Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 1
E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006.
SPra167.1.0010: व्यास उवाच।
SPra167.1.0011: दिवि वा भुवि वा यानि देवस्य मुनिपुंगव।
SPra167.1.0012: पुण्यान्यायतनानीह तानि मे कथयानघ॥ १॥
SPra167.1.0021: दिदृक्षुर्यत्फलं वापि तेषां विन्दति दर्शनात्।
SPra167.1.0022: तन्मे सर्वजनस्यार्थे कथयानघ सुव्रत॥ २॥
SPra167.1.0031: वेदव्यासेन विधिना कुमारः स महाकविः।
SPra167.1.0032: इत्येवं वै पुनः पृष्टो विमृष्य च मनोगतम्॥ ३॥
SPra167.1.0040: सनत्कुमार उवाच।
SPra167.1.0041: कालिनन्दन भो व्यास अहो प्रश्नकुतूहलम्।
SPra167.1.0042: समत्वं मम तुभ्यं च तृतीयो नावयोः समः॥ ४॥
SPra167.1.0051: एकदा तु महेशेन सहास्ते गिरिराजजा।
SPra167.1.0052: मन्दरस्य शिलापट्टे पाण्डूकमलसंस्थिते॥ ५॥
SPra167.1.0061: तमभ्यर्च्य पतिं भक्त्या भक्तकोटीवरप्रदम्।
SPra167.1.0062: एतमेवार्थमुद्दिश्य पप्रच्छ रुचिरा पतिम्॥ ६॥
SPra167.1.0071: यथा स तस्याः पृच्छन्त्या भार्यायाः शिष्टवान्हरः।
SPra167.1.0072: पाराशर्य तथा व्यास ममापि वदतः शृणु॥ ७॥
SPra167.1.0081: आदित्यबन्धनं नाम कूटं हिमवतः शुभम्।
SPra167.1.0082: आदित्यसमवर्णाभं तत्रादित्येन कालिज॥ ८॥
SPra167.1.0091: पशुभर्तुरुमाभर्तुर्बालादित्यसमप्रभम्।
SPra167.1.0092: †मुखाल्लिङ्गं† शुभं लिङ्गं स्थापितं तिमिरारिणा॥ ९॥
SPra167.1.0101: देवो वा पूर्वदेवो वा यस्तं पश्यति पावनम्।
SPra167.1.0102: तस्य पूर्णस्य तपसा को ऽर्थश्च तपसा पुनः॥ १०॥
SPra167.1.0111: महदन्यद्धिमवतः कूटं मुकुटवत्स्थितम्।
SPra167.1.0112: नौबन्धनमिति ख्यातं देवलोके क्षितावपि॥ ११॥
SPra167.1.0121: लोकसंप्लावने प्राप्ते मनुना यत्र संयुता।
SPra167.1.0122: नौर्मत्स्यवचनाद्वत्स †ययाती नाम सुन्दरम्†॥ १२॥
SPra167.1.0131: यत्र रुद्राश्च साध्याश्च विश्वेदेवास्तथाश्विनौ।
SPra167.1.0132: मरुतः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः॥ १३॥
SPra167.1.0141: मुनयश्च महात्मानः सर्वे च ऋषिसत्तमाः।
SPra167.1.0142: संध्यामन्वास्य सततं स्तुवन्त्यार्तिहरं हरम्॥ १४॥
SPra167.1.0151: मेखलावलयोन्मिश्रो नूपुरारावसंकरः ।
SPra167.1.0152: श्रूयते ऽप्सरसां तत्र गायन्तीनां रवो महान्॥ १५॥
SPra167.1.0161: मनुना तत्र तल्लिङ्गं जाम्बूनदमयं महत्।
SPra167.1.0162: स्थापितं वै स्थपतिना भक्तेन वृषभध्वजे॥ १६॥
SPra167.1.0171: ये चैतदभिगच्छन्ति लिङ्गं चैतद्दिदृक्षवः।
