१९

[अध्यायः १९]

वेदव्यासः

अध्यायः १९
॥लोमश उवाच॥
एवं सम्बोधितो दैत्यो गुरुणा भार्गवेण हि॥
उवाच प्रहसन्वाक्यं मेघगम्भीरया गिरा॥ १९.१ ॥

त्वयोक्तोहं हितार्थाय यैर्वाक्यैश्चालितोऽस्म्यहम्॥
तव वाक्यं मम प्रीत्यै हितमप्यहितं भवेत्॥ १९.२ ॥

दास्यामि भिक्षितं चास्मै विष्मवे बटुरूपिणे॥
पात्रीभूतो ह्ययं विष्णुः सर्वकर्मफलेश्वरः॥ १९.३ ॥

येषां हृदि स्थितो विष्णुस्ते वै पात्रतमा ध्रुवम्॥
यस्य नाम्ना सर्वमिदं पवित्रमिव चोच्यते॥ १९.४ ॥

येन वेदाश्च यज्ञाश्च मन्त्रतन्त्रादयो ह्यमी॥
सर्वे सम्पूर्णतां यान्ति सोऽयं विश्वेश्वरो हरिः॥ १९.५ ॥

आगतः कृपया मेद्य सर्वात्मा हरिरीश्वरः॥
उद्धर्तुं मां न सन्देह एतज्जानीहि तत्त्वतः॥ १९.६ ॥

तस्य तद्वचनं श्रुत्वा चुकोप च रुषान्वितः॥
भार्गवः शप्तुमारेभे दैत्येन्द्रं धर्म्मवत्सलम्॥ १९.७ ॥

मम वाक्यमतिक्रम्य दातुमिच्छस्यरिन्दम॥
विगुणो भव रे मन्द तस्मात्त्वं निःश्रिको भव॥ १९.८ ॥

एवं शशाप च तदा परमार्थविज्ञं शिष्यं महात्मानमगाधबोधम्॥
स वै जगामाथ महाकविस्त्वरात्स्वमाश्रमं धर्म्मविदां वरिष्ठः॥ १९.९ ॥

गते तु भार्गवे तस्मिन्बलिर्विरोचनात्मजः॥
वामनं चार्चयित्वा स महीं दातुं प्रचक्रमे॥ १९.१० ॥

विन्ध्यावलिः समागत्य बलेरर्द्धाङ्गशोभिता॥
अवनिज्य बटोः पादौ प्रददौ विष्णवे महीम्॥ १९.११ ॥

सङ्कल्पपूर्वेण तदा विधिना विधिकोविदः॥
सङ्कल्पेनैव महता ववृधे भगवानजः॥ १९.१२ ॥

यदैकेन मही व्याप्ता विष्णुना प्रभविष्णुना॥
सर्वे स्वर्गा द्वितीयेन व्याप्तास्तेन महात्मना॥ १९.१३ ॥

सत्यलोकगतो विष्णोश्चरणः परमेष्ठिना॥
कमण्डलुगतेनैव अम्भसा चावनेनिजे॥ १९.१४ ॥

तत्पादसम्पर्कजलाच्च जाता भागीरथी सर्वसुमङ्गला च॥
यया त्रिलोकी च कृता पवित्रा यया च सर्वे सगराः समुद्धृताः॥
यया कपर्दः परिपूरितो वै शम्भोस्तदानीं च भगीरथेन॥ १९.१५ ॥

तीर्थानां तीर्थमाद्यं च गङ्गाख्यमवतारितम्॥
तद्विष्णोश्चरणेनैव समेतं ब्रह्मणा कृतम्॥ १९.१६ ॥

त्रिविक्रमात्परो ह्यात्मा नाम्ना त्रिविक्रमोऽभवत्॥
त्रिविक्रमक्रमाक्रान्तं त्रैलोक्यं च तदाऽभवत्॥ १९.१७ ॥

