Skandapurāṇa Adhyāya 167: S recension
E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006.
SP1670010: व्यास उवाच।
SP1670011: यत्प्रोक्तं भवता गुह्यं माहात्म्यमिदमुत्तमम्।
SP1670012: नान्यस्यैतद्भवेन्मुक्त्वा जगदार्तिहरं हरम्॥ १॥
SP1670021: पुण्यान्यायतनानीह देवदेवस्य शूलिनः।
SP1670022: यानि दृष्ट्वा न शोचन्ति जन्ममृत्यू महामुने॥ २॥
SP1670031: तानि मे ब्रूहि धर्मज्ञ यद्यनुग्राह्यता मयि।
SP1670032: एवं कृतार्थमात्मानं मुच्येयं मुनिसत्तम॥ ३॥
SP1670041: व्यासस्य वचनं श्रुत्वा ब्रह्मपुत्रो ऽब्रवीदिदम्।
SP1670042: साधु व्यास महाबुद्धे भक्तिमानसि शंकरे॥ ४॥
SP1670051: स्थानानि शूलिनो यस्त्वं पुण्यानि श्रोतुमिच्छसि।
SP1670052: कृतार्थस्त्वं महायोग मुक्तः संसारबन्धनैः॥ ५॥
SP1670061: शृणु वक्ष्यामि ते वत्स गुह्यमेतत्परं हि मे।
SP1670062: स्थानानां वर्णनं शम्भोर्मृत्युजन्मभयापहम्॥ ६॥
SP1670071: आदित्यबन्धनं नाम कूटं विन्ध्यगिरेः शुभम्।
SP1670072: स्थापितं तत्र लिङ्गं तु तपनेन महाप्रभम्।
SP1670073: तद्दृष्ट्वा मनुजो व्यास जन्म प्रति न शोचति॥ ७॥
SP1670081: हेमसोमोद्भवं नाम कूटं हिमगिरेः शुभम्।
SP1670082: पुण्यमायतनं तत्र च्यवनेनाभिनिर्मितम्॥ ८॥
SP1670091: ये तदायतनं शम्भोरभिगच्छन्ति मानवाः।
SP1670092: न च्यवन्ति पुनः स्वर्गात्प्रलये ऽपि समागते॥ ९॥
SP1670101: उदये तु गिरौ पुण्ये सिद्धसंघैर्निषेविते।
SP1670102: सत्यो नाम ह्रदः पुण्यो हेमपद्मसमावृतः॥ १०॥
SP1670111: यत्र ते मुनयः सत्याः सत्यानलरविप्रभाः।
SP1670112: धारयन्ति महात्मान आशीर्भिः सरथं रविम्॥ ११॥
SP1670121: पुण्यमायतनं तत्र स्थापितं तैः पिनाकिनः।
SP1670122: अमरैरर्चितं व्यास सिद्धविद्याधरैर्वृतम्॥ १२॥
SP1670131: यैस्तदायतनं दृष्टं भवभक्तैर्वियद्गतैः।
SP1670132: ते भवस्य प्रिया भूत्वा भवन्ति प्रमथेश्वराः॥ १३॥
SP1670141: उशीरबीजः शैलेन्द्रस्तत्राश्रमपदं महत्।
SP1670142: आगस्त्यस्य तृणाङ्गस्य देवदानवपूजितम्।
SP1670143: महानीलमयं लिङ्गं तस्मिन्व्यास महोच्छ्रयम्॥ १४॥
SP1670151: तस्मिन्नायतने रुद्रं तृणाङ्गः स महानृषिः।
SP1670152: दक्षिणां मूर्तिमास्थाय स्तौति नित्यं कपर्दिनम्।
SP1670153: दिवौकसस्तमभ्यर्च्य भवन्ति गणपाधिपाः॥ १५॥
SP1670161: उत्तरेण निरालोके रविचन्द्रविवर्जिते।
SP1670162: मेरुशृङ्गे महोत्सेधे सौवर्णं स्थापितं महत्॥ १६॥
SP1670171: लिङ्गं भगवतो व्यास यत्रास्ते शूलधृक्स्वयम्।
SP1670172: उत्तानपादपुत्रेण भवभक्तिपरात्मना॥ १७॥
SP1670181: नित्यमभ्यर्चितं लिङ्गं ध्रुवमास्ते महामुने।
SP1670182: देवानामप्यगम्यं तद्ध्रुवं मुक्त्वा परं वरम्॥ १८॥
SP1670191: जैगीषव्येण मुनिना अस्ते पर्वतराजनि।
SP1670192: स्थापितं सुमहल्लिङ्गं देवदेवस्य शूलिनः।
SP1670193: तं दृष्ट्वा मानवो व्यास रुद्रलोकमवाप्नुयात्॥ १९॥
SP1670201: मोक्षविद्यास्वभिज्ञाश्च सांख्ययोगविशारदाः।
SP1670202: भवन्ति मनुजा दृष्ट्वा तल्लिङ्गं परमाद्भुतम्॥ २०॥
SP1670211: नन्दने देवराजेन स्थापितं लिङ्गमुत्तमम्।
SP1670212: तपनीयमयं शुभ्रं देवता यदुपासते।
SP1670213: तद्दृष्ट्वा देवतास्ते तु प्राप्नुवन्ति परं पदम्॥ २१॥
SP1670221: क्षीरोदे सागरे दिव्ये वालिखिल्यैः स्वयं कृतम्।
SP1670222: महदायतनं पुण्यं सिद्धकिंनरसेवितम्॥ २२॥
SP1670231: तस्मिंश्चन्द्रप्रभं लिङ्गं स्फाटिकं मणिरञ्जितम्।
SP1670232: वालिखिल्यास्तमभ्यर्च्य जग्मुरीशस्य लोकताम्॥ २३॥
SP1670241: सौवर्णं यक्षराजेन स्थापितं गन्धमादने।
