१३

[अध्यायः १३]

वेदव्यासः

अध्यायः १३
॥लोमश उवाच॥
ततस्ते गर्ज्जमानाश्च आक्षिपन्तः सुरान्रणे॥
शतक्रतुप्रमुख्यांस्तन्महाबलपराक्रमान्॥ १३.१ ॥

विमानमारुह्य तदा महात्मा वैरोचनिः सर्वबलेन सार्द्धम्॥
दैत्यैः समेतो विविधैर्महाबलैः सुरान्प्रदुद्राव महाभयावहम्॥ १३.२ ॥

स्वानि रूपाणि बिभ्रन्तः समापेतुः स हस्रशः॥
केचिद्व्याघ्रान्समारूढा महिषांश्च तथा परे॥ १३.३ ॥

अश्वान्केचित्समारूढा द्विपान्केचित्तथा परे॥
सिंहांस्तथा परे रूढाः शार्दूलाञ्छरभांस्तथा॥ १३.४ ॥

मयूरान्राजहंसांश्च कुक्कुटांश्च तथा परे॥
केचिद्धयान्समारूढा उष्ट्रानश्वतरानपि॥ १३.५ ॥

गजान्खरान्परे चैव शकटांश्च तथा परे॥
पादाता बहवो दैत्याः खङ्गशक्त्यृष्टिपाणयः॥ १३.६ ॥

परिघायुधिनः पाशशूलमुद्गरपाणयः॥
असिलोमान्विताः केचिद्भुशुण्डीपरिघायुधाः॥ १३.७ ॥

हयनागरथाश्चान्ये समारूढाः प्रहारिणः॥
विमानानि समारूढा बलिमुख्याः सहस्रशः॥ १३.८ ॥

स्पर्द्धमानास्ततान्योन्यं गर्जन्तश्च मुहुर्मुहुः॥
वृषपर्वा ह्युवा चेदं बलिनं दैत्यपुङ्गवम्॥ १३.९ ॥

त्वया कृतं महाबाहो इन्द्रेण सह सङ्गमम्॥
विश्वासो नैव कर्तव्यो दुर्हृदा च कथञ्चन॥ १३.१० ॥

ऊनेनापि हि तुच्छेन वैरिणापि कथञ्चन॥
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते॥ १३.११ ॥

न विश्वसेत्पूर्वविरोधिना क्वचित्पराजिताः स्मोऽथ बले त्वयाधुना॥
पुराणदुष्टाः कथमद्य वै पुनर्मन्त्रं विकर्तुं न च ते यतेरन्॥ १३.१२ ॥

इत्यूचुस्ते दुराधर्षा योद्धुकामा व्यवस्थिताः॥
ध्वजैश्छत्रैः पताकैश्च रणभूमिममण्डयन्॥ १३.१३ ॥

चामरैश्च दिशः सर्वा लोपितं च रणस्थलम्॥
तथा सर्वे सुरास्तत्र दैत्यान्प्रति समुत्सुकाः॥ १३.१४ ॥

पीत्वामृतं महाभागा वाहान्यारुह्य दंशिताः॥
गजारूढो महेन्द्रोपि वज्रपाणिः प्रतापवान्॥
सूर्यश्चोच्चैः श्रवारूढो मृगा रूढश्च चन्द्रमाः॥ १३.१५ ॥

छत्रचामरसंवीताः शोभिता विजयश्रिया॥
प्रणम्य विष्णुं ते सर्व इन्द्राद्या जयकाङ्क्षिणः॥ १३.१६ ॥

ते विष्णुना ह्यनुज्ञाता असुरान्प्रति वै रुषा॥
असुराश्च महाकाया भीमाक्षा भीमविक्रमाः॥ १३.१७ ॥

