तस्य च चिकीर्षितम्॥ ३२.५७ ॥

शम्भुः प्रहस्याथ तदा महेशः सञ्जीवयामास पिनाकपाणिः॥
चकार रूपं च यथा पुरासीदालिङ्गतोसौ यमदूतमध्ये॥ ३२.५८ ॥

उपस्थितोऽसौ त्वथ लज्जमानस्तुष्टाव देवं वृषभध्वजं तम्॥
नत्वा पुरःस्थाग्निमयं हि कालः सविस्मयो वाक्यमिदं बभाषे॥ ३२.५९ ॥

॥काल उवाच॥
कालान्तक त्रिपुरेश त्रिपुरान्तकर प्रभो॥
मदनो हि त्वया देव कृतोऽनङ्गो जगत्पते॥ ३२.६० ॥

दक्षयज्ञविनाशश्च कृतो हि परमाद्भुतः॥
कालकूटं दुःप्रसहं सर्वेषां क्षयकृन्महत्॥ ३२.६१ ॥

ग्रसितं तत्त्वया शम्भो अन्येषामपि दुर्द्धरम्॥
लिङ्गरूपेण महता व्याप्तमासीज्जगत्त्रयम्॥ ३२.६२ ॥

लयनाल्लिङ्गमित्युक्तं सर्वैरपि सुरा सुरैः॥
यस्यान्तं न विदुर्द्देवा ब्रह्मविष्णुपुरोगमाः॥ ३२.६३ ॥

लिङ्गस्य देवदेवस्य महिमानं परस्य च॥
नमस्ते परमेशाय नमस्ते विश्वमङ्गल॥
नमस्ते शितिकण्ठाय नमस्तस्मै कपर्दिने॥ ३२.६४ ॥

नमोनमः कारणकारणाय ते नमोनमो मङ्गलमङ्गलात्मने॥
ज्ञानात्मने ज्ञानविदां मनीषिणां त्वमादिदेवोऽसि पुमान्पुराणः॥ ३२.६५ ॥

त्वमेव सर्वं जगदेवबन्धो वेदान्तवेद्योऽसि महानुभावः॥
महानुभावैः परिकीर्त्तनीयस्त्वमेव विश्वेश्वर विश्वमान्यः॥ ३२.६६ ॥

त्वं पासि लुम्पसि जगत्त्रितयं महेश स्रष्टासि भूतपतिरेव न कश्चिदन्यः॥ ॥

इति स्तुतस्तदा तेन कालेन जगदीश्वरः॥
उवाच कालो राजानं श्वेतं सम्बोधयन्निव॥ ३२.६८ ॥

॥काल उवाच॥
मनुष्यलोके सकले नान्यस्त्वत्तो हि विद्यते॥
येन त्वया जितो देवो ह्यजेयो भुवनत्रये॥ ३२.६९ ॥

मया हतमिदं विश्वं जगदेतच्चराचरम्॥
जेताहं सर्वदेवानां सर्वेषां दुरतिक्रमः॥ ३२.७० ॥

स हि ते चानुगो जातो महाराज प्रयच्छ मे॥
अभयं देवदेवाच्च शूलिनः परमेष्ठिनः॥ ३२.७१ ॥

एवमुक्तस्तदा तेन श्वेतः कालेन चैव हि॥
उवाच प्रहसन्वाचा मेघनादगभीरया॥ ३२.७२ ॥

॥राजोवाच॥
शिवस्य परमं रूपं त्वमेको नास्ति संशयः॥
कालस्त्वमसि भूतानां स्थितिसंहाररूपवान्॥ ३२.७३ ॥

तस्मात्पूज्यतमोऽसि त्वं सर्वेषां च नियामकः॥
त्वद्भयात्कृतिनः सर्वे शरणं परमेश्वरम्॥
व्रजन्ति विविधैर्भार्वैरात्मलक्षणतत्पराः॥ ३२.७४ ॥

॥सुत उवाच॥
तेनैवं रक्षिततः कालो राज्ञा परमधर्मिणा॥
शिवप्रसादमात्रेण लब्धसञ्ज्ञो बभूवह॥ ३२.७५ ॥

तदा यमेन स्तवितो मृत्युना यमदूतकैः॥
शिवं प्रणम्य संस्तुत्य श्वेतं राजानमेव च॥
ययौ स्वमालयं विप्रा मेने स्वं जनितं पुनः॥ ३२.७६ ॥