SP1670242: लिङ्गं भगवतो दिव्यं यत्कुबेरो ननाम ह॥ २४॥
SP1670251: मन्दारकुसुमैर्दिव्यैर्हेमपद्मैश्च भक्तितः।
SP1670252: तमभ्यर्च्य महेशानं कुबेरो निर्वृतो ऽभवत्॥ २५॥
SP1670261: यैस्तदायतनं दृष्टं कुबेरस्य सुरासुरैः।
SP1670262: सर्वयज्ञफलं तेभ्यो ददाति वृषभध्वजः॥ २६॥
SP1670271: एभ्यः पुण्यतमानीह यानि गम्यानि मानुषैः।
SP1670272: शृणु तानि महाबुद्धे स्थानानि शशिमौलिनः॥ २७॥
SP1670281: सर्वपर्वतराजस्य शृङ्गे हिमवतः शुभे।
SP1670282: महालयमिति ख्यातं स्थानमाद्यं स्वयम्भुवः॥ २८॥
SP1670291: यत्र सर्वामरा व्यास चतुर्वक्त्रपुरःसराः।
SP1670292: संसिद्धा मुनयश्चैव ये च योगीश्वरा भुवि।
SP1670293: समभ्यर्च्य हरं भक्त्या तदवाप्ताः परं पदम्॥ २९॥
SP1670301: यत्र साक्षान्महादेवो न्यस्तवान्पदमात्मनः।
SP1670302: यं प्रणम्य नराः सर्वे मुच्यन्ते सर्वकिल्बिषैः॥ ३०॥
SP1670311: अभिगम्य तमीशानं महालयनिवासिनम्।
SP1670312: देहभेदं समासाद्य यत्र तत्र यथा तथा।
SP1670313: न पुनर्जायते जन्तुर्यातः सिद्धिमनुत्तमाम्॥ ३१॥
SP1670321: न तं पश्यन्त्यधर्मज्ञा महापापकृतो नराः।
SP1670322: महागणपतिस्तत्र द्वारसंस्थो महाबलः।
SP1670323: स तेषां गमनं हन्ति ये नराः पापकारिणः॥ ३२॥
SP1670331: योगिनो यत्र देवाश्च सिद्धाश्च परमर्षयः।
SP1670332: तं प्रणम्य ययुः सिद्धिं पुण्यं पशुपतेः पदम्॥ ३३॥
SP1670341: तस्य संकल्पनादेव द्रक्ष्यामीति महालयम्।
SP1670342: कर्मभिर्मुच्यते जन्तुर्महापातकसंज्ञितैः॥ ३४॥
SP1670351: महालयं महत्क्षेत्रं मोक्षसिद्धिप्रदं विभोः।
SP1670352: कुलानुभयतः सप्त दृष्ट्वा त्रायति मानवः॥ ३५॥
SP1670361: ततः पुण्यतमं व्यास केदारं नाम नामतः।
SP1670362: परं धाम वृषाङ्कस्य तस्यैवोत्तरतः शुचिम्॥ ३६॥
SP1670371: स्वयं किल हरो देवस्तस्मिन्नचलसत्तमे।
SP1670372: जटाभाराज्जलं पुण्यं मुमोच - - - - -।
SP1670373: - - - दभवत्तत्र हरमौलिविनिःसृतम्॥ ३७॥
SP1670381: नरास्तदमृतप्रख्यं ये पिबन्ति जलं शुभम्।
SP1670382: ते भवन्ति गणा व्यास कुष्माण्डा रुद्रवल्लभाः।
SP1670383: महारूपा महात्मानो नन्दिनो ऽप्यधिकप्रभाः॥ ३८॥
SP1670391: केदारवासिनं दृष्ट्वा देवदेवं जगत्पतिम्।
SP1670392: - - - - - - - - - - - - - - - - ॥ ३९॥
SP1670401: ब्रह्मा शक्रस्तथा विष्णुः सोमो यक्षगणाधिपः।
SP1670402: अर्चयन्ति स्थितं तत्र भक्तितः परमेश्वरम्॥ ४०॥
SP1670411: केदारसलिलं पीतं यैर्नरैः सुमहात्मभिः।
SP1670412: कथं शोचन्ति ते व्यास प्राप्तं किं नु न तैः शुभम्॥ ४१॥
SP1670421: केदारे हिमवन्महीध्रशिखरे यत्तत्पयः प्रस्रुतं
SP1670422: मूर्ध्नः सोममहेन्द्रविष्णुमरुतां स्रष्टुर्विभोः शूलिनः।
SP1670423: पातुं यन्न लभन्त्यधर्मरुचयः शैवं विनानुग्रहं
SP1670424: तत्पीत्वा भवबन्धनप्रतिभयान्मुक्ता भवेयुः प्रजाः॥ ४२॥
SP1670431: मध्यमेश्वरमत्रैव स्थानमाद्यमुमापतेः।
SP1670432: गत्वा तमपि देवेशं गाणपत्यमवाप्नुयात्॥ ४३॥
SP1670441: तत्रापि स्वयमेवेशः सदा संनिहितो मुने।
SP1670442: अभिगम्य तमीशानं न शोचेन्मरणं प्रति॥ ४४॥
SP1670451: त्रयाणामपि लोकानां प्रदेशो हिमवद्गिरेः।
SP1670452: एष श्रेष्ठतमो व्यास सर्वसिद्धिप्रदः शुभः॥ ४५॥
SP1670461: अस्याभिगमनादेव सर्वयज्ञफलं स्मृतम्।
SP1670462: विपन्नस्य प्रसादाद्वा गाणपत्या गतिर्वरा।
SP1670463: नातः पुण्यतमं किंचित्सर्वलोकेषु विद्यते॥ ४६॥
SP1670471: त्रैलोक्ये चक्रवर्तित्वमस्मिन्वा मरणं गिरौ।
SP1670472: चक्रवर्तिपदात्तस्मादिह मृत्युर्विशिष्यते॥ ४७॥
