२१

[अध्यायः २१]

वेदव्यासः

अध्यायः २१
॥लोमश उवाच॥
वर्द्धमाना तदा साध्वी रराज प्रतिवासरम्॥
अष्टवर्षा यदा जाता हिमालयगृहे सती॥ २१.१ ॥

महेशो हिमवद्द्रोण्यां तताप परमं तपः॥
सर्वैर्गणैः परिवृतो वीरभद्रादिभिस्तदा॥ २१.२ ॥

एतत्तपो जुषाणं तं महेशं हिमवान्ययौ॥
तत्पादपल्लवं द्रष्टुं पार्वत्या सह बुद्धिमान्॥ २१.३ ॥

यावत्समागतो द्रष्टं नन्दिनासौ निवारितः॥
द्वारि स्थिते च तदा क्षणमेकं स्थिरोऽभवत्॥ २१.४ ॥

पुनर्विज्ञापयामास नन्दिना हिमवान्गिरिः॥
विज्ञप्तो नन्दिना शम्भुरचलो द्रष्टुमागतः॥ २१.५ ॥

तदाकर्ण्य वचस्तस्य नन्दिनः परमेश्वरः॥
आनयस्व गिरिं चात्र नन्दिनं वाक्यमब्रवीत्॥ २१.६ ॥

तथेति मत्वा नन्दी तं पर्वतं च हिमाचलम्॥
आनयामास स तथा शङ्करं लोकशङ्करम्॥ २१.७ ॥

दृष्ट्वा तदानीं सकलेश्वरं प्रभुं तपो जुषाणं विनिमीलितेक्षणम्॥ २१.८ ॥

कपर्द्धिनं चन्द्रकलाविभूषणं वेदान्तवेद्यं परमात्मनि स्थितम्॥
ववन्द शीर्ष्णा च तदा हिमाचलः परां मुदं प्रापदहीनसत्त्वः॥ २१.९ ॥

उवाच वाक्यं जगदेकमङ्गलं हिमालयो वाक्यविदां वरिष्ठः॥ २१.१० ॥

सभाग्योऽहं महादेव प्रसादात्तव शङ्कर॥
प्रत्यहं चागमिष्यामि दर्शनार्थं तव प्रभो॥ २१.११ ॥

अनया सह देवेश अनुज्ञां दातुर्महसि॥
श्रुत्वा तु वचनं तस्य देवदेवो महेश्वरः॥ २१.१२ ॥

आगन्तव्यं त्वया नित्यं दर्शनार्थं ममाचल॥
कुमारीं च गृहे स्थाप्य नान्यथा मम दर्शनम्॥ २१.१३ ॥

अचलः प्रत्युवाचेदं गिरिशं नतकन्धरः॥
कस्मान्मयानया सार्द्धं नागन्तव्यं तदुच्यताम्॥
अचलं च व्रीत शम्भुः प्रहसन्वाक्यमब्रवीत्॥ २१.१४ ॥

इयं कुमारी सुश्रोणी तन्वी चारुप्रभाषिणी॥
नानेतव्या मत्समीपे वारयामि पुनः पुनः॥ २१.१५ ॥

एतच्छ्रुत्वा वचनं तस्य शम्भोर्निरामयं निःस्पृहनिष्ठुरं वा॥
तपस्विनोक्तं वचनं निशम्य उवाच गौरी च विहस्य शम्भुम्॥ २१.१६ ॥

॥गौर्युवाच॥
तपःशक्त्यान्वितः शम्भो करोषि विपुलं तपः॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः॥ २१.१७ ॥

कस्त्वं का प्रकृतिः सूक्ष्मा भगवंस्तद्विमृश्यताम्॥
पार्वत्यास्तद्वचः श्रुत्वा महेशो वाक्यमब्रवीत्॥ २१.१८ ॥

तपसा परमेणैव प्रकृतिं नाशयाम्यहम्॥
प्रकृत्या रहितः सुभ्रु अहं तिष्ठमि तत्त्वतः॥
तस्माच्च प्रकृते सिद्धैर् कार्यः सङ्ग्रहः क्वचित्॥ २१.१९ ॥

॥पार्वत्युवाच॥
यदुक्तं परया वाचा वचननं शङ्कर त्वया॥
सा किं प्रकृति र्नैव स्यादतीतस्तां भवान्कथम्॥ २१.२० ॥

यच्छृणोपि यदश्रासि यच्च पश्यसि शङ्कर॥
वाग्वादेन च किं कार्यमस्माके चाधुना प्रभो॥ २१.२१ ॥

तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निर्र्थकः॥
प्रकृतेः परतो भूत्वा किमर्थं तप्यते तपः॥ २१.२२ ॥

