१७

[अध्यायः १७]

वेदव्यासः

अध्यायः १७

॥लोमश उवाच॥
ततः सर्वे सुरगणा दृष्ट्वा तं विलयं गतम्॥
चिन्तयन्तः सुरगणाः कथं च विदधामहे॥ १७.१ ॥
सुरभिं चाह्वयित्वाथ तदोवाच शचीपतिः॥
कलेवरं दधीचस्य लिह्यास्त्वं वचनान्मम॥ १७.२ ॥
तथेति च वचोमत्वा तत्क्षणादेव लिह्य तत्॥
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम्॥ १७.३ ॥
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः॥
तस्य वंशोद्भवं वज्रं शिरो ब्रह्मशिरस्तथा॥ १७.४ ॥
अन्यानि चास्थीनि बहूनि तस्य ऋषेस्तदानीं जगृहुः सुराश्च॥
तथा शिराजालमयांश्च पाशांश्चक्रुः सुरा वैरयुताश्च दैत्यान्॥ १७.५ ॥
शस्त्राणि कृत्वा ते सर्वे महाबलपराक्रमाः॥
ययुर्देवातस्त्वरायुक्ता वृत्रघातनतत्पराः॥ १७.६ ॥
ततः सुवर्च्चाश्च दधीचिपत्नी या प्रेषिता सा सुरकार्यसिद्धये॥
व्यलोकयत्तत्र समेत्य सर्वं मृतं पतिं देहमथो ददर्शतम्॥ १७.७ ॥
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीं च चुकोप साध्वी॥
ददौ सती शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी॥ १७.८ ॥
अहो सुरा दुष्टतराश्च सर्वे सर्वे ह्यशक्ताश्च तथैव लुब्धाः॥
तस्माच्च सर्वेऽप्रजसो भवन्तु दिवौकसोऽद्यप्रभृतित्युवाच सा॥ १७.९ ॥
एव शापं ददौ तेषां सुराणां सा तपस्विनी॥
प्रवीश्याश्वत्थमूले सा स्वोदरं दारयत्तदा॥ १७.१० ॥
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः॥
साक्षाद्रुद्रावतारोऽसौ पिप्लादो महाप्रभः॥ १७.११ ॥
प्रहस्य जननी गर्भमुवाच रुषितेक्षणा॥
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ॥ १७.१२ ॥
अश्वत्थस्य महाभाग सर्वेषां सफलो भवेः॥
तथैव भाषमाणा सा सुवर्चा तनयं प्रति॥
पतिमन्वगमत्साध्वी परमेण समाधिना॥ १७.१३ ॥
एवं दधीचपत्नी सा पतिना स्वर्गमाव्रजत्॥ १७.१४ ॥
ते देवाः कृतशस्त्रास्त्रा दैत्यान्प्रति समुत्सुकाः॥
आजग्मुश्चेन्द्रमुख्यास्ते महाबलपराक्रमाः॥ १७.१५ ॥
गुरुं पुरस्कृत्य तदाज्ञया ते गणाः सुराणां बहवस्तदानीम्॥
भुवं समागत्य च मध्यदेशमूचुश्च सर्वे परमास्त्रयुक्ताः॥ १७.१६ ॥
समागतानुपसृत्य देवांश्चेन्द्रपुरोगमान्॥
ययौ वृत्रो महादैत्यो दैत्यवृन्दसमावृतः॥ १७.१७ ॥
यथा मेरोश्च शिखरं परिपूर्णं प्रदृश्यते॥
तथा सोऽपि महातेजा विश्वकर्म्मसुतो महान्॥ १७.१८ ॥
तेन दृष्टो महेन्द्रश्च महेन्द्रेण महासुरः॥
देवानां दानवानां च दर्शनं च महाद्भुतम्॥ १७.१९ ॥
तदा ते बद्धवैराश्च देवदैत्याः परस्परम्॥
अन्योन्यमभिसंरब्धा जगर्जुः परमाद्भुतम्॥ १७.२० ॥
वादित्राणि च भीमानि वाद्यमानानि सर्वशः॥
श्रूयन्तेऽत्र गभीराणि सुरा सुरसमागमे॥ १७.२१ ॥
वाद्यमानेषु तूर्येषु ते सर्वे त्वरयान्विताः॥
अनेकैः शस्त्रसङ्घातैर्जघ्नुरन्योन्यमोजसा॥ १७.२२ ॥
तदा देवासुरे युद्धे त्रैलोक्यं सचराचरम्॥
भयेन महता युक्तं बभूव गतचेतनम्॥ १७.२३ ॥
छेदिताः स्फोटिताश्चैव केचिच्छस्त्रैर्द्विधा कृताः॥
नाराचैश्च तथा केचिच्छस्त्रास्त्रैः शकलीकृताः॥ १७.२४ ॥
भल्लैश्चेरुर्हताः केचिद्व्यङ्गभूता दिवौकसः॥
रश्मयो मेघसम्भूताः प्रकाशन्ते नभस्स्विव॥ १७.२५ ॥
शिरांसि पतितान्येव बहूनिच नभस्तलात्॥
नक्षत्राणीव च यथा महाप्रलयसङ्कुलम्॥ १७.२६ ॥
प्रवर्तितं मध्यदेशे सर्वबूतक्षयावहम्॥
शक्रेण सह सङ्ग्रामं चकार नमुचिस्तदा॥ १७.२७ ॥
वज्रेण जघ्ने तरसा नमुचिं देवराट् स्वयम्॥
न रोमैकं च त्रुचितं तमुचेरसुरस्य च॥ १७.२८ ॥
वज्रेणापि तदा सर्वे विस्मयं परमं गताः॥
असुराश्च सुराश्चैव महेन्द्रो व्रीडितस्तदा॥ १७.२९ ॥
गदया नमुचिं जघ्ने गदा सापि विचूर्णिता॥
नमुचेरङ्गलग्नापि पपात वसुधातले॥ १७.३० ॥
तथा शूलेन महता तं जघान पुरन्दरः॥
तच्छूलं शतधा चूर्णं नमुचेरङ्गमाश्रितम्॥ १७.३१ ॥
एवं तं वविधैः शस्त्रैराजघान सुरारिहा॥
प्रहस्य मानो नमुचिर्न जघान पुरन्दरम्॥ १७.३२ ॥
तूष्णीम्भूतस्तदा चेन्द्रश्चिन्तया परया युतः॥
किं कार्यं किमकार्यं वा इतीन्द्रो नाविदत्तदा॥ १७.३३ ॥
एतस्मिन्नन्तरे तत्र महायुद्धे महाभये॥
जाता नभोगता वाणी इन्द्रसुद्दिश्य सत्वरम्॥ १७.३४ ॥
जह्येनमद्याशु महेन्द्र दैत्यं दिवौकसां घोरतरं भयावहम्॥
फेनेन चैवाशु महासुरेन्द्रमपां समीपेन दुरासदेन॥ १७.३५ ॥
अन्येन शस्त्रेण च आहतोऽसौ वध्यः कदाचिन्न भवत्ययं तु॥
