१६७ र३

Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 3

E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006.

SPra167.3.0010: सनत्कुमार उवाच।
SPra167.3.0011: जप्येश्वरमिति ख्यातं कालेयायतनं शुभम्।
SPra167.3.0012: यत्र नन्दिर्जपं कृत्वा लिङ्गं स्थापितवान्द्विज॥ १॥
SPra167.3.0021: †यदृशिते पशुपतिर्यत्पश्यति करोति यत्।
SPra167.3.0022: नरो जाप्येश्वरो तद्धि जाप्यं माहेश्वरं वरम्†॥ २॥
SPra167.3.0031: जप्येश्वरं तदासाद्य च्यवनं न भवत्युत।
SPra167.3.0032: ते जन्ममरणान्मुक्ता †वसत्कालविवेश्वरम्†॥ ३॥
SPra167.3.0041: अन्यदायतनं तेषां बालचन्द्रावधारिणः।
SPra167.3.0042: महाभैरवमित्येवं ख्यातं विष्णुपदेषु यत्॥ ४॥
SPra167.3.0051: यत्र स्थाणुः पतिर्देवः †तारस्थः† स्थावरोपमः।
SPra167.3.0052: अकरोद्भैरवं रूपं वर्धमानं विभीषणम्॥ ५॥
SPra167.3.0061: यं दृष्ट्वा तु महादेवी उमा हैमवती शुभा।
SPra167.3.0062: नोपलेभे भयात्संज्ञां नन्दिश्च गणपः प्रभुः॥ ६॥
SPra167.3.0070: व्यास उवाच।
SPra167.3.0071: भगवन्विदुषां श्रेष्ठ देवश्रेष्ठो महेश्वरः।
SPra167.3.0072: कीदृशं तु तदा रूपं चकार चरितव्रत॥ ७॥
SPra167.3.0081: यं दृष्ट्वा सभयो नन्दिः सभया च गिरेः सुता।
SPra167.3.0082: बभूवतुर्भयोपेतौ †सहोमौ तौषिणौ† तथा॥ ८॥
SPra167.3.0090: सनत्कुमार उवाच।
SPra167.3.0091: तस्मिन्देशे दिशां पालो दिग्वासा व्यास शंकरः।
SPra167.3.0092: रराम रमतां श्रेष्ठः सनन्दिः सह चोमया॥ ९॥
SPra167.3.0101: क्रीडया भीषयन्देवस्तान्सर्वान्सर्वगः प्रभुः।
SPra167.3.0102: चकार भैरवं रूपं रूपकर्ता सुरारिहा॥ १०॥
SPra167.3.0111: शताननः शतभुजः शतपादः शतोदरः।
SPra167.3.0112: शतग्रीवः शतावर्तः शतमेघसमप्रभः॥ ११॥
SPra167.3.0121: शतह्रदालोलजिह्वः शतानलसमाधरः।
SPra167.3.0122: शतदंष्ट्राकरालास्यः शतसर्पविभूषणः॥ १२॥
SPra167.3.0131: †अग्निवर्णैरग्निमुखैर्† नेत्रैः पिङ्गलपक्ष्मभिः।
SPra167.3.0132: लोकसंहननः क्रुद्धः शतानन इवानलः॥ १३॥
SPra167.3.0141: †रञ्जनैर्† मृतशीर्षैश्च सितमालावलम्बिभिः।
SPra167.3.0142: †समक्लेशकपालेन† करस्थेन विराजितः॥ १४॥
SPra167.3.0151: भस्मरूषितसर्वाङ्गः सर्पाभरणवेष्टनः।
SPra167.3.0152: स रूपं भैरवं कृत्वा प्रजहासाशनीरवम्॥ १५॥
SPra167.3.0161: तद्दृष्ट्वा भैरवं रूपं भैरवस्य महात्मनः।