तेषां बोरमभूद्युद्धं देवानां दानवैः सह॥
तुमुलं च महाघोरं सर्वभूतभयावहम्॥ १३.१८ ॥

शरधारान्वितं सर्वं बभूव परमाद्भुतम्॥
ततश्च टचटाशब्दा बभूवुश्च दिशोदश॥ १३.१९ ॥

ततो निमिषमात्रेण शरघातयुता भवन्॥
शरतोमरनाराचैराहताश्चापतन्भुवि॥ १३.२० ॥

विध्यमानास्तथा केचिद्विविधुश्चापरान्रणे॥
भल्लैर्भग्नाश्च पतिता नाराचैः शकलीकृताः॥ १३.२१ ॥

क्षुरप्रहारिताः केचिद्दैत्या दानवराक्षसाः॥
शिलीमुखैर्मारिताश्च भग्नाः केचिच्च दानवाः॥ १३.२२ ॥

एवं भग्नं दानवानां च सैन्यं दृष्ट्वा देवा गर्जमानाः समन्तात्॥
हृष्टाः सर्वे सम्मिलित्वा तदानीं लब्ध्वा युद्धे ते जयं श्लाघयन्ते॥ १३.२३ ॥

शङ्खवादित्रघोषेण पूरितं च जगत्त्रयम्॥
देवान्प्रति कृतामर्षा दानवास्ते महाबलाः॥ १३.२४ ॥

बलिप्रभृतयः सर्वे सम्भ्रमेणोत्थिताः पुनः॥
विमानैः सूर्यसङ्कासैरनेकैश्च समन्विताः॥ १३.२५ ॥

द्वन्द्वयुद्धं सुतुमुलं देवानां दानवैः सह॥
सम्प्रवृत्तं पुनश्चैव परस्परजिगीषया॥ १३.२६ ॥

बलिना दानवेन्द्रेण महेन्द्रो युयुधे तदा॥
तथा यमो महाबाहुर्नमुच्या सह सङ्गतः॥ १३.२७ ॥

नैर्ऋतः प्रघसेनैव पाशी कुम्भेन सङ्गतः॥
निकुम्भेनैव सुमहद्युद्धं चक्रे सदारयः॥ १३.२८ ॥

सोमेन सह राहुश्च युद्धं चक्रे सुदारुणम्॥
राहुणा चन्द्रदेहोत्थममृतं भक्षितं तदा॥
सम्पर्कादमृस्यैव यथा राहुस्तथाऽभवत्॥ १३.२९ ॥

तानि सर्वाणि दृष्टानि शम्भुना परमेष्ठिना॥
आश्रयोऽहं च सर्वेषां भूतानां नात्र संशयः॥
असुराणां सुराणां च सर्वेषामपि वल्लभः॥ १३.३० ॥

एवमुक्तस्तदा राहुः प्रणम्य शिरसा शिवम्॥
मौलौ स्थितस्तदा चन्द्रो अमृतं व्यसृजद्भयात्॥ १३.३१ ॥

तेन तस्य हि जातानि शिरांसि सुबहून्यपि॥
एकपद्येन तेषां च स्रजं कृत्वा मनोहराम्॥
बबन्ध शम्भुः शिरसि शिरोभूषणवत्कृतम्॥ १३.३२ ॥

अशनात्कालकूटस्य नीलकण्ठोऽभवत्तदा॥
देवानां कार्यसिद्ध्यर्थं मुण्डमाला तथा कृता॥ १३.३३ ॥

दधार शिरसा तां च मुण्डमालां महेश्वरः॥ १३.३४ ॥

तया स्रजाऽसौ शुशुभे महात्मा देवादिदेवस्त्रिपुरान्तको हरः॥
गजासुरो येन निपातितो महानथान्धको येन कृतश्च चूर्णः॥ १३.३५ ॥

गङ्गा धृता येन शिरस्सुमध्ये चन्द्रं च चूडे कृतवान्भयापहः॥
वेदाः पुराणानि तथागमाश्च तथैव नानाश्रुतयोऽथ शास्त्रम्॥ १३.३६ ॥

जल्पन्ति नानागमभेदैर्मीमांसमानाश्च भवन्ति मूकाः॥
नानागमार्चायमतप्रभेदैर्निरूप्यमाणो जगदेकबन्धुः॥ १३.३७ ॥