तस्माच्च देवेश वधार्थमस्य कुरु प्रयत्नं नमुचेर्दुरात्मनः॥ १७.३६ ॥
निशम्य वाचं परमार्थयुक्तां दैवीं सदानन्दकरीं शुभावहाम्॥
चक्रे परं यत्नवतां वरिष्ठो गत्वोदधेः पारमनन्तवीर्यः॥ १७.३७ ॥
तत्रागतं समीक्ष्याथ नमुचिः क्रोधमूर्छितः॥
हत्वा शूलेन देवेन्द्रं प्रहसन्निदमब्रवीत्॥ १७.३८ ॥
समुद्रस्य तटः कस्मात्सेवितः सुरसत्तम॥
विहाय रणभूमिं च त्यक्तशस्त्रोऽभवद्भवान्॥ १७.३९ ॥
त्वदीयेनैव वज्रेण किं कृतं मम दुर्मते॥ १७.४० ॥
तथान्यानि च शस्त्राणि अस्त्राणि सुबहूनि च॥
गृहीतानि पुरा मन्द हन्तुं मामेव चाधुना॥ १७.४१ ॥
किं करिष्यसि मां हन्तुं युद्धाय समुपस्थितः॥
केन शस्त्रेण रे मन्द योद्धुमिच्छसि संयुगे॥ १७.४२ ॥
त्वां गातयामि चाद्यैव यदि तिष्ठसि संयुगे॥
नो चेद्गच्छ मया मुक्तश्चिरं जीव सुखी भव॥ १७.४३ ॥
एवं स गर्वितं तस्य वाक्यमाहवशोभिनः॥
श्रुत्वा महेन्द्रोऽपि रुषा जगृहे फेनमद्भुतम्॥ १७.४४ ॥
फेनं करस्थं दृष्ट्वा तु असुरा जहसुस्तदा॥ १७.४५ ॥
क्षयं गतानि चास्त्राणि पेनेनैव पुरन्दरः॥
हन्तुमिच्छति मामद्य शतक्रतुरुदारधीः॥ १७.४६ ॥
एवं प्रहस्य नमुचिरज्ञाय पुरन्दरम्॥
सावज्ञं पुरतस्तस्थौ नमुचिर्दैत्यपुङ्गवः॥ १७.४७ ॥
तदैव तं स फेनेन शीघ्रमिन्द्रो जघान ह॥ १७.४८ ॥
हते तु नमुचौ देवाः सर्वे चैव मुदान्विताः॥
साधुसाध्विति शब्देन ऋषयश्चाभ्यपूजयन्॥ १७.४९ ॥
तदा सर्वे जयं प्राप्ता हत्वा नमुचिमाहवे॥
दैत्यास्ते कोपसंरब्धा योद्धुकामा मुदान्विताः॥ १७.५० ॥
पुनः प्रववृते युद्धं देवानां दानवैः सह॥
शस्त्रास्त्रैर्बहुधा मुक्तैः परस्परवधैषिबिः॥ १७.५१ ॥
यदा ते ह्यसुरा देवैः पातिताश्च पुनःपुनः॥
तदा वृत्रो महातेजाः शतक्रतुमुपाव्रजत्॥ १७.५२ ॥
वृत्रं दृष्ट्वा तदा सर्वे ससुरासुरमानवाः॥
भयेन महताविष्टाः पतिता भुवि शेरते॥ १७.५३ ॥
एवं भीतेषु सर्वेषु सुरसिद्धेषु वै तदा॥
इन्द्रश्चैरावणारूढो वज्रपाणिः प्रतापवान्॥ १७.५४ ॥
छत्रेण ध्रियमाणेन चामरेण विराजितः॥
तदा सर्वैः समेतो हि लोकपालैः प्रतापितः॥ १७.५५ ॥
वृत्रं विलोक्य ते सर्वे लोकपाला महेश्वराः॥
भयभीताश्च ते सर्वे शिवं शरणमन्वयुः॥ १७.५६ ॥
मनसाचिन्तयन्सर्वे शङ्करं लोकशङ्करम्॥
लिङ्गं सम्पूज्य विधिवन्महेन्द्रो जयकामुकः॥ १७.५७ ॥
गुरुणा विदितः सद्यो विश्वासेन परेण हि॥
उवाच च तदा शक्रं बृहस्पतिरुदारधीः॥ १७.५८ ॥
॥बृहस्पतिरुवाच॥
कार्तिके शुक्लपक्षे तु मन्दवारे त्रयोदशी॥
समग्रा यदि लभ्येत सर्वप्राप्तयै न संशयः॥ १७.५९ ॥
तस्यां प्रदोषसमये लिङ्गरूपी सदाशिवः॥
पूजनीयो हि देवेन्द्र सर्वकामार्थसिद्धये॥ १७.६० ॥
स्नात्वा मध्याह्नसमये तिलामलकसंयुतम्॥
शिवस्य कुर्याद्गन्धपुष्पफलादिभिः॥ १७.६१ ॥
पश्चात्प्रदोषवेलायां स्थावरं लिङ्गमर्च्चयेत्॥
स्वयम्भु स्थापितं चापि पौरुषेयमपौरुषम्॥ १७.६२ ॥
जने वा विजने वापि अरण्ये वा तपोवने॥
तल्लिङ्गमर्च्चयेद्भक्त्या प्रदोषे तु विशेषतः॥ १७.६३ ॥
ग्रामद्बहिः स्थितं लिङ्गं ग्रामाच्छतगुणं फलम्॥
ब्राह्मच्छतगुणं पुण्यमरण्ये लिङ्गमद्भुतम्॥ १७.६४ ॥
आरण्याच्छतगुणं पुण्यमर्चितं पार्वतं यथा॥
पार्वताच्चैव लिङ्गाच्च फलं चायुतसञ्ज्ञितम्॥
तपोवनाश्रितं लिङ्गं पूजितं वा महाफलम्॥ १७.६५ ॥
तस्मादेतद्विभागेन शिवपूजनार्चनं बुधैः॥
कर्त्वयं निपुणत्वेन तीर्थस्नानादिकं तथा॥ १७.६६ ॥
पञ्चपिण्डान्समुद्धृत्य स्नानमात्रेण शोभनम्॥
कूपे स्नानं प्रकुर्वीत उद्धृतेन विसेषतः॥ १७.६७ ॥
तडागे दश पिण्डांश्च उद्धृत्य स्नानमाचरेत्॥
नदीस्नानं विश्ष्टं च महानद्यां विशेषतः॥ १७.६८ ॥
सर्वेषामपि तीर्थानां गङ्गास्नानं विशिष्यते॥
देवखाते च तत्तुल्यं प्रशस्तं स्नानमाचरेत्॥ १७.६९ ॥
प्रदीपानां सहस्रेण दीपनीयः सदाशिवः॥
तथा दीपशतेनापि द्वात्रिंशद्दीपमालया॥ १७.७० ॥
घृतेन दीपयेद्दीपाञ्छिवस्य परितुष्टये॥
तथा फलैश्च दीपैश्च नैवेद्यैर्गन्धधूपकैः॥ १७.७१ ॥
उपचारैः षोडशभिर्लिङ्गरूपी सदा शिवः॥
पूज्यः प्रदोषवेलायां नृभिः सर्वार्थसिद्धये॥ १७.७२ ॥
प्रदक्षिणं प्रकुर्वीत शतमष्टोत्तरं तथा॥
नमस्कारान्प्रकुर्वीत तावत्सङ्ख्यान्प्रयत्नतः॥ १७.७३ ॥
प्रदक्षिणनमस्कारैः पूजनीयः सदाशिवः॥
नाम्नां शतेन रुद्रोऽसौ स्तवनीयो यताविधि॥ १७.७४ ॥