SP1670481: याति सायुज्यतां शम्भोः परमैश्वर्यसंयुतः।
SP1670482: गिराविह मृतो जन्तुः किं ततः परमं पदम्॥ ४८॥
SP1670491: महद्धिमवतस्त्वन्यत्कूटं सिद्धनिषेवितम्।
SP1670492: यत्र देवी तपस्तेपे गौरवर्णसमीप्सया॥ ४९॥
SP1670501: गौरीशिखरमित्येव त्रिषु लोकेषु विश्रुतम्।
SP1670502: कुचकुण्ड इति ख्याते तीर्थे यत्रोमया कृते॥ ५०॥
SP1670511: तद्गौरीशिखरं पुण्यं ये ऽभिगच्छन्ति मानवाः।
SP1670512: अश्वमेधफलं प्राप्य ते यान्ति परमां गतिम्॥ ५१॥
SP1670521: ऋषभं शृङ्गमपरं वज्रस्फटिकसंनिभम्।
SP1670522: यत्र नन्दी तपस्तेपे वरं चावाप शंकरात्॥ ५२॥
SP1670531: ऋषभं प्राप्य तत्कूटं स्थानं पुण्यमुमापतेः।
SP1670532: दृष्ट्वा पापविनिर्मुक्तो रुद्रलोकमवाप्नुते॥ ५३॥
SP1670541: अन्यद्धिमगिरेः कूटं हेमकूटसमप्रभम्।
SP1670542: यत्र भस्त्रेश्वरं नाम रुद्रस्यायतनं शुभम्।
SP1670543: रुद्रस्तस्मिन्गिरौ देवो भस्त्रेश्वर इति स्मृतः॥ ५४॥
SP1670551: तं नमस्य महादेवं किंनरोरगचारणाः।
SP1670552: मृत्युभीताश्च पुरुषा जन्मदुःखैस्तथार्दिताः॥ ५५॥
SP1670561: तदायतनमासाद्य कामानापुर्यथेप्सितान्।
SP1670562: तं दृष्ट्वा मनुजो व्यास राजसूयफलं लभेत्॥ ५६॥
SP1670571: गङ्गाद्वारे शुभद्वारे महापुण्ये महात्मना।
SP1670572: दक्षेण स्थापितं लिङ्गं भक्तिहेतोः कपर्दिनः॥ ५७॥
SP1670581: वृक्षाः कनखला नाम यत्रासन्कनकात्मकाः।
SP1670582: मानुषाणामशीलत्वात्संवृत्ता दारवो बभुः॥ ५८॥
SP1670591: विश्वात्मा यत्र विश्वेशः शम्भुरम्बिकया सह।
SP1670592: बहुरूपेश्वरो नाम्ना नैकप्राणिवरप्रदः॥ ५९॥
SP1670601: मानवास् यत्र गच्छन्ति जन्मदोषमुमुक्षवः।
SP1670602: वाजिमेधं दशगुणं यं दृष्ट्वा प्राप्नुते नरः॥ ६०॥
SP1670611: यं देवविद्याधरसिद्धसंघा गन्धर्वयक्षोरगदानवाश्च।
SP1670612: दृष्ट्वेश्वरं नीलपयोदकण्ठं संसारपङ्के न पुनः पतन्ति॥ ६१॥
SP1670621: जप्येश्वरमिति ख्यातमन्यदायतनं विभोः।
SP1670622: यत्र जप्यं पुरा कृत्वा लिङ्गं स्थापितवान्द्विजः॥ ६२॥
SP1670631: जप्येश्वरं तमासाद्य प्राणांस्त्यक्ष्यन्ति ये नराः।
SP1670632: ते जन्ममरणान्मुक्ता वत्स्यन्ति शिवसद्मनि॥ ६३॥
SP1670641: अन्यदायतनं व्यास शशिबिम्बार्धमौलिनः।
SP1670642: महाभैरव इत्येव ख्यातं जगति यन्मुने॥ ६४॥
SP1670651: यत्र शूलधरो देवः स्वयमेव वृषध्वजः।
SP1670652: चकार भैरवं रूपं नन्द्युमागणभीषणम्।
SP1670653: यं दृष्ट्वा हिमवत्पुत्री बभूव भयविह्वला॥ ६५॥
SP1670661: क्रीडाहेतोर्भवो यत्र त्रासयित्वा गिरीन्द्रजाम्।
SP1670662: सौम्यरूपो ऽभवद्भूयः सान्त्वयामास शैलजाम्।
SP1670663: महाभैरव इत्येव तदायतनमुच्यते॥ ६६॥
SP1670671: भैरवेश्वरमागम्य यः पश्येत पिनाकिनम्।
SP1670672: मरणं जन्म वा व्यास नासौ पुनरवाप्नुयात्॥ ६७॥
SP1670681: यदेवाश्रमिणां पुण्यं तथैशव्रतचारिणाम्।
SP1670682: तत्फलं भैरवं दृष्ट्वा प्राप्नोति नरपुंगवः॥ ६८॥
SP1670691: कुम्भकारेश्वरे चैव तथैवोत्कुटुकेश्वरे।
SP1670692: छगलण्डेश्वरे चैव महाभैरवजं फलम्।
SP1670693: दृष्टैरेभिस्त्रिभिः स्थानैस्त्रिलोकाधिपतिर्भवेत्॥ ६९॥
SP1670701: रुद्रकोटीति चाप्यन्यच्छिवायतनमुच्यते।
SP1670702: रुद्रकोटीत्रयं जप्त्वा तत्र नन्दी वरोत्तमान्॥ ७०॥
SP1670711: अवाप शंकराद्व्यास गणेशत्वं तथोत्तमम्।
SP1670712: यैस्तदायतनं दृष्टं ते यान्ति परमां गतिम्॥ ७१॥
SP1670721: देवदारुवने चापि भवस्यायतनं वरम्।
SP1670722: देवदारुवनैश्छन्नं सरलैश्च सुगन्धिभिः।
SP1670723: सदा संसेवितं तद्धि गन्धर्वोरगकिंनरैः॥ ७२॥