SPra167.1.0172: धर्मश्चैव भवेत्तेषामधर्मश्च विनश्यति॥ १७॥
SPra167.1.0181: ये तदायतनं दिव्यमभिगच्छन्ति वै द्विज।
SPra167.1.0182: न ते च्यवन्ते कालेषु च्यवमानेषु वारिषु॥ १८॥
SPra167.1.0191: हेमसोमोद्भवं नाम कूटमस्ति हिमाद्रिजम्।
SPra167.1.0192: पुण्यमायतनं तत्र च्यवनेनाभिनिर्मितम्॥ १९॥
SPra167.1.0201: यत्र भास्करवर्णाभा मुनयस्तपसान्विताः।
SPra167.1.0202: वसन्ति नियमैस्तीव्रैः कर्षयन्तः शरीरकान्॥ २०॥
SPra167.1.0211: च्यवनायतनं ये वै अभियान्ति दिदृक्षवः।
SPra167.1.0212: ते ऽश्वमेधसहस्रस्य फलं प्रापुश्च देवताः॥ २१॥
SPra167.1.0221: उदये तूदयाभासे गिरौ गिरिवरेश्वरे।
SPra167.1.0222: सत्यो नाम ह्रदः स्फीतः स्फीतपद्मसमावृतः॥ २२॥
SPra167.1.0231: यत्र ते मुनयः सत्याः सत्यानलरविप्रभाः।
SPra167.1.0232: धारयन्ति धृताचारा आशीर्भिः सरथं रविम्॥ २३॥
SPra167.1.0241: पुण्यमायतनं तेषां तत्र तैः कृतमुत्तमम्।
SPra167.1.0242: अर्चनं नृत्यगीतं च नित्यमप्सरसां गणैः॥ २४॥
SPra167.1.0251: यत्रार्च्य देवाः सिद्धाश्च देवश्रेष्ठं महेश्वरम्।
SPra167.1.0252: तपोधनाश्च तं शर्वमर्चयन्ति सनातनम्॥ २५॥
SPra167.1.0261: तत्तदायतनं दृष्ट्वा भवभक्ताः सुरासुराः।
SPra167.1.0262: ते भवस्य प्रिया भूत्वा भवसालोक्यतां गताः॥ २६॥
SPra167.1.0271: उशीरबीजः शैलेन्द्रस्तत्राश्रमपदं महत्।
SPra167.1.0272: तृणाङ्गागस्त्यशिष्यस्य देवदानवपूजितम्॥ २७॥
SPra167.1.0281: †तत्रायतनखण्डस्य मध्यमाशोकचम्पके†।
SPra167.1.0282: पुण्यमायतनं दिव्यं त्रेताग्निसदृशं त्विषा।
SPra167.1.0283: महानीलमयं तत्र लिङ्गं व्यामशतोच्छ्रितम्॥ २८॥
SPra167.1.0291: सिद्धाश्च चारणाश्चापि ये तं पश्यन्ति भक्तितः।
SPra167.1.0292: न ते च्यवनधर्माणो भवन्ति भवतेजसा॥ २९॥
SPra167.1.0301: तस्मिन्नायतने दिव्ये तृणाङ्गः स महानृषिः।
SPra167.1.0302: दक्षिणां मूर्तिमास्थाय स्तुवत्यार्तिहरं हरम्॥ ३०॥
SPra167.1.0311: उत्तरेण निरालोके भानुभासविवर्जिते।
SPra167.1.0312: पर्वते मेरुसंकाशे देवदारुवनावृते॥ ३१॥
SPra167.1.0321: उत्तानपादपुत्रेण देवभक्तेन तेन वै।
SPra167.1.0322: लिङ्गं देवस्य रुद्रस्य स्थापितं स्थिरकर्मणा॥ ३२॥
SPra167.1.0331: षड्व्यामशतमूर्ध्वं तल्लिङ्गं तु कनकामयम्।
SPra167.1.0332: आदित्यमण्डलाभासं सिद्धगन्धर्वपूजितम्॥ ३३॥
SPra167.1.0341: ध्रुवस्तस्मिन्ध्रुवश्चैव तल्लिङ्गं ध्रुवमर्चयेत्।
SPra167.1.0342: नित्यस्थायी वसत्येको ग्रहचन्द्रप्रवर्तकः॥ ३४॥
SPra167.1.0351: लिङ्गं यैस्तु गिरीशस्य दृष्टं दृश्यत एव वा।
