[अध्यायः १०]
वेदव्यासः
अध्यायः १०
॥मुनय ऊचुः॥
विश्वास-प्रस्तुतिः
यत्त्वया कथितं ब्रह्मन्ब्रह्माण्डं सचराचरम्॥
भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम्॥ १०.१ ॥
मूलम्
यत्त्वया कथितं ब्रह्मन्ब्रह्माण्डं सचराचरम्॥
भस्मीभूतं रुद्रकोपात्कालकूटाग्निनाऽथ़खिलम्॥ १०.१ ॥
विश्वास-प्रस्तुतिः
ब्रह्माण्डान्तरतः किं तु रुद्रं मन्यामहे वयम्॥
तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम्॥ १०.२ ॥
मूलम्
ब्रह्माण्डान्तरतः किं तु रुद्रं मन्यामहे वयम्॥
तदा चराचरं नष्टं ब्रह्मविष्णुपुरोगमम्॥ १०.२ ॥
विश्वास-प्रस्तुतिः
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता॥
कुतो ब्रह्मा च विष्णुश्च कुतश्चन्द्रपुरोगमाः॥ १०.३ ॥
मूलम्
भस्मीभूतं रुद्रकोपात्कथं सृष्टिः प्रवर्तिता॥
कुतो ब्रह्मा च विष्णुश्च कुतश्चन्द्रपुरोगमाः॥ १०.३ ॥
विश्वास-प्रस्तुतिः
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः॥
अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि॥ १०.४ ॥
मूलम्
अन्ये सुरा सुराः कुत्र भस्मीभूता लयं गताः॥
अत ऊर्ध्वं किमभवत्तत्सर्वं वक्तुमर्हसि॥ १०.४ ॥
विश्वास-प्रस्तुतिः
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत्॥
तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः॥ १०.५ ॥
मूलम्
व्यासप्रसादात्सकलं वेत्थ त्वं नापरो हि तत्॥
तस्माज्ज्ञानमयं शास्त्रं तज्जानासि न चापरः॥ १०.५ ॥
विश्वास-प्रस्तुतिः
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः॥
सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत्॥ १०.६ ॥
मूलम्
इति पृष्टस्तदा सर्वैर्मुनिभिर्भावितात्मभिः॥
सूतो व्यासं नमस्कृत्य वाक्यं चेदमथाब्रवीत्॥ १०.६ ॥
विश्वास-प्रस्तुतिः
॥ लोमश उवाच॥
यदा ब्रह्माण्डमध्यस्था व्याप्ता देवा विषाग्निना॥
हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः॥
तदा विज्ञापितः शम्भुर्हेरम्बेन महात्मना॥ १०.७ ॥
मूलम्
॥ लोमश उवाच॥
यदा ब्रह्माण्डमध्यस्था व्याप्ता देवा विषाग्निना॥
हरिब्रह्मादयो ह्येते लोकपालाः सवासवाः॥
तदा विज्ञापितः शम्भुर्हेरम्बेन महात्मना॥ १०.७ ॥
विश्वास-प्रस्तुतिः
॥हेरम्ब उवाच॥
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते॥
मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम्॥ १०.८ ॥
मूलम्
॥हेरम्ब उवाच॥
हे रुद्र हे महादेव हे स्थाणो ह जगत्पते॥
मया विघ्नं विनोदेन कृतं तेषां सुदुर्जयम्॥ १०.८ ॥
विश्वास-प्रस्तुतिः
भयेन मति मोहात्त्वां नार्च्चयन्ति च मामपि॥
उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत्॥ १०.९ ॥
मूलम्
भयेन मति मोहात्त्वां नार्च्चयन्ति च मामपि॥
उद्योगं ये प्रकुर्वन्ति तेषां क्लेशोऽधिको भवेत्॥ १०.९ ॥
विश्वास-प्रस्तुतिः
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः॥
विघ्नान्धकारसूर्येण गणाधिपतिना तदा॥ १०.१० ॥
मूलम्
एवमभ्यर्थितस्तेन पिनाकी वृषभध्वजः॥
विघ्नान्धकारसूर्येण गणाधिपतिना तदा॥ १०.१० ॥
विश्वास-प्रस्तुतिः
लिङ्गरूपोऽब्रवीच्छम्भुर्निराकारो निरामयः॥