SP1670731: यत्र वैखानसा विप्राः शिवभक्तिपरायणाः।
SP1670732: भास्करानलसंकाशा निवसन्ति तपोधनाः॥ ७३॥
SP1670741: भिक्षाहेतोर्वनं तत्तु प्राविशत्किल शूलधृक्।
SP1670742: स दृष्टस्तत्र देवेशो मुनिभिः स्तब्धमेहनः॥ ७४॥
SP1670751: ईर्षया मुनिभिर्लिङ्गं तस्य देवस्य तन्महत्।
SP1670752: विमूढैः पातितं व्यास देवदारुवनाश्रमे॥ ७५॥
SP1670761: तस्मिन्निपतिते लिङ्गे लिङ्गहीनमभूज्जगत्।
SP1670762: स्थावरं जङ्गमं चैव बभौ सर्वं नपुंसकम्॥ ७६॥
SP1670771: ब्रह्मादयस्ततो देवास्ते च सिद्धा मुमुक्षवः।
SP1670772: ज्ञात्वा शंकरजं सर्वं तदपायं सुदारुणम्।
SP1670773: संस्तुत्य विविधैः स्तोत्रैः शंकरं पर्यतोषयन्॥ ७७॥
SP1670781: ततस्तदभवल्लिङ्गं यथापूर्वं पिनाकिनः।
SP1670782: जगतश्च पुनः पुंस्त्वं तत्क्षणात्समपद्यत॥ ७८॥
SP1670791: तत्र तैः स्थापितं लिङ्गं परमेशस्य भक्तितः।
SP1670792: तं दृष्ट्वा वाजिमेधानां दशानां प्राप्नुते फलम्॥ ७९॥
SP1670801: देवदारुवनं पुण्यमीशस्य सुमहात्मनः।
SP1670802: अभिगम्य नराः क्षिप्रं मुच्यन्ते सर्वपातकैः॥ ८०॥
SP1670811: दधीचेन महद्दिव्यं पुण्यमायतनं कृतम्।
SP1670812: स्थानेश्वरमिति ख्यातं लोकेषु त्रिषु विश्रुतम्॥ ८१॥
SP1670821: नरः स्थानेश्वरं प्राप्य यस्त्यजेत कलेवरम्।
SP1670822: योगैश्वर्यमनुप्राप्य स्वर्गलोके स मोदते॥ ८२॥
SP1670831: तक्षकेन भुजंगेन दृढभक्तेन शंकरे।
SP1670832: तक्षकेश्वरमित्येवं स्थापितं जाह्नवीतटे॥ ८३॥
SP1670841: देवदेवस्य रुद्रस्य यत्र सांनिध्यमुत्तमम्।
SP1670842: तं दृष्ट्वा पुरुषो देवमश्वमेधफलं लभेत्॥ ८४॥
SP1670851: अगस्त्येन कृतं चान्यत्पुण्यमायतनं महत्।
SP1670852: आम्रातेश्वरमित्येव ख्यातं जगति सुप्रभम्॥ ८५॥
SP1670861: दृष्ट्वा परमया भक्त्या पुरुषस्तं शुचिव्रतः।
SP1670862: देहभेदमनुप्राप्य शर्वलोकमवाप्नुयात्॥ ८६॥
SP1670871: गिरौ कालञ्जरे लिङ्गं दृष्ट्वा स्थानमुमापतेः।
SP1670872: अश्वमेधफलं प्राप्य रुद्रलोकमवाप्नुयात्॥ ८७॥
SP1670881: पुष्पभद्रमिति ख्यातं विन्ध्यप्रस्थे द्रुमावृतम्।
SP1670882: भवस्यायतनं पुण्यं देवगन्धर्वसेवितम्॥ ८८॥
SP1670891: यत्तद्रावणपुत्रेण मेघनादेन रक्षसा।
SP1670892: स्थापितं तोषयानेन सर्वभूतपतिं भवम्॥ ८९॥
SP1670901: यत्र मन्दोदरीपुत्रः स्थाणुना शशिमौलिना।
SP1670902: मायारथप्रदानेन कृतः प्राप्तमनोरथः॥ ९०॥
SP1670911: तं दृष्ट्वा चाभिगत्वा च प्रणम्य जगतः पतिम्।
SP1670912: पुरुषाः स्वर्गमायान्ति दिव्ययोगसमन्विताः॥ ९१॥
SP1670921: अन्ध्रेष्वायतनं चान्यच्छर्वस्य परमात्मनः।
SP1670922: नाम्ना चित्ररथं नाम योगसिद्धिवरप्रदम्॥ ९२॥
SP1670931: त्रिपुरस्य वधे यत्र रथो देवस्य धीमतः।
SP1670932: अमरैश्चित्रितो व्यास सोमादित्ययमादिभिः॥ ९३॥
SP1670941: सम्यगिष्टे तु यत्प्रोक्तमश्वमेधे फलं बुधैः।
SP1670942: तच्चित्ररथमासाद्य फलं लभति मानवः॥ ९४॥
SP1670951: अन्यदुक्तरथं नाम भवस्यायतनं शुभम्।
SP1670952: सुरकिंनरगन्धर्वैः सदा संसेवितं शुभम्॥ ९५॥
SP1670961: तत्र श्रीपर्वतं नाम पर्वतः श्रीनिकेतनः।
SP1670962: सिद्धामरशताकीर्णं सिद्धिक्षेत्रं तदुत्तमम्॥ ९६॥
SP1670971: शूलिनो यत्र लिङ्गानां पुण्यानां वरदायिनाम्।
SP1670972: सहस्रं स्थापितं व्यास शिलादेन महात्मना॥ ९७॥
SP1670981: ये पश्यन्ति तमीशानं श्रीपर्वतनिवासिनम्।
SP1670982: जन्ममृत्युभयं तेषां नास्ति पुंसां कदाचन॥ ९८॥
SP1670991: अनेनैव शरीरेण तस्मिन्क्षेत्रे भवात्मके।
SP1670992: योगाभ्यासपरा विप्राः सिद्धिं यान्ति यथेप्सिताम्॥ ९९॥
