[अध्यायः २३]
वेदव्यासः
अध्यायः २३
॥लोमश उवाच॥
एतस्मिन्नन्तरे तत्र महेशेन प्रणोदिताः॥
आजग्मुः सहसा सद्य ऋषयोऽपि हिमालयम्॥ २३.१ ॥
तान्दृष्ट्वा सहसोत्थाय हिमाद्रिः प्रतिमानसः॥
पूजयामास तान्सर्वानुवाच नतकन्धरः॥ २३.२ ॥
किमर्थमागता यूयं ब्रूतागमनकारणम्॥
तदोचुः सप्त ऋषयो महेशप्रेरिता वयम्॥ २३.३ ॥
समागतास्त्वत्सकाशं कन्यायाश्च विलोकने॥
तानस्मान्विद्धि भोः शैल स्वां कन्यां दर्शयाशु वै॥ २३.४ ॥
तथेत्युक्त्वा ऋषिगणानानीता तत्र पार्वती॥
स्वोत्सङ्गे परिगृह्याशु गिरीन्द्रः पुत्रवत्सलः॥
हिमवान्गिरिराजोऽथ उवाच प्रहसन्निव॥ २३.५ ॥
इयं सुता मदीया हि वाक्यं श्रुणुत मे पुनः॥
तपस्विनां वरिष्ठऽसौ विरक्तो मदनान्तकः॥ २३.६ ॥
कथमुद्वहनार्थी च येनानङ्गः कृत स्मरः॥
अत्यासन्नेचातिदूरे आढ्ये धनविवर्जिते॥
वृत्तिहीने च मूर्खे च कन्यादानं न शस्यते॥ २३.७ ॥
मूढाय च विरक्ताय आत्मसम्भाविताय च॥
आतुराय प्रमत्ताय कन्यादानं न कारयेत्॥ २३.८ ॥
तस्मान्मया विचार्यैव भवद्भिर्ऋषिसत्तमाः॥
प्रदातव्या महेशाय एतन्मे व्रतमुत्तमम्॥ २३.९ ॥
तच्छ्रुत्वा गिरिराजस्य वचनं ते महर्षयः॥
एकपद्येन ऊचुस्ते प्रहस्य च हिमालयम्॥ २३.१० ॥
यया कृतं तपस्तीव्रं यया चाराधितः शिवः॥
तपसा तेन सन्तुष्टः प्रसन्नोद्य सदाशिवः॥ २३.११ ॥
अस्यास्तस्य च भोः शैल न जानासि च किञ्चन॥
महिमानं परं चैव तस्मादेनां प्रयच्छ वै॥ २३.१२ ॥
शिवाय गिरिजामेनां कुरुष्य वचनं हि नः॥
तच्छ्रुत्वा वचनं तेषामृषीणां भावितात्मनाम्॥ २३.१३ ॥
उवाच त्वरया युक्तः पर्वतान्पर्वतेश्वरः॥
हे मेरो हे निषधकिं गन्धमादन मन्दर॥
मैनाक क्रियतामद्य शंसध्वं च यथातथम्॥ २३.१४ ॥
मेना तदा उवाचेदं वाक्यं वाक्यविशारदा॥
अधुना किं विमशन कृतं कार्यं तदैव हि॥ २३.१५ ॥
उत्पन्नेयं महाभागा देवकार्यार्थमेव च॥
प्रदातव्या शिवायेति शिवस्यार्थेऽवतारिता॥ २३.१६ ॥
अनयाराधितो रुद्रो रुद्रेण परिभाविता॥
इयं महाभागा शिवाय प्रतिदीयताम्॥ २३.१७ ॥
निमित्तमात्रं च कृतं तया वै शिवपूजने॥
एतच्छ्रुत्वा वचस्तस्यामेनायाः परिभाषितम्॥ २३.१८ ॥
परितुष्टो हिमाद्रिश्च वाक्यं चेदमुवाच ह॥
ऋषीन्प्रति निरीक्षंस्तां कन्येयं मम सम्प्रति॥ २३.१९ ॥
ततः समानीय सुलोचनां तां श्यामां नितम्बार्षितमेखलां शुभाम्॥
वैडूर्यमुक्तावलयान्दधानां भास्वत्प्रभां चान्द्रमसीं व रेखम्॥ २३.२० ॥
लावण्यामृतवापिकां सुवदनां गौरीं सुवासां शुभां दृष्ट्वा ते ह्यृषयोऽपि
मोहमगन्भ्रान्तास्तदा सम्भ्रमात्॥
नोचुः किञ्चना वाक्यमेव सुधियो ह्यासन्प्रमत्ता इव स्तब्धाः कान्तिमतीमतीव
रुचिरां त्रैलोक्यनाथप्रियाम्॥ २३.२१ ॥
