[अध्यायः ०३]
वेदव्यासः
अध्यायः ३
॥लोमश उवाच॥
दाक्षायणी गता तत्र यत्र यज्ञो महानभूत्॥
तत्पितुः सदनं गत्वा ना नाश्चर्यसमन्वितम्॥ ३.१ ॥
द्वारि स्थिता तदा देवा अवतीर्य निजासनात्॥
नन्दिनो हि महाभागा देवलोकं निरीक्ष्य च॥ ३.२ ॥
मातरं पितरं दृष्ट्वा सुहृत्सम्बन्धि वान्धवान्॥
अभिवाद्यैव पिरतं मातरं च मुदान्विता॥ ३.३ ॥
बभाषे वचनं देवी प्रस्तापसदृशं तदा॥
अनाहूतस्त्वया कस्माच्छम्भुः परमशोभनः॥ ३.४ ॥
येन पूतमिदं सर्वं समग्रं सचराचरम्॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञाङ्गो यज्ञदक्षिणः॥ ३.५ ॥
द्रव्यं मन्त्रादिकं सर्वं हव्यं कव्यं च यन्मयम्॥
विना तेन कृतं सर्वमपवित्रं भविष्यति॥ ३.६ ॥
शम्भुना हि विना तात कथं यज्ञः प्रवर्तते॥
एते कथं समायाता ब्रह्मणा सहिताः पितः॥ ३.७ ॥
हे भृगो त्वं न जानासि हे कश्यप महामते॥
अत्रे विशिष्ठ एकस्त्वं शक्र किं कृतमद्यते॥ ३.८ ॥
हे विष्णो त्वं महादेवं जानासि परमेश्वरम्॥
ब्रह्मन्किं त्वं न जानासि महादेवस्य विक्रमम्॥ ३.९ ॥
पुरा पञ्चमुखो भूत्वा गर्वितोसि सदाशिवम्॥
कृतश्चतुर्मुखस्तेन विस्मृतोऽसि तदद्भुतम्॥ ३.१० ॥
भिक्षाटनं कृतं येन पुरा दारुवने विभुः॥
शप्तोयं भिक्षुको रुद्रो भवद्भिः सखिभिस्तदा॥ ३.११ ॥
शप्तेनापि च रुद्रेण भवद्भिर्विस्मृतं कथम्॥
यस्यावयवमात्रेण पूरितं सचराचरम्॥ ३.१२ ॥
लिङ्गभूतं जगत्सर्वं जातं तत्क्षणमेव हि॥
लयानाल्लिङ्गमित्याहुः सर्वे देवाः सवासवाः॥ ३.१३ ॥
सर्वे देवाश्च सम्भूता यतो देवस्य शूलिनः॥
सोऽसौ वेदान्तगो देवस्त्वया ज्ञातुं न पार्यते॥ ३.१४ ॥
तस्या वचनमाकर्ण्य दक्षः क्रुद्धोऽब्रवीद्वचः॥
किं त्वया बहुनोक्तेन कार्यं नास्तीह साम्प्रतम्॥ ३.१५ ॥
गच्छ वा तिष्ठवा भद्रे कस्मात्त्वं हि समागता॥
अमङ्गलो हि भर्ता ते अशिवोसौ सुमध्यमे॥ ३.१६ ॥
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट्॥
तस्मान्नाकारितो भद्रे यज्ञार्थं चारुभाषिणि॥ ३.१७ ॥
मया दत्तासि सुश्रोणि पापिना मन्दबुद्धिना॥
रुद्रायाविदितार्थाय उद्धताय दुरात्मने॥ ३.१८ ॥
तस्मात्कायं परित्यज्य स्वस्था भव शुचिस्मिते॥
दक्षेणोक्ता तदा पुत्री सा सती लोकपूजिता॥ ३.१९ ॥
निन्दायुक्तं स्वपितरं विलोक्य रुषिता भृशम्॥
चिन्तयन्ती तदा देवी कथं यास्यामि मन्दिरे॥ ३.२० ॥
शङ्करं द्रष्टुकामाम्ह किं वक्ष्ये तेन पृच्छिता॥
यो निन्दति महादेवं निन्द्यमानं श्रृणोति यः॥
तावुभौ नरके यातो यावच्चन्द्रदिवाकरौ॥ ३.२१ ॥
तस्मात्तयक्ष्याम्यहं देहं प्रवेक्ष्यामि हुताशनम्॥ ३.२२ ॥
एवं मीमांसमाना सा शिवरुद्रेतिभाषिणी॥
अपमानाभिभूता सा प्रविवेश हुताशनम्॥ ३.२३ ॥
हाहाकारेण महता व्याप्तमासीद्दिगन्तरम्॥
सर्वे ते मञ्चमारूढाः शस्त्रैर्व्याप्ता निरन्तराः॥ ३.२४ ॥
