०९५

Skandapurāṇa Adhyāya 95

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0950010: सनत्कुमार उवाच।
SP0950011: अथ लङ्कां समासाद्य धनेशस्य पुरीं शुभाम्।
SP0950012: अदूरे तस्थुरुद्धूताः संनद्धकवचायुधाः॥ १॥
SP0950021: अवस्थितांस्तथा दृष्ट्वा दानवान्बलदर्पितान्।
SP0950022: लङ्कानिवासिनः सर्वे निधिपालास्तथैव च॥ २॥
SP0950031: निधयः शङ्खपद्माद्या ऋषयश्च तपोधनाः।
SP0950032: अर्घं रत्नानि चादाय दानवाय न्यवेदयन्॥ ३॥
SP0950041: ऊचुश्च तव दैत्येन्द्र वयं वश्या न संशयः।
SP0950042: किंकराश्च प्रशाध्यस्मान्यथा देवो नरेश्वरः॥ ४॥
SP0950050: हिरण्याक्ष उवाच।
SP0950051: मा भीर्भवतु वो यक्षा मम यूयं न संशयः।
SP0950052: अयं राजा हि वः श्रेष्ठो हिरण्यकशिपोः सुतः।
SP0950053: प्रह्लादो देवसंघानां सर्वेषां विप्रबाधनः॥ ५॥
SP0950061: ततस्तं तत्र संस्थाप्य धनेशं दैत्यपुंगवः।
SP0950062: अन्येषां देवसंघानां स्थानान्यापूरयत्पुनः॥ ६॥
SP0950071: संस्थाप्य सर्वस्थानेषु स्थानिनो दानवेश्वरान्।
SP0950072: अन्धकं त्वमरावत्यामिन्द्रत्वेनाभ्यषेचयत्।
SP0950073: भूर्लोकं चाखिलं दैत्यः स्वयमेवान्वशासत॥ ७॥
SP0950081: भूयश्च धनुरादाय सशरं सूर्यसंनिभम्।
SP0950082: दैत्येन्द्रो मेदिनीं प्राह ममात्मानं विदर्शय॥ ८॥
SP0950091: सा भीता तस्य दैत्यस्य वेपमाना कृताञ्जलिः।
SP0950092: जयेत्युक्त्वाग्रतस्तस्थौ कुले लक्ष्मीरिवापरा॥ ९॥
SP0950101: तां मृगीमिव शार्दूलो भुजंगीमिव पक्षिराट्।
SP0950102: शार्दूलीं सिंह इव च सिंहीं शरभराडिव॥ १०॥
SP0950111: हंसीं काक इव क्षुद्रो मयूरीं मद्गुराडिव।
SP0950112: तथा तां स दितेः पुत्रो जग्राह रुषिताननः॥ ११॥
SP0950121: उवाच चेदं संरब्धस्तां देवीं भयविह्वलाम्।
SP0950122: तवाहं वसुधे भर्ता ब्रह्मणा प्रकृतः शुभे।
SP0950123: मान्यं पतिं त्वमिच्छेथा रक्षिष्ये ऽहं ततो हि ते॥ १२॥
SP0950130: सनत्कुमार उवाच।
SP0950131: ततो रसातलं गत्वा स्वपुरस्य समीपतः।
SP0950132: बबन्ध नागपाशैस्तां दुष्टामिव यथाङ्गनाम्॥ १३॥
SP0950141: ततो ऽचलेन दैत्येन्द्रः शङ्खेन सुमहाबलः।
SP0950142: आक्रमद्राजा दुष्टस्य कर्तारमिव वीर्यवान्॥ १४॥
SP0950151: ततो ऽस्या रक्षणे नित्यमुद्युक्तान्रक्षिणो ददौ।
SP0950152: किंकरान्नाम दैत्येन्द्रान्सहस्राणि चतुर्दश॥ १५॥
SP0950161: स तथा तद्विधायैव दैत्येन्द्रस्तुष्टिमान्बभौ।
SP0950162: कृषीवल इव क्षेत्रं सुनिष्पन्नं समीक्ष्य ह॥ १६॥
SP0950171: कृतकृत्यो ऽहमित्येव बुद्धिं चक्रे स पार्थिवः।
SP0950172: संयुज्य स्वसुतं ज्येष्ठं दारैः साधुरिवात्मवान्॥ १७॥
SP0950181: अन्तरं न च तस्यान्यः कश्चित्प्राप्नोति सुव्रत।
SP0950182: सुसहायस्य विप्रस्य यथादम्भेन वर्ततः॥ १८॥
SP0950191: यजध्वं दानवाः सर्वे विप्रान्पूजयतेति च।
SP0950192: देवं च शूलिनं सम्यङ्नमस्यत पुनः पुनः।
SP0950193: धर्ममेव निषेवध्वमिति सो ऽज्ञापयत्तदा॥ १९॥
SP0950201: न तस्याधार्मिकः कश्चिद्दैत्यो वा दानवो ऽपि वा।
SP0950202: राज्ये ऽभवद्दुराचार इति राज्यं प्रशासति॥ २०॥
SP0950211: स्वयमेव स वायुश्च चन्द्रमाः सूर्य एव च।
SP0950212: अभवद्व्यास लोकेषु तपोबलसमन्वितः॥ २१॥
SP0950221: ओषध्यः स्वयमुद्भूतास्तस्मिन्राजनि शासति।
SP0950222: विना वृष्टिं संभवन्ति सर्वलोकस्य साधिकाः॥ २२॥
SP0950231: स एव ताः समादाय खलं नयति दैत्यराट्।
SP0950232: स एवामर्दयच्चापि निनाय च पुनर्गृहान्॥ २३॥
SP0950241: स एव दण्डिको ऽभूच्च दण्डश्चैव स एव हि।
SP0950242: स एव योगात्सर्वत्र चौराद्रक्षति नित्यदा॥ २४॥
SP0950251: न तस्य व्याधितः कश्चिन्म्रियते वापि कश्चन।
SP0950252: परदारप्रसक्तो वा पिशुनो वापि कर्हिचित्।
SP0950253: हिंसका न च तस्यासन्न चाप्याधार्मिकाः क्वचित्॥ २५॥
SP0950261: पल्वलानि तडागानि सरित्प्रस्रवणानि च।
SP0950262: विना वृष्ट्या भवन्त्येते सर्वत्रैव च सुस्थितम्॥ २६॥
SP0950271: न सन्ति तस्य रक्षांसि न पिशाचाश्च हिंस्रिणः।
SP0950272: ईतयश्च न सन्त्यस्य न द्वन्द्वानि च कानिचित्॥ २७॥
SP0950281: न जुह्वते तदा वह्निं विप्रास्तस्मिंस्तु राजनि।
SP0950282: नाधीयते यजन्ते वा एकवर्णमभूत्तदा॥ २८॥
SP0950291: भृगवो ये ऽभवन्विप्रा दानवानां मुदावहाः।
SP0950292: अधीयते यजन्ते च त एव व्यास सर्वशः॥ २९॥
SP0950301: हृष्टपुष्टमभूत्सर्वं व्याधिदुःखविवर्जितम्।
SP0950302: कर्माश्रमपरित्यक्तं स्वर्गलोकसमं जगत्॥ ३०॥
SP0950311: तन्नृत्तगीतोत्सवनित्ययुक्तं सुखप्रसुप्तं रतिकार्ययुक्तम्।
SP0950312: जगद्बभौ राजनि दैत्यदेवे हिरण्यनेत्रे दितिदानवेन्द्रे॥ ३१॥
SP0959999: इति स्कन्दपुराणे पञ्चनवतितमो ऽध्यायः॥