त्वया शम्भोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो॥
प्रकृत्या मिलितोऽसि त्वं न जानासि हि शङ्कर॥ २१.२३ ॥

वाग्वादेन च किं कार्यमस्माकं चाधुना प्रभो॥
प्रकृतेः परतस्त्वं च यदि सत्यं वचस्तव॥
तर्हि त्वया न भेतव्यं मम शङ्कर सम्प्रति॥ २१.२४ ॥

प्रहस्य भगवान्देवो गिरिजां प्रत्युवाच ह॥ २१.२५ ॥

॥महादेव उवाच॥
प्रत्यहं कुरु मे सेवां गिरिजे साधुभाषिणि॥ २१.२७ ॥

इत्येवमुक्त्वा गिरिजां महेशो हिमालयं वाक्यमथो बभाषे॥
अत्रैव सोऽहं तपसा परेण चरामि भूम्यां परमार्थभावः॥ २१.२७ ॥

तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप॥
अनुज्ञया विना किञ्चित्तपः कर्तुं न पार्यते॥ २१.२८ ॥

एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः॥
प्रहस्य हिमवाञ्छम्भुमिदं वचनमब्रवीत्॥ २१.२९ ॥

त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम्॥
किमहं तु महादेव तुच्छो भूत्वा ददामि ते॥ २१.३० ॥

एवमुक्तो हिमवता शङ्करो लोकशङ्करः॥
प्रहस्य गिरिराजं तं याहीति प्राह सादरम्॥ २१.३१ ॥

शङ्करेणाब्यनुज्ञातः स्वगृहं हिमवान्ययौ॥
सार्द्धं गिरिजया सोऽपि प्रत्यहं दर्शने स्थितः॥ २१.३२ ॥

एवं कतिपयः कालो गतश्चोपासनात्तयोः॥ २१.३३ ॥

सुतापित्रोश्च तत्रैव शङ्करो दुरतिक्रमः॥
पार्वतीं प्रति तत्रैव चिन्तामापेदिरे सुराः॥ २१.३४ ॥

ते चिन्त्यमानाश्च सुरास्तदानीं कथं महेशो गिरिजां समेष्यति॥
किं कार्यमद्यैव वयं च कुर्मो बृहस्पते तत्कथयस्व मा चिरम्॥ २१.३५ ॥

बृहस्पतिरुवाचेदं महेन्द्रं प्रति सद्वचः॥
एवमेतत्त्वया कार्यं महेन्द्र श्रूयतां तदा॥ २१.३६ ॥

एतत्कार्यं मदनेनैव राजन्नान्यः समर्थो भविता त्रिलोके॥
विप्लावितं तापसानां तपो हि तस्मात्त्वरात्प्रार्थनीयो हि मारः॥ २१.३७ ॥

गुरोर्वचनमाकर्ण्य आह्वयन्मदनं हरिः॥
आह्वानादाजगामाथ मदनः कार्यसाधकः॥ २१.३८ ॥

रत्या समेतः सह माधवेन स पुष्पधन्वा पुरतः सभायाम्॥
महेन्द्रमागम्य उवाच वाक्यं सगर्वितं लोकमनोहरं च॥ २१.३९ ॥

अहमाकारितः कस्माद्ब्रूहि मेऽद्य शचीपते॥
किं कार्यं करवाण्यद्य कथ्यतां मा विलम्बितम्॥ २१.४० ॥

मम स्मरणमात्रेण विभ्रष्टा हि तपस्विनः॥
त्वमेव जानासि हरे मम वीर्यपराक्रमौ॥ २१.४१ ॥

मम वीर्यं च जानाति शक्तेः पुत्रः पराशरः॥
एवं चानये च बहवो भृग्वाद्य ऋषयो ह्यमी॥ २१.४२ ॥

गुरुरप्यभिजानाति भार्योतथ्यस्य चैव हि॥
तस्यां जातो भरद्वाजो गुरुणा सङ्करो हि सः॥ २१.४३ ॥

भरद्वाजो महाभाग इत्युवाच गुरुस्तदा॥
जानाति मम वीर्यं च शौर्यं चैव प्रजापतिः॥ २१.४४ ॥

क्रोधो हि मम बन्धुश्च महाबलपरक्रमः॥
उभाभ्यां द्रावितं विश्वं जङ्गमाजङ्गमं महत्॥
ब्रह्मादिस्तम्बपर्यन्तं प्लावितं सचराचरम्॥ २१.४५ ॥

॥देवा ऊचुः॥
मदनद्वं समर्थोसि अस्माञ्जेतुं सदैव हि॥
महेशं प्रति गच्छाशु सुरकार्यार्थसिद्धये॥
पार्वत्या सहितं शम्भुं कुरुष्वाद्य महामते॥ २१.४६ ॥