शस्त्रैः स्वैर्जध्नुरात्मानं स्वानि देहानि चिच्छिदुः॥
केचित्करतले गृह्य शिरांसि स्वानि चोत्सुकाः॥ ३.२५ ॥
नीराजयन्तस्त्वरिता भस्मीभूताश्च जज्ञिरे॥
एवमूचुस्तदा सर्वे जगर्ज्जुरतिभीषणम्॥ ३.२६ ॥
शस्त्रप्राहारैः स्वाङ्गानि चिच्छिदुश्चातिभीषणाः॥
ते तथा विलयं प्राप्ता दाक्षायण्या समं तदा॥ ३.२७ ॥
गणास्तत्रायूते द्वे च तदद्भुतमिवाभवत्॥
ते सर्व ऋषयो देवा इन्द्राद्याः समरुद्गणाः॥ ३.२८ ॥
विश्वेऽश्वनौ लोकपालास्तूष्णीम्बूतास्तदाभवन्॥
विष्णुं वरेण्यं केचिच्च प्रार्थयन्तः समन्ततः॥ ३.२९ ॥
एवं भूतस्तदा यज्ञो जातस्तस्य दुरात्मनः॥
दक्षस्य ब्रह्मबन्धोश्च ऋषयो भयमागताः॥ ३.३० ॥
एतस्मिन्नन्तरे विप्रा नारदेन महात्मना॥
कथितं सर्वमेवैतद्दक्षस्य च विचेष्टितम्॥ ३.३१ ॥
तदाकर्ण्येश्वरो वाक्यं नारदस्य मुखोद्गतम्॥
चुकोप परमं क्रुद्ध आसनादुत्पतन्निव॥ ३.३२ ॥
उद्धृत्य च जटां रुद्रो लोकसंहारकारकः॥
आस्फोटयामास रुषा पर्वतस्य शिरोपरि॥ ३.३३ ॥
ताडनाच्च समुद्भूतो वीरभद्रो महायशाः॥
तथा काली समुत्पन्ना भूतकोटिभिरावृता॥ ३.३४ ॥
कोपान्निःश्वसितेनैव रुद्रस्य च महात्मनः॥
जातं ज्वराणां च शतं सन्निपातास्त्रयोदश॥ ३.३५ ॥
विज्ञप्तो वीरभद्रेण रुद्रो रौद्रपराक्रमः॥
किं कार्यं भवतः कार्यं शीघ्रमेव वद प्रभो॥ ३.३६ ॥
इत्युक्तो भगवान्रुद्रः प्रेषयामास सत्वरम्॥
गच्छ वीर महा बाहो दक्षयज्ञं विनाशय॥ ३.३७ ॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः॥
कालिकाऽऽलिहितो वीरः सर्वभूतैः समावृतः॥
वीरभद्रो महातेजा ययौ दक्षमखं प्रति॥ ३.३८ ॥
तदानीमेव सहसा दुर्निमित्तानि चाभवन्॥
रूक्षो ववौ तदा वायुः शर्कराभिः समावृतः॥ ३.३९ ॥
असृग्वर्षति देवश्च तिमिरेणाऽऽवृता दिवशः॥
उल्कापाताश्च बहवः पेतुरुर्व्यां सहस्रशः॥ ३.४० ॥
एवंविधान्यरिष्टानि ददृशुर्विबुधादयः॥
दक्षोऽपि भयमापन्नो विष्णुं शरणमाययौ॥ ३.४१ ॥
रक्षरक्ष महाविष्णो त्वं हि नः परमो गुरुः॥
यज्ञोऽसि त्वं सुरश्रेष्ठ भयान्मां परिमोचय॥ ३.४२ ॥
दक्षेण प्रार्थ्य मानो हि जगाद मधुसूदनः॥
मया रक्षा विदातव्या भवतो नात्र संशयः॥ ३.४३ ॥
अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तन्ते दुर्भिक्षं त्वया धर्ममजानताः॥
ईश्वरावज्ञया सर्वं विफलं च भविष्यति॥ ३.४४ ॥
अपूज्या यत्र पूज्यं ते पूजनीयो न पूज्यते॥
त्रीणी तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम्॥ ३.४५ ॥
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः॥
अमानितान्महेशात्त्वां महद्भयमुपस्थितम्॥ ३.४६ ॥
अधुनैव वयं सर्वे प्रभवो न भवामहे॥
भवतो दुर्न्नयेनेव नात्र कार्या विचारणा॥ ३.४७ ॥
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिन्तापरोऽभवत्॥