शिवं हि नित्यं परमात्मदैवं वेदैकवेद्यं परमात्मदिव्यम्॥
विहाय तं मूढजनाः प्रमत्ताः शिवं न जानन्ति परात्मरूपम्॥ १३.३८ ॥

येनैव सृष्टं विधृतं च येन येन श्रितं येन कृतं समग्रम्॥
यस्यांशभूतं हि जगत्कदाचिद्वेदान्तवेद्यः परमात्मा शिवश्च॥ १३.३९ ॥

आढ्यो वापि दरिद्रो वा उत्तमो ह्यधमोऽपि वा॥
शिवभक्तिरतो नित्यं शिव एव न संशयः॥ १३.४० ॥

यो वा परकृतां पूजां शिवस्योपरि शोभिताम्॥
दृष्ट्वा सन्तोषमायाति दायं प्राप्नोति तत्समम्॥ १३.४१ ॥

ये दीपमालां कुर्वन्ति कार्तिक्यां श्रद्धयान्विताः॥
यावत्कालं प्रज्वलन्ति दीपास्ते लिङ्गमग्रतः॥
तावद्युगसहस्राणि दाता स्वर्गे महीयते॥ १३.४२ ॥

कौसुम्भतैलसंयुक्ता दीपा दत्ताः शिवालये॥
दातारस्तेऽपि कैलासे मोदन्ते शिवसन्निधौ॥ १३.४३ ॥

अतसीतैलसंयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यान्ति संयुक्ताः कुलानां च शतेन वै॥ १३.४४ ॥

ज्ञानिनोऽपि हि जायन्ते दीपदानफलेन हि॥ १३.४५ ॥

तिलतैलेन संयुक्ता दीपा दत्ताः शिवालये॥
ते शिवं यान्ति संयुक्ताः कुलानां च शतेन वै॥ १३.४६ ॥

घृताक्ता यैः कृता दीपा दीपिताश्च शिवालये॥
ते यान्ति परमं स्थानं कुललक्षसमन्विताः॥ १३.४७ ॥

कर्पूरागुरुधूपैश्च ये यजन्ति सदा शिवम्॥
आरार्तिकां सकर्प्पूरां ये कुर्वन्ति दिनेदिने॥
ते प्राप्नुवन्ति सायुज्यं नात्र कार्या विचारणा॥ १३.४८ ॥

एककालं द्विकालं वा त्रिकालं ये ह्यतन्द्रिताः॥
लिङ्गार्चनं प्रकुर्वन्ति ते रुद्रा नात्र संशयः॥ १३.४९ ॥

रुद्राक्षधारणं ये च कुर्वन्ति शिवपूजने॥
दाने तपसि तीर्थे च पर्वकाले ह्यतन्द्रिताः॥
तेषां यत्सुकृतं सर्वमनन्तं भवति द्विजाः॥ १३.५० ॥

रुद्राक्षा ये शिवेनोक्तास्ताच्छृणुध्वं द्विजोत्तमाः॥
आरम्भैकमुखं तावद्याबद्वक्त्राणि षोडश॥
एतेषां द्वौ च विज्ञेयौ श्रेष्ठौ तारयितुं द्विजाः॥ १३.५१ ॥

रुद्राक्षाणां पञ्चमुखखस्तथा चैकमुखः स्मृतः॥
ये धारयन्त्येकमुखं रुद्राक्षमनिशं नराः॥
रुद्रलोकं च गच्छन्ति मोदन्ते रुद्रसन्निधौ॥ १३.५२ ॥

जपस्तपः क्रिया योगः स्नानं दानार्चनादिकम्॥
क्रियते यच्छृभं कर्म्म ह्यनन्तं चाक्षधारणात्॥ १३.५३ ॥

शुनः कण्ठनिबद्धोऽपि रुद्राक्षो यदि वर्तते॥
सोऽपि सन्तारितस्तेन नात्र कार्या विचारणा॥ १३.५४ ॥

