[अध्यायः ३०]
वेदव्यासः
अध्यायः ३०
॥लोमश उवाच॥
वल्गमानं तमायान्तं तारका सुरमोजसा॥
आजघान च वज्रेण इन्द्रो मतिमतां वरः॥ ३०.१ ॥
तेन वज्रप्रहारेण तारको विह्वलीकृतः
पतितोऽपि समुत्थाय शक्त्या तं प्राहरद्द्विपम्॥ ३०.२ ॥
पुरन्दरं गजस्थं हि अपातया भूतले॥
हाहाकारो महानासीत्पतिते च पुरन्दरे॥ ३०.३ ॥
तारकेणापि तत्रैव यत्कृतं तच्छृणु प्रभो॥
पतितं च पदाक्रम्य हस्ताद्वज्रं प्रगृह्य च॥ ३०.४ ॥
हतं देवेन्द्रमालोक्य तारको रिपुसूदनः॥
वज्रघातेन महताऽताडयत्तु पुरन्दरम्॥ ३०.५ ॥
त्रिशूलमुद्यम्य महाबलस्तदा स वीरभद्रो रुषितः पुरन्दरम्॥
संरक्षमाणो हि जघान तारकं शूलेन दैत्यं च महाप्रभेण॥ ३०.६ ॥
शूलप्रहाराभिहतो निपपात महीतले॥
पतितोऽपि महातेजास्तारकः पुनरुत्थितः॥ ३०.७ ॥
जघान परया शक्त्या वीरभद्रं तदोरसि॥
वीरभद्रोपि पतितः शक्तिघातेन तस्य वै॥ ३०.८ ॥
सगणाश्चैव देवाश्च गन्धर्वोरगराक्षसाः॥
हाहाकारेण महता चुक्रुशुश्च पुनःपुनः॥ ३०.९ ॥
तदोत्थितः सहसा महाबलः स वीरभद्रो द्विषतां निहन्ता॥
त्रिशूलमुद्यम्य तडित्प्रकाशं जाज्वल्यमानं प्रभया निरन्तरम्॥
स्वरोचिषा भासितदिग्वितानं सूयदुबिम्बाग्न्युडुमण्डलाभम्॥ ३०.१० ॥
त्रिशूलेन तदा यावद्धन्तुकामो महाबलः॥
निवारितः कुमारेण मावधीस्त्वं महामते॥ ३०.११ ॥
जगर्ज च महातेजाः कार्त्तिकेयो महाबलः॥ ३०.१२ ॥
तदा जयेत्यभिहितो भूतैराकाशसंस्थितैः॥
शक्त्या परमया वीरस्तारकं हन्तुमुद्यतः॥ ३०.१३ ॥
तारकस्य कुमारस्य सङ्ग्रामस्तत्र दुःसहः॥
जातस्ततो महाघोरः सर्वभूतभयङ्करः॥ ३०.१४ ॥
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम्॥
शक्तिभ्यां भिन्नहस्तौ तौ महासाहससंयुतौ॥ ३०.१५ ॥
परस्परं वञ्चयन्तौ सिंहाविव महाबलौ॥
वैतालिकीं समाश्रित्य तथा वै खेचरीं गतिम्॥ ३०.१६ ॥
पार्वतं मतमाश्रित्य शक्त्या शक्तिं निजघ्नतुः॥
एभिर्मतैर्महावीरौ चक्रतुर्युद्धमुत्तमम्॥ ३०.१७ ॥
अन्योन्यसाधकौ भूत्वा महाबलपराक्रमौ॥
जघ्नतुः शक्तिधाराभी रणे रणविशारदौ॥ ३०.१८ ॥
मूर्ध्नि कण्ठे तथा बाह्वोर्जान्वोश्चैव कटीतटे॥
वक्षस्युरसि पृष्ठे च चिच्छिदतुः परस्परम्॥ ३०.१९ ॥
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ॥
प्रेक्षका ह्यभवन्सर्वे देवगन्धर्वगुह्यकाः॥ ३०.२० ॥
ऊचुः परस्परं सर्वे कोऽस्मिन्युद्धे विजेष्यते॥
तदा नभोगता वाणी उवाच परिसान्त्व्य वै॥ ३०.२१ ॥
तारकं हि सुराश्चाद्य कुमारोऽयं हनिष्यति॥
मा शोच्यतां सुराः सर्वैः सुखेन स्थीयतां दिवि॥ ३०.२२ ॥
श्रुत्वा तदा तां गगने समीरितां तदैव वाचं प्रमथैः परीतः॥
कुमारकस्तं प्रति हन्तुकामो दैत्याधिपं तारकमुग्ररूपम्॥ ३०.२३ ॥
शक्त्या तया महाबाहुराजघान स्तनान्तरे॥
तारकं ह्यसुरश्रेष्ठं कुमारो बलवत्तरः॥ ३०.२४ ॥
तं प्रहारमना दृत्य तारको दैत्यपुङ्गवः॥
कुमारं चाऽपि सङ्क्रुद्धः स्वशक्त्या चाजघान वै॥ ३०.२५ ॥
तेन शक्तिप्रहारेण शाङ्करिर्मूर्च्छितोऽभवत्॥
मुहूर्ताच्चेतनां प्राप्तः स्तूयमानो महर्षिभिः॥ ३०.२६ ॥
यथा सिंहो मदोन्मत्तो हन्तुकामस्तथैव च॥
कुमारस्तारकं दैत्यमाजघान प्रतापवान्॥ ३०.२७ ॥