विविर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः॥ ३.४८ ॥
विश्वास-प्रस्तुतिः
वीरभद्रो महाबाहू
रुद्रेणैव प्रचोदितः॥
काली कात्यायनीशाना
चामुण्डा मुण्डमर्द्दिनी॥ ३.४९ ॥
भद्रकाली तथा भद्रा
त्वरिता वैष्णवी तथा॥
नव-दुर्गादि-सहितो
भूतानां च गणो महान्॥ ३.५० ॥
शाकिनी डाकिनी चैव
भूत-प्रमथ-गुह्यकाः॥
तथैव योगिनी-चक्रं
चतुः-षष्ट्या समन्वितम्॥ ३.५१ ॥
निजन्मुः सहसा तत्र
यज्ञ-वाटं महाप्रभम्॥
मूलम्
वीरभद्रो महाबाहू रुद्रेणैव प्रचोदितः॥
काली कात्यायनीशाना चामुण्डा मुण्डमर्द्दिनी॥ ३.४९ ॥
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा॥
नवदुर्गादिसहितो भूतानां च गणो महान्॥ ३.५० ॥
शाकिनी डाकिनी चैव भूतप्रमथगुह्यकाः॥
तथैव योगिनीचक्रं चतुः षष्ट्या समन्वितम्॥ ३.५१ ॥
निजन्मुः सहसा तत्र यज्ञवाटं महाप्रभम्॥
विश्वास-प्रस्तुतिः
वीरभद्र-समेता
सर्वे हरपराक्रमाः॥
दशबाहवस् त्रिनेत्रा
जटिला रुद्र-भूषणाः॥ ३.५२ ॥
पार्षदाः शङ्करस्यैते
सर्वे रुद्र-स्वरूपिणः॥
पञ्चवक्त्रा नीलकण्ठाः
सर्वे ते शस्त्रपाणयः॥ ३.५३ ॥
मूलम्
वीरभद्रसमेता सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५२ ॥
पार्षदाः शङ्करस्यैते सर्वे रुद्रस्वरूपिणः॥
पञ्चवक्त्रा नीलकण्ठाः सर्वे ते शस्त्रपाणयः॥ ३.५३ ॥
मानसतरङ्गिणीकृत्
Impelled by Rudra himself, the mighty-armed Vīrabhadra marched forth right away to the grove of the yajña with Kālī, Kātyāyanī, Īśānā, Cāmuṇḍā, Muṇḍamardinī, Bhadrakālī, Bhadrā, Tvaritā and Vaiṣṇavī, the nine Durgā-s and the rest: the great bhūta-gaṇa-s, Śakinī, Ḍākinī, the ghosts, pramatha-s and Kubera-s agents (guhyaka-s). The circle of 64 yoginī-s also accompanied him. Hundreds of thousands of gaṇa-s accompanied Vīrabhadra. These troops of Śaṃkara all had the form of Rudra, with five heads, blue-throats, and weapons in their hands.
छत्रचामरसंवीताः सर्वे हरपराक्रमाः॥
दशबाहवस्त्रिनेत्रा जटिला रुद्रभूषणाः॥ ३.५४ ॥
अर्धचन्द्रधराः सर्वे सर्वे चैव महौजसः॥
सर्वे ते वृषभारूढाः सर्वे ते वेषभूषणाः॥ ३.५५ ॥
सहस्रबाहुर्भुजगाधिपैर्वृतस्त्रिलोचनो भीमबलो भयावहः॥
एभिः समेतश्च तदा महात्मा स वीरभद्रोऽभिजगाम यज्ञम्॥ ३.५६ ॥
युग्यानां च सहस्रेण द्विप्रमाणेन स्यन्दनम्॥
सिंहानां प्रयुतेनैव वाह्यमानं च तस्य तत्॥ ३.५७ ॥
तथैव दंशिताः सिंहा बहवः पार्श्वरक्षकाः॥
शार्दूला मकरा मत्स्या गजाश्चैव सहस्रशः॥
छत्राणि विविधान्येव चामराणि तथैव च॥ ३.५८ ॥
मूर्द्धनिध्रियमाणानि सर्वतोग्राणि सर्वशः॥
ततो भेरीमहानादाः शङ्खाश्च विविधस्वनाः॥
पटहा गोमुखाश्चैव श्रृङ्गाणि विविधानि च॥ ३.५९ ॥