एवमभ्यर्थितो देवैर्मदनो विश्वमोहनः॥
जगाम त्वरितो भूत्वा अप्सरोभिः समन्वितः॥ २१.४७ ॥

ततो जगामाशु महाधनुर्द्धरो विस्फार्य चापं कुसुमान्वितं महत्॥
तथैव बाणांश्च मनोरमांश्च प्रगृह्य वीरो भुवनैकजेता॥
तस्मिन्हिमाद्रौ परिदृश्यमानोऽवनौ स्मरो योधयतां वरिष्ठः॥ २१.४८ ॥

तत्रागता तदा रम्भा उर्वशी पुञ्जिकस्थली॥
सुम्लोचा मिश्रकेशी च सुभगा च तिलोत्तमा॥ २१.४९ ॥

अन्याश्च विविधाः जाताः साहाय्ये मदनस्य च॥
अप्सरसो गणैर्दृष्टा मदनेन सहैव ताः॥ २१.५० ॥

सर्वे गणाश्च सहसा मदनेन विमोहिताः॥
भृङ्गिणा च तदा रम्भा चण्डेन सह चोर्वशी॥ २१.५१ ॥

मेनका वीरभद्रेण चण्डेन पुञ्जिकस्थली॥
तिलोत्तमादयस्तत्र संवृताश्च गणैस्तदा॥ २१.५२ ॥

अमत्तभूतैर्बहुभिस्त्रपां त्यक्त्वा मनीषिभिः॥
अकाले कोकिला भिश्च व्याप्तामासीन्महीतलम्॥ २१.५३ ॥

अशोकाश्चम्पकाश्चूता यूथ्यश्चैव कदम्बकाः॥
नीषाः प्रियालाः पनसा राजवृक्षाश्चरायणाः॥ २१.५४ ॥

द्राक्षावल्लयः प्रदृश्यन्ते बहुला नागकेशराः॥
तथा कदल्यः केतक्यो भ्रमरैरुपशोभिताः॥ २१.५५ ॥

मत्ता मदनसङ्गेन हंसीभिः कलहंसकाः॥
करेणुभिर्गजाह्यासञ्छिखण्डीभिः शिखण्डिनः॥ २१.५६ ॥

निष्कामा ह्यतुरा ह्यासञ्छिवसम्पर्कजैर्गुणैः॥
अकस्माच्च तथाभूतं कथं जातं विमृश्य च॥ २१.५७ ॥

शैलादो हि महातेजा नन्दी ह्यमितविक्रमः॥
रक्षसं विबुधानां वा कृत्यमस्तीत्यचिन्तयत्॥ २१.५८ ॥

एतस्मिन्नन्तरे तत्र मदनो हि धनुर्द्धरः॥
पञ्चबाणान्समारोप्य स्वकीये धनुषि द्विजाः॥
तरोश्छायां समाश्रित्य देवदारुगतां तदा॥ २१.५९ ॥

निरीक्ष्य शम्भुं परमासने स्तितं तपो जुषाणं परमेष्ठिनां पतिम्॥
गङ्गाधरं नीलतमालकण्ठं कपर्दिनं चन्द्रकलासमेतम्॥ २१.६० ॥

भुजङ्गभोगाङ्कितसर्वगात्रं पञ्चाननं सिंहविशालविक्रमम्॥
कर्पूरगौरे परयान्वितं च स वेद्धुकामो मदनस्तपस्विनम्॥ २१.६१ ॥

दुरासदं दीप्तिमतां वरिष्ठं महेशमुग्रं सह माधवेन॥
यावच्छिवं वेद्धुकामः शरेण तावद्याता गिरिजा विश्वमाता॥
सखीजनैः संवृता पूजनार्थं सदाशिवं मङ्गलं मङ्गलानाम्॥ २१.६२ ॥

कनककुसुममालां सन्दधे नीलकण्ठे सितकिरणमनोज्ञादुर्ल्लभा सा तदानीम्॥
स्मितविकसितनेत्रा चारुवक्त्रं शिवस्य सकलजननित्री वीक्षमाणा बभूव॥ २१.६३ ॥

तावद्विद्धः शरेणैव मोहनाख्येन चत्वरात्॥
विध्यमानस्तदा शम्भुः शनैरुन्मील्य लोचने॥
ददर्श गिरिजां देवोब्धिर्यथा शशिनः कलाम्॥ २१.६४ ॥

चारुप्रसन्नवदनां बिम्बोष्ठीं सस्मितेक्षणाम्॥
सुद्विजामग्निजां तन्वीं विशालवदनोत्सवाम्॥ २१.६५ ॥

गौरीं प्रसन्नमुद्रां च विश्वमोहनमोहनाम्॥
यया त्रिलोकरचना कृता ब्रह्मादिभिः सह॥ २१.६६ ॥