एवं परस्परेणैव कुमारश्चैव तारकः॥
युयुधातेऽतिसंरब्धौ शक्तियुद्धपरायणौ॥ ३०.२८ ॥
अभ्यासपरमावास्तामन्योन्यविजिगीषया॥
तथा तौ युध्यमानौ च चित्ररूपौ तपस्विनौ॥ ३०.२९ ॥
धाराभिश्च अणीभीश्च सुप्रयुक्तौ च जघ्नतुः॥
अवलोकपराः सर्वे देवगन्धर्वकिन्नराः॥ ३०.३० ॥
विस्मयं परमं प्राप्ता नोचुः किञ्चन तस्य वै॥
न ववौ च तदावायुर्निष्प्रभोऽभूद्दिवाकरः॥ ३०.३१ ॥
हिमालयोऽथ मेरुश्च श्वेतकूटश्च दर्दुरः॥
मलयोऽथ महाशैलो मैनाको विन्ध्यपर्वतः॥ ३०.३२ ॥
लोकालोकौ महाशैलौ मानसोत्तरपर्वतः॥
कैलासो मन्दरो माल्यो गन्धमादन एव च॥ ३०.३३ ॥
उदयाद्रिर्महेन्द्रश्च तथैवास्तगिरिर्महान्॥ ३०.३४ ॥
एते चान्ये च बहवः पर्वताश्च महाप्रभाः॥
स्नेहार्द्दितास्तदाजग्मुः कुमारं च परीप्सवः॥ ३०.३५ ॥
ततः स दृष्ट्वा तान्सर्वान्भयभीतांश्च शाङ्करिः॥
पर्वतान्गिरिजापुत्रो बभाषे प्रतिबोधयन्॥ ३०.३६ ॥
॥कुमार उवाच॥
मा खिद्यत महाभागा मा चिन्ता क्रियतां नगाः॥
घातयाम्यद्य पापिष्ठं सर्वेषामिह पश्यताम्॥ ३०.३७ ॥
एवं समाश्वास्य तदा मनस्वी तान्पर्वतान्देवगणैः समेतान्॥
प्रणम्य शम्भुं मनसा हरिप्रियः स्वां मातरं चैव नतः कुमारः॥ ३०.३८ ॥
कार्त्तिकेयस्ततः शक्त्या निचकर्त रिपोः शिरः॥
तच्छिरो निपपातोर्व्यां तारकस्य च तत्क्षणात्॥
एवं स जयमापेदे कार्त्तिकेयो महाप्रभुः॥ ३०.३९ ॥
ददृशुस्तं सुरगणा ऋषयो गुह्यकाः खगाः॥
किन्नराश्चारणाः सर्पास्तथा चैवाप्सरो गणाः॥ ३०.४० ॥
हर्षेण महताविष्टास्तुष्टुवुस्तं कुमारकम्॥
विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तदा॥ ३०.४१ ॥
एवं विजयमापन्नं दृष्ट्वा सर्वे मुदा युताः॥
ततो हर्षात्समागम्य स्वाङ्कमारोप्य चात्मजम्॥ ३०.४२ ॥
परिष्वज्य तु गाढेन गिरिजापि तुतोष वै॥
स्वोत्सङ्गे च समारोप्य कुमारं सूर्यवर्चसम्॥ ३०.४३ ॥
लालयामास तन्वङ्गी पार्वती रुचिरेक्षणा॥
ऋषीभिः सत्कृतः शम्भुः पार्वत्या सहितस्तदा॥ ३०.४४ ॥
आर्यासनगता साध्वी शुशुभे मितभाषिणी॥
संस्तूयमाना मुनिभिः सिद्धचारणपन्नगैः॥ ३०.४५ ॥
नीराजिता तदा देवैः पार्वती शम्भुना सह॥
कुमारेण सहैवाथ शोममाना तदा सती॥ ३०.४६ ॥
हिमालयस्तदागत्य पुत्रैश्च परिवारितः॥
मेर्वाद्यैः पर्वतैश्चैव स्तूयमानः परोऽभवत्॥ ३०.४७ ॥
तदा देवगणाः सर्व इन्द्राद्य ऋषिभिः सह॥
पुष्पवर्षेण महात ववर्षुरमितद्युतिम्॥
कुमारमग्रतः कृत्वा नीराजनपरा बभुः॥ ३०.४८ ॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा॥
संस्तूयमानो विविधैः सूक्तैर्वेदविदां वरैः॥ ३०.४९ ॥
कुमारविजयन्नाम चरित्रं परमाद्भुतम्॥
सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम्॥ ३०.५० ॥
ये कीर्त्तयन्ति शुचयोऽमितभाग्ययुक्ताश्चानन्त्यरूपमजरामरमादधानाः॥
कौमारविक्रममहात्म्यमुदारमेतदानन्ददायकमनोर्थकरं नृणां हि॥ ३०.५१ ॥
यः पठेच्छृणुयाद्वापि कुमारस्य महात्मनः॥
चरितं तारकाख्यं च सर्वपापैः समुच्यते॥ ३०.५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवशास्त्रे तारकासुरवधपूर्वकं स्वामिकार्त्तिकेयविजयोत्सववर्णनं नाम त्रिंशोऽध्यायः॥ ३० ॥