नमो रुद्राय भीमाय नीलकण्ठाय वेधसे॥
कपर्द्धिने सुरेशाय व्योमकेशाय वै नमः॥ १७.७५ ॥
वृषध्वजाय सोमाय नीलकण्ठाय वै नमः॥
दिगम्बराय भर्गाय उमाकान्तकपर्द्दिने॥ १७.७६ ॥
तपोमयाय व्याप्ताय शिपिविष्टाय वै नमः॥
व्यालप्रियाय व्यालाय व्यालानां पतये नमः॥ १७.७७ ॥
महीधराय व्याघ्राय पशूनां पतये नमः॥
त्रिपुरान्तकसिंहाय शार्दूलोग्ररवाय च॥ १७.७८ ॥
मीनाय मीननाथाय सिद्धाय परमेष्ठिने॥
कामान्तकाय बुद्धाय बुद्धीनां पतये नमः॥ १७.७९ ॥
कपोताय विशिष्टाय शिष्टाय परमात्मने॥
वेदाय वेदबीजाय देवगुह्याय वै नमः॥ १७.८० ॥
दीर्घाय दीर्घदीर्घाय दीर्घार्घाय महाय च॥
नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः॥ १७.८१ ॥
गजासुरविनाशाय ह्यन्धकासुरभेदिने॥
नीललोहितशुक्लाय चण्डमुण्डप्रियाय च॥ १७.८२ ॥
भक्तिप्रियाय देवाय ज्ञानज्ञानाव्ययाय च॥
महेशाय नमस्तुभ्यं महादेवहराय च॥ १७.८३ ॥
त्रिनेत्राय त्रिवेदाय वेदाङ्गाय नमोनमः॥
अर्थाय अर्थरूपाय परमार्थाय वै नमः॥ १७.८४ ॥
विश्वरूपाय विश्वाय विश्वनाताय वै नमः॥
शङ्कराय च कालाय कालावयवरूपिणे॥ १७.८५ ॥
अरूपाय च सूक्ष्माय सूक्ष्मसूक्ष्माय वै नमः॥
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे॥ १७.८६ ॥
शशाङ्कशेखरायैव रुद्रविश्वाश्रयाय च॥
दुर्गाय दुर्गसाराय दुर्गावयवसाक्षिणे॥ १७.८७ ॥
लिङ्गरूपाय लिङ्गाय लिङ्गानां पतये नमः॥
प्रणवरूपाय प्रणवार्थाय वै नमः॥ १७.८८ ॥
नमोनमः कारणकारणाय ते मृत्युञ्जयायात्मभवस्वरूपिणे॥
त्रियम्बकायासितकण्ठ भर्ग गौरिपते सकलमङ्गलहेतवे नमः॥ १७.८९ ॥
॥बृहस्पतिरुवाच॥
नाम्नां शतं महेशस्य उच्चार्यं व्रतिना तदा॥
प्रदक्षिणनमस्कारैरेतत्सङ्ख्यैः प्रयत्नतः॥
कार्यं प्रदोषसमये तुष्ट्यर्थं सङ्करस्य च॥ १७.९० ॥
एवं व्रतं समुद्दिष्टं तव शक्र महामते॥
शीघ्रं कुरु महाभाग पश्चाद्युद्धं कुरु प्रभो॥ १७.९१ ॥
शम्भोः प्रसादात्सर्वं ते भविष्यति जयादिकम्॥ १७.९२ ॥
वृत्रो ह्ययं महातेजा दैतेयस्तपसा पुरा॥
शिवं प्रसादयामास पर्वते गन्धमादने॥ १७.९३ ॥
नाम्ना चित्ररथो राजा वनं चित्ररथस्य तत्॥
एतज्जानीहि भो इन्द्र शिवपुर्याः समीपतः॥ १७.९४ ॥
यस्मिन्वने महाभाग न सन्ति च षडूर्मयः॥
तस्माच्चैत्ररथं नाम वनं परममङ्गलम्॥
तस्य राज्ञः शिवेनैव दत्तं यानं महाद्भुतम्॥ १७.९५ ॥
कामगं किङ्किणीयुक्तं सिद्धचारणसेवितम्॥
गन्धर्वैरप्सरोयक्षैः किन्नरैरुपशोभितम्॥ १७.९६ ॥
ततस्तेनैव यानेन पृथिवीं पर्यटन्पुरा॥
तथा गिरीशमुख्यांश्च द्वीपांश्च विविधांस्तथा॥ १७.९७ ॥
एकदा पर्यटन्राजा नाम्ना चित्ररथो महान्॥
कैलासमागतस्तत्र स ददर्श पराद्भुतम्॥ १७.९८ ॥
सभातलं महेशस्य गणैश्चैव विराजितम्॥
अर्द्धागलग्नया देव्या शोभितं च महेश्वरम्॥ १७.९९ ॥
निरीक्ष्य देव्या सहितं सदाशिवं देव्यान्वितं वाक्यमिदं बभाषे॥ १७.१०० ॥
वयं च शम्भो विषयान्विताश्च मन्त्र्यादयः स्त्रीजिताश्चापि चान्ये॥
न लोकमध्ये वयमेव चाज्ञाः स्त्रीसेवनं लज्जया नैव कुर्मः॥ १७.१०१ ॥
एतद्वाक्यं निशम्याथ महेशः प्रहसन्निव॥
उवाच न्यायसंयुक्तं सर्वेषामपि श्रृण्वताम्॥ १७.१०२ ॥
भयं लोकापवादाच्च सर्वेषामपि नान्यथा॥
ग्रासितं कालकूटं च सर्वेषामपि दुर्जरम्॥ १७.१०३ ॥
तथापि उपहासो मे कृतो राज्ञा हि दुर्जरः॥
तं चित्ररथमाहूय गिरिजा वाक्यमब्रवीत्॥ १७.१०४ ॥
॥गीरिजोवाच॥
रे दुरात्मन्कथं त्वज्ञ शङ्करश्चोपहासितः॥
मया सहैव मन्दात्मन्द्रक्ष्यसे कर्मणः फलम्॥ १७.१०५ ॥
साधूनां समचित्तानामुपहासं करोति यः॥
देवो वाप्यथ वा मर्त्यः स विज्ञेयोऽधमाधमः॥ १७.१०६ ॥
एते मुनीन्द्राश्च महानुभावास्तथा ह्यमी ऋषयो वेदगर्भाः॥
तथैव सर्वे सनकादयो ह्यमी अज्ञाश्च सर्वे शिवमर्चयन्ते?॥ १७.१०७ ॥
रे मूढ सर्वेषु जनेष्वभिज्ञस्त्वमेव एवाद्य न चापरे जनाः॥
तस्मादभिज्ञं हि करोमि दैत्यं देवैर्द्विजैश्चापि बहिष्कृतं त्वाम्॥ १७.१०८ ॥
एवं शप्तस्तया देव्या भवान्या राजसत्तमः॥
राजा चित्ररथः सद्यः पपात सहसा दिवः॥ १७.१०९ ॥
आसुरीं योनिमासाद्य वृत्रोनाम्नाऽभवत्तदा॥
तपसा परमेणैव त्वष्ट्रा संयोजितः क्रमात्॥ १७.११० ॥
तपसा तेन महता अजेयो वृत्र उच्यत॥
तस्माच्छम्भुं समभ्यर्च्य प्रदोषे विधिनाऽधुना॥ १७.१११ ॥
जहि वृत्रं महादैत्यं देवानां कार्यसिद्धये॥