पदद्वयेन वा पूर्णं जगदेतच्चराचरम्॥
विहाय तत्स्वरूपं च देवदेवो जनार्द्दनः॥
पुनश्च बटुरूपोऽसावुपविश्य निजासने॥ १९.१८ ॥

तदा देवाः सगन्धर्वा मुनयः सिद्धचारणाः॥
आगताश्च बलेर्यज्ञं द्रष्टुं यज्ञपतिं प्रभुम्॥ १९.१९ ॥

तत्र ब्रह्मा समागत्य स्तुतिं चक्रे परात्मनः॥
बलेस्तत्रैव चान्येन च दैत्येन्द्राश्चागतास्त्वरम्॥ १९.२० ॥

एभिः सर्वैः परिवृतो वामनो बलिसद्मनि॥
उपविश्यासने सोऽथ उवाच गरुडं प्रति॥ १९.२१ ॥

दैत्योऽसौ बालिशो भूत्वा दत्तानेन मही मम॥
त्रिपदक्रमणेनैव गृहीतं च पदद्वयम्॥ १९.२२ ॥

पदमेकं प्रतिश्रुत्य न ददाति हि दुर्मतिः॥
तस्मात्त्वया गृहीतव्यं तृतीयं पदमेव च॥ १९.२३ ॥

इत्युक्तो गरुडस्तेन वामनेन महात्मना॥
वैरोचनिं विनिर्भर्त्स्य वाक्यं चेदमुवाच ह॥ १९.२४ ॥

रे बले किं त्वया मूढ कृतमस्ति जुगुप्सितम्॥
अविद्यमाने ह्यर्थे हि किं ददासि परमात्मने॥
औदार्येण हि किं कार्यमल्पकेन त्वयाधुना॥ १९.२५ ॥

इत्युक्तो बलिराविष्टः स्यमानः खगेश्वरम्॥
वक्ष्यमाणमिदं वाक्यं गरुत्मन्तं तदाऽब्रवीत्॥ १९.२६ ॥

समर्थोस्मि महापक्ष गृपणो न भवाम्यहम्॥
येनेदं कारितं सर्वं तस्मै किं प्रददाम्यहम्॥ १९.२७ ॥

असमर्थो ह्यहं तात कृतोऽनेन महात्मना॥
तदोवाच बलिं सोऽपि तार्क्ष्यपुत्रो महामनाः॥ १९.२८ ॥

जानन्नपि च दैत्येन्द्र गुरुणापि निवारितः॥
विष्णवेऽपि महीं प्रादास्त्वया किं विस्मृतं महत्॥ १९.२९ ॥

दातव्यं तत्पदं विष्णोस्तृतीयं यत्प्रतिश्रुतम्॥
न ददासि कथं वीर निरयेच पतिष्यसि॥ १९.३० ॥

न ददासि तृतीयं च पदं मे स्वामिनः कथम्॥
बलाद्गृह्णामि रे मूढ इत्युक्त्वा तं महासुरम्॥
बबन्ध वारुणैः पाशैर्विरोचन सुतं तदा॥ १९.३१ ॥

नितरां निष्ठुरो भूत्वा गरुडो जयतां वरः॥
बद्धं स्वपतिमालोक्य विन्ध्यावलिः समभ्ययात्॥ १९.३२ ॥

बाणमेकं समारोप्य वामनस्याग्रतः स्थिता॥
वामनेन तदा पृष्टा केयं चात्राग्रतः स्थिता॥ १९.३३ ॥

तदोवाच महातेजाः प्रह्लादो ह्यसुराधिपः॥
बलेः पत्नीति त्वां प्राप्ता इयं विन्ध्यावली सती॥ १९.३४ ॥

प्रह्लादस्य वचः श्रुत्वा वामनो वाक्यमब्रवीत्॥
ब्रूहि विन्ध्यावले वाक्यं किं कार्यं ते करोम्यहम्॥
एवमुक्ता भगवता विन्ध्यावलिरभाषत॥ १९.३५ ॥