उत्पत्तिपालनविनाशकरी च या वै कृत्वाग्रतः सत्त्वरजस्तमांसि॥
सा चेतनेन ददृशे पुरतो हरेण सम्मोहनी सकलमङ्गलमङ्गलैका॥ २१.६७ ॥

तां निरीक्ष्य भवो देवो गिरिजां लोकपावनीम्॥
मुमोह दर्शनात्तस्या मदनेनातुरीकृतः॥
विस्मयोत्फुल्लनयनो बभूव सहसा शिवः॥ २१.६८ ॥

एवं विलोकमानोऽसौ देवदेवो जगत्पतिः॥
मनसा दूयमानेन इदमाह सदाशिवः॥ २१.६९ ॥

अनया मोहितः कस्मात्तपःस्थोऽहं निरामयः॥
कुतः कस्माच्च केनेदं कृतमस्ति ममाप्रियम्॥ २१.७० ॥

ततो व्यलोकयच्छम्भुर्द्दिक्षु सर्वासु सादरम्॥
तावद्दृष्टो दक्षिणस्यां दिशि ह्यात्तशरासनः॥ २१.७१ ॥

चक्रीकृतधनुः सज्जं चक्रे बेद्धुं सदाशिवम्॥
यावत्पुनः सन्धयति मदनो मदनान्तकम्॥
तावद्दृष्टो महेशेन सरोषेण तदा द्विजाः॥ २१.७२ ॥

निरीक्षितस्तृतीयेन चक्षुषा परमेण हि॥
मदनस्तत्क्षणादेव ज्वालामालावृतोऽभवत्॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥ २१.७३ ॥

॥देवा ऊचुः॥
देवदेव महादेव देवानां वरदो भव॥
गिरिजायाः सहायार्थं प्रेषितो मदनोऽधुना॥ २१.७४ ॥

वृथा त्वयाथ दग्धोऽसौ मदनो हि महाप्रभः॥ २१.७५ ॥

त्वया हि कार्यं जगदेकबन्धो कार्यं सुराणां परमेण वर्चसा॥
अस्यां समुत्पत्स्यति देव शम्भो तेनैव सर्वं भवतीह कार्यम्॥ २१.७६ ॥

तारकेण महादेव देवाः सम्पीडिता भृशम्॥
तदर्थं जीवितं चास्य दत्त्वा च गिरिजां प्रभो॥ २१.७७ ॥

वरयस्व महाभाग देवाकार्ये भव क्षमः॥
गजासुरात्तवया त्राता वयं सर्वे दिवौकसः॥ २१.७८ ॥

कालकूटाच्च नूनं हि रक्षिताः स्मो न चान्यथा॥
भस्मासुराच्च सर्वेश त्वया त्राता न संशयः॥ २१.७९ ॥

मदनोयं समायातः सुराणां कार्यसिद्धये॥
तस्मात्त्वया रक्षणीय उपकारः परो हि नः॥ २१.८० ॥

विना तेन जगत्सर्वं नाशमेष्यति शङ्कर॥
निष्कामस्त्वं कथं शम्भो स्वबुद्ध्या च विमृस्यताम्॥ २१.८१ ॥

तदोवाच रुषाविष्टो देवान्प्रति महेश्वरः॥
विना कामेन भो देवा भवितव्यं न चान्यथा॥ २१.८२ ॥

यदाःकामं पुरस्कृत्य सर्वे देवाः सवासवाः॥
पदभ्रष्टाश्च दुःखेन व्याप्ता दैन्यं समाश्रिताः॥ २१.८३ ॥

कामो हि नरकायैव सर्वेषां प्राणिनां ध्रुवम्॥
दुःखरूपी ह्यनङ्गोऽयं जानीध्वं मम भाषितम्॥ २१.८४ ॥

तारकोऽपि दुराचारो निष्कामोऽद्य भविष्यति॥
विनाकामेन च कथं पापमाचरते नरः॥ २१.८५ ॥

तस्मात्कामो मया दग्धः सर्वेषां शान्तिहेतवे॥
युष्माभिश्च सुरैः सर्वैरसुरैश्च महर्षिभिः॥ २१.८६ ॥

अन्यैः प्राणिभिरेवात्र तपसे धीयतां मनः॥
कामक्रोधविहीनं च जगत्सर्वं मया कृतम्॥ २१.८७ ॥

तस्मादेनं पापिनं दुःखमूलं न जीवयिष्यामि सुराः प्रतीक्ष्यताम्॥
निरन्तरं चात्मसुखप्रबोधमानन्दलक्षणमागाधमनन्यरूपम्॥ २१.८८ ॥

