[अध्यायः ०७]
वेदव्यासः
अध्यायः ७
॥लोमश उवाच॥
तदा च ते सुराः सर्व ऋषयोपि भयान्विताः॥
ईडिरे लिङ्गमैशं च ब्रह्माद्या ज्ञानविह्वलाः॥ ७.१ ॥
॥ब्रह्मोवाच॥
त्वं लिङ्गरूपी तु महाप्रभावो वेदान्तवेद्योसि महात्मरूपि॥
येनैव सर्वे जगदात्ममूलं कृतं सदानन्दपरेण नित्यम्॥ ७.२ ॥
त्वं साक्षी सर्वलोकानां हर्ता त्वं च विचक्षणः॥
रक्षणोसि महादेव भैरवोसि जगत्पते॥ ७.३ ॥
त्वया लिङ्गस्वरूपेण व्याप्तमेतज्जगत्त्रयम्॥
क्षुद्राश्चैव वयं नाथ मायामोहितचेतसः॥ ७.४ ॥
अहं सुराऽसुराः सर्वे यक्षगन्धर्वराक्षसाः॥
पन्नगाश्च पिशाचाश्च तथा विद्याधरा ह्यमी॥ ७.५ ॥
त्वंहि विश्वसृजां स्रष्टा त्वं हि देवो जगत्पतिः॥
कर्ता त्वं भुवनस्यास्य त्वं हर्ता पुरुषः परः॥ ७.६ ॥
त्राह्यस्माकं महादेव देवदेव नमोऽस्तु ते॥
एवं स्तुतो हि वै धात्रा लिङ्गरूपी महेश्वरः॥ ७.७ ॥
ऋषयः स्तोतुकामास्ते महेश्वरमकल्मषम्॥
अस्तुवन्गीर्भिरग्र्याभिः श्रुतिगीताभिरादृताः॥ ७.८ ॥
॥ऋषय ऊचुः॥
अज्ञानिनो वयं कामान्न विन्दामोऽस्य संस्थितिम्॥
त्वं ह्यात्मा परमात्मा च प्रकृतिस्त्वं विभाविनी॥ ७.९ ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमे॥
त्वमीश्वरो वेदविदेकरूपो महानुभावैः परिचिन्त्यमानः॥ ७.१० ॥
त्वमात्मा सर्वभूतानामेको ज्योतिरिवैधसाम्॥
सर्वं भवति यस्मात्त्वत्तस्मात्सर्वोऽसि नित्यदा॥ ७.११ ॥
यस्माच्च सम्भवत्येतत्तस्माच्छम्भुरिति प्रभुः॥ ७.१२ ॥
त्वत्पादपङ्कजं प्राप्ता वयं सर्वे सुरादयः॥
ऋषयो देवगन्धर्वा विद्याधरमहोरगाः॥ ७.१३ ॥
तस्माच्च कृपया शम्भो पाह्यस्माञ्जगतः पते॥ ७.१४ ॥
॥महादेव उवाच॥
श्रृणुध्वं तु वचो मेऽद्य क्रियतां च त्वरान्वितैः॥
विष्णुं सर्वे प्रार्थयन्तु त्वरितेन तपोधनाः॥ ७.१५ ॥
तस्य तद्वचनं श्रुत्वा शङ्करस्य महात्मनः॥
विष्णुं सर्वे नमस्कृत्य ईडिरे च तदा सुराः॥ ७.१६ ॥
॥देव ऊचुः॥
विद्याधराः सुरगणा ऋषयश्च सर्वे त्रातास्त्वयाद्य सकलाजगदेकबन्धो॥
तद्वत्कृपाकरजनान्परिपालयाद्य त्रैलोक्यनाथ जगदीश जगन्निवास॥ ७.१७ ॥
प्रहस्य भगवन्विष्णुरुवाचेदं वचस्तदा॥
दैत्यैः प्रपीडिता यूयं रक्षिताश्च पुरा मया॥ ७.१८ ॥
अद्यैव भयमुत्पन्नं लिङ्गादस्माच्चिरन्तनम्॥
न शक्यते मया त्रातुमस्माल्लिङ्गभयात्सुराः॥ ७.१९ ॥
अच्युतेनैवमुक्तास्ते देवा श्चिन्तान्विताभवन्॥
तदा नभोगता वाणी उवाचाश्वास्य वै सुरान्॥ ७.२० ॥
एतल्लिङ्गं संवृणुष्व पूजनाय जनार्दन॥
पिण्डिभूत्वा महाबाहो रक्षस्व सचराचरम्॥