॥विन्ध्यावलिरुवाच॥
कस्माद्बद्धो मम पतिर्गरुडेन महात्मना॥
तत्कथ्यतां महाभाग त्वरन्नेव जनार्द्दन॥
तदोवाच महातेजा बटुवेषधरो हिः॥ १९.३६ ॥

॥श्रीभगवानुवाच॥
अनेनैव प्रदत्ता मे मही त्रिपदलक्षणा॥
पदद्वयेन च मयाक्रान्तं त्रैलोक्यमद्य वै॥ १९.३७ ॥

अनेन मम दातव्यं तृतीयं पदमेव च॥
तस्माद्बद्धो मया साध्वि गरुडेनैव ते पतिः॥ १९.३८ ॥

श्रुत्वा भगवतो वाक्यमुवाच परमं वचः॥
प्रतिश्रुतमनेनैव न दत्तं हि तव प्रभो॥ १९.३९ ॥

क्रान्तं त्रिभुवनं चाद्य त्वया विक्रमरूपिणा॥
तदस्माकं विजघ्नीथाः स्वर्गे वाप्यथवा भुवि॥ १९.४० ॥

किञ्चिन्न दत्ता हि विभो देवदेव जगत्पते॥
प्रहस्य भगवानाह तदा विन्ध्यावलिं प्रभुः॥ १९.४१ ॥

पदानि त्रीणि मे चाद्य दातव्यानि कुतोऽधुना॥
शीघ्रं वद विशालाक्षि यत्ते मनसि वर्त्तते॥
तदोवाच च सा साध्वी ह्युरुक्रममवस्थिता॥ १९.४२ ॥

त्वया कुतो वेयमुरुक्रमेण क्रान्ता त्रिलोकी भुवनैकनाथ॥
तथैव सर्वं जगदेकबन्धो देयं किस्माभिरतुल्यरूपिणे॥ १९.४३ ॥

तस्माद्विहाय तद्विष्णो त्वमेवं कुरु सम्प्रति॥
प्रति श्रुतानि मे भर्त्रा पदानि त्रीणि चाधुना॥
ददाति मे पतिस्तेद्य नात्र कार्या विचारणा॥ १९.४४ ॥

निधेहि मे पदं त्वं हि शीर्ष्णि देववर प्रभो॥
द्वितीयं मे शिशोस्त्वं हि कुरु मूर्ध्नि जगत्पते॥ १९.४५ ॥

तृतीयं च जगन्नाथ कुरु शीर्ष्णि पतेर्मम॥
एवं त्रीणि पदानीश तव दास्यामि केशव॥ १९.४६ ॥

तस्यास्तद्वचनं श्रुत्वा परितुष्टो जनार्दनः॥
उवाच श्लक्ष्णया वाचा विरोचनसुतं प्रति॥ १९.४७ ॥

॥भगवानुवाच॥
सुतलङ्गच्छ दैत्येन्द्र मा विलम्बितुमर्हसि॥
सर्वैश्चासुरसङ्घैश्च चिरं जीव सुखी भव॥ १९.४८ ॥

परितुष्टोऽस्म्यहं तात किं कार्यं करवाणि ते॥
सर्वेषामपि दातॄणां वरिष्ठोऽसि महामते॥ १९.४९ ॥

वरं वरय भद्रं ते सर्वान्कामान्ददामि ते॥
त्रिविक्रमेणैवमुक्तो विरोचनसुतस्तदा॥ १९.५० ॥

विमुक्तो हि परिष्वक्तो देवदेवेन चक्रिणा॥
तदा बलिरुवाचेदं वाक्यं वाक्यविशारदः॥ १९.५१ ॥

त्वया कृतमिदं सर्वं जगदेतच्चराचरम्॥
तस्मान्न कामये किञ्चित्त्वत्पदाब्जं विना प्रभो॥ १९.५२ ॥

भक्तिरस्तु पदाम्भोजे तव देव जनार्दन॥
भूयोभूयश्च देवेश भक्तिर्भवतु शाश्वती॥ १९.५३ ॥