SPra167.3.0162: संमीलितेक्षणो नन्दिः पपात द्रुमवत्क्षितौ॥ १६॥
SPra167.3.0171: उमा पिधाय पाणिभ्यां कान्तमाननपङ्कजम्।
SPra167.3.0172: सशब्दरसनासीना न चोन्मीलयते ऽक्षिणी॥ १७॥
SPra167.3.0181: प्रमथा नन्दिना सार्धं विस्मयं परमं गताः।
SPra167.3.0182: मृतकल्पा बभूवुस्ते निरस्तबलसंनिभाः॥ १८॥
SPra167.3.0191: एवं वित्रास्य वै नन्दिमम्बां च प्रमथानपि।
SPra167.3.0192: चकार रूपं वरदः शिवः शिवतरं पुनः॥ १९॥
SPra167.3.0201: सो ऽम्बिकां प्राञ्जलीभूतां जडीभूतं च नन्दिनम्।
SPra167.3.0202: उत्थापयत भूतेशः सस्यानीव जलैर्घनः॥ २०॥
SPra167.3.0211: किमिदं चेष्टितं वो ऽद्य चन्द्रार्धकृतशेखरः।
SPra167.3.0212: गणानुत्थापयामास शुक्रो दैत्यान्यथा मृतान्॥ २१॥
SPra167.3.0221: अम्बास्यं च परिष्वज्य आघ्राय च हरो ऽम्बिकाम्।
SPra167.3.0222: चकाराङ्के प्रभामिन्दोर्मेरुः पर्वतराडिव ॥ २२॥
SPra167.3.0231: महाभैरवमित्येवं तदायतनमुच्यते।
SPra167.3.0232: महाभैरवरूपो हि तत्रासीद्भगवान्भवः॥ २३॥
SPra167.3.0241: †बकदानवरूपेण पुनर्भैरवरूपवान्।
SPra167.3.0242: पुनस्तु तेन रूपेण भैरवस्तु यदुक्तवान्†॥ २४॥
SPra167.3.0251: यैर्महाभैरवं दृष्टं ये च द्रक्ष्यन्ति मानवाः।
SPra167.3.0252: न तेषां तु पुनर्मृत्युर्न जरा जन्म एव वा॥ २५॥
SPra167.3.0261: यच्चेहाश्रमिणां पुण्यं तथैव ब्रह्मचारिणाम्।
SPra167.3.0262: महाभैरवमासाद्य तत्सर्वं लभते नरः॥ २६॥
SPra167.3.0271: कुम्भकर्णेश्वरे चैव तथैवोत्कुटुकेश्वरे।
SPra167.3.0272: छगलण्डेश्वरे चैव महाभैरवजं फलम्॥ २७॥
SPra167.3.0281: एतेषु त्रिषु दृष्टेषु त्रिदृष्ट्यायतनेषु च।
SPra167.3.0282: भुञ्जते पुरुषः पुण्यं त्रिषु लोकेषु यद्बहु॥ २८॥
SPra167.3.0291: रुद्रकोटीति चाप्यन्यद्रुद्रायतनमुच्यते।
SPra167.3.0292: रुद्रकोटित्रयं जप्यं तत्र नन्दिश्चकार सः॥ २९॥
SPra167.3.0301: कृतेन तेन जप्येन तस्य दृष्टेन शूलिना।
SPra167.3.0302: स्वरूपममरत्वं च वरदत्वं सुखानि च।
SPra167.3.0303: शाकद्वीपाधिपत्यं च दत्तानि वृषकेतुना॥ ३०॥
SPra167.3.0311: तत्रायामशतं लिङ्गं नन्दिना कुलनन्दिना।
SPra167.3.0312: स्थाणोः स्थाणुप्रभावेन स्थापितं चिरजीविना॥ ३१॥
SPra167.3.0321: अवतीर्येन्द्रभवनाद्गन्धर्वा यत्र चाप्सराः।