तथेति मत्वा बगवान्वीरभद्रोऽभ्यपूजयत्॥ ७.२१ ॥
ब्रह्मादिभः सुरगणैः सहितैस्तदानीं सम्पूजितः शिवविधानरतो महात्मा॥
स्रवीरभद्रः शशिशेखरोऽसौ शिवप्रियो रुद्रसमस्त्रिलोक्याम्॥ ७.२२ ॥
लिङ्गस्यार्चनयुक्तोऽसौ वीरभद्रोऽभवत्तदा॥
तद्रूपस्यैव लिङ्गस्य येन सर्वमिदं जगत्॥ ७.२३ ॥
उद्भाति स्थितिमाप्नोति तथा विलयमेति च॥
तल्लिङ्गं लिङ्गमित्याहुर्लयनात्तत्त्ववित्तमाः॥ ७.२४ ॥
ब्रह्माण्डागोलकैर्व्याप्तं तथा रुद्राक्षभूषितम्॥
तथा लिङ्गं महज्जातं सर्वेषां दुरतिक्रमम्॥ ७.२५ ॥
तदा सर्वेऽथ विबुधा ऋषो वै महाप्रभाः॥
तुष्टुवुश्च महालिङ्गं वेदावादैः पृथक्पृथक्॥ ७.२६ ॥
अणोरणीयांस्त्वं देव तथा त्वं महतो महान्॥
तस्मात्त्वया विधातव्यं सर्वैषां लिङ्गपूजनम्॥ ७.२७ ॥
तदानीमेव सर्वेण लिङ्गं च बहुशः कृतम्॥
सत्ये ब्रह्मेश्वरं लिङ्गं वैकुण्ठे च सदाशिवः॥ ७.२८ ॥
अमरावत्यां सुप्रतिष्ठममरेश्वरसञ्ज्ञकम्॥
वरुणेश्वरं च वारुण्यां याम्यां कालेश्वरं प्रभुम्॥ ७.२९ ॥
नैर्ऋतेश्वरं च नैर्ऋत्यां वायव्यां पावनेश्वरम्॥
केदारं मृत्युलोके च तथैव अमरेस्वरम्॥ ७.३० ॥
ओङ्कारं नर्मदायां च महाकालं तथैव च॥
काश्यां विश्वेश्वरं देवं प्रयागे ललितेश्वरम्॥ ७.३१ ॥
त्रियम्बकं ब्रह्मगिरौ कलौ भद्रेश्वरं तथा॥
द्राक्षारामेश्वरं लिङ्गं गङ्गासागरसङ्गमे॥ ७.३२ ॥
सौराष्ट्रे च तथा लिङ्गं सोमेश्वरमिति स्मृतम्॥
तथा सर्वेश्वरं विन्ध्ये श्रीशैले शिखरेश्वरम्॥
कान्त्यामल्लालनाथं च सिंहनाथं च सिङ्गले॥ ७.३३ ॥
विरूपाक्षं तथा लिङ्गं कोटिशङ्करमेव च॥
त्रिपुरान्तकं भीमेशममरेश्वरमेव च॥ ७.३४ ॥
भोगेश्वरं च पाताले हाटकेश्वरमेव च॥
एवमादीन्यनेकानि लिङ्गानि भुवनत्रये॥
स्थापितानि तदा देवैर्विश्वोपकृतिहेतवे॥ ७.३५ ॥
लिङ्गेशैश्च तथा सर्वैः पूर्णमासीज्जगत्त्रयम्॥
तथा च वीरभद्रांशाः पूजार्थममरैः कृताः॥ ७.३६
तत्र विंशतिसंस्कारास्तेषामष्टाधिकाभवन्॥
कथिताः शङ्करेणैव लिङ्गस्याचनसूचकाः॥ ७.३७ ॥
सन्ति रुद्रेण कथिताः शिवधर्मा सनातनाः॥
वीरभद्रो यथा रुद्रस्तथान्ये गुरवः स्मृताः॥ ७.३८ ॥
गुरोर्जाताश्च गुरवो विख्याता भुवनत्रये॥
लिङ्गस्य महिमान तु नन्दी जानाति तत्त्वतः॥ ७.३९ ॥
तथा स्कन्दो हि भगवान्न्ये ते नामधारकाः॥
यथोक्ताः शिवधरमा हि नन्दिना परिकीर्त्तिताः॥ ७.४० ॥
शैलादेन महाभागा विचित्रा लिङ्गधारकाः॥
शवस्योपरि लिङ्गं च ध्रियते च पुरातनैः॥ ७.४१ ॥
लिङ्गेन सह पञ्चत्वं लिङ्गेन सह जीवितम्॥