एवमभ्यर्थितस्तेन भगवान्भूतभावनः॥
उवाच परमप्रीतो विरोचनसुतं तदा॥ १९.५४ ॥

॥भगवानुवाच॥
बले त्वं सुतलं याहि ज्ञातिसम्बन्धिभिर्वृतः॥
एवमुक्तस्तदा तेन असुरो वाक्यब्रवीत्॥ १९.५५ ॥

सुतले किं नु मे कार्यं देवदेव वदस्व मे॥
तिष्ठामि तव सान्निध्ये नान्यथा वक्तुमर्हसि॥ १९.५६ ॥

तदोवाच हृषीकेशो बलिं तं कृपयाऽन्विततः॥
अहं तव समीपस्थो भवामि सततं नृप॥ १९.५७ ॥

द्वारि स्थितस्तव विभो निवासामि नित्यं मा खिद्यतामसुरवर्य बले श्रृणुष्व॥
वाक्यं तु मे वर महो वरदस्तवाद्य वैकुण्ठवासिभिपलं च भजामि गेहम्॥ १९.५८ ॥

तच्छ्रुत्वा वचनं तस्य विष्मोरतुलतेजसः॥
जगाम सुतलं दैत्यौ ह्यसुरैः परिवारितः॥ १९.५९ ॥

तदा पुत्रशतेनैव बाणमुख्येन सत्वरम्॥
वसमानो महाबाहुर्दातॄणां च परा गतिः॥ १९.६० ॥

त्रैलोक्ये याचका ये च सर्वे यान्ति बलिं प्रति॥
द्वारि स्थितस्तस्य विष्णुः प्रयच्छति यथेप्सितम्॥ १९.६१ ॥

भुक्तिकामाश्च ये केचिन्मुक्तिकामास्तथा परे॥
येषां यज्ञे च ते विप्रास्तत्तेभ्यः सम्प्रयच्छति॥ १९.६२ ॥

एवंविधो बलिर्जातः प्रसादाच्छङ्करस्य च॥
पुरा हि कितवत्वेन यद्दत्तं परमात्मने॥ १९.६३ ॥

अशुचिं भूमिमासाद्य गन्धपुष्पादिकं महत्॥
पतितं चार्प्पितं तेन शिवाय परमात्मने॥ १९.६४ ॥

किं पुनः परया भक्त्या चार्चयन्ति महेश्वरम्॥
पुष्पं फलं तोयं ते यान्ति शिवसन्निधिम्॥ १९.६५ ॥

शिवात्परतरो नास्ति पूजनीयो हि भो द्विजाः॥
ये हि मूकास्तथान्धाश्च पङ्गवो ये जडास्तथा॥ १९.६६ ॥

जातिहीनाश्च चण्डालाः श्वपचा ह्यन्त्यजा ह्यमी॥
शिवभक्तिपरा नित्यं ते यान्ति परमां गतिम्॥ १९.६७ ॥

तस्मात्सदाशिवः पूज्यः सर्वैरेवमनीषिभिः॥
पूजनीयो हि सम्पूज्यो ह्यर्चनीयः सदाशिवः॥ १९.६८ ॥

महेशं परमारथज्ञाश्चिन्तयन्ति हृदि स्थितम्॥
यत्र जीवो भवत्येव शिवस्तत्रैव तिष्ठति॥ १९.६९ ॥

विना शिवेन यत्किञ्चिदशिवं भवति क्षणात्॥
ब्रह्मा विष्णुश्च रुद्रश्च गुणकार्यकरा ह्यमी॥ १९.७० ॥

रजोगुणान्वितो ब्रह्मा विष्णुः सत्त्वगुणान्वितः॥
तमोगुणाश्रितो रुद्रो गुणातीतो महेश्वरः॥ १९.७१ ॥

लिङ्गरूपो महादेवो ह्यर्चनीयो मुमुक्षुभिः॥
शिवात्परतरो नास्ति भुक्तिमुक्तिप्रदायकः॥ १९.७२ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलये वरप्रदानवर्णनन्नामैकोविंशोऽध्यायः॥ १९ ॥ छ ॥