निरञ्जनो व्योमकेशः कपर्द्दी नीललोहितः॥ १०.११ ॥
मूलम्
लिङ्गरूपोऽब्रवीच्छम्भुर्निराकारो निरामयः॥
निरञ्जनो व्योमकेशः कपर्द्दी नीललोहितः॥ १०.११ ॥
विश्वास-प्रस्तुतिः
॥महेश्वर उवाच॥
हेरम्ब श्रृणु मे वाक्यं श्रद्धया परया युतः॥
अहङ्कारात्मकं चैव जगदेतच्चराचरम्॥ १०.१२ ॥
मूलम्
॥महेश्वर उवाच॥
हेरम्ब श्रृणु मे वाक्यं श्रद्धया परया युतः॥
अहङ्कारात्मकं चैव जगदेतच्चराचरम्॥ १०.१२ ॥
विश्वास-प्रस्तुतिः
स्थितिं करोत्यहङ्कारः प्रलयोत्पत्तिमेव च॥
जगदादौगणपते तदा विज्ञप्तिमात्रतः॥ १०.१३ ॥
मूलम्
स्थितिं करोत्यहङ्कारः प्रलयोत्पत्तिमेव च॥
जगदादौगणपते तदा विज्ञप्तिमात्रतः॥ १०.१३ ॥
विश्वास-प्रस्तुतिः
मायाविरहितं शान्तं द्वैताद्वैतपरं सदा॥
ज्ञप्तिमात्रस्वरूपं तत्सदानन्दैकलक्षणम्॥ १०.१४ ॥
मूलम्
मायाविरहितं शान्तं द्वैताद्वैतपरं सदा॥
ज्ञप्तिमात्रस्वरूपं तत्सदानन्दैकलक्षणम्॥ १०.१४ ॥
विश्वास-प्रस्तुतिः
॥गणपतिरुवाच॥
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः॥
तस्मात्त्वदपरं किञ्चिन्नान्यदस्ति परन्तप॥ १०.१५ ॥
मूलम्
॥गणपतिरुवाच॥
यदि त्वं केवलो ह्यात्मा परमानन्दलक्षणः॥
तस्मात्त्वदपरं किञ्चिन्नान्यदस्ति परन्तप॥ १०.१५ ॥
विश्वास-प्रस्तुतिः
नानारूपं कथं जातं सुरासुरविलक्षणम्॥
विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम्॥ १०.१६ ॥
मूलम्
नानारूपं कथं जातं सुरासुरविलक्षणम्॥
विचित्रं मोहजननं त्रिभिर्द्देवैश्च लक्षितम्॥ १०.१६ ॥
विश्वास-प्रस्तुतिः
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः॥
जातं संसारचक्रं च नित्यानित्यविलक्षणम्॥ १०.१७ ॥
मूलम्
भूतग्रामैश्चतुर्भिश्च नानाभेदैः समन्वितैः॥
जातं संसारचक्रं च नित्यानित्यविलक्षणम्॥ १०.१७ ॥
विश्वास-प्रस्तुतिः
परस्परविरोधेन ज्ञानवादेन मोहिताः॥
कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः॥ १०.१८ ॥
मूलम्
परस्परविरोधेन ज्ञानवादेन मोहिताः॥
कर्मवादरताः केचित्केचित्स्वगुणमाश्रिताः॥ १०.१८ ॥
विश्वास-प्रस्तुतिः
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः॥
एवं संशयमापन्नं त्राहि मां वृषभध्वज॥ १०.१९ ॥
मूलम्
ज्ञाननिष्ठाश्च ये केचित्परस्परविरोधिनः॥
एवं संशयमापन्नं त्राहि मां वृषभध्वज॥ १०.१९ ॥
विश्वास-प्रस्तुतिः
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो॥
एते चान्ये च बहवः कुतो जाताश्च कुत्र वै॥ १०.२० ॥
मूलम्
अहं गणश्च कुत्रत्याः क्व चायं वृषभः प्रभो॥
एते चान्ये च बहवः कुतो जाताश्च कुत्र वै॥ १०.२० ॥
विश्वास-प्रस्तुतिः
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै॥
प्रहस्य भगवाञ्छम्भुर्गणेशं वक्तुमुद्यतः॥ १०.२१ ॥
मूलम्
कृताः सर्वे महाभागाः सात्त्विका राजसाश्च वै॥
प्रहस्य भगवाञ्छम्भुर्गणेशं वक्तुमुद्यतः॥ १०.२१ ॥
विश्वास-प्रस्तुतिः
॥महेश्वर उवाच॥
कालशक्त्या च जातानि रजःसत्त्वतमांसि च॥
तैरावृतं जगत्सर्वं सदेवासुमानुषम्॥ १०.२२ ॥
मूलम्
॥महेश्वर उवाच॥
कालशक्त्या च जातानि रजःसत्त्वतमांसि च॥
तैरावृतं जगत्सर्वं सदेवासुमानुषम्॥ १०.२२ ॥
विश्वास-प्रस्तुतिः
परिदृश्यमानमेतच्चानश्वरं परमार्थतः॥
विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम्॥ १०.२३ ॥
मूलम्
परिदृश्यमानमेतच्चानश्वरं परमार्थतः॥
विद्ध्येतत्सर्वसिद्ध्यैव कृतकत्वाच्च नश्वरम्॥ १०.२३ ॥
विश्वास-प्रस्तुतिः
॥ लोमश उवाच॥
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः॥
लिङ्गरूपी विश्वरूपः प्रादुर्भूता सदाशिवात्॥ १०.२४ ॥
मूलम्
॥ लोमश उवाच॥
यावद्गणेशसंयुक्तो भाषमाणः सदाशिवः॥
लिङ्गरूपी विश्वरूपः प्रादुर्भूता सदाशिवात्॥ १०.२४ ॥
विश्वास-प्रस्तुतिः
शिवरूपा जगद्योनिः कार्यकारणरूपिणी॥
लिङ्गरूपी स भगवान्निमग्नस्तत्क्षणादभूत्॥ १०.२५ ॥
मूलम्
शिवरूपा जगद्योनिः कार्यकारणरूपिणी॥
लिङ्गरूपी स भगवान्निमग्नस्तत्क्षणादभूत्॥ १०.२५ ॥
विश्वास-प्रस्तुतिः
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा॥
गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः॥ १०.२६ ॥
मूलम्
एका स्थिता परा शक्तिर्ब्रह्मविद्यात्मलक्षणा॥
गणेशो विस्मयाविष्टो ह्यवलोकनतत्परः॥ १०.२६ ॥
विश्वास-प्रस्तुतिः
॥ऋषय ऊचुः॥
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम्॥
गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम्॥ १०.२७ ॥
मूलम्
॥ऋषय ऊचुः॥
प्रकृत्यन्तर्गतं सर्वं जगदेतच्चराचरम्॥
गणेशस्य पृथक्त्वं च कथं जातं तदुच्यताम्॥ १०.२७ ॥
विश्वास-प्रस्तुतिः
॥लोमश उवाच॥
साक्षात्प्रकृत्याः सम्भूतो गणेशो भगवानभूत्॥
यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः॥ १०.२८ ॥
मूलम्
॥लोमश उवाच॥
साक्षात्प्रकृत्याः सम्भूतो गणेशो भगवानभूत्॥
यथारूपः शिवः साक्षात्तद्रूपो हि गणेश्वरः॥ १०.२८ ॥
विश्वास-प्रस्तुतिः
शिवेन सह सङ्ग्रामो ह्यभूत्तस्य महात्मनः॥
अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम्॥ १०.२९ ॥
मूलम्
शिवेन सह सङ्ग्रामो ह्यभूत्तस्य महात्मनः॥
अज्ञानात्प्रकृतो भूत्वा बहुकालं निरन्तरम्॥ १०.२९ ॥
विश्वास-प्रस्तुतिः
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा॥
त्रिशूलेनाहनच्छम्भुः सगजं तमपातयत्॥ १०.३० ॥
मूलम्
तस्य दृष्ट्वा ह्यजेयत्वं गजारूढस्य तत्तदा॥
त्रिशूलेनाहनच्छम्भुः सगजं तमपातयत्॥ १०.३० ॥
विश्वास-प्रस्तुतिः
तदा स्तुतो महादेवः परशक्त्या परन्तपः॥
परशक्तिमुवाचेदं वरं वरय शोभने॥ १०.३१ ॥
मूलम्
तदा स्तुतो महादेवः परशक्त्या परन्तपः॥
परशक्तिमुवाचेदं वरं वरय शोभने॥ १०.३१ ॥
विश्वास-प्रस्तुतिः
तदा वृतो महादेवो वरेण परमेण हि॥
योऽयं त्वया हतो देव मम पुत्रो न संशयः॥ १०.३२ ॥
मूलम्
तदा वृतो महादेवो वरेण परमेण हि॥
योऽयं त्वया हतो देव मम पुत्रो न संशयः॥ १०.३२ ॥
विश्वास-प्रस्तुतिः
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः॥
तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च॥ १०.३३ ॥
मूलम्
त्वां न जानात्ययं मूढः प्रकृत्यंशसमुद्भवः॥
तस्मात्पुत्रं जीवयेमं मम तृष्ट्यर्थमेव च॥ १०.३३ ॥
विश्वास-प्रस्तुतिः
प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत्॥
सिन्धुरवदनेनैव मुखे स समयोजयत्॥ १०.३४ ॥
मूलम्
प्रहस्य भगवान्रुद्रो मायापुत्रमजीवयत्॥