SPra167.1.0352: मोदन्ते दिवि तद्दृष्ट्वा ध्रुवा ध्रुवसमीपगाः॥ ३५॥
SPra167.1.0361: जैगीषव्येन मुनिना अस्ते †मह्यं† निकेतने।
SPra167.1.0362: स्थापितं सुमहल्लिङ्गं देवदेवस्य शूलिनः॥ ३६॥
SPra167.1.0371: अशोकवनमध्यस्थं चन्दनस्यन्दनाकुलम्।
SPra167.1.0372: वर्चसेन्द्रायुधसममिन्द्रध्वजमिवोच्छ्रितम्॥ ३७॥
SPra167.1.0381: यदर्चयति प्रीतात्मा जैगीषव्यो महानृषिः।
SPra167.1.0382: नाट्योपहारैस्त्रैकाल्यं वृषनादैश्च भैरवैः॥ ३८॥
SPra167.1.0391: ननादोन्मत्तवच्चापि पुनः पुनरुदीरयन्।
SPra167.1.0392: तोषयामास वरदं चन्द्रावयवभूषणम्॥ ३९॥
SPra167.1.0401: ये तु संस्थापितं लिङ्गमर्चयन्त्यम्बिकापतिम्।
SPra167.1.0402: देवं दृष्ट्वानुमोदन्ते देवैस्तुल्याः प्रभावतः॥ ४०॥
SPra167.1.0411: देवत्वं च भवत्येव सांख्ययोगं च योगिनाम्।
SPra167.1.0412: देवदानवयक्षाणां तस्मिंल् लिङ्गे महोत्सवः॥ ४१॥
SPra167.1.0421: †न तमृषयो देवापि न चलचामरमास्थिताः †।
SPra167.1.0422: जैगीषव्यार्चितं लिङ्गं पश्यन्ति तपसान्विताः॥ ४२॥
SPra167.1.0431: नन्दने देवराजेन देवस्य भयमाहरत्।
SPra167.1.0432: महदायतनं दिव्यं कृतं कीर्तिमता तदा॥ ४३॥
SPra167.1.0441: †भूतमण्डप† मध्यस्थं पुष्पितस्य सुगन्धिनः।
SPra167.1.0442: भ्रमरैरुपगीतस्य सुस्वरैरिव सामगैः॥ ४४॥
SPra167.1.0451: तपनीयमयं तत्र लिङ्गं मणिशिलावृतम्।
SPra167.1.0452: स्थापितं पुरुहूतेन व्यामायुतशतोच्छ्रितम्॥ ४५॥
SPra167.1.0461: देवगन्धर्वयोषिद्भिर्देवैश्चापि समावृतम्।
SPra167.1.0462: अदित्याभिगतं दित्या शच्या शक्रेण च स्वयम्॥ ४६॥
SPra167.1.0471: विद्रुमस्फाटिकैश्चापि इन्द्रनीलमयैरपि।
SPra167.1.0472: जालैर्जाम्बूनदैश्चापि बहुलैश्च समावृतम्॥ ४७॥
SPra167.1.0481: सर्जागुरुसुधूपेन गुग्गुलेन घृतेन च।
SPra167.1.0482: इन्द्राण्या दीप्यमानेन धूम्रीकृतमनेकशः॥ ४८॥
SPra167.1.0491: त्रिदिवाधिपतिस्तत्र त्रिकालं त्रिदशेश्वरः।
SPra167.1.0492: अर्चयत्यजमीशेशं सर्वभावपुरस्कृतम्॥ ४९॥
SPra167.1.0501: ये तत्पश्यन्ति रुद्रस्य महदायतनं सुराः।
SPra167.1.0502: सर्वयज्ञफलं तेषां विदधाति महेश्वरः॥ ५०॥
SPra167.1.0511: क्षीरोदोदधिवेलायां वालिखिल्यैः कृतं स्वयम्।
SPra167.1.0512: महदायतनं पुण्यं पुण्यश्लोकं सुरप्रियम्।
SPra167.1.0513: तमालवनमध्यस्थं तमालवरगन्धिकम्॥ ५१॥
SPra167.1.0521: तस्मिंश्चन्द्रप्रभं लिङ्गं स्फाटिकं मणिरञ्जितम्।
SPra167.1.0522: वालिखिल्यास्तमर्चन्ति दृढभक्ता महेश्वरम्॥ ५२॥
SPra167.1.0531: †साद्यः क्रूमन्दिः शूरश्च प्रतिभद्रान्तवान्तरः।