SP1671001: मनसाप्यभिगच्छन्ति ये नराः श्रीगिरिं मुने।
SP1671002: न ते यान्ति यमावासं मृत्यावपि समागते॥ १००॥
SP1671011: ततश्चोत्तरगोकर्णं हरलिङ्गाङ्किताश्रयम्।
SP1671012: तप्तं यत्र तपस्तीव्रं राक्षसैः पिशिताशनैः।
SP1671013: रावणाद्यैर्महाभागैर्लब्धश्च वर ईप्सितः॥ १०१॥
SP1671021: पुरा यत्र तपः कृत्वा प्रसाद्य च पिनाकिनम्।
SP1671022: त्रैलोक्ये चक्रवर्तित्वं रावणः समवाप्तवान्॥ १०२॥
SP1671031: अश्वमेधं दशगुणं तं दृष्ट्वा लभते नरः।
SP1671032: मृतश्च रुद्रसायुज्यं गच्छते नात्र संशयः॥ १०३॥
SP1671041: ततो दक्षिणगोकर्णं स्थानं पुण्यं पिनाकिनः।
SP1671042: स्पृक्कया जातया यत्र लङ्कामलयसानुषु।
SP1671043: अर्च्यते भगवान्देवः सर्वामरवरेश्वरः॥ १०४॥
SP1671051: एको राक्षसशार्दूलो यत्राद्यापि विभीषणः।
SP1671052: समभ्यर्च्यामरेशानं भुङ्क्ते राज्यमशङ्कितम्॥ १०५॥
SP1671061: मानवा ये ऽभिगच्छन्ति गोकर्णायतनाश्रमम्।
SP1671062: दशानामश्वमेधानां प्राप्नुवन्ति फलं शुभम्॥ १०६॥
SP1671071: हरिश्चन्द्र इति ख्यातो गिरिर्नैकविनिर्झरः।
SP1671072: जामदग्न्येन रामेण यस्मिन्नायतनं कृतम्॥ १०७॥
SP1671081: यत्र देवाश्च सिद्धाश्च यक्षगुह्यककिंनराः।
SP1671082: व्रतिनो योगिनश्चैव नेमिरे वृषभध्वजम्॥ १०८॥
SP1671091: हरिश्चन्द्रगिरेः शृङ्गमाकूटं यैर्निरीक्षितम्।
SP1671092: न ते वसन्ति मर्त्येषु देवा भूत्वा पुनर्मुने॥ १०९॥
SP1671101: उत्तरे नर्मदातीरे द्वियोजनपथान्तरे।
SP1671102: कारोहणमिति ख्यातं त्रिनेत्रायतनं महत्।
SP1671103: यत्र कः कां तपस्यन्तीमारुरोह प्रजापतिः॥ ११०॥
SP1671111: आरुरोह यतः कां तां तस्मिन्देशे प्रजापतिः।
SP1671112: तस्मात्कारोहणो नाम स देशः परिकीर्तितः॥ १११॥
SP1671121: तस्मिन्देशे ऽवतीर्णश्च भगवान्वृषभध्वजः।
SP1671122: पुण्यो ऽसौ सर्वदेशेभ्यो देशो येन निबोध तत्॥ ११२॥
SP1671131: क्षीणे कृतयुगे व्यास त्रेतायुगमुखोदये।
SP1671132: तस्मिन्पादं मुमोचैकं धर्मो ऽधर्मनिपीडितः।
SP1671133: द्वितीयं द्वापरे प्राप्ते तृतीयं च कलौ युगे॥ ११३॥
SP1671141: चतुर्थेनावतस्थे च यतः स भगवान्प्रभुः।
SP1671142: एवं स धर्मसंवासो देशः पुण्यतमः स्मृतः॥ ११४॥
SP1671151: भारभूतिस्त्वसौ भूत्वा तस्मिन्देशे पिनाकधृक्।
SP1671152: भारं बद्ध्वा द्विजातीनां नर्मदायां विचिक्षिपे।
SP1671153: कारुण्येन महादेवो मर्त्यजन्ममुमुक्षया॥ ११५॥
SP1671161: त्रेतायां दिण्डिमुण्डश्च शिरांसि विनिकृत्तवान्।
SP1671162: द्वापरे चाषढिर्भूत्वा नृत्तेनानुगृहीतवान्। ११६॥
SP1671171: एवं प्रतियुगं व्यास तस्मिन्देशे शिवः स्वयम्।
SP1671172: अवतीर्णश्चानुगृह्य ब्राह्मणाञ्छुद्धमानसान्॥ ११७॥
SP1671181: तेषामायतनानि स्म सर्वेषामेव सुव्रत।
SP1671182: येन दृष्टानि देवस्य ऐशानं लोकमाप्नुयात्। ११८॥
SP1671191: वर्तमाने कलौ चापि ज्ञात्वा दुःखार्दितं जगत्।
SP1671192: चत्वारः पुरुषान्सृष्ट्वा स्वस्मान्मुखचतुष्टयात्।
SP1671193: प्रोवाच परमेशानो लोकानुग्रहलिप्सया॥ ११९॥
SP1671201: यूयं यात महीं सर्वे द्विजा भूत्वा तपस्विनः।
SP1671202: मामेवैष्यथ योगीशा नीत्वा विप्रान्परं पदम्॥ १२०॥
SP1671211: ते तथोक्तास्तथा व्यास सम्बभूवुः पृथक्पृथक्।
SP1671212: मानुषेषु तदा विप्रा मोक्षधर्मपरायणाः॥ १२१॥
SP1671221: उज्जयन्यां गुरुज्येष्ठः कौशिको नाम नामतः।
SP1671222: द्वितीयो गार्ग्य इत्येव जम्बुमार्गे सतापनः॥ १२२॥
SP1671231: तृतीयश्चाभवन्मित्रो मथुरायां महामनाः।