सिन्धुरवदनेनैव मुखे स समयोजयत्॥ १०.३४ ॥
विश्वास-प्रस्तुतिः
तदा गजाननो जातः प्रसादाच्छङ्करस्य च॥
मायापुत्रोपि निर्मायो ज्ञानवान्सम्बभूव ह॥ १०.३५ ॥
मूलम्
तदा गजाननो जातः प्रसादाच्छङ्करस्य च॥
मायापुत्रोपि निर्मायो ज्ञानवान्सम्बभूव ह॥ १०.३५ ॥
विश्वास-प्रस्तुतिः
आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः॥
समाधिसंस्थितो रौद्रः कालकालान्तकोऽभवत्॥ १०.३६ ॥
मूलम्
आत्मज्ञानामृतेनैव नित्यतृप्तो निरामयः॥
समाधिसंस्थितो रौद्रः कालकालान्तकोऽभवत्॥ १०.३६ ॥
विश्वास-प्रस्तुतिः
योगदण्डार्थमुत्पाट्य स्वकीयं दशनं महत्॥
करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते॥
ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः॥ १०.३७ ॥
मूलम्
योगदण्डार्थमुत्पाट्य स्वकीयं दशनं महत्॥
करे गृह्य गणाध्यक्षः शब्धब्रह्मातिवर्त्तते॥
ऋद्धिसिद्धिद्वयेनैव एकत्वेन विराजितः॥ १०.३७ ॥
विश्वास-प्रस्तुतिः
ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि॥
तेषामपि पतिर्जातः कृतोऽसौ शम्भुना तदा॥ १०.३८ ॥
मूलम्
ये ते गणाश्च विघ्नाश्च ये चान्येऽभ्यधिका भुवि॥
तेषामपि पतिर्जातः कृतोऽसौ शम्भुना तदा॥ १०.३८ ॥
विश्वास-प्रस्तुतिः
तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम्॥
पृथक्स्थित्वाग्रतो जानाल्लिङ्गं प्रकृतिमेव च॥
ददर्श विमलं लिङ्गं प्रकृतिस्थं स्वभावतः॥ १०.३९ ॥
मूलम्
तस्माद्वि लोकयामास प्रकृतिं विश्वरूपिणीम्॥
पृथक्स्थित्वाग्रतो जानाल्लिङ्गं प्रकृतिमेव च॥
ददर्श विमलं लिङ्गं प्रकृतिस्थं स्वभावतः॥ १०.३९ ॥
विश्वास-प्रस्तुतिः
आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम्॥
लीनं लिङ्गे समस्तं तद्धेरम्बो ज्ञानवानपि॥ १०.४० ॥
मूलम्
आत्मानं च गणैः साद्धं तथैव च जगत्त्रयम्॥
लीनं लिङ्गे समस्तं तद्धेरम्बो ज्ञानवानपि॥ १०.४० ॥
विश्वास-प्रस्तुतिः
मुमोह च पुनः सञ्ज्ञां प्रतिलभ्य प्रयत्नतः॥
ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः॥ १०.४१ ॥
मूलम्
मुमोह च पुनः सञ्ज्ञां प्रतिलभ्य प्रयत्नतः॥
ननाम शिरसा ताभ्यामीशाभ्यां स गणेश्वरः॥ १०.४१ ॥
विश्वास-प्रस्तुतिः
तदा ददर्श तत्रैव लोकसंहारकारकम्॥
ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम्॥ १०.४२ ॥
मूलम्
तदा ददर्श तत्रैव लोकसंहारकारकम्॥
ब्रह्माणं चैव रुद्रं च विष्णुं चैव सदाशिवम्॥ १०.४२ ॥
विश्वास-प्रस्तुतिः
ददर्श प्रेततुल्यानि लिङ्गशक्त्यात्मकानि च॥
ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत्॥ १०.४३ ॥
मूलम्
ददर्श प्रेततुल्यानि लिङ्गशक्त्यात्मकानि च॥
ब्रह्माण्डगोलकान्येव कोटिशः परमाणुवत्॥ १०.४३ ॥
विश्वास-प्रस्तुतिः
लीयन्ते च विलीयन्ते महेशे लिङ्गरूपिणि॥
प्रकृत्यन्तर्गतं लिङ्गं लिङ्गस्यान्तर्गता च सा॥ १०.४४ ॥
मूलम्
लीयन्ते च विलीयन्ते महेशे लिङ्गरूपिणि॥
प्रकृत्यन्तर्गतं लिङ्गं लिङ्गस्यान्तर्गता च सा॥ १०.४४ ॥
विश्वास-प्रस्तुतिः
शक्त्या लिङ्गं च सञ्छन्नं तदा सर्वमदृश्यत॥
लिङ्गेन शक्तिः सञ्छन्ना परस्परमवर्तत॥ १०.४५ ॥
मूलम्
शक्त्या लिङ्गं च सञ्छन्नं तदा सर्वमदृश्यत॥