एवमुक्तास्तदा तेन शम्भुना परमेष्ठिना॥
ऊचुर्महर्षयः सर्वे शकर लोकशङ्करम्॥ २१.८९ ॥

यदुक्तं भवता शम्भो परं श्रेयस्करं हि नः॥
किं तु वक्ष्याम देवेश श्रूयतां चावधार्यताम्॥ २१.९० ॥

यथा सृष्टमिदं विश्वं कामक्रोधसमन्वितम्॥
तत्सर्वं कामरूपं हि स कामो न तु हन्यते॥ २१.९१ ॥

धर्मार्थकामामोक्षाश्च चत्वारो ह्येकरूपताम्॥
नीतायेन महादेव स कामोऽयं न हन्यते॥ २१.९२ ॥

कथं त्वया हि सन्दग्धः कामो हि दुरतिक्रमः॥
येन सङ्घटितं विश्वमाब्रह्मस्थावरात्मकम्॥ २१.९३ ॥

कामेन हीयते विश्वं कामेन पाल्यते॥
कामेनोत्पद्यते विश्वं तस्मात्कामो महाबलः॥ २१.९४ ॥

यस्मात्क्रोधो भवत्युग्रो येन त्वं च वशीकृतः॥
तस्मात्कामं महादेव सम्बोधयितुमर्हसि॥ २१.९५ ॥

त्वया सम्पादितो देव मदनो हि महाबलः॥
समर्थो हि समर्थत्वात्तत्सामर्थ्यं करिष्यति॥ २१.९६ ॥

ऋषिभिश्चैवमुक्तोऽपि द्विगुणं रूपमास्थितः॥
चक्षुषा हि तृतीयेन दग्धुकामो हरस्तदा॥ २१.९७ ॥

मुनिभिश्चारणैः सिद्धैर्गणैश्चापि सदाशिवः॥
स्तुतश्च वन्दितो रुद्रः पिनाकी वृषवाहनः॥ २१.९८ ॥

मदनं च तथा दग्ध्वा त्यक्त्वा तं पर्वतं रुषा॥
हिमवन्ताभिधं सद्यस्तिरोधानगतोऽभवत्॥ २१.९९ ॥

तिरोधानगतं देवी वीक्ष्य दग्धं च मन्मथम्॥
सकोकिलं सचूतं च सभृङ्गं सहचम्पकम्॥ २१.१०० ॥

तथैव दग्धं मदनं विलोक्य रत्या विलापं च तदा मनस्विनी॥
सबाष्पदीर्घं विमना विमृस्य कथं स रुद्रो वशगो भवेन्मम॥ २१.१०१ ॥

एवं विमृश्य सुचिरं गिरिजा तदानीं सम्मोहमाप च सती हि तथा बभाषे॥
सम्मुह्यमाना रुदतीं निरीश्यरतिर्महारूपवतीं मनस्विनीम्॥ २१.१०२ ॥

मा विषादं कुरु सखि मदनं जीवयाम्यहम्॥
त्वदर्थं भो विशालाक्षि तपसाऽऽराधयाम्यहम्॥ २१.१०३ ॥

हरं रुद्रं विरुपाक्षं देवदेवं जगद्गुरुम्॥
मा चिन्तां कुरु सुश्रोमि मदनं जीवयाम्यहम्॥ २१.१०४ ॥

एवम श्वास्य तां साध्वी गिरिजां रतिरञ्जसा॥
तपस्तेपे च सुमहत्पतिं प्राप्तुं सुमध्यमा॥ २१.१०५ ॥

मदनो यत्र दग्धश्च रुद्रेण परमात्मना॥
तप्यमानां तपस्तत्र नारदो ददृशे तदा॥ २१.१०६ ॥

उवाच गत्वा सहसा भामिनीं रतिमन्तिके॥
कस्यासि त्वं विशालाक्षि केन वा तप्यते तपः॥ २१.१०७ ॥
तरुणी रूपसम्पन्ना सौभाग्येन परेण हि॥
नारदस्य वचः श्रुत्वा रोषेण महता तदा॥
उवाच वाक्यं मधुरं किञ्चिन्निष्ठुरमेव च॥ २१.१०८ ॥

॥रतिरुवाच॥
नारदोऽसि मया ज्ञातः कुमारस्त्वं न संशयः॥
स्वस्वरूपादर्शनं च कर्तुमर्हसि सुव्रत॥ २१.१०९ ॥

यथागतेन मार्गेण गच्छ त्वं मा विलम्बितम्॥
बटो न किञ्चिज्जानासि केवलं कलिकृन्महान्॥ २१.११० ॥

परस्त्रीकामुकाः क्षुद्रा विटा व्यसनिनश्च ये॥
तथा ह्यकर्मिणः स्तब्धास्तेषां मध्ये त्वमग्रणीः॥ २१.१११ ॥