एवं तदा ते ह्यृषयोऽपि मोहिता रूपेण तस्याः किमुताथ देवताः॥
तथैव सर्वे च निरीक्ष्य तन्वीं सतीं गिरिन्द्रस्य सुतां शिवप्रियाम्॥ २३.२२
॥
ततः पुनश्चैत्य शिवं शिवप्रियाः शशंसुरस्मा ऋषयस्तदानीम्॥ २३.२३ ॥
॥ऋषय ऊचुः॥
भूषिता हि गिरीन्द्रेण स्वसुता नास्ति संशयः॥
उद्वोढुं गच्छ देवेश देवैश्च परिवारितः॥ २३.२४ ॥
गच्छ शीघ्रं महादेव पार्वतीमात्मजन्मने॥
तच्छ्रुत्वा वचनं तेषां प्रहस्येदमुवाच ह॥ २३.२५ ॥
विवाहो हि महाभागा न दृष्टो न श्रुतोऽपि वा॥
मया पुरा च ऋषयः कथ्यतां च विशेषतः॥ २३.२६ ॥
तदोचुर्ऋषयः सर्वे प्रहसन्तः सदाशिवम्॥
विष्णुमाह्वय वै देव ब्रह्मणं च शतक्रतुम्॥ २३.२७ ॥
तथा ऋषिगणांश्चैव यक्षगन्धर्वपन्नगान्॥
सिद्धविद्याधरांश्चैव किन्नरांश्चाप्सरोगणान्॥ २३.२८ ॥
एतांश्चान्यांश्च सुबहूनानयस्वेति सत्वरम्॥
तदाकर्ण्य ऋषिप्रोक्तं वाक्यं वाक्यविशारदः॥ २३.२९ ॥
उवाच नारदं देवो विष्णुमानय सत्वरम्॥
ब्रह्माणं च महेन्द्रं च अन्यांश्चैव समानय॥ २३.३० ॥
शम्भोर्वचनमादाय शिरसा लोकपावनः॥
जगाम त्वरितो भूत्वा वैकुण्ठं विष्णुवल्लभः॥ २३.३१ ॥
ददर्श देवं परमासने स्थितं श्रिया च देव्या परिसेव्यमानम्॥
चतुर्भुजं देववरं महाप्रभं नीलोत्पलश्यामतनुं वरेण्यम्॥ २३.३२ ॥
महार्हरत्नावृतचारुकुण्डलं महाकिरीटोत्तमरत्नभास्वतम्॥
सुवैजयन्त्या वनमालया वृतं स नारदस्तं भुवनैकसुन्दरम्॥ २३.३३ ॥
उवाच नारदोऽभ्येत्य शम्भोर्वाक्यमथादरात्॥
ब्रह्मवीणां वाद्यवीणां वाद्यमानः सर्वज्ञ ऋषिसत्तमः॥ २३.३४ ॥
एह्येहि त्वं महाविष्णो महादेवं त्वरान्वितः॥
उद्वाहनार्थं शम्भोश्च त्वमेकः कार्यसाधकः॥ २३.३५ ॥
प्रहस्य भगवान्प्राह नारदं प्रति वै तदा॥
कथमुद्वहने बुद्धिरुत्पन्ना तस्य शूलिनः॥
विज्ञातार्थोऽपि भगवान्नारदं परिपृष्टवान्॥ २३.३६ ॥
॥नारद उवाच॥
तपसा महता रुद्रः पार्वत्या परितोषितः॥
स्वयमेवागतस्तत्र यत्रास्ते गिरिजा सती॥ २३.३७ ॥
दासोऽहमवदच्छम्भुः पार्वत्या परितोषितः॥
पार्वतीं च समभ्यर्थ्य वरयस्व च भामिनि॥ २३.३८ ॥
त्वरितेनावदच्छम्भुस्त्वामाह्वयति सम्प्रति॥
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः॥
नारदेन समायुक्तः पार्षदैः परिवारितः॥ २३.३९ ॥
सुपर्णमारुह्य तदा महात्मा योगीश्वराणां प्रभुरच्युतो महान्॥
ययौ तदाऽऽकाशपथा हरिः स्वयं सनारदो देववरैः समेतः॥ २३.४० ॥
तं दृष्ट्वा त्वरितं देवो योगिध्येयाङ्घ्रिपङ्कजः॥
अभ्युत्थाय मुदा युक्तः परिष्वज्य च शार्ङ्गिणम्॥ २३.४१ ॥
तदा हरिहरौ देवावैकपद्येन तिष्ठतः॥
ऊचुतुः स्म तदान्योन्यं क्षेमं कुशलमेव च॥ २३.४२ ॥
॥ईश्वर उवाच॥
गिरिजातपसा विष्णो जितोऽहं नात्र संशयः॥