गुरोस्तद्वचनं श्रुत्वा उवाचाथ शतक्रतुः॥
सोद्यापनविधिं ब्रूहि प्रदोषस्य च मेऽधुना॥ १७.११२ ॥
॥बृहस्पतिरुवाच॥
कार्तिके मासि सम्प्राप्ते मन्दवारे त्रयोदशी॥
सम्पूर्तिस्तु भवेत्तत्र सम्पूर्णव्रतसिद्धये॥ १७.११३ ॥
वृषभो राजतः कार्यः पृष्ठे तस्य सुपीठकम्॥
तस्योपरिन्यसेद्देवमुमाकान्तं त्रिलोचनम्॥ १७.११४ ॥
पञ्चवक्त्रं दशभुजमर्द्धाङ्गे गिरिजां सतीम्॥
एवं चोमामहेशं च सौवर्णं कारयेद्बुधः॥ १७.११५ ॥
सवृषं ताम्रपत्रे च वस्त्रेण परिगुण्ठिते॥
स्थापयित्वोमया सार्द्धं नानाबोगसमन्वितम्॥ १७.११६ ॥
विधिना जागरं कुर्याद्रात्रौ श्रद्धासमन्वितः॥
पञ्चामृतेन स्नपनं कार्यमादौ प्रयत्नतः॥ १७.११७ ॥
गोक्षीरस्नानं देवेश गोक्षीरेण मया कृतम्॥
स्नपनं देवदेवेश गृहाण परमेश्वर॥ १७.११८ ॥
दध्ना चैव मया देव स्नपनं क्रियतेऽधुना॥
गृहाम च मया दत्तं सुप्रसन्नो भवाद्य वै॥ १७.११९ ॥
सर्पिषा च मया देव स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तं तव प्रीत्यर्थमेव च॥ १७.१२० ॥
इदं मधु मया दत्तं तव प्रीत्यर्थमेव च॥
गृहाम त्वं हि देवेश मम शान्तिप्रदो भव॥ १७.१२१ ॥
सितया देवदेवेश स्नपनं क्रियतेऽधुना॥
गृहाण श्रद्धया दत्तां सुप्रसन्नो भव प्रभो॥ १७.१२२ ॥
एवं पञ्चामृतेनैव स्नपनीयो वृषध्वजः॥
पश्चादर्घ्यं प्रदातव्यं ताम्रपात्रेण धीमता॥
अनेनैव च मन्त्रेण उमाकान्तस्य तृष्टये॥ १७.१२३ ॥
अर्घ्योऽसि त्वमुमाकान्त अर्घेणानेन वै प्रभो॥
गृहाण त्वं मया दत्तं प्रसन्नो भव शङ्कर॥ १७.१२४ ॥
मया दत्तं च ते पाद्यं पुष्पगन्धसमन्वितम्॥
गृहाण देवदेवेश प्रसन्नो वरदो भव॥ १७.१२५ ॥
विष्टरं विष्टरेणैव मया दत्तं च वै प्रभो॥
शान्त्यरथं तव देवेश वरदो भव मे सदा॥ १७.१२६ ॥
आचमनीयं मया दत्तं तव विश्वेश्वर प्रभो॥
गृहाण परमेशान तुष्टो भव ममाद्य वै॥ १७.१२७ ॥
ब्रह्मग्रन्थिसमायुक्तं ब्रह्मकर्मप्रवर्तकम्॥
यज्ञोपवीतं सौवर्णं मया दत्तं तव प्रभो॥ १७.१२८ ॥
सुगन्धं चन्दनं देव मया दत्तं च वै प्रभो॥
भक्त्या पर मया शम्भो सुगन्धं कुरु मां भव॥ १७.१२९ ॥
दीपं हि परमं शम्भो घृतप्रज्वलितं मया॥
दत्तं गृहाण देवेश मम ज्ञानप्रदो भव॥ १७.१३० ॥
दीपं विशिष्टं परमं सर्वौषधिविजृम्भितम्॥
गृहाण परमेशान मम शान्त्यर्थमेव च॥ १७.१३१ ॥
दीपावलिं मया दत्तां कृहाण परमेश्वर॥
आरार्तिकप्रदानेन मम तेजः प्रदो भव॥ १७.१३२ ॥
फलदीपादिनैवेद्यताम्बूलादिक्रमेण च॥
पूजनीयो विधानज्ञैस्तस्यां रात्रौ प्रयत्नतः॥ १७.१३३ ॥
पश्चाज्जागरणं कार्यं गृहे वा देवतालये॥
वितानमण्डपं कृत्वा नानाश्चर्यसमन्वितम्॥
गीतवादित्रनृत्येन अर्चनीयः सदाशिवः॥ १७.१३४ ॥
अनेनैव विधानेन प्रदोषोद्यापने विधिः॥
कार्ये विधिमता शक्र सर्वकार्यार्थसिद्धये॥ १७.१३५ ॥
गुरुणा कथितं सर्वं तच्चकार शतक्रतुः॥
तेनैव च सहायेन इन्द्रो युद्धपरायणः॥ १७.१३६ ॥
वृत्रं प्रति सुरैः सार्द्धं युयुधे च शतक्रतुः॥
तुमुलं युद्धमभवद्देवानां दानावैः सह॥ १७.१३७ ॥
तस्मिन्सुतुमुले गाढे देवदैत्यक्षयावहे॥
द्वन्द्वयुद्धं सुतुमुलमतिवेलं भयावहम्॥ १७.१३८ ॥
व्योमो यमेन युयुधे ह्यग्निना तीक्ष्णकोपनः॥
वरुणेन महादंष्ट्रो वायुना च महाबलः॥ १७.१३९ ॥
द्वन्द्वयुद्ध रताः सर्वे अन्योन्यबलकाङ्क्षिणः॥ १७.१४० ॥
तथैव ते देववरा महाभुजाः सङ्ग्रामशूरा जयिनस्तदाऽभवन्॥
पराजयं दैत्यवाराश्च सर्वे प्राप्तास्तदानीं परमं समन्तात्॥ १७.१४१ ॥
दृष्ट्वा सुरैर्दैत्यवरान्पराजितान्पलायमानानथ कान्दिशीकान्॥
तदैव वृत्रः परमेण मन्युना महाबलो वाक्य मिदं बभाषे॥ १७.१४२ ॥
॥वृत्र उवाच॥
हे दैत्याः परमार्ताश्च कस्माद्यूयं भयातुराः॥
पलायनपराः सर्वे विसृज्य रणमद्भुतम्॥ १७.१४३ ॥
स्वंस्वं पराक्रमं वीरा युद्धाय कृतनिश्चयाः॥
दर्शयध्वं सुरगणास्सूदयध्वं महाबलाः॥ १७.१४४ ॥
गदाभिः पट्टिशैः खड्गैः शक्तितोमरमुद्गरैः॥
असिभिर्भि दिपालैश्च पाशतोमरमुष्टिभिः॥ १७.१४५ ॥
तदा देवाश्च युयुधुर्दधीचास्थिसमुद्भवैः॥
शस्त्रैरस्त्रैश्च परमैरसुरान्समदारयन्॥ १७.१४६ ॥
पुनर्दैत्या हता देवैः प्राप्तास्तेपि पराजयम्॥
पुनश्च तेन वृत्रेण नोद्यमानाः सुरान्प्रति॥ १७.१४७ ॥
यदा हि ते दैत्यवराः सुरेशैर्निहन्यमानाश्च विदुद्रुवुर्दिशः॥