एवं निर्भर्त्सितो रत्या नारदो मुनिसत्तमः॥
स्वयं जगाम त्वरीतं शम्बरं दैत्यपुङ्गवम्॥ २१.११२ ॥

शशम्स दैत्यराजाय दग्धं मदनमेव च॥
रुद्रेण क्रोधयुक्तेन तस्य भार्या मनस्विनी॥ २१.११३ ॥

तामानय महाभाग भार्यां कुरु महाबल॥
अतीव रूपसम्पन्ना या आनीतास्त्वयानघ॥
तासां मध्ये रूपवती रतिः सा मदनप्रिया॥ २१.११४ ॥

एवमाकर्ण्य वचनं देवर्षेर्भावितात्मनः॥
जगाम सहसा तत्र यत्रास्ते सा सुशोभना॥ २१.११५ ॥

तां दृष्ट्वा सु विशालाक्षीं रतिं मदनमोहिनीम्॥
उवाच प्रहसन्वाक्यं शम्बरो देवसङ्कटः॥ २१.११६ ॥

एहि तन्वि मया सार्द्धं राज्यं भोगान्यथेष्टतः॥
भुङ्क्ष्व देवि प्रसादान्मे तपसा किं प्रयोजनम्॥ २१.११७ ॥
एवमुक्ता तदा तेन शम्बरेण महात्मना॥
उवाच तन्वी मधुरं महिषी मदनस्य सा॥ २१.११८ ॥

विधवाहं महाबाहो नैवं भाषितुमर्हसि॥
राजा त्वं सर्वदैत्यानां लक्ष्णैः परिवारितः॥ २१.११९ ॥

एतत्तद्वचनं श्रुत्वा शम्बरः काममोहितः॥
करे ग्रहीतु कामोऽसौ तदा रत्या निवारितः॥ २१.१२० ॥

विमृश्य मनसा सर्वमजेयत्वं च तस्य वै॥
मा स्पृश त्वं च रे मूढ मम संस्पर्शजेन वै॥ २१.१२१ ॥

सम्पर्केण च दग्धोऽसि नान्यथा मम भाषितम्॥
तदोवाच महातेजाः शम्बरः प्रहसन्निव॥ २१.१२२ ॥

विभीषिकाभिर्बह्वीभिर्मां भीषयसि मानिनि॥
गच्छ शीघ्रं मम गृहं बहूक्त्या किं प्रयोजनम्॥ २१.१२३ ॥

इत्युच्यमानेन तदा नीता सा प्रसभं तथा॥
स्वपुरं परमं तन्वी शम्बरेण मनस्विनी॥ २१.१२४ ॥

कृता महानसेऽध्यक्षा नाम्ना मायावतीति च॥ २१.१२५ ॥

॥ऋषय ऊचुः॥
पार्वत्याधिकृतं सर्वं मदनानयनं प्रति॥
सम्बरेण हृतातन्वी मदनस्य प्रिया सती॥
अत ऊर्ध्वं तदा सूत किं जातं तत्र वर्ण्यताम्॥ २१.१२६ ॥

॥सूत उवाच॥
गतं तदा शिवं दृष्ट्वा दग्ध्वा मदनमोजसा॥
पार्वती तपसा युक्ता स्थिता तत्रैव भामिनी॥ २१.१२७ ॥

पित्रा तेन तदा तन्वी मात्रा चैव विचारिता॥
बाले एहि गृहे शीघ्रं मा श्रमं कर्तुमर्हसि॥ २१.१२८ ॥

उक्ता ताभ्यां तदा साध्वी गिरिजा वाक्यमब्रवीत्॥ २१.१२९ ॥

॥पार्वत्युवाच॥
नागच्छामि गृहं मातस्तात मे श्रृणु तत्त्वतः॥
वाक्यं धर्मार्थयुक्तं च येन त्वं तोषमेष्यसि॥ २१.१३० ॥

शम्भुः परेषां परमो दग्धो येन महाबलः॥
मदनो मम सान्निध्यमानयेऽत्रैव तं शिवम्॥ २१.१३१ ॥

दुर्लभोहि तदा शम्भुः प्राणिनां गृहमिच्छताम्॥
नागच्छामि गृहं मातस्तस्मात्सर्वं विमृश्यताम्॥ २१.१३२ ॥

तदोवाच महातेजा हिमवान्स्वसुतां प्रति॥
दुराराध्यः शिवः साक्षात्सर्वदेवनमस्कृतः॥
त्वया प्राप्तुमशक्यो हि तस्मात्त्वं स्वगृहं व्रज॥ २१.१३३ ॥

सा बाष्पपूरितेनैव कण्ठेन स्वसुतां प्रति॥
उवाच मेना तन्वङ्गियाहि शीघ्रं गृहं प्रति॥ २१.१३४ ॥