ततोऽवाद्यन्त तान्येव घनानि सुषिराणि च॥
कलगानपराः सर्वे सर्वे मृदङ्गवादिनः॥ ३.६० ॥
अनेकलास्यसंयुक्ता वीरभद्राग्रतोभवन्॥
रणवादित्रनिर्घोषैर्जगर्जुरमितौजसः॥ ३.६१ ॥
तेन नादेन महता नादितं भुवनत्रयम्॥
एवं सर्वे समायाता गणा रुद्रप्रणोदिताः॥ ३.६२ ॥
यज्ञवाटं च दक्षस्य विनाशार्थं प्रहारिणः॥
रजसा चाऽऽवृतं व्योम तमसा च वृता दिशः॥ ३.६३ ॥
सप्तद्वीपवती पृथ्वी चचाल साद्रिकानना॥
ते दृष्ट्वा महदाश्चर्य्यं लोकक्षयकरं तदा॥ ३.६४ ॥
उत्तस्थुर्युगपत्सर्वे देवदैत्यनिशाचराः॥
ते वै ददृशुरायान्तीं रुद्रसेना भयावहाम्॥ ३.६५ ॥
पृथ्वीं केचित्समायाता गगने केचिदागताः॥
दिशश्च प्रदिशश्चैव समावृत्य तथापरे॥ ३.६६ ॥
अनन्ता ह्यक्षयाः सर्वे शूरा रुद्रसमा युधि॥
एवम्भूतं च तत्सैन्यं रुद्रैश्च परिवारितम्॥
दृष्ट्वो चुर्विस्मिताः सर्वे यामोऽद्य शस्त्रपाणयः॥ ३.६७ ॥
इन्द्रो हि गजमारूढो मृगारूढः सदागतिः॥
यमो महिषमारूढो यमदण्डसमन्वितः॥ ३.६८ ॥
कुबेरः पुष्पकारूढः पाशी मकरमेव च॥
अग्निर्बस्तमारूढो निर्ऋतिः प्रेतमेव च॥ ३.६९ ॥
तथान्ये सुरसङ्घाश्च यक्षचारणगुह्यकाः॥
आरुह्य वाहनान्येव स्वानिस्वानि प्रतिपिनः॥ ३.७० ॥
स्वेषामुद्योगमालोक्य दक्षश्चाश्रुमुखस्ततः॥
दण्डवत्पतितो भूमौ सर्वानेवाभ्यभाषत॥ ३.७१ ॥
युष्मद्बलेनैव मया यज्ञः प्रारम्भितो महान्॥
सत्कर्मसिद्धये यूयं प्रमाणं सुमहाप्रभाः॥ ३.७२ ॥
विष्णो त्वं कर्मणः साक्षाद्यज्ञानां परिपालकः॥
धर्मस्य वेदगर्भस्य ब्रह्मण्यस्त्वं च माधव॥ ३.७३ ॥
तस्माद्रक्षा विधातव्या यज्ञस्याऽस्य महाप्रभो॥
दक्षस्य वचनं श्रुत्वा उवाच मधुसूदनः॥ ३.७४ ॥
मया रक्षा विधातव्या धर्मस्य परिपालने॥
तत्सत्यं तु त्वयोक्तं हि किं तु तस्य व्यतिक्रमः॥ ३.७५ ॥
यातस्त्वद्यैव यज्ञस्य यत्त्वयोक्तं सदाशिवम्॥
नैमिषेऽनिमिषक्षेत्रे तदा किं न स्मृतं त्वया॥ ३.७६ ॥
योऽयं रुद्रो महातेजा यज्ञरूपः सदाशिवः॥
यज्ञबाह्यः कृतो मूढ तच्च दुर्म्मत्रितं तव॥ ३.७७ ॥
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव॥
न पश्यामि च तं विप्र त्वां वै रक्षति दुर्म्मतिम्॥ ३.७८ ॥
किं कर्म्म किमकर्म्मेति तन्न पश्यसि दुर्म्मते॥
समर्थं केवलं कर्मन भविष्यति सर्वदा॥ ३.७९ ॥
सेश्वरं कर्म विद्ध्योतत्समर्थत्वेन जायते॥
न ह्यन्यः कर्म्मणो दाता ईश्वरेण विना भवेत्॥ ३.८० ॥
ईश्वरस्य च ये भक्ताः शान्तास्तद्गतमानसाः॥
कर्म्मणो हि फलं तेषां प्रयच्छति सदाशिवः॥ ३.८१ ॥
केवलं कर्म चाश्रित्य निरीश्वरपरा जनाः॥
निरयं ते च गच्छन्ति कोटियज्ञशतैरपि॥ ३.८२ ॥
पुनः कर्ममयैः पाशैर्बद्धा जन्मनिजन्मनि॥
निरयेषु प्रपच्यन्ते केवलं कर्म्मरूपिणः॥ ३.८३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे वीरभद्रप्रादुर्भाववर्णनन्नाम तृतीयोऽध्यायः॥ ३ ॥