[अध्यायः २६]
वेदव्यासः
अध्यायः २६
॥लोमश उवाच॥
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसम्भ्रमाः॥
ऊचुस्ते चैकपद्येन हिमवन्तं महागिरिम्॥ २६.१ ॥
॥पर्वता ऊचुः॥
कन्यादानं क्रियतां चाद्य शैल श्रीमाञ्छम्भुर्भाग्यतस्तेऽद्य लब्धः॥
हृन्मध्ये वै नात्र कार्यो विमर्शस्तस्मादेषा दीयतामीश्वराय॥ २६.२ ॥
तच्छ्रुत्वा वचनं तेषां सुहृदां वै हिमालयः॥
सम्यक्सङ्कल्पमकरोद्ब्रह्ममा नोदितस्तदा॥
इमां कन्यां तुभ्यमहं ददामि परमेश्वर॥ २६.३ ॥
भार्यार्थं प्रतिगृह्णीष्वमन्त्रेणानेन दत्तवान्॥
अस्मै रुद्राय महते देवदवाय शम्भव॥
कन्या दत्ता महेशाय गिरीन्द्रेण महात्मना॥ २६.४ ॥
वेद्यां च बहिरानीतौ दम्पतीव कमलेक्षणौ॥
उपवेशितौ बहिर्वेद्यां पार्वतीपरमेश्वरौ॥ २६.५ ॥
आचार्येणाथ तत्रैव कश्यपेन महात्मना॥
आह्वानं हवनार्थाय कृतमग्नेस्तदा द्विजाः॥ २६.६ ॥
ब्रह्मा ब्रह्मासनगतो बभूव शिवसन्निधौ॥
प्रवर्तमाने हवन ऋषयश्च विचक्षणाः॥ २६.७ ॥
ऊचुः परस्परं तत्र नानादर्शनवेदिनः॥
वेदवादरताः केचिदवदन्सम्मतेन वै॥ २६.८ ॥
एवमेव न चाप्येवमेवमेव न चान्यथा॥
कार्यमेव न वा कार्यं कार्याकार्यं तथा परे॥ २६.९ ॥
इत्येवं ब्रुवतां शब्दः श्रूयते शिवसन्निधौ॥
स्वकीयं मतमास्थाय ह्यब्रुवंस्ते परस्परम्॥
तत्त्वज्ञानविहीनास्ते केवलं वेदबुद्धयः॥ २६.१० ॥
तेषां तद्वचनं श्रुत्वा परस्परजयैषिणाम्॥
प्रहस्य नारदो वाक्यमुवाच शिवसन्निधौ॥ २६.११ ॥
यूयं सर्वे वादिनश्च वेदवादरतास्तथा॥
मौनमास्थाय भोविप्रा हृदि कृत्य सदाशिवम्॥ २६.१२ ॥
आत्मानं परमात्मानं पराणां परमं च तत्॥
येनेदं कारितं विश्वं यतः सर्वं प्रवर्त्तते॥
यस्मिन्निलीयते विश्वं तस्मै सर्वात्मने नमः॥ २६.१३ ॥
सोऽयमास्तेऽधुना गेहे पर्वतेन्द्रस्य भो द्विजाः॥
मुखादस्यैव सञ्जाताः सर्वे यूयं विचक्षणाः॥ २६.१४ ॥
एवमुक्तास्तदा तेन नारदेन द्विजोत्तमाः॥
उपदेशकरैर्वाक्यैर्बोधितास्ते द्विजोत्तमाः॥ २६.१५ ॥
वर्त्तमाने च यज्ञे च ब्रह्मा लोकपितामहः॥
ददर्श चरणौ देव्या नखेन्दुं च मनोहरम्॥ २६.१६ ॥
दर्शनात्स्खलितः सद्यो बभूवाम्बुजसम्भवः॥
मदनेन समाविष्टो वीर्यं च प्राच्यवद्भुवि॥ २६.१७ ॥