SPra167.3.0322: सिद्धचारणसंघाश्च इदं लिङ्गं स्तुवन्ति च॥ ३२॥
SPra167.3.0331: शरभा यत्र सगजाः ससिंहमहिषास्तथा।
SPra167.3.0332: †न ववन्दुर्च तं† लिङ्गं वनं प्रविविशुः पुनः॥ ३३॥
SPra167.3.0341: †गावो गोमायवस्तं तु तत्र स्वाहा विभाविताः।
SPra167.3.0342: प्रणम्य भावा द्रक्ष्यन्ति स्नात्वागत्य च नित्यशः†॥ ३४॥
SPra167.3.0351: †तावद्यं कः सुरैर्दृष्टाः† पुरुषैरीश्वरप्रियैः।
SPra167.3.0352: रुद्रजापफलं तेषां गाणपत्यं च जायते॥ ३५॥
SPra167.3.0361: देवदारुवने चापि भवस्यायतनं शुभम्।
SPra167.3.0362: देवदारुवनैश्छन्नं सरलैश्च सुगन्धकैः॥ ३६॥
SPra167.3.0371: †शीतप्रभा हिमवतः प्रभावावदनस्य यत्†।
SPra167.3.0372: रमणीयं वनोद्देशं चारणोरगकिंनरैः॥ ३७॥
SPra167.3.0381: यत्र वैखानसा नाम सदारतनयाग्नयः।
SPra167.3.0382: भास्करानलसंकाशा निवसन्ति तपोधनाः॥ ३८॥
SPra167.3.0391: देवाश्च पूर्वदेवाश्च यत्रागत्य सुरासुराः।
SPra167.3.0392: प्रणेमुः प्रयतात्मानः सदा किंकरवादिनः॥ ३९॥
SPra167.3.0401: देवदार्वाश्रमे तस्मिंल् लिङ्गं वै परमर्षिभिः।
SPra167.3.0402: स्थापितं यत्र ते नित्यं नेमुः शूलधरं हरम्॥ ४०॥
SPra167.3.0411: लिप्सुश्च भिक्षां यत्र स्वां गतः स्थाणुरजः प्रभुः।
SPra167.3.0412: संप्रविष्टश्च प्रालब्धो मुनिभिः स्तब्धमेहनः॥ ४१॥
SPra167.3.0421: अर्द्यमानस्य तैस्तस्य लिङ्गं तु सुमहात्मभिः।
SPra167.3.0422: पपातेन्द्रध्वजाकारं देवदारुवनाश्रमे॥ ४२॥
SPra167.3.0431: ततस्तेषामृषीणां च जगतः पुरुषाश्च ये।
SPra167.3.0432: लिङ्गे निपतिते तस्मिन् †लिङ्गजं विनशुः फलम्†॥ ४३॥
SPra167.3.0441: ततो नपुंसकप्राये लोके पुंस्त्वावघातिते।
SPra167.3.0442: भेजुर्नरा न नार्यश्च सुरतोत्सुकतां पराम्॥ ४४॥
SPra167.3.0450: व्यास उवाच।
SPra167.3.0451: भगवन्भगवान्देवः शंकरो घनवाहनः।
SPra167.3.0452: किमर्थं न हरः क्रुद्धः किमर्थं च तपोधनाः॥ ४५॥
SPra167.3.0461: पुंस्त्वावघातिते तस्य कथं केन च कुत्र च।
SPra167.3.0462: चतुर्विधानां भूतानां पुरुषत्वं प्रतिकृतम्॥ ४६॥
SPra167.3.0471: दृष्ट्वाजं ब्राह्मणास्तं च नग्नं वै स्तब्धमेहनम्।
SPra167.3.0472: यथा क्रुद्धा मुनिगणास्तत्त्वं मे गद मानद॥ ४७॥
SPra167.3.0480: सनत्कुमार उवाच।
SPra167.3.0481: व्यास व्यास पुरा देवस्तपसा भावितो महान्।