मायया सह पत्न्या च शिवस्य चरितं महत्॥
अनुसंस्मृत्य संस्मृत्य विस्मयं परमं ययौ॥ ३२.७७ ॥

कथयामास सर्वेषां दूतानां स्वयमेव हि॥
आकर्ण्यतां मम वचो हे दूतास्त्वरितेन हि॥ ३२.७८ ॥

कर्त्तव्यं च प्रयत्नेन नान्यथा मम भाषितम्॥ ३२.७९ ॥

॥काल उवाच॥
ये त्रिपुण्ड्रन्धारयन्ति तथा ये वै जटाधराः॥
ये रुद्राक्षधराश्चैव तथा ये शिवनामिनः॥ ३२.८० ॥

उपजीवनहेतोश्च भिया ये ह्यपि मानवाः॥
पापिनोऽपि दुराचाराः शिववेषधरा ह्यमी॥ ३२.८१ ॥

नानेतव्या भवद्भिश्च मम लोकं कदाचन॥
वर्ज्यास्ते हि प्रयत्नेन पापिनोऽपि सदैव हि॥ ३२.८२ ॥

अन्येषां का कथा दूता येऽर्चयन्ति सदाशिवम्॥
भक्त्या परमया शम्भुं रुद्रास्ते नात्र संशयः॥ ३२.८३ ॥

रुद्राक्षमेकं शिरसा बिभर्ति यस्तथा त्रिपुण्ड्रं च ललाटमध्यके॥
पञ्चाक्षरीं ये प्रजपन्ति साधवः पूज्य भवद्भिश्च न चान्यथा क्वचित्॥ ३२.८४ ॥

यस्मिन्राष्ट्रोऽथ वा देशे ग्रामे चापि विचक्षणः॥
शिवभक्तो न दृश्येत स्मशानात्तु विशिष्यते॥
तद्राष्ट्रं देशमित्याहुः सत्यं प्रतिवदामि वः॥ ३२.८५ ॥

यस्मिन्न सन्ति नित्यं हि शिवभक्तिसमन्विताः॥
तद्ग्रमस्था जनाः सर्वे शासनीया न संशयः॥ ३२.८६ ॥

एवमाज्ञापयामास यमोऽपि निजकिङ्करान्॥
तथेति मत्वा ते सर्वे तूष्णी मासन्सुविस्मिताः॥ ३२.८७ ॥

एवंविधोऽयं भुवनैकभर्ता सदाशिवो लोकगुरुः स एकः॥
दाता प्रहर्ता निजभावयुक्तः सनातनोऽयं जगदेकबन्धुः॥ ३२.८८ ॥

दग्ध्वा कालं महादेवो निर्भयं च ददौ विभुः॥
श्वेतस्य राजराजस्य महीपालवरस्य च॥ ३२.८९ ॥

तदा निर्भयमापन्नः श्वेतराजो महामनाः॥
भक्त्या च परया मुक्तो बभूव कृतनिश्चयः॥ ३२.९० ॥

तदा देवैः पूज्यमान ऋषिभिः पन्नगैस्तथा॥
श्वतो राजन्यवर्योऽसौ शिवसायुज्यमाप्तवान्॥ ३२.९१ ॥

एवं भक्तिपराणां च महेशे च जगद्गुरौ॥
सिद्धिः करतले तेषां सत्यं प्रतिवदामि वः॥ ३२.९२ ॥

श्वपचोऽपि वरिष्ठः स्यात्प्रसादाच्छं करस्य च॥
तस्मात्सर्वप्रयत्नेन पूजनीयो हि शङ्करः॥ ३२.९३ ॥

बहूनां जनमनामन्ते शिवभक्तिः प्रजायते॥ ३२.९४ ॥

ज्ञानिनां कृतबुद्धीनां जन्मजन्मनिशङ्करः॥
किं मया बहुनोक्तेन पूजनीयः सदाशिवः॥ ३२.९५ ॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥
किरातेन कृतं व्रतं च परमाद्भुतम्॥
येनैव तारितं विश्वं जगदेतच्चराचरम्॥ ३२.९६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे श्वेतराजचरिते शिवभक्तिप्रभावेण कालदहनवृत्तान्तवर्णनन्नाम द्वात्रिंशोऽध्यायः॥ ३२ ॥ छ ॥