[अध्यायः ११]
वेदव्यासः
अध्यायः ११
॥महेश्वर उवाच॥
प्रतिपक्षे चतुर्थ्यां तु पूजनीयो गणाधिपः॥
स्नात्वा शुक्लतिलैः शुद्धैः शुक्लपक्षे सदा नृभिः॥ ११.१ ॥
कृत्वा चावस्यकं सर्वं गणेशस्यार्चनक्रियाम्॥
प्रयत्नेनैव कुर्वीत गन्धमाल्याक्षतादिभिः॥ ११.२ ॥
ध्यानमादौ प्रकर्तव्यं गणेशस्य यथाविधि॥
आगमा बहवो जाता गणेशस्य यथा मम॥ ११.३ ॥
बहुधोपासका यस्मात्तमः सत्त्वरजोन्विताः॥
गणभेदेन तान्येव नामानि बहुधाऽभवत्॥ ११.४ ॥
पञ्चवक्त्रो गणाध्यक्षो दशबाहुस्त्रिलोचनः॥
कान्तस्फटिकसङ्काशो नीलकण्ठो गजाननः॥ ११.५ ॥
मुखानि तस्य पञ्चैव कथयामि यतातथम्॥ ११.६ ॥
मध्यमं तु मुखं गौरं चतुर्दन्तं त्रिलोचनम्॥
शुण्डादण्डमनोज्ञं च पुष्करे मोदकान्वितम्॥ ११.७ ॥
तथान्यत्पीतवर्णं च नीलं च शुभलक्षणम्॥
पिङ्गलं च तथा शुभ्रं गणेशस्य शुभाननम्॥ ११.८ ॥
तथा दशभुजेष्वेव ह्यायुधानि ब्रवीमि वः॥
पाशं पस्शुपद्मे च अङ्कुशं दन्तमेव च॥ ११.९ ॥
अक्षमालां लाङ्गलं च मुसलं वरदं तथा॥
पूर्णं च मोदकैः पात्रं पाणिना च विचिन्तयेत्॥ ११.१० ॥
लम्बोदर विरूपाक्षं निवीतं मेखलान्वितम्॥
योगासने चोपविष्टं चन्द्रलेखां कशेखरम्॥ ११.११ ॥
ध्यानं च सात्त्विकं ज्ञेयं राजसं हि नृणामिव॥
शुद्धचामीकराभासं गजाननमलौकिकम्॥ ११.१२ ॥
चतुर्भुजं त्रिनयनमेकदन्तं महोदरम्॥
पाशाङ्कुशधरं देवं दन्तमोदकपात्रकम्॥ ११.१३ ॥
नीलं च तामसं ध्यानमेवं त्रिविधमुच्यते॥
ततः पूजा प्रकर्तव्या भवद्भिः शीघ्रमेव च॥ ११.१४ ॥
एकविंशतिदूर्वाभिर्द्वाभ्यां नाम्ना पृथक्पृथक्॥
सर्वनामभिरेकैव दीयते गणनायके॥ ११.१५ ॥
तथैव नामभिर्देया एकविंशतिमोदकाः॥
दशनामान्यहं वक्ष्ये पूजनार्थं पृथक्पृथक्॥ ११.१६ ॥
गणाधिप नमस्तेस्तु उमापुत्राघनाशन॥
विनायकेशपुत्रोति सर्वसिद्धिप्रदायक॥ ११.१७ ॥
एकदन्तेभवक्त्रेति तथा मूषकवाहन॥
कुमारगुरवे तुभ्यं पूजनीयः प्रयत्नतः॥ ११.१८ ॥
एवमुक्त्वा सुरान्सद्यः परिष्वज्य च सादरम्॥
विष्णुं गुहाशयं सद्यो ब्रह्माणं च सदाशिवः॥ ११.१९ ॥
तिरोधान गतः सद्यः शम्भुः परमशोभनः॥
प्रणम्य शम्भुं ते सर्वे गणाध्यक्षार्च्चने रताः॥ ११.२० ॥
ततः सम्पूज्य विधिवद्गणाध्यक्षार्च्चने रताः॥
उपचारैरनेकैश्च दूर्वाभिश्च पृथक्पृथक्॥ ११.२१ ॥
सन्तुष्टो हि गणाध्यक्षो देवानां वरदोऽभवत्॥
प्रदक्षिणं नमस्कृत्य तैः सर्वैरभितोषितः॥ ११.२२ ॥