लिङ्गेन शक्तिः सञ्छन्ना परस्परमवर्तत॥ १०.४५ ॥
विश्वास-प्रस्तुतिः
शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम्॥
गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन्॥ १०.४६ ॥
मूलम्
शिवाभ्यां संश्रितं लोकं जगदेतच्चराचरम्॥
गणेशो वापि तज्ज्ञानं न परेऽपि तथाविदन्॥ १०.४६ ॥
विश्वास-प्रस्तुतिः
तदोवाच महातेजा गणाध्यक्षो गणैः सह॥
सशक्तिकं स्तूयमानः शक्त्या च परया तदा॥ १०.४७ ॥
मूलम्
तदोवाच महातेजा गणाध्यक्षो गणैः सह॥
सशक्तिकं स्तूयमानः शक्त्या च परया तदा॥ १०.४७ ॥
विश्वास-प्रस्तुतिः
॥गणेश उवाच॥
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं
परमञ्ज्योतिरूपम्॥
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मङ्गलं च आनन्दाख्यं निष्कलं
निर्विषादम्॥ १०.४८ ॥
मूलम्
॥गणेश उवाच॥
नमामि देवं शक्त्यान्वितं ज्ञानरूपं प्रसन्नं ज्ञानात्परं
परमञ्ज्योतिरूपम्॥
रूपात्परं परमं तत्त्वरूपं तत्त्वात्परं परमं मङ्गलं च आनन्दाख्यं निष्कलं
निर्विषादम्॥ १०.४८ ॥
विश्वास-प्रस्तुतिः
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते॥
प्रकृत्यन्तर्गस्त्वं हि लक्ष्यसे ज्ञानिसम्भवः॥
प्रकृत्यन्तर्गतस्त्वं हि मायाव्यक्तिरितीयसे॥ १०.४९ ॥
मूलम्
धूमात्परमयोवह्निर्धूमवत्प्रतिभासते॥
प्रकृत्यन्तर्गस्त्वं हि लक्ष्यसे ज्ञानिसम्भवः॥
प्रकृत्यन्तर्गतस्त्वं हि मायाव्यक्तिरितीयसे॥ १०.४९ ॥
विश्वास-प्रस्तुतिः
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुम्पसि पासि विश्वम्॥
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेन्द्रयुतं चराचरम्॥ १०.५० ॥
मूलम्
एवंविधस्त्वं भगवन्स्वमायया सृजस्यथोलुम्पसि पासि विश्वम्॥
अस्माद्गरात्सर्वमिदं प्रनष्टं सब्रह्मविप्रेन्द्रयुतं चराचरम्॥ १०.५० ॥
विश्वास-प्रस्तुतिः
यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा॥
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम्॥ १०.५१ ॥
मूलम्
यथा पुरासीर्भगवान्महेशस्त्रैलोक्यनाथोऽसि चराचरात्मा॥
कुरुष्य शीघ्रं सहजीवकोशं चराचरं तत्सकलं प्रदग्धम्॥ १०.५१ ॥
विश्वास-प्रस्तुतिः
॥ लोमश उवाच॥
एवं स्तुतो गणेशेन भगवान्भूतभावनः॥
यदुत्थितं कालकूटं लोकसंहारकारकम्॥ १०.५२ ॥
मूलम्
॥ लोमश उवाच॥
एवं स्तुतो गणेशेन भगवान्भूतभावनः॥
यदुत्थितं कालकूटं लोकसंहारकारकम्॥ १०.५२ ॥
विश्वास-प्रस्तुतिः
लिङ्गरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा॥
सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च॥
तत्क्षणाद्रक्षितान्येव कृपया परया युतः॥ १०.५३ ॥
मूलम्
लिङ्गरूपेण तद्ग्रस्तं विमलं चाकरोत्तदा॥
सदेवासुरमर्त्याश्च सर्वाणि त्रिजगन्ति च॥
तत्क्षणाद्रक्षितान्येव कृपया परया युतः॥ १०.५३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा विष्णुः सुरेन्द्रश्च लोकपालाः सहर्षयः॥
यक्षा विद्याधराः सिद्धा गन्धर्वाप्सरसां गणाः॥
उत्थिताश्चैव ते सर्वे निद्रापरिगता इव॥ १०.५४ ॥
मूलम्
ब्रह्मा विष्णुः सुरेन्द्रश्च लोकपालाः सहर्षयः॥
यक्षा विद्याधराः सिद्धा गन्धर्वाप्सरसां गणाः॥
उत्थिताश्चैव ते सर्वे निद्रापरिगता इव॥ १०.५४ ॥