SPra167.3.0482: अचिन्तयत को ऽन्यो ऽस्ति मम तुल्यः पदत्रये।
SPra167.3.0483: †अथवा न तु वामो यं पृथिवीर्गौरवापि च†॥ ४८॥
SPra167.3.0491: एवं ज्ञास्यामि तं भावं यो मया ह्यधिको भुवि।
SPra167.3.0492: यो मे पर्यटतो भिक्षां शिरश्छित्त्वा सकुण्डलम्।
SPra167.3.0493: दास्यते योगमास्थाय स मयाप्यधिको भुवि॥ ४९॥
SPra167.3.0501: इत्येवं मनसा चिन्त्य अचिन्त्यो भगवान्हरः।
SPra167.3.0502: मुनिकोपकरं रूपं सिंहकोपः समास्थितः॥ ५०॥
SPra167.3.0511: स वै पर्यचरल्लोकान्कदाचित्क्रतुजिद्विभुः।
SPra167.3.0512: देवदारुवनं नग्नः प्रविष्टः स्तब्धमेहनः॥ ५१॥
SPra167.3.0521: तापसाश्च कृताहाराः सुखासीनाः सुखासनैः।
SPra167.3.0522: सपुत्राः सकलत्राश्च तपोधनकरेणवः॥ ५२॥
SPra167.3.0531: देवश्चान्धककामघ्नो नग्नो वै स्तब्धमेहनः।
SPra167.3.0532: प्रविष्ट आश्रमं तेषां स दृष्टश्च तपोधनैः॥ ५३॥
SPra167.3.0541: †पुत्रभार्यासयुद्धञ्च भ्रातृभार्यासमन्वितः†।
SPra167.3.0542: ते तं विकृतमालोक्य चुक्रुधुः तापसाग्नयः ॥ ५४॥
SPra167.3.0551: देवं विकृतरूपेण तत्र दृष्ट्वा महेश्वरम्।
SPra167.3.0552: असृजन्रोमकूपेभ्यस्तेजोमयमरीचयः॥ ५५॥
SPra167.3.0561: तेषामन्यायतः कोपं हरिकोपो निशाम्य तु।
SPra167.3.0562: भूयः संवर्धयत्कोपं हव्यासेकैरिवानलः॥ ५६॥
SPra167.3.0571: अथ दिग्वाससं देवं हन्तुकामास्तपोधनाः।
SPra167.3.0572: उत्तस्थुः सहसा सर्वे हव्यसिक्ता इवानलाः॥ ५७॥
SPra167.3.0581: तपोधनास्तपोध्यक्षं दुद्रुवुः शतशो भवम्।
SPra167.3.0582: उद्गच्छन्तो यथा भिन्ना मेरुं वै भास्कराः कराः॥ ५८॥
SPra167.3.0591: विष्टराणि च विसृज्य कुण्डलान्यासनानि च।
SPra167.3.0592: कमण्डलून्सोदकांश्च दण्डकृष्णाजिनानि च॥ ५९॥
SPra167.3.0601: मुष्टिना यष्टिना चान्ये तलैस्तालनिभैः परे।
SPra167.3.0602: आर्दयन्मुनयो रुद्रमपध्वंसेति वादिनः॥ ६०॥
SPra167.3.0611: निर्गच्छ त्वं महाक्रूर अस्माकमाश्रमादितः।
SPra167.3.0612: मा त्वां वयं करिष्यामो भस्मानि स्वेन तेजसा॥ ६१॥
SPra167.3.0621: लिङ्गं पततु ते पाप अस्माकं वचनात्त्विदम्।
SPra167.3.0622: श्रुत्वेदं मानयन्विप्रांल् लिङ्गं तत्याज शंकरः॥ ६२॥
SPra167.3.0631: इत्येवमर्द्यमानस्य तत्काले तस्य शूलिनः।
SPra167.3.0632: बहुलिङ्गस्य तल्लिङ्गं भग्नध्वज इवापतत्॥ ६३॥
SPra167.3.0641: लिङ्गे च पतिते तस्मिंल् लिङ्गेशस्य महात्मनः।
