[अध्यायः ०२]
वेदव्यासः
अध्यायः २
॥लोमश उवाच॥
एकदा तु तदा तेन यज्ञः प्रारम्भितो महान्॥
तत्राहूतास्तदा सर्वे दीक्षितेन तपस्विना॥ २.१ ॥
ऋषयो विविधास्तत्र वशिष्ठाद्याः समागताः॥
अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः॥ २.२ ॥
दधीचो भगवान्व्यासो भरद्वाजोऽथ गौतमः॥
एते चान्ये च बहवः समाजग्मुर्महर्षयः॥ २.३ ॥
तथा सर्वे सुरगणा लोकपालस्तथाऽपरे विद्याधराश्च गन्धर्वाः किन्नराप्सरसां गणाः॥ २.४ ॥
सप्तलोकात्समानीतो ब्रह्मा लोकपितामहः॥
वैकुण्ठाच्च तथा विष्णुः समानीतो मरवं प्रति॥ २.५ ॥
देवेन्द्रो हि समानीत इन्द्राण्या सह सुप्रभः॥
तथा चन्द्रो हि रोहिण्या वरुणः प्रिययया सह॥ २.६ ॥
कुबेरः पुष्पकारूढो मृगाऽऽरूढोऽथ मारुतः॥
बस्ताऽऽरूढः पावकश्च प्रेताऽऽरूढोऽथ निर्ऋति॥ २.७ ॥
एते सर्वे समायाता यज्ञवाटे द्विजन्मनः॥
ते सर्वे सत्कृतास्तेन दक्षेण च दुरात्मना॥ २.८ ॥
भवनानि महार्हाणि सुप्रभाणि महान्ति च॥
त्वष्ट्रा कृतानि दिव्यानि कौशल्येन महात्मना॥ २.९ ॥
तेषु सर्वेषु धिष्ण्येषु यथाजोषं समास्थिताः॥ २.१० ॥
वर्त्तमाने महायज्ञे तीर्थे कनखले तथा॥
ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः॥ २.११ ॥
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमङ्गलः॥
भार्यया सहितो विप्रैः कृतस्वत्ययनो भृशम्॥ २.१२ ॥
रेजे महत्त्वेन तदा सुहृद्भिः परितः सदा॥
एतस्मिन्नन्तरे तत्र दधीचिर्वाक्यमब्रवीत्॥ २.१३ ॥
॥दधीचिरुवाच॥
एते सुरेशा ऋषयो महत्तराः सलोकपालाश्च समागतास्तव॥
तथाऽपि यज्ञस्तु न शोभते भृशम्पिनाकिना तेन महात्मना विना॥ २.१४ ॥
येनैव सर्वाण्यपि मङ्गलानि जातानि शंसन्ति महाविपश्चितः॥
सोऽसौ न दृष्टोऽत्र पुमान्पुराणो वृषध्वजो नीलकण्ठः कपर्दी॥ २.१५ ॥
अमङ्गलान्येव च मङ्गलानि भवन्ति येनाधिकृतानि दक्ष॥
त्रियम्बकेनाथ सुमङ्गलानि भवन्ति सद्योह्यपमङ्गलानि॥ २.१६ ॥
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेष्ठिना॥
त्वरितं चैव शक्रेण विष्णुना प्रभविष्णुना॥ २.१७ ॥
सर्वैरेव हि गन्तव्यं यत्र देवो महेश्वरः॥ २.१८ ॥
दाक्षायण्या समेतं तमानयध्वं त्वरान्विताः॥
तेन सर्वं पवित्रं स्याच्छम्भुना योगिना भृशम्॥ २.१९ ॥
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत्॥
तस्मात्सर्वप्रयत्नेन समानेयो वृषध्वजः॥ २.२० ॥
तस्य तद्वचनं श्रुत्वा प्रहसन्नाह दुष्टधीः॥
मूलं विष्णुर्हि देवानां यत्र धर्मः सनातनः॥ २.२१ ॥
यस्मिन्वेदाश्च यज्ञाश्च कर्माणिविविधानि च॥
प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ २.२२ ॥
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः॥