केचिद्दृष्ट्वा दानवास्ते तदानीं भीतित्रस्ताः क्लीबरूपाः क्रमेणा॥ १७.१४८ ॥
वृत्रेण कोपिना चैवं धिक्कृता दैत्यपुङ्गवाः॥
हे पुलोमन्महाभाग वृषपर्वन्नमोस्तु ते॥ १७.१४९ ॥
हे धूम्राक्ष महाकाल महादैत्य वृकासुर॥
स्थूलाक्ष हे महादैत्य स्थूलदंष्ट्र नमोस्तु ते॥ १७.१५० ॥
स्वर्गद्वारं विहायैव क्षत्रियाणां मनस्विनाम्॥
पलायध्वे किमर्थं वा सङ्ग्रामाङ्गणमुत्तमम्॥ १७.१५१ ॥
सङ्गरे मरणं येषां ते यान्ति परमं पदम्॥
यत्र तत्र च लिप्सेत सङ्ग्रामे मरणं बुधः॥ १७.१५२ ॥
त्यजन्ति सङ्गरं ये वै ते यान्ति निरयं ध्रुवम्॥ १७.१५३ ॥
ये ब्राह्मणार्थे भृत्यार्थे स्वार्थे वै शस्त्रपाणयः॥
सङ्ग्रामं ये प्रकुर्वन्ति महापातकिनो नराः॥ १७.१५४ ॥
शस्त्रघातहता ये वै मृता वा सङ्गरे तथा॥
ते यान्ति परमं स्थानं नात्र कार्या विचारणा॥ १७.१५५ ॥
शस्त्रैर्विच्छिन्नदेहा ये गवार्थे स्वामिकारणात्॥
रणे मृताः क्षता ये वै ते यान्ति परमां गतिम्॥ १७.१५६ ॥
तस्माद्रणेऽपि ये शूराः पापिनो निहताः पुरः॥
प्राप्नुवन्ति परं स्थानं दुर्लभं ज्ञानिनामपि॥ १७.१५७ ॥
अथवा तीर्थगमनं वेदाध्ययनमेव च॥
देवतार्चनयज्ञादिश्रेयांसि विविधानि च॥ १७.१५८ ॥
ऐकपद्येन तान्येव कलां नार्हन्ति षोडशीम्॥
सङ्ग्रामे पतितानां च सर्वशास्त्रेष्वयं विधिः॥ १७.१५९ ॥
तस्माद्युद्धावदानं च कर्तव्यमविशङ्कितैः॥
भवद्भिर्नान्यथा कार्यं देववाक्यप्रमाणतः॥ १७.१६० ॥
यूयं सर्वे शौरवृत्त्या समेताः कुलेन शीलेन महानुभावाः॥
पदानि तान्येव पलायमाना गच्छन्त्यशूरा रणमण्डलाच्च॥ १७.१६१ ॥
त एव सर्वे खलु पापलोकान्गच्छन्ति नूनं वचनात्स्मृतेश्च॥ १७.१६२ ॥
ये पापिष्ठास्त्वधर्म्मस्था ब्रह्मघ्ना गुरुतल्पगाः॥
नरकं यान्ति ते पापं तथैव रणविच्युताः॥ १७.१६३ ॥
तस्माद्भवद्भिर्योद्धव्यं स्वामिकार्यभरक्षमैः॥
एवमुक्तास्तदा तेन वृत्रेणापि महात्मना॥ १७.१६४ ॥
चक्रुस्ते वचन्नं तस्य असुराश्च सुरान्प्रति॥
चक्रुः सुतुमुलं युद्धं सर्वलोकभयङ्करम्॥ १७.१६५ ॥
तस्मिन्प्रवृत्ते तुमुले विगाढे वृत्रो महादैत्यपतिः स एकः॥
उवाच रोषेण महाद्भुतेन शतक्रतुं देववरैः समेतम्॥ १७.१६६ ॥
॥वृत्र उवाच॥
श्रृणु वाक्यं मया चोक्तं धर्म्मार्थसहितं हितम्॥
त्वं देवानां पतिर्भूत्वा न जानासि हिताहितम्॥ १७.१६७ ॥
किम्बलार्थपरो भूत्वा विश्वरूपो हतस्त्वया॥
प्राप्तमद्यैव भो इन्द्र तस्येदं कर्म्मणः फलम्॥ १७.१६८ ॥
ये दीर्घदर्शिनो मन्दा मूढा धर्मबहिष्कृताः॥
अकल्पाः कार्यसिद्ध्यर्थं यत्कुर्वन्ति च निष्फलम्॥
तत्सर्वं विद्धि देवेन्द्र मनसा सम्प्रधार्यताम्॥ १७.१६९ ॥
तस्माद्धर्म्मपरो भूत्वा युध्यस्व गतकल्मषः॥
भ्रातृहा त्वं ममैवेन्द्र तस्मात्त्वा घातयाम्यहम्॥ १७.१७० ॥
मा प्रयाहि स्थिरो भूत्वा देवैश्च परिवारितः॥
एव मुक्तस्तु वृत्रेण शक्रोऽतीव रुषान्वितः॥
ऐरावतं समारुह्य ययौ वृत्रजिघांसया॥ १७.१७१ ॥
इन्द्रमायान्तमालोक्य वृत्रो बलवतां वरः॥
उवाच प्रहसन्वाक्यं सर्वेषां श्रृण्वतामपि॥ १७.१७२ ॥
आदौ मां प्रहरस्वेति तस्मात्त्वां घातयाम्यहम्॥ १७.१७३ ॥
इत्येवमुक्तो देवेन्द्रो जघान गदया भृशम्॥
वृत्रं बलवतां श्रेष्ठं जानुदेशे महाबलम्॥ १७.१७४ ॥
तामापतन्तिं जग्राह करेणैकेन लीलया॥
तयैवैनं जघानाशु गदया त्रिदिवेश्वरम्॥ १७.१७५ ॥
सा गदा पातयामास सवज्रं च पुरन्दरम्॥
पतितं शक्रमालोक्य वृत्र ऊचे सुरान्प्रति॥ १७.१७६ ॥
नयध्वं स्वामिनं देवाः स्वपुरीममरावतीम्॥ १७.१७७ ॥
एतच्छ्रुत्वा वचः सत्यं वृत्रस्य च महात्नः॥
तथा चक्रुः सुराः सर्वे रणाच्चेन्द्रं समुत्सुकाः॥ १७.१७८ ॥
अपोवाह्य गजस्थं हि परिवार्य भयातुराः॥
सुराः सर्वे रणं हित्वा जग्मुस्ते त्रिदिवं प्रति॥ १७.१७९ ॥
ततो गतेषु देवेषु ननर्त च महासुरः॥
वृत्रो जहास च परं तेना पूर्यत दिक्तटम्॥ १७.१८० ॥
चचाल च मही सर्वा सशैलवनकानना॥
चुक्षुभे च तदा सर्वं जङ्गमं स्थावरं तथा॥ १७.१८१ ॥
श्रुत्वा प्रयातं देवेन्द्रं ब्रह्मा लोकपितामहः॥
उपयातोऽथ देवेन्द्र स्वकमण्डलुवारिणा॥
अस्पृशल्लब्धसञ्ज्ञोऽभूत्तत्क्षणाच्च पुरन्दरः॥ १७.१८२ ॥
दृष्ट्वा पितामहं चाग्रे व्रीडायुक्तोऽभवत्तदा॥
महेन्द्रं त्रपया युक्तं ब्रह्मोवाच पितामहः॥ १७.१८३ ॥
॥ब्रह्मोवाच॥
वृत्रो हि तपसा युक्तो ब्रह्मचर्यव्रते स्थितः॥