SPra167.3.0642: केनाप्यन्तर्हितेनासीत्कृतो हाहेति निस्वनः॥ ६४॥
SPra167.3.0651: सो ऽपि लिङ्गं प्रभुस्त्यक्त्वा मेरुशृङ्गमिवात्मनः।
SPra167.3.0652: अन्तर्धानं गतो दीपो वायुना चुम्बितो यथा॥ ६५॥
SPra167.3.0661: चतुर्विधानां भूतानां पुंस्त्वं चोपहतं तथा।
SPra167.3.0662: ईत्या महत्या सम्पन्नं सस्यजातमिवोत्तमम्॥ ६६॥
SPra167.3.0671: नारीणां च नराणां च ये च कामकथाश्रयाः।
SPra167.3.0672: वन्ध्यश्रमाः समुद्भूताः सर्वतो विलयं ययुः॥ ६७॥
SPra167.3.0681: निःस्नेहनरनारीकं स्नेहस्थाननिराकृतम्।
SPra167.3.0682: समुत्सुकमभूत्सर्वं त्रैलोक्यं विकलीकृतम्॥ ६८॥
SPra167.3.0691: ते ऽद्भुतं मुनयो मूढा देवदारुवने तदा।
SPra167.3.0692: वेदयन्तो ऽपि न विदुः †सत्तमं प्रस्थितस्तदा†॥ ६९॥
SPra167.3.0701: वैखानसानां तद्वृन्दं चिन्ताव्याकुलितं बभौ।
SPra167.3.0702: जटाज्वालं बभौ वृन्दं महद्धव्यभुजामिव॥ ७०॥
SPra167.3.0711: तत्रासीद्रविजो वृद्धस्तपोधनमहत्तरः।
SPra167.3.0712: पितामह इवायुष्मान्स उवाच तपोधनान्॥ ७१॥
SPra167.3.0721: भो तपश्चरणेशानास्तपोधनदिवाकराः।
SPra167.3.0722: निबोधध्वं मतं मे ऽद्य यथा निर्वाणमाप्स्यथ॥ ७२॥
SPra167.3.0731: न वयं वेदितुं शक्ता ध्यानेन तपसापि च।
SPra167.3.0732: ब्रह्मरूपधरं भूतं तं महान्तं न संशयः॥ ७३॥
SPra167.3.0741: युष्माकं कोपदीप्तानां हन्तुं समुपधावताम्।
SPra167.3.0742: †द्रसा पितामहा देवः किं वयोन्यो ऋते हरं†॥ ७४॥
SPra167.3.0751: †यथेभान्द्रवतो वन्येभान्सरतो यथा†।
SPra167.3.0752: न चिन्तयन्ति दर्पेण तथा सो ऽस्मान्द्विजोत्तमाः॥ ७५॥
SPra167.3.0761: स यथा लिङ्गवांश्चैव दिग्वासाश्च यथा प्रभुः।
SPra167.3.0762: कार्यवांश्चरते व्यक्तं चन्द्रापीडः प्रजापतिः॥ ७६॥
SPra167.3.0771: त्रिदृष्टिस्त्रिदशेशो यो न स्यात्प्राणिधरो भवः।
SPra167.3.0772: हूंकारं क्रोधदीप्तानां युष्माकं न सहेत सः॥ ७७॥ SPra167.3.0781: भुक्त्वा फलाम्बुपर्णांश्च कुर्वन्ति तप उत्तमम्।
SPra167.3.0782: प्रयाता ब्रह्मलोकाय खेचराः खेचरा इव॥ ७८॥
SPra167.3.0791: ते मुहूर्तात्तदा तूर्णं सेव्यमानास्तपोधनाः।
SPra167.3.0792: संप्राप्ता ब्रह्मसदनं धर्माचाररता यथा॥ ७९॥
SPra167.3.0801: हतक्लमां ते ऽथ सभां सूर्यरश्मिसमप्रभाः।