वेदैश्चोपनिषद्भिश्च आगमैर्विविधैः सह॥ २.२३ ॥
तथा सुरगणैः साकमागतः सुरराट् स्वयम्॥
तथा यूयं समायाता ऋषयो वीतकल्मषाः॥ २.२४ ॥
येये यज्ञोचिताः शान्तास्तेते सर्वे समागताः॥
वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः॥ २.२५ ॥
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम्.॥
कन्या दत्ता मया विप्रा ब्रह्मणा नोदितेन हि॥ २.२६ ॥
अकुलीनो ह्यसौ विप्रा नष्टो नष्टप्रियः सदा॥
भूतप्रेतपिशाचानां पतिरेको दुरत्ययः॥ २.२७ ॥
आत्मसम्भावितो मूढःस्तब्धो मौनी समत्सरः॥
कर्मण्यस्मिन्नयोग्योऽसौ नानीतो हि मयाऽधुना॥ २.२८ ॥
तस्मात्त्वया न वक्तव्यं पुनरेवं वचोद्विज॥
सर्वैर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्॥ २.२९ ॥
एतच्छ्रुत्वा वचस्तस्य दधीचिर्वाक्यमब्रवीत्॥ २.३० ॥
॥दधीचिरुवाच॥
सर्वेषामृषिवर्याणां सुराणां भावितात्मनाम्॥
अनयोऽयं महाञ्जातो विना तेन महात्मना॥ २.३१ ॥
विनाशोऽपि महान्सद्योह्यत्रत्यानां भविष्यति॥
एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः॥ २.३२ ॥
यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥
मुनौ विनिर्गते दक्षः प्रहसन्निदमब्रवीत्॥ २.३३ ॥
गतः शिवप्रियो वीरो दधीचिर्नाम नामतः॥
आविष्टचित्ता मन्दाश्च मिथ्यावादरताः खलाः॥ २.३४ ॥
वेदबाह्य दुराचारास्त्याज्यास्ते ह्यत्र कर्मणि॥
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः॥ २.३५ ॥
यज्ञं मे सफलं विप्राः कुर्वन्तु ह्यचिरादिव॥
तदा ते देवयजनं चक्रुः सर्वे सहर्षयः॥ २.३६ ॥
एतस्मिन्नन्तरे तत्र पर्वते गन्धमादने॥
धारागृहे विमानेन सखीभिः परिवारिता॥ २.३७ ॥
दाक्षायणी महादेवी चकार विविधास्तदा॥
क्रीडा विमानमध्यस्ता कन्दुकाद्याः सहस्रशः॥ २.३८ ॥
क्रीडासक्ता तदा देवी ददर्शाथ महासती॥
यज्ञं प्रयान्तं सोमं च रोहिण्या सहितं प्रभुम्॥ २.३९ ॥
क्व गमिष्यति चन्द्रोऽयं विजये पृच्छ सत्वरम्॥
तयोक्ता विजया देवी तं पप्रच्छ यथोचितम्॥ २.४० ॥
कथितं तेन तत्सर्वं दक्षस्यैव मखादिकम्॥
तच्छ्रुत्वा त्वरिता देवी विजया जातसम्भ्रमा॥
कथयामास तत्सर्वं यदुक्तं शशिना भृशम्॥ २.४१ ॥
विमृश्य कारणं देवी किमाह्वानं करोति न॥
दक्षः पिता मे माता च विस्मृता मां कुतोऽधुना॥ २.४२ ॥
पृच्छामि शङ्करं चाद्य कारणं कृतनिश्चया॥
स्थापयित्वा सखीस्तत्र आगता शङ्करं प्रति॥ २.४३ ॥
ददर्शतं सभामध्ये त्रिलोचनमवस्थितम्॥
गणैः परिवृतं सर्वैश्चण्डमुण्डादिभिस्तदा॥ २.४४ ॥
बाणो भृङ्गिस्तथा नन्दी शैलादो हि महातपाः॥
महाकालो महाचण्डो महामुण्डो महाशिराः॥ २.४५ ॥
धूम्राक्षो धूम्रकेतुश्च धूम्रपादस्तथैव च॥