त्वष्टुश्च तपसा युक्तो वृत्रश्चायं महायशाः॥
अजेयस्तपसोग्रेण तस्मात्त्वं तपसा जय॥ १७.१८४ ॥
वृत्रासुरो दैत्यपतिश्च शक्र ते समाधिना परमेणैव जय्यः॥
निशम्य वाक्यं परमेष्ठिनो हरिः सस्मार देवं वृषभध्वजं तदा॥ १७.१८५ ॥
स्तुत्या तदातं स्तवमानो महात्मा पुरन्दरो गुरुणा नोदितो हि॥ १७.१८६ ॥
॥इन्द्र उवाच॥
नमो भर्गाय देवाय देवानामतिदुर्गम॥
वरदो भव देवेश देवानां कार्यसिद्धये॥ १७.१८७ ॥
एवं स्तितिपरो भूत्वा शचीपतिरुदारधीः॥
स्वकार्यदक्षो मन्दात्मा प्रपञ्चाभिरतः खलु॥ १७.१८८ ॥
प्रपञ्चाभिरता मूढाः शिवभक्तिपरा ह्यपि॥
न प्राप्नुवन्ति ते स्थानं परमीशस्यरागिणः॥ १७.१८९ ॥
निर्मला निरहङ्कारा ये जनाः पर्युपासते॥
मृडं ज्ञानप्रदं चेशं परेशं शम्भुमेव च॥ १७.१९० ॥
तेषां परेषां वरद इहामुत्र च शङ्करः॥
महेन्द्रेण स्तुतः शर्वो रागिणा परमेण हि॥ १७.१९१ ॥
रागिणां हि सदा शम्भुर्दुर्लभो नात्र संशयः॥
तस्माद्विरागिणां नित्यं सन्मुखो हि सदाशिवः॥ १७.१९२ ॥
राजा सुराणां हि महानुरागी स्वकर्मसंसिद्धिमहाप्रवीणः॥
तस्मात्सदा क्लेशपरः शचीपतिः स्वकामभावात्मपरो हि नित्यम्॥ १७.१९३ ॥
स्तवमानं तदा चेन्द्रमब्रवीत्कार्यगौरवात्॥
विज्ञायाखिलदृग्द्रष्टा महेशो लिङ्गरूपवान्॥ १७.१९४ ॥
इन्द्र गच्छ सुरैः सार्द्धं वृत्रं वै दानवं प्रति॥
तपसैव च साध्योऽयं रणे जेतुं शतक्रतो॥ १७.१९५ ॥
॥इन्द्र उवाच॥
केनोपायेन साध्योऽयं वृत्रो दैत्यवरो महान्॥
त्चछीघ्रं कथ्यतां शम्भो येन मे विजयो भवेत्॥ १७.१९६ ॥
॥रुद्र उवाच॥
रणे न शक्यते हन्तुमपि देववरैरपि॥
तस्मात्त्वया हि कर्तव्यं कुत्सितं कर्म चाद्य वै॥ १७.१९७ ॥
अस्य शापः पुरा दत्तः पार्वत्या मम सन्निधौ॥
असौ चित्ररथो नाम्ना विख्यातो भुवनत्रये॥ १७.१९८ ॥
पर्यटन्सु विमानेन मया दत्तेन भास्वता॥
उपहासादिमां योनिं सम्प्राप्तो दत्यपुङ्गवः॥ १७.१९९ ॥
तस्मादजेयं जानीहि रणे रणविदां वर॥
एवमुक्तो महेन्द्रोऽयं शम्भुना योगिना भृशम्॥ १७.२०० ॥
तथेति मत्वा शक्रोऽसौ नियमं तमुपाददे॥ १७.२०१ ॥
रन्ध्रं प्रतीक्ष्य वृत्रस्य तत्समीपे सहस्रकम्॥
वत्सराणां महाभागा वसन्हन्तुं मनो दधे॥ १७.२०२ ॥
अन्तर्वेद्यां बहिः स्थित्वा वज्रपाणिरनुज्ञया॥
गुरोः पुरोधसश्चैव स्वकार्यमकरोद्भृशम्॥ १७.२०३ ॥
एकदा नर्म्मदायां वै वृत्रो दानवपुङ्गवः॥
दैत्यैः परिवृतः सर्वैः समायातो यदृच्छया॥ १७.२०४ ॥
इन्द्रः पराभवं प्राप्तो नीतो देवैर्द्दिवं प्रति॥
अहमेव हतारिश्च नान्योस्ति सदृशो मम॥ १७.२०५ ॥
मन्यमानः सदा वृत्रः पौरुषेण समन्वितः॥
प्रदोषसमये विप्रा नर्मदायामुपस्थितः॥ १७.२०६ ॥
दृष्टश्चेन्द्रेण सुमहानसुरैः परिवारितः॥
वृत्रो बलवतां श्रेष्ठः प्रदोषसमये तदा॥ १७.२०७ ॥
तस्मिन्प्रदेषे संयुक्ता मन्दवारे त्रयोदशी॥
नोदितो गुरुणा चेन्द्रः करे गृह्य बृहस्पतिः॥ १७.२०८ ॥
प्रदक्षिणानमस्कारैर्यथोक्तविधिना तदा॥
पूजितो लिङ्गरूपी च ओङ्कारो नर्मदातटे॥ १७.२०९ ॥
प्रदोषव्रतमाहात्म्याद्वज्रपाणिः प्रतापवान्॥
सञ्जातस्तत्क्षणादेव प्रसादाच्छङ्करस्गयच॥ १७.२१० ॥
वृत्रोपि तपसा युक्तः प्रदोषसमये महान्॥
निद्रासक्तोऽभवत्तत्र शुण्डेन प्रति बोधितः॥ १७.२११ ॥
स्वापात्प्रदोषवेलायां तपसा चार्जितं फलम्॥
प्रनष्टं तत्क्षणादेव निःश्रीकत्वमुपागतः॥ १७.२१२ ॥
देव्याः शापाच्च सञ्जातो वृत्रो भग्नमनोरथः॥ १७.२१३ ॥
सन्ध्यापादो गतो यावद्धृत्र स्तीर्थमुपाविशत्॥
परीतो विविधैर्द्दैत्यैत्यैर्नानायुधसमन्वितैः॥ १७.२१४ ॥
तस्य तत्कर्मणश्छिद्रं छिद्रान्वेषी शचीपतिः॥
ज्ञात्वा गतः शनैर्हतुमात्मशत्रुं शतक्रतुः॥ १७.२१५ ॥
तावद्दैत्याः सुसंरब्धा भीमा भीमपराक्रमाः॥
उत्तस्थुर्युगपत्सर्वे दुःसहाश्च शतक्रतुम्॥ १७.२१६ ॥
ततस्तैरभवद्युद्धमतिप्रबलदण्डिभिः॥
सर्वे देवाः सहायार्थं तदाऽऽजग्मुः शतक्रतोः॥ १७.२१७ ॥
तदा दैत्याश्च देवाश्च युयुधुस्ते तरस्विनः॥
रात्रौ युद्धं समाभवत्सुरासुरविमर्दनम्॥ १७.२१८ ॥
अनेकशस्त्रसंवीतं महारौद्रमवर्तत॥
एवं प्रवर्तमाने तु सङ्ग्रमे रौद्रदारुणे॥
तदा वृत्रोऽथ सन्नद्धो गृहीत्वा शूलमुल्बणम्॥ १७.२१९ ॥
इन्द्र प्रमुखतो भूत्वा जगर्जातिविभीषणम्॥
तस्य नादप्रणादेन त्रासितं भुवनत्रयम्॥ १७.२२० ॥
ऐरावणं समारुह्य महेन्द्रः शुशुभे तदा॥