तथा रुद्राक्षसम्बन्धात्पापमपिक्षयं व्रजेत्॥
एवं ज्ञात्वा शुभं कर्म कार्यं रुद्राक्षबन्धनात्॥ १३.५५ ॥

त्रिपुण्ड्रधारणं येषां विभूत्वा मन्त्रपूतया॥
ते रुद्रलोके रुद्राश्च भविष्यन्ति न संशयः॥ १३.५६ ॥

कपिलायाश्च सङ्गृह्य गोमयं चान्तरिक्षगम्॥
शुष्कं कृत्वाथ सन्दाह्यं विभूत्यर्थं शिवप्रियैः॥ १३.५७ ॥

विभूतीति समाख्याता सर्वपापप्रणाशिनी॥
ललाटेंऽगुष्ठरेखा च आदौ भाव्या प्रयत्नतः॥ १३.५८ ॥

मध्यमां वर्जयित्वा तु अङ्गुलीक्द्वयेन च॥
एवं त्रिरेखासंयुक्तो ललाटे यस्य दृश्यते॥
स शैवः शिववज्ज्ञेयो दर्शनात्पापनाशनः॥ १३.५९ ॥

जटाधराश्च ये शैवाः सप्त पञ्च तथा नव॥
जटा ये स्थापियिष्यन्ति शैवेन विधिना युताः॥ १३.६० ॥

ते शिवं प्राप्नुवं तीह नात्र कार्या विचारणा॥
रुद्राक्षधारणं कार्यं शिवभक्तैर्विशेषतः॥ १३.६१ ॥

अल्पेन वा महत्त्वेन पूजितो वा सदाशिवः॥
कुलकोटिं समुद्धृत्य शिवेन सह मोदते॥ १३.६२ ॥

तस्माच्छिवात्परतरं नास्ति किञ्चिद्द्विजोत्तमाः॥
यदैवमुच्यते शास्त्रे तत्सर्वं शिवकारणम्॥ १३.६३ ॥

शिवो दाता हि लोकानां कर्ता चैवानुमोदिता॥
शिवशक्त्यात्मकं विश्वं जानीध्वं हि द्विजोत्तमाः॥ १३.६४ ॥

शिवेति द्व्यक्षरं नाम त्रायते महतो भयात्॥
तस्माच्छिवश्चिन्त्यतां वै स्मर्यतां च द्विजोत्तमाः॥ १३.६५ ॥

॥ऋषय ऊचुः॥
सोमनाथस्य माहात्म्यं ज्ञातं तस्य प्रसादतः॥
राहोः शिरोभयात्सर्वे रक्षिताः परमेष्ठिना॥ १३.६६ ॥

सुराश्चेन्द्रादयश्चान्ये तस्मिन्युद्धे सुदारुणे॥
अत ऊर्ध्वं सुराः सर्वे किमकुर्वत उच्यताम्॥ १३.६७ ॥

शिवस्य महिमा सर्वः श्रुतस्तव मुखोद्गतः॥
अथ युद्धस्य वृत्तान्तः कथ्यतां परमार्थतः॥ १३.६८ ॥

॥लोमश उवाच॥
यदा हि दैत्यैश्च पराजिताः सुराः शम्भुं च सर्वे शरणं प्रपन्नाः॥
शिवं प्रणेमुः सहसा सुरोत्तमा युद्धाय सर्वे च मनो दधुस्तदा॥ १३.६९ ॥

तथैव दैत्या अपि युध्यमाना उत्साहयुक्तातिबलाश्च सर्वे॥
देवैः समेताश्च पुनः पुनश्च युद्धं प्रचक्रुः परमास्त्रयुक्ताः॥ १३.७० ॥

एवं च सर्वे ह्यसुराः सुराश्च शक्त्यृष्टिशूलैः परिघैः परश्वधैः॥
जयार्थिनोमर्षयुताः परस्परं सिंहा यथा हैमवतीं दुरात्ययाः॥
निहन्यमाना ह्यसुराः सुरैस्तदा नानास्त्रयोगैः परमैर्निपेतुः॥ १३.७१ ॥