विश्वास-प्रस्तुतिः
विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः॥
सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः॥ १०.५५ ॥
मूलम्
विस्मयेन समाविष्टा बभूवुर्जातसाध्वसाः॥
सर्वे देवासुराश्चैव ऊचुराश्चर्यवत्ततः॥ १०.५५ ॥
विश्वास-प्रस्तुतिः
क्व कालकूटं सुमहद्येन विद्राविता वयम्॥
मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी॥ १०.५६ ॥
मूलम्
क्व कालकूटं सुमहद्येन विद्राविता वयम्॥
मृतप्रायाः कृताः सद्यः सलोकपालका ह्यमी॥ १०.५६ ॥
विश्वास-प्रस्तुतिः
इत्यब्रुवंस्तदा दैत्यास्तूष्णीम्भूतास्तदा स्थिताः॥
शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम्॥
ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता॥ १०.५७ ॥
मूलम्
इत्यब्रुवंस्तदा दैत्यास्तूष्णीम्भूतास्तदा स्थिताः॥
शक्रादयो लोकपाला विष्णुं सर्वेश्वरेश्वरम्॥
ब्रह्माणं च पुरस्कृत्य इदमूचुः समेधिता॥ १०.५७ ॥
विश्वास-प्रस्तुतिः
केनेदं कारितं विष्णो न विदामोऽल्पमेधसः॥
तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः॥ १०.५८ ॥
मूलम्
केनेदं कारितं विष्णो न विदामोऽल्पमेधसः॥
तदा प्रहस्य भगवान्ब्रह्मणा सह तैः सुरैः॥ १०.५८ ॥
विश्वास-प्रस्तुतिः
समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा॥
तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः॥ १०.५९ ॥
मूलम्
समाधिमगमन्सर्वेऽप्येकाग्रमनसस्तदा॥
तत्त्वज्ञानेन निर्हृत्य कामक्रोदादिकान्द्विजाः॥ १०.५९ ॥
विश्वास-प्रस्तुतिः
तदात्मनि स्थितं लिङ्गम्
अपश्यन् विबुधादयः॥
विष्णुं पुरस्कृत्य तदा
तुष्टुवुः परमार्थतः॥ १०.६० ॥
मूलम्
तदात्मनि स्थितं लिङ्गमपश्यन्वि बुधादयः॥
विष्णुं पुरस्कृत्य तदा तुष्टुवुः परमार्थतः॥ १०.६० ॥
विश्वास-प्रस्तुतिः
आत्मना परमात्मानं
योगिनः पर्युपासते॥ १०.६१ ॥
लिङ्गम् एव परं ज्ञानं
लिङ्गम् एव परं तपः॥
लिङ्गम् एव परो धर्मो
लिङ्गम् एव परा गतिः॥
तस्माल् लिङ्गात् परतरं
यच् च किञ्चिन् न विद्यते॥ १०.६२ ॥
मूलम्
आत्मना परमात्मानं योगिनः पर्युपासते॥ १०.६१ ॥
लिङ्गमेव परं ज्ञानं लिङ्गमेव परं तपः॥
लिङ्गमेव परो धर्मो लिङ्गमेव परा गतिः॥
तस्माल्लिङ्गात्परतरं यच्च किञ्चिन्न विद्यते॥ १०.६२ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवन्तो हि तदा सुरासुराः
सलोकपाला ऋषिभिश्च साकम्॥
विष्णुं पुरस्कृत्य तमालवर्णं
शम्भुं शरण्यं शरणं प्रपन्नाः॥ १०.६३ ॥
मूलम्
एवं ब्रुवन्तो हि तदा सुरासुराः सलोकपाला ऋषिभिश्च साकम्॥
विष्णुं पुरस्कृत्य तमालवर्णं शम्भुं शरण्यं शरणं प्रपन्नाः॥ १०.६३ ॥
विश्वास-प्रस्तुतिः
त्राहि त्राहि महादेव
कृपालो परमेश्वर॥
पुरा त्राता यथा सर्वे
तथा त्वं त्रातुमर्हसि॥ १०.६४ ॥
मूलम्
त्राहित्राहि महादेव कृपालो परमेश्वर॥
पुरा त्राता यथा सर्वे तथात्वं त्रातुमर्हसि॥ १०.६४ ॥
विश्वास-प्रस्तुतिः
तद् देवदेव भवतश् चरणारविन्दं
सेवानुबन्ध-महिमानम् अनन्त-रूपम्॥
त्वद्-आश्रितं यत् परमानुकम्पया
नमो ऽस्तु ते देववर प्रसीद॥ १०.६५ ॥
मूलम्
तद्देवदेव भवतश्चरणारविन्दं सेवानुबन्धमहिमानमनन्तरूपम्॥