तमोगुणान्विताः सर्वे ह्यसुरा नाभ्यपूजयन्॥
उपहासपरास्ते वै देवान्प्रत्यसुरोत्तमाः॥ ११.२३ ॥
पूजयित्वा शाङ्करिं ते पुनः क्षीरार्णवं ययुः॥
ब्रह्मा विष्णुश्च ऋषयो देवदैत्याः सुरोत्तमाः॥ ११.२४ ॥
मन्थानं मन्दरं कृत्वा रज्जुं कृत्वाथ वासुकिम्॥
ममन्थुश्च तदा देवा विष्णुं कृत्वाथ सन्निधौ॥ ११.२५ ॥
मथ्यमाने तदाब्धौ च निर्गतश्चन्द्र अग्रतः॥
पीयूषपूर्णः सर्वेषां देवानां कार्यसिद्धये॥ ११.२६ ॥
॥ शौनक उवाच॥
अर्णवे किं पुरा चन्द्रो निक्षिप्तः केन सुव्रत॥
गजादिकानि रत्नानि कथितानि त्वया पुरा॥ ११.२७ ॥
एतत्सर्वं समासेन आदौ कथय मे प्रभो॥
ज्ञात्वा सर्वे वयं सूत पश्चादावर्णयामहे॥ ११.२८ ॥
तेषां तद्वचनं श्रुत्वा सूतो वाक्यमुपाददे॥ ११.२९ ॥
चन्द्र आपोमयो विप्रा अत्रिपुत्रो गुणान्वितः॥
उत्पन्नो ह्यनसूयायां ब्रह्मणोंऽशात्समुद्भवः॥
रुद्रस्यांशाद्धि दुर्वासा विष्णोरंशात्तु दत्तकः॥ ११.३० ॥
क्षीराब्धिं मथ्यमानं तु दृष्ट्वा चन्द्रो मुदान्वितः॥
क्षीराब्धिरपि चन्द्रं च दृष्ट्वा सोऽप्युत्सुकोऽभवत्॥ ११.३१ ॥
प्रविष्टश्चोभयप्रीत्या श्रृण्वतां भो द्विजोत्तमाः॥
चन्द्रो ह्यमृत पूर्णोभूदग्रतो देवसन्निधौ॥ ११.३२ ॥
दृष्ट्वा च कान्तिं त्वरितोऽथ चन्द्रो नीराजितो देवगणैस्तदानीम्॥
वादित्रगोषैस्तुमुलैरनेकैर्मृदङ्गशङ्खैः पटहैरनेकैः॥ ११.३३ ॥
नमश्चक्रुश्च ते सर्वे ससुरासुरदानवाः॥
तदा गर्गं पृच्छमाना बलं चन्द्रस्य तत्त्वतः॥ ११.३४ ॥
गर्गेणोक्तास्तदा सर्वेषां बलमद्य वै॥
केन्द्रस्थानगताः सर्वे भवतामुत्तमा ग्रहाः॥ ११.३५ ॥
चन्द्रं मुरुः समायातो बुधश्चैव समागतः॥
आदित्यश्च तथा शुक्रः शनिरङ्गारको महान्॥ ११.३६ ॥
तस्माच्चन्द्रबलं श्रेष्ठं भवतां कार्यसिद्धये॥
गोमन्तसञ्ज्ञकोनाम मुहूर्तोऽयं जयप्रदः॥ ११.३७ ॥
एवमाश्वासिता देवा गर्गेणैव महात्मना॥
ममन्थुरब्धिं त्वरिता गर्जमाना महाबलाः॥ ११.३८ ॥
द्विगुणं बलमापन्ना महात्मानो दृढव्रताः॥
महेशं स्मरमाणास्ते गणेशं च पुनः पुनः॥ ११.३९ ॥
निर्मथ्यमानादुदधेर्गर्जमानाच्च सर्वशः॥
निर्गता सुरभिः साक्षाद्देवानां कार्यसिद्धये॥ ११.४० ॥
तुष्टा कपिलवर्णां सा ऊधोभारेण भूयसा॥
तरङ्गोपरि गच्छन्ती शनकैः शनकैस्ततः॥ ११.४१ ॥
कामधेनुं समायान्तीं दृष्ट्वा सर्वे सुरासुराः॥
पुष्पवर्षेण महता ववर्षुरमितप्रभाम्॥ ११.४२ ॥
तदा तूर्याण्यनेकानि नेदुर्वाद्यान्यनेकशः॥