SP1671232: ब्रह्मचारी चतुर्थस्तु कुरुष्वेव सुगोत्रजः॥ १२३॥
SP1671241: भगवानपि देवेशः परमैश्वर्यसंयुतः।
SP1671242: अत्रिवंशप्रसूतस्य नाम्ना वै सोमशर्मणः।
SP1671243: रूपं कृत्वा सिताङ्गं तु जगामात्रिगृहं शुभम्॥ १२४॥
SP1671251: स तं ब्रह्मविदं विप्रमात्रेयं सकुलं विभुः।
SP1671252: योगसिद्धिप्रदानेन अनुजग्राह शंकरः॥ १२५॥
SP1671261: अनुगृह्य तदा व्यास सकुलं द्विजसत्तमम्।
SP1671262: जगामोज्जयनीं देवः श्मशानं च विवेश ह॥ १२६॥
SP1671271: स तत्र भस्मनात्मानमवगुण्ठ्य वृषध्वजः।
SP1671272: उल्मुकं वामहस्तेन गृहीत्वा समुपाविशत्॥ १२७॥
SP1671281: तत्र प्रथममादाय शिष्यं कौशिकमीश्वरः।
SP1671282: जम्बूमार्गे द्वितीयं च मथुरायां ततो ऽपरम्॥ १२८॥
SP1671291: कन्यकुब्जे ततश्चान्यमनुगृह्य जगत्पतिः।
SP1671292: स्वसिद्धान्तं ददौ योगमुवाचेदं च लागुडिः ॥ १२९॥
SP1671301: रहस्यं परमं हीदं पञ्चार्थ इति संज्ञितम्।
SP1671302: विप्रान्मोचयितुं दत्तो युष्मभ्यं मर्त्यबन्धनात्।
SP1671303: अनया दीक्षया विप्रान्प्रापयध्वं परं पदम्॥ १३०॥
SP1671311: नदीतीरेषु मेध्येषु पुण्येष्वायतनेषु च।
SP1671312: शून्यागारेष्वरण्येषु वासो वः सङ्गवर्जितः॥ १३१॥
SP1671321: वचो भगवतः श्रुत्वा शिष्याः पशुपतेः स्वयम्।
SP1671322: यथाज्ञप्तमकुर्वन्त सर्वे ते भवतेजसः॥ १३२॥
SP1671331: धर्मपादाङ्किते देशे अवतीर्णो यतो भवः।
SP1671332: स देशः परमस्तस्मान्महापुण्यतमः स्मृतः॥ १३३॥
SP1671341: आश्रमो योगिनां यत्र प्रवृत्तः पापनाशनः।
SP1671342: अष्टायतनमित्येवं स्थानं तत्र महात्मनः।
SP1671343: यद्दृष्ट्वा मनुजा व्यास प्राप्नुवन्ति परं पदम्॥ १३४॥
SP1671351: कारोहणं शिवस्थानं ये ऽभिगच्छन्ति मानवाः।
SP1671352: गर्भशय्याभयं तेषां न भवेन्मुनिसत्तम॥ १३५॥
SP1671361: महीनर्मदयोर्मध्यं सह्यस्य च यदुत्तरम्।
SP1671362: एतत्पशुपतेः क्षेत्रं पुराणमृषिभिः स्तुतम्॥ १३६॥
SP1671371: तदागत्य नरो व्यास यद्यपि स्यात्सुपापकृत्।
SP1671372: सर्वपापविनिर्मुक्तो यथेष्टां प्राप्नुयाद्गतिम्॥ १३७॥
SP1671381: कारोहणं क्षेत्रमतीव पुण्यं शैवानि यत्रायतनानि धीमन्।
SP1671382: गत्वा नरास्तानि महाफलानि संसारगेहं न पुनर्विशन्ति॥ १३८॥
SP1671391: पुण्यमायतनं चान्यत्सप्तलोकाभिनन्दितम्।
SP1671392: वाराणस्यां मुनिश्रेष्ठ यत्र संनिहितो हरः॥ १३९॥
SP1671401: तत्र भागीरथी पुण्या उत्तरां भजते दिशम्।
SP1671402: सिद्धिक्षेत्रं बृहत्क्षेत्रं लोकेषु त्रिषु विश्रुतम्।
SP1671403: अविमुक्तं स्मृतं नाम्ना न विमुक्तं हरेण तु॥ १४०॥
SP1671411: अविमुक्तेश्वरं दृष्ट्वा तत्र देवमुमापतिम्।
SP1671412: गाणपत्या गतिः प्रोक्ता मृत्युकाले महामुने॥ १४१॥
SP1671421: यत्रास्ते गणपो द्वारि विद्युत्केशो महाबलः।
SP1671422: दण्डपाणिर्महातेजाः समादेशात्स्वयम्भुवः॥ १४२॥
SP1671431: तमदृष्ट्वा न पश्यन्ति देवदेवेश्वरं हरम्।
SP1671432: योगिनो ऽपि महात्मानः पुण्यं तस्यापि दर्शनम्॥ १४३॥
SP1671441: दण्डपाणिं शुचिं दृष्ट्वा हरदत्तवरं गणम्।
SP1671442: इह लोके सुखं प्राप्य यान्ति तस्य सलोकताम्॥ १४४॥
SP1671451: यत्र सिद्धा महात्मानो योगैश्वर्यबलान्विताः।
SP1671452: छन्नाः प्रदक्षिणं कृत्वा प्रणमन्ति स्वयम्भुवम्॥ १४५॥
SP1671461: शक्रः पितामहो विष्णुर्धनेशो वरुणो यमः।
SP1671462: हुतभुक्पवनः सोमः स्वयं चैव दिवाकरः॥ १४६॥
SP1671471: तथा सप्तर्षयः सिद्धा गन्धर्वाः पन्नगास्तथा।
SP1671472: अविमुक्तेश्वरं देवमर्चयन्ति यतव्रताः॥ १४७॥