SPra167.1.0532: वालिखिल्यैः समं सिद्धैः† चिरं गच्छन्ति मन्दिरम्॥ ५३॥
SPra167.1.0541: ये सुरासुरगन्धर्वास्तदायतनमागताः।
SPra167.1.0542: पश्यन्ति वालिखिल्यैस्ते तपसा यान्ति तुल्यताम्॥ ५४॥
SPra167.1.0551: कैलासशिखरे रम्ये स्वर्णं तालवनं महत्।
SPra167.1.0552: प्राकारेणार्कवर्णेन सुतोरणवतावृतम्॥ ५५॥
SPra167.1.0561: †पुष्पावृतं शिखन्दल† मुक्तासिक्ताप्रवालकम्।
SPra167.1.0562: फलैरवनतैर्वृक्षैरमृतोपमगन्धिभिः॥ ५६॥
SPra167.1.0571: यक्षाः कमलपत्राक्षाश्छाययैव ग्रहोपमाः।
SPra167.1.0572: यं नित्यमभिरक्षन्ति त्रिकालं सुसमाहिताः॥ ५७॥
SPra167.1.0581: †चतुस्तावं† च दीर्घं च स्फाटिकैः कारितं महत्।
SPra167.1.0582: शुद्धाः सहार्चयन्ति यं भक्त्या परमया युताः॥ ५८॥
SPra167.1.0591: रम्भाद्यप्सरसो यत्र गन्धर्वाश्च सनारदाः।
SPra167.1.0592: सामानि दिव्यगानेषु गायन्ते पारमार्थिनः ॥ ५९॥
SPra167.1.0601: †यत्रेभ्यपुरहासार्थः† सनन्दिः सगणेश्वरः।
SPra167.1.0602: सह एकाक्षिपिङ्गेन विजहार रराम च॥ ६०॥
SPra167.1.0611: यैस्तदायतनं दृष्टं कुबेरस्य सुरासुरैः।
SPra167.1.0612: सर्वतीर्थफलं तेषां ददात्येव त्रिलोचनः॥ ६१॥
SPra167.1.0621: वरुणस्यौदकायां तु महदायतनं शुभम्।
SPra167.1.0622: महाराजतलिङ्गं च मेरुशृङ्गसमं महत्॥ ६२॥
SPra167.1.0631: अनघा मुनयो यत्र चन्द्रादित्यसमप्रभाः।
SPra167.1.0632: अर्चयन्ति हरं भक्त्या बहुवर्षशतानि तु॥ ६३॥
SPra167.1.0641: गौरीसहायं सततमरुणस्तरुणो रविः।
SPra167.1.0642: यत्रार्चयति तुष्टात्मा त्रिकालमुदकस्थितः ॥ ६४॥
SPra167.1.0651: वेदेषु यत्फलं प्रोक्तं वचोभिः सर्वतीर्थजम्।
SPra167.1.0652: तदायतनमागत्य लभते तदयत्नतः॥ ६५॥
SPra167.1.0661: एतानि पुण्यायतनानि व्यास मया सुराणां तव कीर्तितानि।
SPra167.1.0662: येषां तु नामग्रहणेन †तुल्यं दानाश्रयाद्यावयते† फलानि ॥ ६६॥
SPra167.1.0671: एतानि देवासुरपूजितानि गन्धर्वदिव्याप्सरसाकुलानि।
SPra167.1.072: निशम्य कीर्तिं च यशः सुखं च मोक्षं च स्वर्गं च लभन्ति मर्त्याः॥ ६७॥
SPra167.1.0681: मनुष्यगम्यानि च यानि यानि कालेषु पुण्यायतनान्यवन्याम्।
SPra167.1.082: मयोच्यमानानि पुनश्च तानि निबोध चेमानि सुपावनानि॥ ६८॥
SPra167.1.0691: तपनसदृशदृष्टिश्चारुचन्द्रार्धमौलिर् ।
SPra167.1.0692: भगनयननिपातः पातनः शात्रवाणाम्।
SPra167.1.0693: सजलजलदवाहो वाहिनीनां प्रणेता ।
SPra167.1.0694: जयति जयनिधानं देवदेवः पिनाकी॥ ६९॥
SPra167.1.9999: इति स्कन्दपुराणे देवतायतनोद्देशो नाम ॥