रेतसा क्षरमाणेन लज्जितोऽभूत्पितामहः॥
चरणाभ्यां ममर्द्दाथ महद्गोप्यं दुरत्ययम्॥ २६.१८ ॥
बहवश्चर्षयो जाता वालखिल्याः सहस्रशः॥
उपतस्थुस्तदा सर्वेताततातेति चाब्रुवन्॥ २६.१९ ॥
नारदेन तदोक्तास्ते वालखिल्याः प्रकोपिना॥
गच्छन्तु बटवो यूयं पर्वतं गन्धमादनम्॥ २६.२० ॥
न स्थातव्यं भवद्भिश्च भवतां न प्रयोजनम्॥
इत्येवमुक्तास्ते सर्वे वालखिल्याश्च पर्वतम्॥
नारदेन समादिष्टा ययुः सर्वे त्वरान्विताः॥ २६.२१ ॥
नारदेन ततो ब्रह्माऽऽश्वासितो वचनैः शुभैः॥
तावच्च हवनं पूर्णं जातं तस्य महात्मनः॥ २६.२२ ॥
महेशस्य तथा विप्राः शान्तिपाठपरा बभुः॥
ब्रह्मघोषेण महता व्याप्त मासीद्दिगन्तरम्॥ २६.२३ ॥
ततो नीराजितो देवो देवपत्नीभिरुत्तमः॥
तथैव ऋषिपत्नीभिरर्चितः पूजितस्तथा॥ २६.२४ ॥
तथा गिरीन्द्रस्य मनोरमाः शुभा नीराजयामासुरथैव योषितः॥
गीतैः सुगीतज्ञविशारदाश्च तथैव चान्ये स्तुतिभिर्महर्षयः॥ २६.२५ ॥
रत्नानि च महार्हाणि ददौ तेभ्यो महामनाः॥
हिमालयो महाशैलः संहृष्टः परितोषयन्॥ २६.२६ ॥
बभौ तदानीं सुरसिद्धसङ्घैर्वेद्यां स्थितोऽसौ सकलत्रको विभुः॥
सर्वैरुपेती निजपार्षदैर्गणैः प्रहृष्टचेता जगदेकसुन्दराः॥ २६.२७ ॥
एतस्मिन्नन्तरे तत्र ब्रह्मविष्णुपुरोगमाः॥
ऋषिगन्धर्वयक्षाश्च येन्ये तत्र समागताः॥ २६.२८ ॥
सर्वान्समभ्यर्च्य तदा महात्मा महान्गिरीशः परमेण वर्चसा॥
सद्रत्नवस्त्राभरणानि सम्यग्ददौ च ताम्बूलसुगन्धवार्यपि॥ २६.२९ ॥
तदा शिवं पुरस्कृत्याभ्यव जह्रुः सुरेश्वराः॥
तथा सर्वे मिलित्वा तु ऐकपद्येन मोदिताः॥ २६.३० ॥
पङ्क्तीभूताश्च बुभुर्लिङ्गिना श्रृङ्गिणा सह॥
केचिद्गणाः पृथग्भूता नानाहास्यरसैर्विभुम्॥ २६.३१ ॥
अतोषयन्नारदाद्या अनेकालीकसंयुताः॥
तथा चण्डीगणाः सर्वे बभुजुः कृतभाजनाः॥ २६.३२ ॥
वैतालाः क्षेत्रपालाश्च बुभुजुः कृतभाजनाः॥
शाकिनी डाकिनी चैव यक्षिण्यो मातृकादयः॥ २६.३३ ॥
योगिन्योऽथ चतुः षष्टिर्योगिनो हि तथा परे॥
दश कोट्यो गणानां च कोट्येका च महात्मनाम्॥ २६.३४ ॥
एवं तु ऋषयः सर्वे तथानये विबुधादयः॥
योगिनो हि मया चान्ये कथिताः पूर्वमेव हि॥ २६.३५ ॥
योगिन्यश्चैव कथितास्तासां भक्ष्यं वदामि वः॥
खड्गानां केचिदानीय क्रव्यं पवित्रमेव च॥ २६.३६ ॥