त्वदाश्रितं यत्परमानुकम्पया नमोऽस्तु ते देववर प्रसीद॥ १०.६५ ॥
विश्वास-प्रस्तुतिः
लिङ्गस्वरूप-मध्यस्थो
भगवान् भूत-भावनः॥
+++(तम् प्रति)+++ सर्वैः सुर-गणैः साकं
बभाषेदं रमापतिः॥ १०.६६ ॥
मूलम्
लिङ्गस्वरूपमध्यस्थो भगवान्भूतभावनः॥
सर्वैः सुरगणैः साकं बभाषेदं रमापतिः॥ १०.६६ ॥
विश्वास-प्रस्तुतिः
त्वं लिङ्गरूपी भगवाञ्
जगताम् अभयप्रदः॥
विष्णुना संस्तुतो देवो
लिङ्गरूपी महेश्वरः॥ १०.६७ ॥
मूलम्
त्वं लिङ्गरूपी भगवाञ्जगतामभयप्रदः॥
विष्णुना संस्तुतो देवो लिङ्गरूपी महेश्वरः॥ १०.६७ ॥
विश्वास-प्रस्तुतिः
मृतास्त्राता गरात्सर्वे तस्मान्मृत्युञ्जय प्रभो॥
रक्षरक्ष महाकाल त्रिपुरान्त नमोस्तु ते॥ १०.६८ ॥
मूलम्
मृतास् त्राता गरात्+++(=??)+++ सर्वे
तस्मान्मृत्युञ्जय प्रभो॥
रक्ष रक्ष महाकाल
त्रिपुरान्त नमोस्तु ते॥ १०.६८ ॥
विश्वास-प्रस्तुतिः
विष्णुना संस्तुतो देवो
लिङ्गरूपी महेश्वरः॥
प्रादुर्बभूव साम्बोऽथ
बोधयन्निव तान् सुरान्॥ १०.६९ ॥
मूलम्
विष्णुना संस्तुतो देवो लिङ्गरूपी महेश्वरः॥
प्रादुर्बभूव साम्बोऽथ बोधयन्निव तान्सुरान्॥ १०.६९ ॥
विश्वास-प्रस्तुतिः
हे विष्णो हे सुराः सर्व
ऋषयः श्रूयताम् इदम्॥
मन्यतेऽपि हि संसारे
अनित्ये नित्यताकुलम्॥ १०.७० ॥
मूलम्
हे विष्णो हे सुराः सर्व ऋषयः श्रूयतामिदम्॥
मन्यतेऽपि हि संसारे अनित्ये नित्यताकुलम्॥ १०.७० ॥
विश्वास-प्रस्तुतिः
अविलोकयताऽऽत्मा
ऽऽत्मना विबुधादयः॥
किं यज्ञैः किं तपोभिश् च
किमुद्योगेन कर्मणाम्॥ १०.७१ ॥
मूलम्
अविलोकयताऽऽत्मात्मना विबुधादयः॥
किं यज्ञैः किं तपोभिश्च किमुद्योगेन कर्मणाम्॥ १०.७१ ॥
विश्वास-प्रस्तुतिः
एकत्वेन पृथक्त्वेन
किञ्चिन् नैव प्रयोजनम्॥
यस्माद् भवद्भिर् मिलितैः
कृतं यत् कर्म दुष्करम्॥ १०.७२ ॥
मूलम्
एकत्वेन पृथक्त्वेन किञ्चिन्नैव प्रयोजनम्॥
यस्माद्भवद्भिर्मिलितैः कृतं यत्कर्म दुष्करम्॥ १०.७२ ॥
विश्वास-प्रस्तुतिः
क्षीराब्धेर् मथनं तत् तु
अमृतार्थं कथं कृतम्॥
मृत्युं-जयं निराकृत्य
अवज्ञाय च मां सदा॥ १०.७३ ॥
मूलम्
क्षीराब्धेर्मथनं तत्तु अमृतार्थं कथं कृतम्॥
मृत्युं जयं निराकृत्य अवज्ञाय च मां सदा॥ १०.७३ ॥
विश्वास-प्रस्तुतिः
तस्मात् सर्वे मृत्यु-मुखं
पतिता वै न संशयः॥
अस्माभिर् निर्मितो
देवो गणेशः कार्य-सिद्धये॥ १०.७४ ॥
मूलम्
तस्मात्सर्वे मृत्युमुखं पतिता वै न संशयः॥
अस्माभिर्निर्मितो देवो गणेशः कार्यसिद्धये॥ १०.७४ ॥
विश्वास-प्रस्तुतिः
न नमन्ति गणेशं च
दुर्गां चैव तथाविधाम्॥
क्लेश-भाजो भविष्यति
नात्र कार्या विचारणा॥ १०.७५ ॥
मूलम्
न नमन्ति गणेशं च दुर्गां चैव तथाविधाम्॥
क्लेशभाजो भविष्यति नात्र कार्या विचारणा॥ १०.७५ ॥
विश्वास-प्रस्तुतिः
यूयं सर्वे त्वधर्मिष्ठाः
स्तब्धाः पण्डितमानिनः॥
कार्याकार्यम् अविज्ञाय
केवलं मान-मोहिताः॥ १०.७६ ॥
मूलम्
यूयं सर्वे त्वधर्मिष्ठाः स्तब्धाः पण्डितमानिनः॥
कार्याकार्यमविज्ञाय केवलं मानमोहिताः॥ १०.७६ ॥
विश्वास-प्रस्तुतिः
तस्मात् काल-मुखे सर्वे
पतिता नात्र संशयः॥
सर्वे श्रुतिपरा यूयम्
इन्द्राद्या देवता-गणाः॥ १०.७७ ॥
मूलम्
तस्मात्कालमुखे सर्वे पतिता नात्र संशयः॥