आनीता जलमध्याच्च संवृता गोशतैरपि॥ ११.४३ ॥
तासु नीलाश्च कृष्णश्च कपिलाश्च कपिञ्जलाः॥
बभ्रवः श्यामका रक्ता जम्बूवर्णाश्च पिङ्गलाः॥
आभिर्युक्ता तदा गोभिः सुरभिः प्रत्यदृश्यत॥ ११.४४ ॥
असुरासुरसंवीतां कामधेनुं ययाचिरे॥
ऋषयो हर्षसंयुक्ता देवान्दैत्यांश्च तत्क्षणात्॥ ११.४५ ॥
सर्वेभ्यश्चैव विप्रेभ्यो नानागोत्रेभ्य एव च॥
सुरभीसहिता गावो दातव्या नात्र संशयः॥ ११.४६ ॥
तैर्याचितास्तेऽत्र सुरासुराश्च ददुश्च ता गाः शिवतोषणाय॥
तैः स्वीकृतास्ता ऋषिभिः सुमङ्गलैर्महात्मभिः पुण्यतमैः सुरभ्यः॥ ११.४७ ॥
पुण्याहं मुनिभिः सर्वैः कारितास्ते तदा सुराः॥
देवानां कार्यसिद्ध्यर्थमसुराणां क्षयाय च॥ ११.४८ ॥
पुनः सर्वे सुसंरब्धा ममन्थुः क्षीरसागरम्॥
मथ्यमानात्तदा तस्मादुदधेश्च तथाऽभवत्॥ ११.४९ ॥
कल्पवृक्षः पारिजातश्चूतः सन्तानकस्तथा॥
तान्द्रुमानेकतः कृत्वा गन्धर्वनगरोपमान्॥
ममन्थुरुग्रं त्वरिताः पुनः क्षीरार्णवं बुधा॥ ११.५० ॥
निर्मथ्यमानादुदधेरभवत्सूर्यवर्चसम्॥
रत्नानामुत्तमं रत्नं कौस्तुभाख्यं महाप्रभम्॥ ११.५१ ॥
स्वकीयेन प्रकाशेन भासयन्तं जगत्त्रयम्॥
चिन्तामणिं पुरस्कृत्य कौस्तुभं ददृशुर्हि ते॥ ११.५२ ॥
सर्वे सुरा ददुस्तं वै कौस्तुभं विष्णवे तदा॥
चिन्तामणि ततः कृत्वा मध्ये चैव सुरासुराः॥
ममन्थुः पुनरेवाब्धिं गर्जन्तस्ते बलोत्कटाः॥ ११.५३ ॥
मथ्यमानात्ततस्तस्मादुच्चैःश्रवाः समद्भुतम्॥
बभूव अश्वो रत्नानां पुनश्चैरावतो गजः॥ ११.५४ ॥
तथैव गजरत्नं च चतुःषष्ट्या समन्वितम्॥
गजानां पाण्डुराणां च चतुर्द्दन्तं मदान्वितम्॥ ११.५५ ॥
तान्सर्वान्मध्यतः कृत्वा पुनश्चैव ममन्थिरे॥
निर्मथ्यमानादुदधेर्निर्गतानि बहून्यथ॥ ११.५६ ॥
मदिरा विजया भृङ्गी तथा लशुनगृञ्जनाः॥
अतीव उन्मादकरो धत्तूरः पुष्करस्तथा॥ ११.५७ ॥
स्थापिता नैकपद्येन तीरे नदनदीपतेः॥
पुनश्च ते तत्र महासुरेन्द्रा ममन्थुरब्धिं सुरसत्तमैः सह॥ ११.५८ ॥
निर्मथ्यमानादुदधेस्तदासीत्सा दिव्य लक्ष्मीर्भुवनैकनाथा॥
आन्वीक्षिकीं ब्रह्मविदो वदन्ति तथआ चान्ये मूलविद्यां गृणन्ति॥ ११.५९ ॥
ब्रह्मविद्यां केचिदाहुः समर्थाः केचित्सिद्धिमृद्धिमाज्ञा मथाशाम्॥
यां वैष्णवीं योगिनः केचिदाहुस्तथा च मायां मायिनो नित्ययुक्ताः॥ ११.६० ॥
वदन्ति सर्वे केनसिद्धान्तयुक्तां यां योगमायां ज्ञानशक्त्यान्विता ये॥ ११.६१ ॥