SP1671481: ततः पुण्यतमं नास्ति सिद्धिक्षेत्रमिति श्रुतिः।
SP1671482: यत्र जन्तोर्विपन्नस्य मुक्तिः संसारबन्धनात्।
SP1671483: प्रसादाज्जायते शम्भोर्गुह्यमेतत्परं स्मृतम्॥ १४८॥
SP1671491: गङ्गा दक्षिणतस्तस्मिन्नुत्तरेण वराणसी।
SP1671492: तत्तयोर्मध्यतः क्षेत्रमविमुक्तं पिनाकिनः॥ १४९॥
SP1671501: लिङ्गे यत्स्थापिते शम्भोः प्राप्यते फलमन्यतः।
SP1671502: तत्सहस्रगुणं प्रोक्तमविमुक्ते निवेशिते॥ १५०॥
SP1671511: स्थापयेद्विधिना योषा पुमान्वा विधिपूर्वकम्।
SP1671512: सहस्रं स्थापितं तेन लिङ्गानां भवति प्रभोः।
SP1671513: त्र्यक्षः स गणपो भूत्वा रुद्रसायुज्यतां व्रजेत्॥ १५१॥
SP1671521: अतः कृत्वा मुनिश्रेष्ठ ब्रह्मादित्यपुरःसरैः।
SP1671522: लिङ्गानि स्थापितानि स्म सर्वैस्तत्र सुरोत्तमैः॥ १५२॥
SP1671531: तस्मिन्भगवतः क्षेत्रे काशिपुर्यामनेकशः।
SP1671532: दृश्यन्त्यद्यापि लिङ्गानि स्थापितानि महात्मभिः॥ १५३॥
SP1671541: स्मरणादविमुक्तस्य पृथिव्यन्ते ऽपि संस्थितः।
SP1671542: कल्मषैर्मुच्यते जन्तुर्मृतश्च लभते सुखम्॥ १५४॥
SP1671551: ब्राह्मणास्तन्न मुञ्चन्ति वेदतत्त्वार्थवेदिनः।
SP1671552: सिद्धाः पाशुपता ये च भवबन्धमुमुक्षवः॥ १५५॥
SP1671561: प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम्।
SP1671562: पुनर्निष्क्रान्तुमन्यत्र कस्य जन्तोर्मतिर्भवेत्॥ १५६॥
SP1671571: वेदेषु गीयते व्यास तत्क्षेत्रं शशिमौलिनः।
SP1671572: देहिनस्त्यजतः प्राणान्मोक्षसिद्धिगतिप्रदम्॥ १५७॥
SP1671581: ये ऽविमुक्ते वसन्ति स्म नरा रुद्रपरायणाः।
SP1671582: रुद्रस्य भवने व्यास ते वसन्ति न संशयः॥ १५८॥
SP1671591: तिष्ठन्गच्छन्स्वपञ्जाग्रन्कर्म कुर्वन्हसन्नपि।
SP1671592: यो ऽविमुक्तं स्मरेद्देही तस्य जन्मभयं कुतः॥ १५९॥
SP1671601: नाविमुक्तात्परं स्थानं नाविमुक्तात्परं पदम्।
SP1671602: नाविमुक्तात्परं पुण्यं नाविमुक्तात्परा गतिः॥ १६०॥
SP1671611: या गतिर्ध्यायतो नित्यं परे ब्रह्मणि लीयतः ।
SP1671612: सैव संत्यजतः प्राणानविमुक्ते स्मृता गतिः॥ १६१॥
SP1671621: क्षेत्रं गुह्यमुमापतेः सुरवृषैर्जुष्टं सदा सिद्धये
SP1671622: ब्रह्माद्यैरविमुक्तमेतदिति यत्संसेवितं शान्तये।
SP1671623: ये सेवन्ति तदीशभक्तिपरमा मर्त्याः शमप्राप्तये
SP1671624: मुक्तास्ते भवसागरप्रतिभयाद्गच्छन्ति मोक्षं परम्॥ १६२॥
SP1671631: प्रयागे च तपःक्षेत्रे देवस्यायतनं महत्।
SP1671632: तद्दृष्ट्वा मनुजः सम्यगिष्टां गतिमवाप्नुयात्॥ १६३॥
SP1671641: नैमिशे देवदेवेशं रुद्रस्यायतनं महत्।
SP1671642: दृष्ट्वा पापविनिर्मुक्तः स्वर्गलोकमवाप्नुयात्॥ १६४॥
SP1671651: धर्मक्षेत्रे कुरुक्षेत्रे स्थानं योगेश्वरं महत्।
SP1671652: तेन दृष्टेन विप्रेन्द्र गाणपत्यमवाप्नुयात्।
SP1671653: रुद्रलोकं मृतश्चासौ प्राप्नुयात्सर्वकामिकम्॥ १६५॥
SP1671661: गयायामन्यदीशस्य स्थानं भगवतः शुभम्।
SP1671662: गृध्रकूटेश्वरं नाम्ना सर्वपापविमोचनम्।
SP1671663: न तं दृष्ट्वा विमुह्यन्ति मृत्युकाले नरोत्तमाः॥ १६६॥
SP1671671: तत्र भस्म समालभ्य सर्वपापैर्विमुच्यते।
SP1671672: द्वादशाब्दव्रतस्यापि द्विजः फलमवाप्नुयात्॥ १६७॥
SP1671681: अन्यदायतनं पुण्यं मगधासु पिनाकिनः।
SP1671682: नगरे पाटलीपुत्रे नाम्ना प्रहसितेश्वरम्।
SP1671683: वाजिमेधमवाप्नोति अभिगम्य तमीश्वरम्॥ १६८॥
SP1671691: मगधासु स्मृतान्यष्टौ स्थानानि शशिमौलिनः।
SP1671692: शिष्यैः परिवृतो यानि बभ्राम लगुडीश्वरः ।
SP1671693: तानि दृष्ट्वा भवेत्सद्यः पुमान्पापविवर्जितः॥ १६९॥