ध्रियमाणेनच्छत्रेण चन्द्रमण्डलशोभिना॥ १७.२२१ ॥
चामरैर्वीज्यमानोऽथ बभाषे दैत्यपुङ्गवम्॥ १७.२२२ ॥
॥इन्द्र उवाच॥
सङ्ग्रामं कुरु मे वृत्र बलेन महता वृतः॥
शूरस्त्वमसि शूराणां तपसा परमेण हि॥ १७.२२३ ॥
एवमुक्तस्तदा तेन वृत्रो वाक्यमुवाच ह॥
आदौ प्रहर मामिन्द्रपश्चात्त्वां घातयाम्यहम्॥ १७.२२४ ॥
तथेति मत्वा तदतीव दुःसहं वज्रं तदानीं शतधारमेव॥
स मोक्तुकामो हि तदा पुरन्दरो निवारितस्तेन महाप्रभेण॥
पुरोधसा बुद्धिमतां वरेण तथेति मत्वा स चकार चेन्द्रः॥ १७.२२५ ॥
गदां प्रगृह्य देवेन्द्रो वृत्रं विव्याध तां गदाम्॥
वारयामास वृत्रोसा वतिथिं कृपणो यथा॥ १७.२२६ ॥
व्यार्थां च स्वगदां दृष्ट्वा इन्द्रश्चिन्तामवाप ह॥ १७.२२७ ॥
तं चिन्त्यमानं स तदा पुरन्दरं वृत्रो बभाषे परिभर्त्समानः॥
पुराकृतं शक्र महाद्भुतं त्वया जुगुप्सितं कर्म्म च विस्मृतं किम्॥
येनैव जातोऽसि सहस्रनेत्रः शापान्महर्षेरथ गौतमस्य॥ १७.२२८ ॥
ये शूराश्चेन्द्रियग्रामं वर्तन्ते हि नियम्य तु॥
ते जयं प्राप्नुवन्तीह नेतरे हि भवादृशाः॥ १७.२२९ ॥
रणाजिरं महाघोरं पापिनां नात्र संशयः॥ १७.२३० ॥
एवं निर्भर्त्सयामास देवेन्द्रं दैत्यपुङ्गवः॥
त्रिशूलं धूनयामास देवेन्द्रो हि तडित्समम्॥ १७.२३१ ॥
तेन शूलेन महता वृत्रोऽद्भुतपराक्रमः॥
बभौ तीव्रेण तपसा यथा रुद्रो युगान्तकृत्॥ १७.२३२ ॥
तथाभूतं समालक्ष्य देवराजः शतक्रतुः॥
अभ्युद्ययौ हन्तुकामो वृत्रे दानवपुङ्गवम्॥ १७.२३३ ॥
तमायान्तमभिप्रेक्ष्य हन्तुकामं पुरन्दरम्॥
जहास परमं तत्र शक्रस्य च भयावहम्॥
मुखं प्रसार्य सुमहदागतो हि पुरन्दरम्॥ १७.२३४ ॥
ग्रस्तुकामो महातेजा दैत्यानामधिपस्तदा॥
आगत्य सहसा शक्रं ग्रासयित्वा सकुञ्जरम्॥ १७.२३५ ॥
सवज्रं सकिरीटं च ननर्त च जगर्ज्ज च॥
निमिषान्तरमात्रेण ग्रसितोऽसौ पुरन्दरः॥ १७.२३६ ॥
हाहाकारो महानासीद्देवानां तत्र पश्यताम्॥
भूकम्पो हि तदा ह्यसीदुल्कापातः सहस्रशः॥ १७.२३७ ॥
तिमिरेणावृतं सर्वं जगत्स्थावरजङ्गमम्॥
नर्तमानस्तदा वृत्रो बभूव परमद्युतिः॥ १७.२३८ ॥
विध्यमानास्तदा सर्वे देवा ब्रह्माण मागताः॥
शशंसुः सर्वमेवैतद्वृत्रासुरविचेष्टितम्॥ १७.२३९ ॥
तच्छ्रुत्वा भगवान्ब्रह्मा व्यथितोऽतीव विस्मितः॥
कथं जातं महेन्द्रस्य व्यसनं परमाद्भुतम्॥ १७.२४० ॥
देवैः सह तदा ब्रह्मा सर्वलोकपितामहः॥
तुष्टाव गिरिशं देवं परमेण समाधिना॥ १७.२४१ ॥
॥ब्रह्मोवाच॥
ॐनमो लिङ्गरूपाय महादेवाय वै नमः॥
विश्वरूपाय देवाय विरुपाक्षाय वै नमः॥ १७.२४२ ॥
त्राहित्राहि त्रिलोकेश वृत्रग्रस्तं पुरन्दरम्॥
तदा नभोगतावाणी सर्वेषामेव श्रृण्वताम्॥ १७.२४३ ॥
उवाच हितकामाय विधिं लिङ्गार्चने सती॥
प्रदोषव्रतयुक्तेन इन्द्रेण विकृतं कृतम्॥ १७.२४४ ॥
निर्माल्यं पीठिकां चैव च्छायाप्रासादमेव च॥
प्रदक्षिणां कृतवता पीठिकालङ्घनं कृतम्॥ १७.२४५ ॥
लङ्घयन्ति च ये मूढास्ते वै दण्ड्या न संशयः॥
चण्डस्य गणमुख्यस्य तस्मात्कुर्यात्प्रयत्नतः॥
प्रदक्षिणानमस्कारौ लिङ्गार्च्चनसमन्वितः॥ १७.२४६ ॥
श्रेयःप्राप्तयेकबुद्ध्या वै प्रयत्नाल्लिङ्गपूजनम्॥
कार्यं दीक्षा परैर्नित्यं सर्वपापोपशान्तये॥ १७.२४७ ॥
आशरीरं च तद्वाक्यं श्रुत्वा ब्रह्मादयः सुराः॥
पप्रच्छुस्ते प्राञ्जलयो नभोवाणीं शुभावहाम्॥ १७.२४८ ॥
कथमर्चामहे लिङ्गं केनैव विधिना ततः॥
प्रातर्मध्याह्नसमये सायङ्काले तथैव च॥ १७.२४९ ॥
कानि पुष्पाणि सायाह्ने मध्याह्ने च तथैव हि॥
प्रातः काले तु तान्येन कथयस्व यथातथम्॥ १७.२५० ॥
तदा नभोगता वाणी कथयामास विस्तरम्॥ १७.२५१ ॥
करवीरं चार्कपुष्पं बृहतीपुष्पमेवच॥
धत्तूरकुसुमं चैव शतपत्रं तथैव च॥ १७.२५२ ॥
आरग्वधं च पुन्नागं बकुलं नागकेशरम्॥
ब्रध्नोत्पलं कदम्बं च मन्दारकुसुमं तथा॥ १७.२५३ ॥
बहूनि वरपुष्पाणि बहूनि कमलान्यपि॥
त्रिकाले च पवित्राणि ज्ञेयानि सततं बुधैः॥ १७.२५४ ॥
जातीपुष्पं मल्लिकायाश्च पुष्पं पुष्पं मोगरकं नीलपुष्पं तथैव॥
तथा पुष्पं कुटजं कर्णिकारं कौसुम्भाख्यं वारिजं रक्तवर्णनम्॥ १७.२५५ ॥
एतान्येव य पुष्पाणि मध्याह्ने लिङ्गपूजने॥
विशिष्टानि मयोक्तानि सायाह्ने कथयाम्यहम्॥ १७.२५६ ॥
चं पकानि त्रिकाले च पवित्राणि न संशयः॥
रात्रौ मोगरकाण्येव पवित्राणि न संशयः॥ १७.२५७ ॥