भुञ्जन्ति चास्थिसंयुक्तं तथान्त्राणि बुभुक्षिताः॥
आनीय केचिच्छीर्षाणि महिषाणां गुरूणि च॥ २६.३७ ॥
तथा केचिन्नृत्यमानास्तदानीं रोरूय्यमाणाः प्रमथाश्चैव चान्ये॥
केचित्तूष्णीमास्थिता रुद्ररूपाः परेचान्याल्ँलोकमानास्तथैव॥ २६.३८ ॥
योगिनीचक्रमध्यस्थो भैरवो हि ननर्त च॥
तथान्ये भूतवेताला मामेत्येवं प्रलापिनः॥ २६.३९ ॥
एवं तेषामुद्धवं हि निरिक्ष्य मधुसूदनः॥
उवाच प्रहसन्वाक्यं शङ्करं लोकशङ्करम्॥ २६.४० ॥
एतान्गणान्वारय भो अत्र मत्तांश्च सम्प्रति॥
अस्मिन्काले च यत्कार्यं सर्वैस्तत्कार्यमे व च॥ २६.४१ ॥
पाण्डित्येन महादेव तस्मादेतान्निवारय॥
तच्छ्रुत्वा भगवान्रुद्रो वीरभद्रमुवाच ह॥ २६.४२ ॥
॥रुद्र उवाच॥
वारयस्व प्रमत्तांश्च क्षीबांश्चैव विशेषतः॥
तेनोक्तो वीरभद्रश्च शम्भुना परमेष्ठिना॥ २६.४३ ॥
आज्ञापिताः प्रमत्ताश्च वीरभद्रेण धीमता॥
प्रमथा वारितास्तेन तूष्णीमाश्रित्य ते स्थिताः॥ २६.४४ ॥
निश्चला योगिनीमध्ये भूतप्रमथगुह्यकाः॥
शाकिन्यो यातुधानाश्च कूष्माण्डाः कोपिकर्पटाः॥ २६.४५ ॥
तथान्ये भूतवेतालाः क्षेत्रपालाश्च भैरवाः॥
सर्वे शान्ताः प्रमत्ताश्च बभूवुः प्रमथादयः॥ २६.४६ ॥
एवं विस्तारसंयुक्तं कृतमुद्वहनं तदा॥
हिमाद्रिणा परं विप्राः सुमङ्गल्यं सुशोभनम्॥ २६.४७ ॥
चत्वारो दिवसा जाताः परिपूर्णेन चेतसा॥
हिमाद्रिणा कृता पूजा देवदेवस्य शूलिनः॥ २६.४८ ॥
वस्त्रालङ्काराभरणै रत्नैरुच्चावचैस्ततः॥
पूजयित्वा महादेवं विष्णोर्वचनपरोऽभवत्॥ २६.४९ ॥
लक्ष्मीसमेतं विष्णुं च वस्त्रालङ्करणैः शुभैः॥
पूजयामास हिमवांस्तथा ब्रह्माणमेव च॥ २६.५० ॥
इन्द्रं पुरोधसा सार्द्धमिन्द्राण्या सहितं विभुम्॥
तथैव लोकपालांश्च पूजयित्वा पृथक्पृथक्॥ २६.५१ ॥
तथैव पूजिता चण्डी भूतप्रमथगुह्यकैः॥
वस्त्रालङ्करणैश्चैव रत्नैर्नानाविधैरपि॥
ये चान्य आगतास्तत्र ते च सर्वे प्रपूजिताः॥ २६.५२ ॥
एवं तदानीं प्रतिपूजिताश्च देवाश्च सर्वे ऋषयश्च यक्षाः॥
गन्धर्वविद्याधरसिद्धचारणास्तथैव मर्त्त्याप्सरसां गणाश्च॥ २६.५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे शिवपार्वतिविवाहमङ्गलोत्सववर्णनं नाम षड्विशोऽध्यायः॥ २६ ॥ छ ॥