सर्वे श्रुतिपरा यूयमिन्द्राद्या देवतागणाः॥ १०.७७ ॥
विश्वास-प्रस्तुतिः
प्ररोचन-पराः सर्वे
क्षुद्राश् चेन्द्रादयो वृथा॥
नात्मानं च प्रपञ्चेन
वेत्सि त्वं हि शचीपते॥ १०.७८ ॥
मूलम्
प्ररोचनपराः सर्वे क्षुद्राश्चेन्द्रादयो वृथा॥
नात्मानं च प्रपञ्चेन वेत्सि त्वं हि शचीपते॥ १०.७८ ॥
विश्वास-प्रस्तुतिः
कृतः प्रयत्नो हि महान्
अमृतार्थं त्वया शठ॥
अश्वमेध-शतेनैव
यद् राज्यं प्राप्तवान् असि॥
अपि तच् च पराधीनं
तन् न जानासि दुर्मते॥ १०.७९ ॥
मूलम्
कृतः प्रयत्नो हि महानमृतार्थं त्वया शठ॥
अश्वमेधशतेनैव यद्राज्यं प्राप्तवानसि॥
अपि तच्च पराधीनं तन्न जानासि दुर्मते॥ १०.७९ ॥
विश्वास-प्रस्तुतिः
यैर् वद-वाक्यैस् त्वं मूढ
संस्तुतोऽसि तपस्विभिः॥
ते मूढास् तोषयन्ति त्वां
तत्-तद्-रागपरायणाः॥ १०.८० ॥
मूलम्
यैर्वदवाक्यैस्त्वं मूढ संस्तुतोऽसि तपस्विभिः॥
ते मूढास्तोषयन्ति त्वां तत्तद्रागपरायणाः॥ १०.८० ॥
विश्वास-प्रस्तुतिः
विष्णो त्वं च पक्षपातान्
न जानासि हिताहितम्॥
केचिद् +धतास् त्वया विष्णो
रक्षिताश् चैव केचन॥ १०.८१ ॥
मूलम्
विष्णो त्वं च पक्षपातान्न जानासि हिताहितम्॥
केचिद्धतास्त्वया विष्णो रक्षिताश्चैव केचन॥ १०.८१ ॥
विश्वास-प्रस्तुतिः
इच्छायुक्तस् त्वम् अत्रैव
सदा बालक-चेष्टितः॥
ये ऽन्ये च लोकपाः सर्वे
तेषां वार्ता कुतस् त्विह॥ १०.८२ ॥
मूलम्
इच्छायुक्तस्त्वमत्रैव सदा बालकचेष्टितः॥
येऽन्ये च लोकपाः सर्वे तेषां वार्ता कुतस्त्विह॥ १०.८२ ॥
विश्वास-प्रस्तुतिः
अन्यथा हि कृते ह्य् अर्थे
अन्यथात्वं भविष्यति॥
कार्यसिद्धिर् भवेद् येन
भवद्भिर् विस्मृतं च तत्॥ १०.८३ ॥
मूलम्
अन्यथा हि कृते ह्यर्थे अन्यथात्वं भविष्यति॥
कार्यसिद्धिर्भवेद्येन भवद्भिर्विस्मृतं च तत्॥ १०.८३ ॥
विश्वास-प्रस्तुतिः
येनाद्य रक्षिताः सर्वे
कालकूट-महाभयात्॥
येन नीलीकृतो विष्णुर्
येन सर्वे पराजिताः॥ १०.८४ ॥
मूलम्
येनाद्य रक्षिताः सर्वे कालकूटमहाभयात्॥
येन नीलीकृतो विष्णुर्येन सर्वे पराजिताः॥ १०.८४ ॥
विश्वास-प्रस्तुतिः
लोका भस्मीकृता येन
तस्माद् येनापि रक्षिताः॥
तस्यार्चनाविधिः कार्यो
गणेशस्य महात्मनः॥ १०.८५ ॥
मूलम्
लोका भस्मीकृता येन तस्माद्येनापि रक्षिताः॥
तस्यार्च्चनाविधिः कार्यो गणेशस्य महात्मनः॥ १०.८५ ॥
विश्वास-प्रस्तुतिः
कर्मारम्भे तु विघ्नेशं
ये नार्चन्ति गणाधिपम्॥
कार्यसिद्धिर् न तेषां वै
भवेत्तु भवतां यथा॥ १०.८६ ॥
मूलम्
कर्मारम्भे तु विघ्नेशं ये नार्चन्ति गणाधिपम्॥
कार्यसिद्धिर्न तेषां वै भवेत्तु भवतां यथा॥ १०.८६ ॥
विश्वास-प्रस्तुतिः
एतन्महेशस्य वचो निशम्य सुरासुराः किन्नरचारणाश्च॥
पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम्॥ १०.८७ ॥
मूलम्
एतन्महेशस्य वचो निशम्य सुरासुराः किन्नरचारणाश्च॥
पूजाविधानं परमार्थतोऽपि पप्रच्छुरेनं च तदा गिरीशम्॥ १०.८७ ॥
विश्वास-प्रस्तुतिः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनन्नाम दशमोऽध्यायः॥ १० ॥ छ ॥
मूलम्
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे समुद्रमन्थनाख्याने शिवकृतविषभक्षणवृत्तान्तवर्णनन्नाम दशमोऽध्यायः॥ १० ॥ छ ॥