एते धर्माः सुप्रतिष्ठाः शैलादेन प्रतिष्ठिताः॥ ७.४२ ॥
धर्मः पाशुपतः श्रेष्ठः स्कन्देन प्रतिपालितः॥ ७.४३ ॥
शुद्धा पञ्चाक्षरी विद्या प्रासादी(१) तदनन्तरम्॥
षडक्षरी तथा विद्या प्रासादस्य च दीपिका॥ ७.४४ ॥
स्कन्दात्तत्समनुप्राप्तमगस्त्येन महात्मना॥
पश्चादाचार्यभेदेन ह्यागमा बहवोऽभवन्॥ ७.४५ ॥
किं तु वै बहुनोक्तेन श्वि इत्यक्षरद्वयम्॥
उच्चारयन्ति स नित्यं ते रुद्रा नात्र संशयः॥ ७.४६ ॥
सतां मार्गं पुरस्कृत्य ये सर्वे ते पुरान्तकाः॥
वीरा माहेश्वराज्ञेयाः पापक्षयकरा नृणाम्॥ ७.४७ ॥
प्रसङ्गेनानुपङ्क्षेण श्रद्वया च यदृच्छया॥
शिवभक्तिं प्रकुर्वन्ति ये वै ते यान्ति सद्गतिम्॥ ७.४८ ॥
श्रृणुध्वं कथयामीह इतिहासं पुरातनम्॥
कृतं शिवालयं यच्च पतङ्ग्या मार्जनं पुरा॥ ७.४९ ॥
आगता भक्षणार्थं हि नैवेद्यं केन चार्पितम्॥
मार्जनं रजस्तस्याः पक्षाभ्यामभवत्पुरा॥ ७.५० ॥
तेन कर्मविपाकेन उत्तमं स्वर्गमागता॥
भुक्त्वा स्वर्गसुखं चोग्रं पुनः संसारमागता॥ ७.५१ ॥
काशिराजसुता जाता सुन्दरीनाम विश्रुता॥
पूर्वाभ्यासाच्च कल्याणी बभूव परमा सती॥ ७.५२ ॥
उषस्युषसि तन्वङ्गी शिवद्वाररता सदा॥
सम्मार्जनं च कुरुते भक्त्या परमया युता॥ ७.५३ ॥
स्वयमेव तदा देवी सुन्दरी राजकन्यका॥
तथाभूतां च तां दृष्ट्वा ऋषिरुद्दालकोऽब्रवीत्॥ ७.५४ ॥
सुकुमारी सती बाले स्वयमेव कथं शुभे॥
सम्मार्जनं च कुरुषे कन्यके त्वं शुचिस्मिते॥ ७.५५ ॥
दासी दास्यश्च बहवः सन्ति देवि तवाग्रतः॥
तवाज्ञया करिष्यन्ति सर्वं सम्मार्जनादिकम्॥ ७.५६ ॥
ऋषेस्तद्वचनं श्रुत्वा प्रहस्येदमुवाच ह॥ ७.५७ ॥
शिवसेवां प्रकुर्वाणाः शिवभक्तिपुरस्कृताः॥
ये नराश्चैव नार्य्यश्च शिवलोकं व्रजन्ति वै॥ ७.५८ ॥
सम्मार्जनं च पाणिभ्यां पद्भ्यां यानं शिवालये॥
तस्मान्मया च क्रियते सम्मार्जनमतन्द्रितम्॥ ७.५९ ॥
अन्यत्किञ्चिन्न जानामि एकं सम्मार्जनं विना॥
ऋषिस्तद्वचनं श्रुत्वा मनसा च विमृश्य हि॥ ७.६० ॥
अनया किं कृतं पूर्वं केयं कस्य प्रसादतः॥
तदा ज्ञानं च ऋषिणा तत्सर्वं ज्ञानचक्षुषा॥
विस्मयेन समाविष्टस्तूष्णीम्भूतोऽभवत्तदा॥ ७.६१ ॥
सविस्मयोऽभूदथ तद्विदित्वा उद्दालको ज्ञानवतां वरिष्ठः॥
शिवप्रभावं मनसा विचिन्त्य ज्ञानात्परं बोधमवाप शान्तः॥ ७.६२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे
माहेश्वरखण्डे सप्तमोऽध्यायः॥ ७ ॥ छ ॥
टिप्पणी
प्रासादः प्रणवः इति मन्त्रशास्त्रे प्रणवस्य प्रासादबीजसञ्ज्ञा)