SP1671701: यवनेषु स्मृतं स्थानं पुण्यमन्यदुमापतेः।
SP1671702: त्रिपिष्टपमवाप्नोति तं दृष्ट्वा मानवः प्रभुम्॥ १७०॥
SP1671711: अङ्गदेशे परं पुण्यं स्थानं प्रोक्तं पिनाकिनः।
SP1671712: हेमचूडेश्वरं नाम्ना तं दृष्ट्वा न विमुह्यति॥ १७१॥
SP1671721: भागीरथ्यास्ततो व्यास सागरस्य च संगमे।
SP1671722: ब्रह्मणा स्थापितं लिङ्गं तस्य पुण्यं पिनाकिनः॥ १७२॥
SP1671731: तस्याभिगमनादेव सर्वपापैर्विमुच्यते।
SP1671732: दशानामश्वमेधानां तं दृष्ट्वा प्राप्नुते फलम्॥ १७३॥
SP1671741: प्रभासे शूलिनं दृष्ट्वा देहभेदे गणो भवेत्।
SP1671742: पुष्करे शंकरं दृष्ट्वा न शोचेन्मृत्युजन्मनी॥ १७४॥
SP1671751: महेन्द्रे च नगश्रेष्ठे रुद्रस्यायतनं शुभम्।
SP1671752: अभिगम्य नरो विद्वानश्वमेधफलं लभेत्॥ १७५॥
SP1671761: महाकालेश्वरं देवमुज्जयन्यां महाव्रतः।
SP1671762: अभिगम्याप्नुयाद्विद्वान्गणत्वं त्रिपुरद्विषः॥ १७६॥
SP1671771: द्रिमिचण्डेश्वरं देवं दृष्ट्वा त्रायति मानवः।
SP1671772: कुलानुभयजान्सप्त सर्वयज्ञानि चाप्नुते।
SP1671773: शङ्कुकर्णेश्वरं दृष्ट्वा न शोचेन्मरणं नरः॥ १७७॥
SP1671781: तथा हिमगिरेः शृङ्गे सिद्धकिंनरसेविते।
SP1671782: डिङ्गेश्वरमिति ख्यातं रुद्रस्यायतनं महत्॥ १७८॥
SP1671791: अभिगम्य च दृष्ट्वा च तं देवं जगतः प्रभुम्।
SP1671792: शिवभक्तिपरो व्यास सर्वकामानवाप्नुयात्।
SP1671793: मृतस्य च गतिः प्रोक्ता गाणपत्या महात्मनः॥ १७९॥
SP1671801: सुवर्णाक्षे परं स्थानं देवदेवस्य संस्मृतम्।
SP1671802: तं दृष्ट्वा मनुजो भक्त्या राजसूयफलं लभेत्॥ १८०॥
SP1671811: सप्तगोदावरे स्थानं दृष्ट्वा पुण्यं कपर्दिनः।
SP1671812: अश्वमेधफलं प्राप्य स्वर्गलोके वसेन्नरः॥ १८१॥
SP1671821: स्थानं पुण्यतमं चान्यच्छ्रेष्ठं जगति कीर्तितम्।
SP1671822: नाम्ना भद्रेश्वरं ख्यातं देवगन्धर्वसेवितम्।
SP1671823: तं वीक्ष्य मानवो व्यास सर्वयज्ञफलं लभेत्॥ १८२॥
SP1671831: जन्मप्रभृति यत्किंचित्कृतं कर्माशुभं महत्।
SP1671832: तत्क्षणान्नश्यते सर्वं दृष्ट्वा भद्रेश्वरं हरम्।
SP1671833: यत्र तत्र मृतश्चापि गाणपत्यं लभेन्नरः॥ १८३॥
SP1671841: धन्यास्ते मानवा व्यास रुद्रभक्ता महौजसः।
SP1671842: ये प्रपश्यन्ति भद्रेशं जन्ममृत्युभयापहम्॥ १८४॥
SP1671851: एकाम्रे च विभोः स्थानं दृष्ट्वा स्वर्गमवाप्नुयात्।
SP1671852: विरजायां हरं दृष्ट्वा वाजिमेधमवाप्नुयात्॥ १८५॥
SP1671861: नेपालेषु च देवेशं दृष्ट्वा पशुपतिं प्रभुम्।
SP1671862: दशाश्वमेधानाप्नोति रुद्रलोकं च गच्छति।
SP1671863: देहभेदं च सम्प्राप्य पशुत्वाद्विप्रमुच्यते॥ १८६॥
SP1671871: अन्यद्धिमगिरौ स्थानं नैकतुङ्गाधिपेश्वरम्।
SP1671872: तं दृष्ट्वा न पुनर्मर्त्यो जायते मुनिसत्तम।
SP1671873: भक्तानां प्रणतानां च सर्वकामप्रदं स्मृतम्॥ १८७॥
SP1671881: एवमेतानि पुण्यानि रुद्रस्यायतनानि ते।
SP1671882: कथितानि मया व्यास यैर्गतिः प्राप्यते शुभा॥ १८८॥
SP1671891: य एतानि पठेद्विप्रः प्रयतात्मा दिने दिने।
SP1671892: तस्य सायुज्यतां देवो ददाति वृषभध्वजः॥ १८९॥
SP1671901: मङ्गल्यं परमं पुण्यं मेध्यं सर्वभयापहम्।
SP1671902: स्थानानां कीर्तनं शम्भोर्नित्यं कुर्याच्छुचिर्नरः॥ १९०॥
SP1671911: इति गिरिवरपुत्रीविष्णुगङ्गाधरस्य
SP1671912: जगति वसतिरेषा सर्वकामप्रदा ते।
SP1671913: मुनिवरसुत शिष्टा पापसंशुद्धकर्त्री
SP1671914: वद किमपरमन्यद्व्यास तुभ्यं वदामि॥ १९१॥
SP1679999: इति स्कन्दपुराणे सप्तषष्ट्युत्तरशततमो ऽध्यायः॥