चक्रुस्ते सकलामुर्वी मांसशोणितकर्दमाम्॥
महीं वृक्षाद्रिसंयुक्तां ससागरवनाकराम्॥ १३.७२ ॥

शिरांसि च कबन्धानि कवचानि महान्ति च॥
ध्वजारथाः पताकाश्च गजवाजिशिरांसि च॥ १३.७३ ॥

बहन्त्यश्चापगा ह्यासन्नद्यो भीरुभयावहाः॥
अगाधाः शोणितोदाश्च तरन्तो ब्रह्मराक्षसाः॥
तयन्ति परान्भूतप्रतप्रमथराक्षसान्॥ १३.७४ ॥

शाकिनीडाकिनीसङ्घा यक्षिण्योऽथ सहस्रशः॥
नानाकेलिषु संयुक्ताः परस्परमुदान्विताः॥ १३.७५ ॥

एवं सङ्क्रीडमानास्ते भूतप्रमथराक्षसाः॥
रणे तस्मिन्महारौद्रे देवासुरसमागमे॥ १३.७६ ॥

बलिना सह देवेन्द्रो युयुधेऽद्भुतविक्रमः॥
शक्त्या जघान देवेन्द्रं वैरोचनिरमर्षणः॥ १३.७७ ॥

तां शक्तिं वञ्चयामास महेन्द्रो लघुविक्रमः॥
जघान स बलिं यत्नाद्दैत्येन्द्रं परमेण हि॥ १३.७८ ॥

वज्रेण शितधारेण बाहुं चिच्छेद विक्रमी॥
गातासुरपतद्भूमौ विमानात्सूर्यसन्न्निभात्॥ १३.७९ ॥

पतितं च बलिं दृष्ट्वा वृषपर्वा रूपान्वितः॥
ववर्ष शरधाराभिः पयोद इव पर्वतम्॥ १३.८० ॥

महेन्द्रं सगजं चैव सहमानं शिताञ्छरान्॥
तदा युद्धमभूद्वोरं महेन्द्रवृषपर्वणोः॥ १३.८१ ॥

निपात्य वृषपर्वाणमिन्द्रः परबलार्दनः॥ १३.८२ ॥

ततो वज्रेण महता दानवानवधीद्रणे॥
शिरसि च्छेदिताः केचित्केचित्कन्धरतो हताः॥ १३.८३ ॥

विह्वलाश्च कृताः केचिदिन्द्रेण कुपितेन च॥
तथा यमेन निहता वायुना वरुणेन च॥ १३.८४ ॥

कुबेरेण हताश्चान्ये नैर्ऋतेन तथा परे॥
अग्निना निहताः केचिदीशेनैव विदारिताः॥ १३.८५ ॥

एवं तदा तैर्निहता बलीयसो महासुरा विक्रमशानिनश्च॥
सुरैस्तु सर्वैः सह लोकपालैः शिवप्रसादा भिहतास्तदानीम्॥ १३.८६ ॥

ततो महादैत्यवरो दुरात्मा स कलानेमिः परमास्त्रयुक्तः॥
ययौ तदानीं सुरसत्तमांस्तान्हन्तुं सदा क्रूरमतिः स एकः॥ १३.८७ ॥

सिंहारूढो दंशितश्च त्रिशुलेन हि संयुतः॥
दैत्यानामर्बुदेनैव सिंहारूढेन संवृतः॥ १३.८८ ॥

ते सिंहा दंशिताः सर्वे महाबलपराक्रमाः॥
तेषु सिंहेषु चारूढा महादैत्याश्च तत्समाः॥ १३.८९ ॥

आयान्तीं दैत्यसेनां तां सर्वां सिंहविभूषिताम्॥
कालनेमियुतां दृष्ट्वा देवा इन्द्रपुरोगमाः॥
भयमाजग्मुरतुलं तदा ध्यानपरा भवन्॥ १३.९० ॥

किं कुर्मोऽद्य वयं सर्वे कथं जेष्याम चाद्भुतम्॥
एतादृशमसङ्ख्याकमनीकं सिंहसंवृतम्॥ १३.९१ ॥