SPra167.3.0802: प्रविष्टा मुनयः सर्वे †जीवामूर्जगुहामिव†॥ ८०॥
SPra167.3.0811: काञ्चनाम्बुरुहासीनं साक्षमालाकमण्डलुम्।
SPra167.3.0812: पश्यन्ति वेदसहितं सावित्रीसहितं तथा॥ ८१॥
SPra167.3.0821: भोःशब्दालंकृतं कृत्वा ब्रह्मघोषं तपोधनाः।
SPra167.3.0822: नेमुः पितामहं देवं † नेदुर्ये मां सुरासुराः †॥ ८२॥
SPra167.3.0831: तानर्च्य स मुनीन्ब्रह्मा स्वागतेन सुगन्धिभिः।
SPra167.3.0832: आवेदयत मे कृत्यमित्याह भगवांस्तदा॥ ८३॥
SPra167.3.0841: इत्यम्बुरुहजे वाक्यं ब्रुवाणे प्रपितामहे।
SPra167.3.0842: ऊचुरुच्चैः सुरेशानं देवदारुवनालयाः॥ ८४॥ SPra167.3.0851: तपस्यतां हि नस्तत्र भगवंस्तेजसा वृतः।
SPra167.3.0852: स को ऽपि द्विजरूपेण †कोपीनत्रासवर्जितः†॥ ८५॥
SPra167.3.0861: कपालपाणिर्विकृतो भस्माङ्गो ह्यूर्ध्वमेहनः।
SPra167.3.0862: †विवेश नाश्रमस्तेन† आकाशादिव चागतः॥ ८६॥
SPra167.3.0871: तं दृष्ट्वैव च नो देव विकृतं विकृताकृतिम्।
SPra167.3.0872: अक्रोधनानां संजातः क्रोधः क्रोधविनाशन॥ ८७॥
SPra167.3.0881: पुत्रदाराणां क्षयं च वयं क्रोधाग्निना वृताः।
SPra167.3.0882: †तनुवं समनुक्रान्ता† हन्तुमीर्ष्यासमीरिताः॥ ८८॥
SPra167.3.0891: सो ऽस्माभिस्त्रास्यमानश्च हन्यमानश्च पूरुषः।
SPra167.3.0892: नात्यर्थं याति संरम्भं धाराहत इवाचलः॥ ८९॥
SPra167.3.0901: प्रहारा उद्धता ऽस्माभिर्दण्डाश्च विहता विभो।
SPra167.3.0902: पतन्ते पुत्रदारेषु अस्मासु च विशेषतः॥ ९०॥
SPra167.3.0911: सो ऽस्माभिः क्रुश्यमानश्च वध्यमानश्च लोकपः।
SPra167.3.0912: नाक्षुभ्यत महातेजा वज्राहत इवाचलः॥ ९१॥
SPra167.3.0921: तस्य पर्वतकूटाभं मेरुनिर्माणसंनिभम्।
SPra167.3.0922: लिङ्गमाशु समक्षं तत्पपातेन्द्रध्वजो यथा॥ ९२॥
SPra167.3.0931: स तु लिङ्गं महत्त्यक्त्वा ततो ऽन्तर्धानमागमत्।
SPra167.3.0932: अन्तर्हितो ऽभवत्कामो दरिद्रस्य यथा तथा॥ ९३॥
SPra167.3.0941: पतता तेन लिङ्गेन तस्यास्माकं तदाश्रमे।
SPra167.3.0942: चतुर्विधानां भूतानां पुंस्त्वस्योपद्रवः कृतः॥ ९४॥
SPra167.3.0951: ते वयं विफला देव भवन्तं शरणं गताः।
SPra167.3.0952: सफलान्कुरु नः क्षिप्रं तरून्काल इवागतः॥ ९५॥
SPra167.3.0961: मुनिभिर्विविधैरुक्तः पद्मगर्भः पितामहः।
SPra167.3.0962: †भूतानां स प्रभुः प्रीत्या सन्तर्पय तपोधनान्†॥ ९६॥