एवमर्च्चनभेदांश्च ज्ञात्वा तल्लिङ्गपूजने॥
कार्यो विधिर्विधिज्ञैश्च सततं च शिवालये॥ १७.२५८ ॥
वृषभान्तरितो भूत्वा पीठिकान्तरमेव च॥
प्रदक्षिणां न कुर्वीत कुर्वन्किल्बिषमश्नुते॥ १७.२५९ ॥
तथा ह्यनेन शक्रेण कृतं चैव प्रदक्षिणम्॥
राजसं भावमाश्रित्य तस्माज्जातञ्च निष्फलम्॥ १७.२६० ॥
ग्रसितोऽद्यैव वृत्रेण सगजो हि पुरन्दरः॥
भवद्भिरेव तत्कार्यं येन इन्द्रः प्रमुच्यते॥ १७.२६१ ॥
महारुद्रविधानेन मुक्तो भवति तत्क्षणात्॥
पुरन्दरो ह्ययं देवा नात्र कार्या विचारणा॥ १७.२६२ ॥
तेनैव वचसा देवा रुद्रमभ्यर्च्य यत्नतः॥
यथोक्तेन विधानेन रुद्रसूक्तेन यत्नतः॥ १७.२६३ ॥
तथा चैकादशीरुद्र्या रुद्रमभ्यर्च्य वै सुराः॥
हवनं प्रत्यहं चक्रुर्द्दशांशेन द्विजोत्तमाः॥ १७.२६४ ॥
जपं च पूजां हवनं च चक्रुर्विमोक्तुकामाः सहसा पुरन्दरम्॥
शम्भोः प्रसादात्सहसा विनिर्गतः कुक्षिं भित्त्वा देवराजस्तदानीम्॥ १७.२६५ ॥
तं निर्गतं समीक्ष्याथ देवदेवेन्द्रमोजसा॥
सगजं च स वज्रं च सकिरीटं सकुण्डलम्॥
श्रिया परमया युक्तं पुरन्दरं महौजसम्॥ १७.२६६ ॥
देवदुन्दुभयो नेदुस्तथा शङ्खा ह्यनेकशः॥
गन्धर्वाप्सरसो यक्षा ऋषयश्च मुदान्विताः॥ १७.२६७ ॥
एकपद्येन सर्वेषां महाहर्षो दिवौकसाम्॥
सञ्जातस्तत्क्षणादेव यदा मुक्तः पुरन्दरः॥
तदा शची समायाता यत्र मुक्तः पुरन्दरः॥ १७.२६८ ॥
तत्र शच्या समेतोऽसावभिषिक्तो महर्षिभिः॥
पुण्याहवाचनं तस्य कृतं सर्वैः प्रयत्नतः॥ १७.२६९ ॥
एवं तदाभिषिक्तोऽसौ महेन्द्र ऋषिभिः पुनः॥
मही मङ्गलभूयिष्ठा तदा जाता द्विजोत्तमाः॥ १७.२७० ॥
दिशः प्रसन्नतां याता निर्मलं चाभवन्नभः॥
शान्तास्तदाग्नयो ह्यासन्मनांसि च महात्मनाम्॥ १७.२७१ ॥
एवमादीन्यनेकानि मङ्गलानि ततोऽभवन्॥
मुक्ते शतक्रतौ तस्मिन्बभूव परमाद्भुतम्॥ १७.२७२ ॥
एवं प्रवर्तमाने तु महतां च महोत्सवे॥
तावद्वृत्रस्य पतितं शरीरं च भयानकम्॥ १७.२७३ ॥
तत्रैव ब्रह्महत्या च पापिष्ठा पतिता भुवि॥
गङ्गायमुनयोर्मध्ये अन्तर्वेदीति कथ्यते॥ १७.२७४ ॥
पुण्यभूमिरिति ख्याता प्रसिद्धा लोकपावनी॥
वृत्रहत्याप्रतिष्ठा सा यस्मिदेशे स पापवान्॥ १७.२७५ ॥
मलस्य बहुसम्भूत्या मालावेति प्रकीर्तिता॥
तस्यां तु मलभूम्यां वै वृत्रस्य च महच्छिरः॥ १७.२७६ ॥
षण्मासेष्वपतत्सर्वैः कृत्तं देवैः सवासवैः॥
एवं वृत्रवधं कृत्वा शक्रो जयमवाप ह॥ १७.२७७ ॥
इन्द्रासने चोपविष्टो निरातङ्कः शचीपतिः॥
एतस्मिन्नन्तरे दैत्याः पातालवासिनं बलिम्॥
शशंसुः सर्वमागत्य शक्रस्य च विचेष्टितम्॥ १७.२७८ ॥
तेषां तद्वचनं श्रुत्वा वैरोचनी रुषान्वितः॥
शुक्रं पप्रच्छ स तदा सथमिन्द्रो वशी भवेत्॥ १७.२७९ ॥
तेनोक्तं बलये राजञ्जयस्यन्दनलब्धये॥
महायज्ञं कुरुष्वाद्य तेन ते विजयो भवेत्॥ १७.२८० ॥
तेनोक्तो भृगुणा चैवं बलिर्यज्ञार्थमुद्यतः॥
दधौ यानीह द्रव्याणि यज्ञयोग्यानि तानि वै॥
मेलयित्वा त्वरेणैव वैरोचनिरुदारधीः॥ १७.२८१ ॥
प्रवर्तितो महायज्ञो भार्गवेण महात्मना॥
दीक्षायुक्तो बलिरभूज्जुहुवे हघ्यवाहनम्॥ १७.२८२ ॥
हूयमाने तदाग्नौ तु कर्मणा विधिहेतुना॥
तस्माद्बलेः समुत्पन्नः स्यन्दनः परमाद्भुतः॥ १७.२८३ ॥
हयैश्चतुर्भिः संयुक्तो ध्वजेसिंहो महाप्रभः॥
शस्त्रास्त्रैः संयुतः श्रीमान्हयैः श्वेतैरलङ्कृतः॥ १७.२८४ ॥
ततश्चावभृथस्नानं चक्रे शुक्रप्रणोदितः॥
स्यन्दनं पूजयित्वाथ आरुरोह बलिस्तदा॥ १७.२८५ ॥
दैत्यैः परिवृतः सद्यो योद्धुकामः पुरन्दरम्॥
सद्य एव दिवं प्राप्तो बलिर्वैरोचनो महान्॥ १७.२८६ ॥
आगत्य सेनया सार्द्धमारुरो हामरावतीम्॥
संरुद्धां तां पुरीं दृष्ट्वा तदा ते सुरसत्तमाः॥
विर्शयित्वा सुचिरमूचुः सर्वे बृहस्पतिम्॥ १७.२८७ ॥
किं कुर्मोऽद्य महाभाग आगता दैत्यपुङ्गवाः॥
योद्धुकामा महाघोराः सर्वे युद्धविशारदाः॥ १७.२८८ ॥
तेषां तद्वचनं श्रुत्वा बृहस्पतिरभाषत॥ १७.२८९ ॥
एते घृतमुखा घोरा भृगुणानोदिताः सुराः॥
अजेयाश्चैव ते सर्वे तपसा विक्रमेण च॥ १७.२९० ॥
एतन्निशम्य वचनं च गुणाभियुक्तं सर्वे सुराः समभवंस्त्रपयाभियुक्ताः॥
इन्द्रोऽपि बुद्धिविकलः परिचिन्तया च व्रीडायुतः समभवत्परिभर्त्स्यमानः॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे बलिदैत्यस्य सङ्ग्रामोद्योगवर्णनन्नाम सप्तदशोऽध्यायः॥ १७ ॥ छ ॥