एवं विचिन्त्यमानास्ते ह्यागतस्तत्र नारदः॥
नारदेन च तत्सर्वं पुरावृत्तं महत्तरम्॥ १३.९२ ॥

कथितं च महेन्द्राय कालनेमेस्तपोबलम्॥
अजेयत्वं च सङ्ग्रामे वरदानबलेन तु॥ १३.९३ ॥

विष्णुं विना वयं देवा अशक्ता रणमण्डले॥
जेतुं च स ततो विष्णुः स्मर्यतां परमेश्वरः॥
तमालनीलो वरदः सर्वैर्विजयकाङ्क्षिभिः॥ १३.९४ ॥

नारदस्य वचः श्रुत्वा तदा देवास्त्वरान्विताः॥
ध्यानेन च महाविष्णुं ततः परबलार्द्दनम्॥
स्मरन्तः परमात्मानमिदमूचुश्च तं विभुम्॥ १३.९५ ॥

॥ देवा ऊचुः॥
नमस्तुभ्यं भगवते नमस्ते विश्वमङ्गलम्॥
श्रीनिवास नमस्तुभ्यं श्रीपते ते नमोनमः॥ १३.९६ ॥

अद्यास्मान्भयभीतांस्त्वं कालनेमिभयार्दितान्॥
त्रातुमर्हसि दैत्याच्च देवानामभयप्रद॥ १३.९७ ॥

एवं ध्यातः संस्मृतश्च प्रादुर्भूतो हरिस्तदा॥
नीलो गरुडमारुह्य जगतामभयप्रदः॥ १३.९८ ॥

चक्रपाणिस्तदायातो देवानां विजयाय च॥
गगनस्थं महाविष्णुं गरुडोपरि संस्थितम्॥
श्रीवासमेनं दुर्द्धर्षं योद्धुकामं ददर्शिरे॥ १३.९९ ॥

तथा दृष्ट्वा कालनेमिस्तदानीं प्रहस्यमानोऽतिरुषा बलान्वितः॥
कस्त्वं महाभाग वरेण्यरूपः श्यामो युवा वारणमत्तविक्रमः॥
करे गृहीतं निशितं महाप्रभं चक्रं च कस्मात्कथयस्व मे प्रभो॥ १३.१०० ॥

॥श्रीभगवानुवाच॥
युद्धार्थमिह चायातो देवानां कार्यसिद्धये॥
त्वं स्थिरो भव रे मन्द दहाम्यद्य न संशयः॥ १३.१०१ ॥

श्रुत्वा भगवतो वाक्यं कालनेमिः प्रतापवान्॥
उवाच रुषितो भूत्वा भगवन्तमधोक्षजम्॥ १३.१०२ ॥

मूलभूतो हि देवानां भगवान्युद्धदुर्मदः॥
युद्धं कुरु मया सार्द्धं यदि शूरोऽसि सम्प्रति॥ १३.१०३ ॥

प्रहस्य भगवान्विष्णुरुवाचेदं महाप्रभः॥
गगनस्थो भव त्वं हि महीस्थोऽहं भवामि वै॥ १३.१०४ ॥

अप्रशस्तं च विषमं युद्धं चैव यथा भवेत्॥
तथा कुरु महाबाहो गगनो वा महीतले॥ १३.१०५ ॥

तथेति मत्वा हि महानुभावो दैत्यैः समेतोऽर्बुदसङ्ख्यकैश्च॥
सिंहोपरिस्थैश्च महानुभावैर्महाबलैः क्रूरतरैस्तदानीम्॥ १३.१०६ ॥

गगनमथ जगाहे मन्दमन्दं महात्मा ह्यसुरगणसमेतो विश्वरूपं जिघांसुः॥
त्रिशिखमपरमुग्रं गृह्य सन्देशचेष्टादशनविकृतवक्त्रो योद्धुकामो हरिं सः॥ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे समुद्रमन्थनाख्याने देवासुरसङ्ग्रामवर्णनन्नाम त्रयोदशोऽध्यायः॥ ॥