तदा प्रहस्य चोवाच मातरं प्रति पार्वती॥
प्रतिज्ञां श्रृणु मे मातस्तपसा परमेण हि॥ २१.१३५ ॥

अत्रैव तं समानीय वरयामि विचक्षणम्॥
नाशयामि रुद्रस्य रुद्रत्वं वारवर्णिनि॥ २१.१३६ ॥

सुखरूपं परित्यज्य गिरिजा च मनस्विनी॥
शम्भोरारधनं चक्रे परमेण समाधिना॥ २१.१३७ ॥

जया च विजया चैव माधवी च सुलोचना॥
सुश्रुता च श्रुता चैव तथैव च शुकी परा॥ २१.१३८ ॥

प्रम्लोचा सुभगा श्यामा चित्राङ्गी चारुणी स्वधा॥
एताश्चान्याश्च बहवः सख्यस्ता गिरिजां प्रति॥
उपासाञ्चक्रिरे सा च देवगर्भा च भामिनी॥ २१.१३९ ॥

तपसा परमोग्रेण चरन्ती चारुहासिनी॥
मदनो यत्र दग्धश्च रुद्रेण च महात्मना॥
तत्रैव वेदिं कृत्वा च तस्योपरि सुसंस्थिता॥ २१.१४० ॥

त्यक्त्वा जलाशनं बाला पर्णादा ह्यभवच्च सा॥
ततः साऽर्द्राणि पर्णानि त्यक्त्वा शुष्काणि चाददे॥ २१.१४१ ॥

शुष्काणि चैव पर्णानि नाशितानि तया यदा॥
अपर्णेति च विख्याता बभुव तनुमध्यमा॥ २१.१४२ ॥

वायुपानरता जाता अम्बुपानादनन्तरम्॥
कालक्रमेण महता बभूव गिरिजा सती॥
एकाङ्गुष्ठेन च तदा दधार च निजं वपुः॥ २१.१४३ ॥

एवमुग्रेण तपसा शङ्कराराधनं सती॥
चकार परया तुष्ट्या शम्भोः प्रीत्यर्थमेव च॥ २१.१४४ ॥

परं भावं समाश्रित्य जगन्मङ्गलमङ्गला॥
तुष्ट्यर्थं च महेशस्य तताप परमं तपः॥ २१.१४५ ॥

एवं दिव्यसहस्राणि वर्षाणि च तताप वै॥
हिमा लयस्तदागत्य पार्वतीं कृतनिश्चयाम्॥ २१.१४६ ॥

सभार्यः स सुतामाप्त उवाच च महासतीम्॥
मा खिद्यतां महादेवि तपसानेन भामिनि॥ २१.१४७ ॥

क्व रुद्रो दृश्यते बाले विरक्तो नात्र संशयः॥
त्वं तन्वी तरुणी बाला तपसा च विमोहिता॥ २१.१४८ ॥

भविष्यति न सन्देहः सत्यं प्रतिवदामि ते॥
तस्मादुत्तिष्ठ याह्याशु स्वगृहं वरवर्णिनि॥ २१.१४९ ॥

किं तेन तव रुद्रेण ये दग्धः पुराऽनघे॥
मदनो निर्विकारित्वात्तं कथं प्रार्थयिष्यसि॥ २१.१५० ॥

गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते॥
तथैव दुर्गमः शर्भुर्जानीहि त्वं शुचिस्मिते॥ २१.१५१ ॥

तथैव मेनया चोक्ता तथा सह्याद्रिणा सती॥
मेरुणा मन्दरेणैव मैनाकेन तथैव च॥ २१.१५२ ॥

एभिरुक्ता तदा तन्वी पार्वती तपसि स्थिता॥
उवाच प्रहसन्त्तेव हिमवन्तं शुचिस्मिता॥ २१.१५३ ॥

पुरा प्रोक्तं त्वया तात अम्ब किं विस्मृतं त्वया॥
अधुनैव प्रतिज्ञां च श्रृणुध्वं मम बान्धवाः॥ २१.१५४ ॥

विरक्तोऽसौ महादेवो मदनो येन वै हतः॥
तं तोषयामि तपसा शङ्करं लोकशङ्करम्॥ २१.१५५ ॥

सर्वे यूयं च गच्छन्तु नात्र कार्या विचारणा॥
दग्धो हि मदनो येन येन दग्धं गिरेर्वनम्॥ २१.१५६ ॥