ददृशुस्तां महालक्ष्मीमायान्ती शनकैस्तदा॥
गौरां च युवतीं स्निग्धां पद्मकिञ्जल्कभूषणाम्॥ ११.६२ ॥
सुस्मितां सुद्विजां श्यामां नवयौवनभूषणाम्॥
विचित्रवस्त्राभरणरत्नानेकोद्यतप्रभाम्॥ ११.६३ ॥
बिम्बोष्ठीं सुनसां तन्वीं सुग्रीवां चारुलोचनाम्॥
सुमध्यां चारुजघनां बृहत्कटितटां तथा॥ ११.६४ ॥
नानारत्नप्रदीपैश्च नीराजितमुखाम्बुजाम्॥
चारुप्रसन्नवदनां हारनूपूरशोभिताम्॥ ११.६५ ॥
मूर्द्धनि ध्रियमाणेन च्छत्रेणापि विराजिताम्॥
चामरैर्वीज्यमानां तां गङ्गाकल्लोललोहितैः॥ ११.६६ ॥
पाण्डुरं गजमारूढां स्तूयमानां महर्षिभिः॥
सुरद्रुमपुष्पमालां बिभ्रतीं मल्लिकायुताम्॥ ११.६७ ॥
कराग्रे ध्रियमाणां तां दृष्ट्वा देवाः समुत्सुकाः॥
आलोकनपरा यावत्तावत्तान्ददृशे ह्यसौ॥ ११.६८ ॥
देवांश्च दानवांश्चैव सिद्धचारणपन्नगान्॥
यथा माता स्वपुत्रांश्च महालक्ष्मीस्तथा सती॥ ११.६९ ॥
आलोकितास्तथा देवास्तया लक्ष्म्या श्रियान्विताः॥
सञ्जातास्तत्क्षणादेव राज्य लक्षणलक्षिताः॥
दैत्यास्ते निःश्रिका जाता ये श्रियाऽनवलोकिताः॥ ११.७० ॥
निरीक्ष्यमाणा च तदा मुकुन्दं तमालनीलं सुकपोलनासम्॥
विभ्राजमानं वपुषा परेण श्रीवत्सलक्ष्मं सदयावलोकम्॥ ११.७१ ॥
दृष्ट्वा तदैव सहसा वनमालयान्विता लक्ष्मीर्गजादवततार सुविस्मयन्ती॥
कण्ठे ससर्ज पुरुषस्य परस्य विष्णोर्मालां श्रिया विरचितां भ्रमरैरुपेताम्॥
॥
वामाङ्गमाश्रित्य तदा महात्मनः सोपाविशत्तत्र समीक्ष्य ता उभौ॥
सुराः सदैत्या मुदमापुरद्भुतां सिद्धाप्सरः किन्नरचारणाश्च॥ ११.७३ ॥
सर्वेषामेव लोकानामैकपद्येन सर्वशः॥
हर्षो महानभूत्तत्र लक्ष्मीनारायणागमे॥ ११.७४ ॥
लक्ष्म्या वृतो महाविष्णुर्लक्ष्मीस्तेनैव संवृता॥
एवं परस्परं प्रीत्या ह्यवलोकनतत्परौ॥ ११.७५ ॥
शङ्खाश्च पटहाश्चैव मृदङ्गानकगोमुखाः॥
भेर्यश्च झर्झरीणां च स शब्दस्तुमुलोऽभवत्॥ ११.७६ ॥
बभूव गायकानां च गायनं सुमहत्तदा॥
ततानि विततान्येन घानानि सुषिराणि च॥ ११.७७ ॥
एवं वाद्यप्रभेदैश्च विष्णुं सर्वात्मना हरिम्॥
अतोषयन्सुगीतज्ञा गन्धर्वाप्सरसां गणाः॥ ११.७८ ॥
तथा जगुर्नारदतुम्बुरादयो गन्धर्वयक्षाः सुरसिद्ध सङ्घाः॥
संसेवमानाः परमात्मरूपं नारायणं देवमगाधबोधम्॥ ११.७९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने लक्ष्मीप्रादुर्भाववर्णनन्नामैकादशोऽध्यायः॥ ११ ॥