१४

[अध्यायः १४]

वेदव्यासः

अध्यायः १४
॥लोमश उवाच॥
ततो युद्धमतीवासीदसुरैर्विष्णुना सह॥
ततः सिंहाः सपक्षास्ते दंशिताः परमाद्भुताः॥ १४.१ ॥

असुरैरुह्यमानास्ते रहुत्मन्तं व्यदारयन्॥
सिंहास्ते दारितास्तेन खण्डशश्च विदारिताः॥ १४.२ ॥

विष्णुना च तदा दैत्याश्चक्रेण शकलीकृताः॥
हतांस्तानसुरान्दृष्ट्वा कालनेमिः प्रतापवान्॥ १४.३ ॥

त्रिशूलेनाहनद्विष्णुं रोषपर्याकुलेक्षणः॥
तमायान्तं च जगृहे मुकुन्दोऽनाथसंश्रयः॥ १४.४ ॥

करेण वामेन जघान लीलया तं कालनेमिं ह्यसुरं महाबलम्॥
तेनैव शूलेन समाहतोऽसौ मूर्च्छान्वितोऽसौ सहसा पपात॥ १४.५ ॥

पतितः पुनरुत्थाय शनैरुन्मील्य लोचने॥
पुरतः स्थितमालोक्य विष्णुं सर्वगुहाशयम्॥ १४.६ ॥

लब्धसञ्ज्ञोऽब्रवीद्वाक्यं कालनेमिर्महाबलः॥
तव युद्धं न दास्यामि नास्ति लोके स्पृहा मम॥ १४.७ ॥

ये येऽसुरा हता युद्धे अक्षयं लोकमाप्नुयुः॥
ब्रह्मणो वचनात्सद्य इन्द्रेण सह सङ्गताः॥ १४.८ ॥

भुञ्जतो विविधान्भोगान्देववद्विचरन्ति ते॥
इन्द्रेण सहिताः सर्वे संसारे च पतन्त्यथ॥ १४.९ ॥

तस्माद्युद्धेन मरणं न काङ्क्षे क्षणभङ्गुरम्॥
अन्यजन्मनि मे वीर वैरभावान्न संशयः॥
दातुमर्हसि मे नाथ कैवल्यं केवलं परम्॥ १४.१० ॥

तथेति दैत्यप्रवरो निपातितः परेण पुंसा परमार्थदेन॥
दत्त्वाऽभयं देवतानां तदानीं तथा सुधां देवताभ्यः प्रदत्त्वा॥ १४.११ ॥

कालनेमिर्हतो दैत्यो देवा जाता ह्यकटकाः॥
शल्यरूपो महान्सद्यो विष्णुना प्रभविष्णुना॥ १४.१२ ॥

तिरोधानं गतः सद्यो भगवान्कमलेक्षणः॥
इन्द्रोऽपि कदनं कृत्वा दैत्यानां परमाद्भुतम्॥ १४.१३ ॥

पतितानां क्लीबरूपाणां भग्नानां भीतचेतसाम्॥
मुक्तकच्छशिखानां च चक्रे स कदनक्रियाम्॥ १४.१४ ॥

अर्थशास्त्रपरो भूत्वा महेन्द्रो दुरातिक्रमः॥
दैत्यानां कालरूपोऽसौ शचीपतिरुदारधीः॥ १४.१५ ॥

एवं निहन्य्मानानामसुराणां शचीपतेः॥
निवारणार्थं भगवानागतो नारदस्तदा॥ १४.१६ ॥

॥ नारद उवाच॥
युद्धहताश्च ये वीरा ह्यसुरा रणमण्डले॥
तेषामनु कथं कर्ता भीतानां च विहिंसनम्॥ १४.१७ ॥

ये भीतांश्च प्रपन्नांश्चघातयन्ति मदोद्धताः॥
ब्रह्मघ्नास्तेऽपि विज्ञेया महापातकसंयुताः॥ १४.१८ ॥

तस्मात्त्वया न कर्त्तव्यं मनसापि विहिंसनम्॥
एवमुक्तस्तदा शक्रो नारदेन महात्मना॥ १४.१९ ॥

सुरसेनान्वितः सद्य आगतो हि त्रिविष्टपम्॥
तदा सर्वे सुरगणाः सुहृद्भ्यश्च परस्परम्॥
बभूवुर्मुदिताः सर्वे यक्षगन्धर्वकिन्नराः॥ १४.२० ॥

तदा इन्द्रोऽमरावत्यां हस शच्याऽभिषेचितः॥ १४.२१ ॥

देवर्षिप्रमुखैश्चैव ब्रह्मर्षिप्रमुखैस्तथा॥
शक्रोऽपि विजयं प्राप्तः प्रसादाच्छङ्करस्य च॥ १४.२२ ॥

तदा महोत्सवो विप्रा देवलोके महानभूत्॥
शङ्खाश्च पटहाश्चैव मृदङ्गा मुरजा अपि॥
तथानकाश्च भेर्यश्च नेदुर्दुन्दुभयः समम्॥ १४.२३ ॥

गायकाश्चैव गन्धर्वाः किन्नराश्चाप्सपोगणाः॥
ननृतुर्जगुस्तुष्टुवुश्च सिद्धचारणगुह्यकाः॥ १४.२४ ॥

एवं विजयमापन्नः शक्रो देवेस्वरस्तदा॥
देवैर्हतास्तदा दैत्याः पतितास्ते महीतले॥ १४.२५ ॥

गतासवो महात्मानो बलिप्रमुखतो ह्यमी॥
तपस्तप्तुं पुरा विप्रो भार्गवो मानसोत्तरम्॥ १४.२६ ॥

गतः शिष्यैः परिवृतस्तस्माद्युद्धं न वेद तत्॥
अवशेषाश्च ये दैत्यास्ते गता भार्गवं प्रति ॥ १४.२७ ॥

कथितं वै महद्धृत्तमसुराणां क्षयावहम्॥
निशम्य मन्युमाविष्टो ह्यागतो भृगुनन्दनः॥ १४.२८ ॥

शिष्यैः परिवृतो भूत्वा मृतांस्तानसुरानपि॥
विद्यया मृतजीविन्या पतितान्समजीवयत्॥ १४.२९ ॥

निद्रापायगता यद्वदुत्थितास्ते तदाऽसुराः॥
उत्थितः स बलिः प्राह भार्गवं ह्यमितद्युतिम्॥ १४.३० ॥

जीवितेन किमद्यैव मम नास्ति प्रयोजनम्॥
पातितस्त्रिदशेन्द्रेण यथा कापुरुषस्तथा॥ १४.३१ ॥

बलिनोक्तं वचः श्रुत्वा शुक्रो वचनमब्रवीत्॥
मनस्विनो हि ये शूराः पतन्ति समरे बुधा॥ १४.३२ ॥

ये शस्त्रेण हताः सद्यो म्रियमाणा व्रजन्ति वै॥
त्रिविष्टपं न सन्देह इति वेदानुशासनम्॥ १४.३३ ॥

एवमाश्वासयामास बलिनं भृगुनन्दनः॥
तपस्तताप विविधं दैत्यानां सिद्धिदायकम्॥ १४.३४ ॥

तथा दैत्य गताः सर्वे भृगुणा च प्रचोदिताः॥
पातालमवसन्सर्वे बलिमुख्याः सुखेन वै॥ १४.३५ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे देवासुरसङ्ग्रामे भार्गवेण मृतदैत्यसञ्जीवनवर्णनन्नाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