तमानयामि चात्रैव तपसा केवलेन हि॥
तपोबलेन महता सुसेव्यो हि सदाशिवः॥ २१.१५७ ॥

तं जानीध्वं महाभागाः सत्यंसत्यं वदाम्यहम्॥ २१.१५८ ॥

सम्भाषमाणा जननीं तदानीं हिमालयं चैव तथा च मेनाम्॥
तथैव मेरुं मितभाषिणी तदा सा मन्दरं पर्वतराजकन्या॥
जग्मुस्तदा तेन पथा च पर्वता यथागतेनापि विचक्षमाणाः॥ २१.१५९ ॥

गतेषु तेषु सर्वेषु सखीभिः परिवारिता॥
तत्रैव च तपस्तेपे परमार्था सती तदा॥ २१.१६० ॥

तपसा तेन महता तप्तमासीच्चराचरम्॥
तदा सुरासुराः सर्वे ब्रह्माणं शरणं गताः॥ २१-१६१ ॥

॥देवा ऊचुः॥
त्वया सृष्टमिदं सर्वं जगद्देव चराचरम्॥
त्रातुमर्हसि देवान्नस्त्वदन्यो नोपपद्यते॥ २१.१६२ ॥

अस्माकं रक्षणे शक्त इत्याकर्ण्य वचस्तदा॥
विमृश्य च तदा ब्रह्मा मनसा परमेण हि॥ २१.१६३ ॥

गिरिजातपसोद्भूतं दावाग्निं परमं महत्॥
ज्ञात्वा ब्रह्मा जगा माशु क्षीराब्धिं परमाद्भुतम्॥ २१.१६४ ॥

तत्र सुप्तं सुप्लयङ्के शेषाख्ये चातिशोभने॥
लक्ष्म्या पादोपयुगलं सेव्यमानं निरन्तरम्॥ २१.१६५ ॥

दूरस्थेनापि तार्क्ष्येण नतकन्धरधारिणा॥
सेव्यमानं श्रिया कान्त्या क्षान्त्या वृत्त्या दयादिभिः॥ २१.१६६ ॥

नवशक्तियुतं विष्णुं पार्पदैः परिवारितम्॥
कुमुदोथ कुमुद्वांश्च सनकश्च सनन्दनः॥ २१.१६७ ॥

सनातनो महाभागः प्रसुप्तो विजयोऽरिजित्॥
जयन्तश्च जयत्सेनो जयश्चैव महाप्रभः॥ २१.१६८ ॥

सनत्कुमारः सुतपा नारदश्चैव तुम्बुरुः॥
पाञ्चजन्यो महाशङ्खो गदा कौमोदकी तथा॥ २१.१६९ ॥

सुदर्शनं तथा चापं शार्ङ्गं च परमाद्भुतम्॥
एतानि वै रूपवन्ति दृष्टानि परमेष्ठिना॥ २१.१७० ॥

विष्णोः समीपे परमामनो भृशं समेत्य सर्वे सुरदानवास्तदा॥
विष्णुं चाहुः परमेष्ठिनां पतिं तीरे तदानीमुदधेर्महात्मनः॥ २१.१७१ ॥

त्राहित्राहि महाविष्णो तप्तान्नः शरणागतान्॥
तपसोग्रेण महता पार्वत्याः परमेण हि॥
शेषासने चोपविष्ट उवाच परमेश्वरः॥ २१.१७२ ॥

युष्माभिः सहितश्चापि व्रजामि परमेश्वरम्॥
महादेवं प्रार्थयामो गिरिजां प्रति वै सुराः॥ २१.१७३ ॥

पाणिग्रहार्थमधुना देवदेवः पिनाकधृक्॥
यथा नेष्यति तत्रैव करिष्यामोऽधुना वयम्॥ २१.१७४ ॥

तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः॥
तपसोग्रेण संयुक्तो ह्यास्ते परममङ्गलः॥ २१.१७५ ॥

विष्णोस्तद्वचनं श्रुत्वा ऊचुः सर्वे सुरासुराः॥
न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभम्॥ २१.१७६ ॥

यदा दग्धः पुरा तेन मदनो दुरतिक्रमः॥
तथैव धक्ष्यत्यस्माकं नात्र कार्या विचारणा॥ २१.१७७ ॥

प्रहस्य भगवान्विष्णुरुवाच परमेश्वरः॥
मा भयं क्रियतां सर्वैः शिवरूपी सदाशिवः॥ २१.१७८ ॥

स न धक्ष्यति सर्वेषां देवानां भयनाशनः॥
तस्माद्भवद्भिर्गतव्यं मया सार्द्धं विचक्षणाः॥ २१.१७९ ॥

शम्भुं पुराणं पुरुषं ह्यधीशं वरेण्यरूपं च परं पराणाम्॥
तपो जुषाणं परमार्थरूपं परात्परं तं शरणं व्रजामि॥ २१.१८० ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पार्वतीपश्चर्यावर्णनन्नामैकविंशतितमोऽध्यायः॥ २१ ॥ छ ॥