पाणिग्रहार्थमेवाद्य गन्तुकामो हिमालयम्॥ २३.४३ ॥
यथार्थेन च भो विष्णो कथयामि तवाग्रतः॥
यदा दक्षेण भो विष्णो प्रदत्ता च पुरा सती॥ २३.४४ ॥
न च सङ्कल्पविधिना मया पाणिग्रहः कृतः॥
अधुनैव मया कार्यं कर्मविस्तारणं बहु॥ २३.४५ ॥
यत्कार्यं तन्न जानामि सर्वं पाणिग्रहोचितम्॥
शम्भोस्तद्वचनं श्रुत्वा प्रहस्य मधुसूदनः॥ २३.४६ ॥
यावद्वक्तुं समारेभे तावद्ब्रह्मा समागतः॥
इन्द्रेण सह सर्वैश्च लोकपालैस्त्वरान्वितः॥ २३.४७ ॥
तथैव देवासुरयक्षदानवा नागाः पतङ्गाप्सरसो महर्षयः॥
समेत्य सर्वे परिवक्तुमीशमूचुस्तदानीं शिरसा प्रणम्य॥ २३.४८ ॥
गच्छगच्छ महादेव अस्माभिः सहितः प्रभो॥
ततो विष्णुरुवाचेदं प्रस्तावसदृशंवचः॥ २३.४९ ॥
गृह्योक्तविधिना शम्भो कर्म कर्तुमिहार्हसि॥ २३.५० ॥
नान्दीमुखं मण्डपस्थापनं च तथा चैतत्कुरु धर्मेण युक्तम्॥
महानदीसङ्गमं वर्जयित्वा कुर्वन्ति केचिद्वेदमनीषिणश्च॥ २३.५१ ॥
मण्डपस्थापनं चैव क्रियतां ह्यधुना विभो॥
तथोक्तो विष्णुना शम्भुश्चकारात्महिताय वै॥ २३.५२ ॥
ब्रह्मादिभिः कृतं तेन सर्वमभ्युदयोचितम्॥
ग्रहाणां पूजनं चक्रे कश्यपो ब्रह्मणा युतः॥ २३.५३ ॥
तथात्रिश्च वशिष्ठश्च गौतमोथ गुरुर्भृगुः॥
कण्वो बृहस्पतिः शक्तिर्जमदग्निः पराशरः॥ २३.५४ ॥
मार्कण्डेयः शिलावाकः शून्यपालोऽक्षतश्रमः॥
अगस्त्यश्च्यवनो गर्गः शिलादोऽथ महामुनिः॥ २३.५५ ॥
एते चान्ये च बहवो ह्यागताः शिवसन्निधौ॥
ब्रह्मणा नोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम्॥ २३.५६ ॥
वेदोक्तविधिना सर्वे वेदवेदाङ्गपारगाः॥
चक्रू रक्षां महेशस्य कृतकौतुकमङ्गलाम्॥ २३.५७ ॥
ऋग्यजुःसामसहितैः सूक्तैर्नानाविधैस्तथा॥
मङ्गलानि च भूरीणि ऋषयस्तत्त्ववेदिनः॥ २३.५८ ॥
अभ्यञ्जनादिकं सर्वं चक्रुस्तस्य परात्मनः॥
ख्यातः कपर्द्दस्तस्यैव शिवस्य परमात्मनः॥ २३.५९ ॥
अनेकैर्मौक्तिकैर्युक्ता मुण्डमालाऽभवत्तदा॥
ये सर्पा ह्यङ्गभूताश्च ते सर्वे तत्क्षणादिव॥
बभूवुर्मडनान्येव जातरूपमयानि च॥ २३.६० ॥
सर्वभूषणसम्पन्नो देवदेवो महेश्वरः॥
ययौ देवैः परिवृतः शैलराजपुरं प्रति॥ २३.६१ ॥
चण्डिका वरभगिनी तदा जाता भयावहा॥
प्रेतासना गता चण्डी सर्पाभरणभूषिता॥ २३.६२ ॥
हैमं कलशमादाय पूर्णं मूर्ध्ना महाप्रभा॥
परिवारैर्महाचण्डी दीप्तास्या ह्युग्रलोचना॥ २३.६३ ॥
तत्र भूतान्यनेकानि विरूपाणि सहस्रशः॥
तैः समेताग्रतश्चण्डी जगाम विकृतानना॥ २३.६४ ॥
तस्याः सर्वे पृष्ठतश्च गणाः परमदारुणाः॥
कोट्येकादशसङ्ख्याका रौद्रा रुद्र प्रियाश्च ये॥ २३.६५ ॥
तदा डमरुनिर्घोषव्याप्तमासीज्जगत्त्रयम्॥
भेरीभाङ्कारशब्देन शङ्खानां निनदेन च॥ २३.६६ ॥