SPra167.3.0971: यदि पुंस्त्वं पुनर्लब्धुं ज्ञातुं तं चेच्छथानघाः ।
SPra167.3.0972: यदुपायं वदाम्यद्य कुरुध्वं तदशङ्कया॥ ९७॥
SPra167.3.0981: मध्ये ऽश्रमस्य यल्लिङ्गं पतितं वै तपोधनाः।
SPra167.3.0982: तत्स्थापयत तत्रैव ततः सुखमवाप्स्यथ॥ ९८॥
SPra167.3.0991: †अर्चच्छयन्तः सद्भावात्पावणस्यार्थमाश्रिताः।
SPra167.3.0992: लिङ्गस्यार्चयनं तस्य कुरुध्वं सुमुखो हरः†॥ ९९॥
SPra167.3.1001: लिङ्गे समर्चिते तस्मिन्स हि वो गोवृषध्वजः।
SPra167.3.1002: अक्षयं दास्यते देवः † सेनासंगमनोत्सवः†॥ १००॥
SPra167.3.1011: इत्युक्त्वाश्वासिताश्चापि सस्नेहं च विसर्जिताः।
SPra167.3.1012: मुनयो ऽश्रममागम्य चक्रुः पैतामहं वचः॥ १०१॥
SPra167.3.1021: तत्स्थाप्य लिङ्गं † भवतृग्निपोस्तै† गन्धेन माल्येन च पूजयित्वा।
SPra167.3.1022: पुंस्त्वं पुनः प्राप्य रतिश्च तुष्टो लोकश्च तुष्टे वृषमेघवाहे॥ १०२॥
SPra167.3.1031: अभ्येत्य सोमस्त्रिपुरारिरुग्रस्तमाश्रयं दीप्ततपोधनानाम्।
SPra167.3.1032: उवाच हृष्टो ऽस्मि महर्षयो ऽद्य †लिङ्गे र्च्चना ये च तथा भक्त्या तृटया तपोधनाः।
SPra167.3.1033: भवार्चनेन च ततो पि तुष्टो हितं ब्रुवध्वं प्रवदामि येन†॥ १०३॥
SPra167.3.1041: निशम्य देवस्य तु भावभाषितं वचस्तदा पावकसंनिभा द्विजाः।
SPra167.3.1042: समन्तमूचुर्वृषमेघवाहनं घनावसंकाशगणं त्रिलोचनम्॥ १०४॥
SPra167.3.1051: विभो मुनीनां यदि नाम तुष्यसे †तुषारनिर्याससितार्द्धभूषणः†।
SPra167.3.1052: क्षमस्व देवेश कृतं विरुद्धं लिङ्गार्चनं यन्न कृतं विमूढैः॥ १०५॥
SPra167.3.1061: ततो मुनींस्तान्यशसायुषा श्रिया सुखैश्च तैस्तैरनुगृह्य भूतपः।
SPra167.3.1062: उमां परिष्वज्य स पार्वतीपतिरुवाच एकादशषोडशात्मकः॥ १०६॥
SPra167.3.1071: वराश्रमं वो नवकोटिपावनं भविष्यति ख्यातमिदं तपोधनाः।
SPra167.3.1072: सुरासुरैः पन्नगयक्षराक्षसैः सकिंनरैः सिद्धगणैश्च सेवितम्॥ १०७॥
SPra167.3.1081: इहैत्य ये मानवकाः शमात्मका असूंस्त्यजिष्यन्ति महेश्वरे रताः।
SPra167.3.1082: असंशयं ते यमलोकवासिनश्चिरं भविष्यन्ति ममालयौकसः॥ १०८॥
SPra167.3.1091: इति भुवनपतिर्भवारिरीशः †श्रुतिभवमुक्तिलोकनाथः†।
SPra167.3.1092: मुनिगणगणमध्यगः †सहायः सैकतपतिचवीरवङ्करपि†॥ १०९॥
SPra167.3.9999: इति स्कन्दपुराणे देवदारुवने महादेवस्थानं माहात्म्यवर्णने नाम॥