एते चान्ये च बहवो गणा रुद्रानुवर्तिनः॥ २.४६ ॥
केचिद्भयानका रौद्राः कबन्धाश्च तथा परे॥
विलोचनाश्च केचिच्च वक्षोहीनास्तथा परे॥ २.४७ ॥
एवम्भूताश्च शतशः सर्वे ते कृत्तिवाससः॥
जटाकलापसम्भूषाः सर्वे रुद्राक्षभूषणाः॥ २.४८ ॥
जितेन्द्रिया वीतरागाः सर्वे विषयवैरिणः॥
एभिः सर्वैः परिवृतः शङ्करो लोकशङ्करः॥
दृष्टस्तया उपाविष्ट आसने परामाद्भुते॥ २.४९ ॥
आक्षिप्तचित्ता सहसा जगाम शिवसन्निधिम्॥
शिवेन स्थापिता स्वाङ्के प्रीतियुक्तेन वल्लभा॥ २.५० ॥
प्रेम्णोदिता वचोभिः सा बहुमानपुरःसरम्॥
किमागमनकार्यम्मे वद शीघ्रं सुमध्यमे॥ २.५१ ॥
एवमुक्ता तदा तेन उवाचासितलोचना॥ २.५२ ॥
॥सत्युवाच॥
पितुर्मम महायज्ञे कस्मात्तव न रोचते॥
गमनं देवदेवश तत्सर्वं कथय प्रभो॥ २.५३ ॥
सुहृदामेष वै धर्मः सुहृद्भिः सह सङ्गतिम्॥
कुर्वन्ति यन्महादेव सुहृदां प्रीतिवर्धिनीम्॥ २.५४ ॥
तसमात्सर्वप्रयत्नेन अनाहूतोऽपि गच्छ भोः॥
यज्ञवाटं पितुर्मेऽद्य वचनान्मे सदाशिव॥ २.५५ ॥
तस्यास्तद्वचनं श्रुत्वा ब भाषे सूनृतं वचः॥
त्वया भद्रे न गन्तव्यं दक्षस्य यजनं प्रति॥ २.५६ ॥
तस्य ये मानिनः सर्वे ससुरासुकिन्नराः॥
ते स्रेव यजनं प्राप्ताः पितुस्तव न संशयः॥ २.५७ ॥
अनाहूताश्च ये सुभ्रु गच्छन्ति परमन्दिरम्॥
अपमानं प्राप्नुवन्ति मरणादधिकं ततः॥ २.५८ ॥
परेषां मन्दिरं प्राप्त इन्द्रोपि लघुतां व्रजेत्॥
तस्मात्त्वाया न गन्तव्यं दक्षस्य यजनं शुभे॥ २.५९ ॥
एवमुक्ता सती तेन महेशेन महात्मना॥
उवाच रोषसंयुक्तं वाक्यं वाक्यविदां वरा॥ २.६० ॥
यज्ञो हि सत्यं लोके त्वं स त्वं देववरेश्वर॥
अनाहूतोऽसि तेनाद्य पित्रा मे दृष्टचारिणा॥
तत्सर्वं ज्ञातुमिच्छामि तस्य भावं दुरात्मनः॥ २.६१ ॥
तस्माच्चाद्यैव गच्छामि यज्ञवाडं पितुर्म्मम॥
अनुज्ञां देहि मे नाथ देवदेव जगत्पते॥ २.६२ ॥
इत्युक्तो भगवान्रुद्रस्तया देव्या शिवः स्वयम्॥
विज्ञाताखिलदृग्द्रष्टा भगवान्भूतभावनः॥ २.६३ ॥
स तामुवाच देवेशो महेशः सर्वसिद्धिदः॥
गच्छ देवि त्वरायुक्ता वचनान्मम सुव्रते॥ २.६४ ॥
एतं नन्दिनमारुह्य नानाविधगणान्विता॥
गणाः षष्टिसहस्राणि जग्मूरौद्राः शिवज्ञया॥ २.६५ ॥
तैर्गणैः संवृता देवी जगाम पितृमन्दिरम्॥
निरीक्ष्य तद्बलं सर्वं महादेवोतिविस्मितः॥ २.६६ ॥
भूषणानि महार्हाणि तेभ्यो देव्यै परन्तपः॥
प्रेषयामास चाव्यग्रो महादेवोऽनु पृष्ठतः॥ २.६७ ॥
देव्या गतं वै स्वपितुर्गृहं तदा विमृश्य सर्वं भगवान्महेशः॥
दाक्षायणी पित्रवमानिता सती न यास्यतीति स्वपुरं पुनर्जगौ॥ २.६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे दक्षयज्ञं प्रति सतीदेव्यागमनवर्णनन्नाम द्वितीयोऽध्यायः॥ २ ॥