तथा दुन्दुभिनिर्घोषैः शब्दः कोलाहलोऽभवत्॥
गणानां पृष्ठतो भूत्वा सर्वे देवाः समुत्सुकाः॥
अन्वयुः सर्वसिद्धाश्च लोकपालैः समन्विताः॥ २३.६७ ॥
मध्ये व्रजन्महेन्द्रोऽथ ऐरावतमुपास्थितः॥
शुभ्रेणो च्छ्रियमाणेन छत्रेण परमेण हि॥ २३.६८ ॥
चामरैर्वीज्यमानोऽसौ सुरैर्बहुभिरावृतः॥
तदा तु व्रजमानास्त ऋषयो बहवो ह्यमी॥ २३.६९ ॥
भरद्वाजादयो विप्राः शिवस्योद्वहनं प्रति॥
शाकिन्यो यातुधानाश्च वेताला ब्रह्मराक्षसाः॥ २३.७० ॥
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः॥
पृच्छमानास्तदा चण्डीं पृष्ठतोऽन्वगमंस्तदा॥ २३.७१ ॥
क्व गता साऽधुना चण्डी धावमानास्तदा भृशम्॥
प्राप्ता गता व्रजन्तीं तां प्रणिपत्य महाप्रभाम्॥ २३.७२ ॥
अथ प्रोचुस्तदा सर्वे चण्डीं भैरवसंयुताम्॥
विनास्माभिः कुतो यासि वद चण्डि यथा तथा॥ २३.७३ ॥
प्रहस्योवाच सा चण्डी भूतानां तत्र श्रृण्वताम्॥
शम्भोरुद्वहनार्थाय प्रेतारूढा व्रजाम्यहम्॥ २३.७४ ॥
हैमं कलशमादाय शिरसा बिभ्रती स्वयम्॥
करवालीस्वरूपेण चण्डी जाता ततः स्वयम्॥ २३.७५ ॥
भूतैः परिवृता सर्वैः सर्वेषामग्रतोऽव्रजत्॥
गणास्तामनुजग्मुस्ते गणानां पृष्ठतः सुराः॥ २३.७६ ॥
इन्द्रादयो लोकपाला ऋषयस्तेऽग्रपृष्ठतः॥
ऋषीणां पृष्ठतो भूत्वा पार्षदाश्च महाप्रभाः॥ २३.७७ ॥
विष्णोरमितभावज्ञा मुकुन्दाच्च मनोरमाः॥
सर्वे पयोदसङ्काशाः स्रग्विणो वनमालिनः॥
श्रीवत्साङ्कधराः सर्वे पीतवासोन्विताश्च ते॥ २३.७८ ॥
चतुर्भुजाः कुण्डलिनः किरीटकटकाङ्गदैः॥
हारनूपुरसूत्रैश्च कटिसूत्राङ्गुलीयकैः॥
शोभिताः सर्व एवैते महापुरुषलक्षणाः॥ २३.७९ ॥
तेषां मध्ये गतो विष्णुः श्रियोपेतः सुरारिहा॥ २३.८० ॥
बभौ त्रिलोकीकृतविश्वमङ्गलो महानुभावैर्हृदि कृत्य धिष्ठितः॥
शिवेन साकं परमार्थदस्तदा हरिः परात्मा जगदेकबन्धुः॥ २३.८१ ॥
स तार्क्ष्यपुत्रोपरि संस्थितो महाल्ँलक्ष्म्या समेतो भुवनैकभर्ता॥
स चामरैर्वीज्यमानो मुनीन्द्रैः सर्वैः समेतो हरिरीश्वरो महान्॥ २३.८२ ॥
तथा विरिञ्चिर्निजवाहनस्थो वेदैः समेतः सह षड्भिरङ्गैः॥
तथागमैः सेतिहासैः पुराणैः स संवृतो हेमगर्भो बभूव॥ २३.८३ ॥
वेधोहरिभ्यां च तदा सुरेद्रैः समावृतश्चर्षिभिः सम्परीतः॥
वृषारूढो वृषकेतुर्दुरापोयोगीश्वरैरपि सर्वैरगम्यः॥ २३.८४ ॥
शुद्धस्फटिकसङ्काशं वृषभं धर्मवत्सलम्॥
समेतो मातृभिश्चैव गोभिश्च कृतलक्षणम्॥ २३.८५ ॥
एभिस्समेतोऽसुरदानवैः सह ययौ महेशो विबुदैरलङ्कृतः॥
हिमालयं गिरिवर्यं तदानीं पाणिग्रहार्थं प्रमदोत्तमायाः॥ २३.८६ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे केदारखण्डे श्रीशिवस्य विवाहवर्णनन्नाम त्रयोविंशोऽध्यायः॥ २३
॥