Skandapurāṇa Adhyāya 93
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0930010: सनत्कुमार उवाच।
SP0930011: अथासौ तेन कालेन केतुरग्नेः समुत्थितः।
SP0930012: वायुनाभिहतश्चैव अगच्छद्विलयं भृशम्॥ १॥
SP0930021: ततः समभवद्व्योम विमलं सर्वमेव ह।
SP0930022: अपश्यन्त सुराः सर्वे दैत्याश्चैव परस्परम्॥ २॥
SP0930031: ततः शङ्खाश्च भेर्यश्च पटहाडम्बरास्तथा।
SP0930032: सुघोषका डिण्डिमाश्च भम्भाः पेप्वश्च सर्वशः।
SP0930033: बलद्वये ऽप्यवाद्यन्त शतशो ऽथ सहस्रशः॥ ३॥
SP0930041: अथ शक्रश्च देवेन्द्रो यमो वैश्रवणस्तथा।
SP0930042: पूषा भगश्च द्वावेतावर्यमा मित्र एव च॥ ४॥
SP0930051: जयन्तो मरुतश्चैव रुद्रादित्याश्च सर्वशः।
SP0930052: वेगेन सुमहावेगा ममृदुर्दानवं बलम्॥ ५॥
SP0930061: तत्र चामीकराभासं प्रगृह्य बलवद्धनुः।
SP0930062: यमः पुण्ड्रेण दैत्येन्द्राननयद्यमसादनम्॥ ६॥
SP0930071: स पञ्चभिः शरैर्विद्ध्वा हिरण्याक्षं महाबलम्।
SP0930072: अन्यांश्चैकैकशः सर्वाञ्जहास च ननाद च॥ ७॥
SP0930081: तस्य सर्वे तदायस्ता दैत्यदानवसत्तमाः।
SP0930082: शरानाशीविषाकारान्व्यसृजन्विकृताननाः॥ ८॥
SP0930091: तान्स चिच्छेद समरे त्रिधैकैकं लघुक्रियः।
SP0930092: पुनश्च निशितैर्घोरैरर्दयत्प्रहसन्निव॥ ९॥
SP0930101: ततो ऽन्धकस्य यन्तारं रथं च सह वाजिभिः।
SP0930102: किंकरेण महावीर्यो यमो निन्ये स्वकं पुरम्॥ १०॥
SP0930111: ततो ऽन्धको गदापाणिर्युगान्ताम्बुदवन्नदन्।
SP0930112: अभ्यधावद्यमं तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्॥ ११॥
SP0930121: तस्य वज्रेण देवेन्द्रो गदां हेमपरिष्कृताम्।
SP0930122: बिभेद शतधा व्यास सापतद्भुव्यसुप्रभा॥ १२॥
SP0930131: तं विशस्त्रं विकवचं कृत्वा ते देवसत्तमाः।
SP0930132: युगपच्छस्त्रवर्षेण ताडयामासुराहवे॥ १३॥
SP0930141: यमो दण्डेन तं मूर्ध्नि शक्रो वज्रेण चाहनत्।
SP0930142: वित्तदो ऽशनिना चैव पाशेन वरुणस्तथा॥ १४॥
SP0930151: अन्ये चान्यैस्तथा देवा अमोघैरायुधोत्तमैः।
SP0930152: अभ्यधावन्त संरब्धा हतस्त्वमितिवादिनः।
SP0930153: न चैव तस्य दैत्यस्य दुःखं तत्राभवत्तदा॥ १५॥
SP0930161: सो ऽपि दैत्यस्तदोत्पत्य पुण्ड्रस्यास्थाय पृष्ठतः।
SP0930162: यमं मुष्टिप्रहारेण पुण्ड्राद्भूमावपातयत्॥ १६॥
SP0930171: तथेन्द्रस्य गजं भूयो पुच्छे संगृह्य वेगवान्।
SP0930172: भ्रामयित्वाक्षिपद्दूरं नष्टस्त्वमिति चाब्रवीत्॥ १७॥
SP0930181: ततो धनेशस्य पुनः शिबिकां कामगामिनीम्।
SP0930182: आक्षिप्य बहुधा दैत्यो व्यधमत्क्रोधमूर्छितः॥ १८॥
SP0930191: ततो गजैर्गजान्निघ्नन्पदातींश्च पदातिभिः।
SP0930192: रथं रथेन च रणे हयांश्च हयसादिभिः॥ १९॥
SP0930201: पुनर्गजं महेन्द्रस्य हन्यमानो ऽपि संयुगे।
SP0930202: अवप्रुत्य तदा शक्रं गजस्कन्धान्न्यपातयत्॥ २०॥
SP0930211: तस्य तत्कर्म संवीक्ष्य दानवेन्द्रस्य संयुगे।
SP0930212: सर्वे देवा दिशः सर्वाः प्रनष्टा जीवितार्थिनः॥ २१॥
SP0930221: पूर्वेण भगवानिन्द्रः सहादित्यैः सलोकपः।
SP0930222: दक्षिणेन तथा रुद्रा वसवश्चाश्विनावपि॥ २२॥
SP0930231: प्रतीचीं यक्षरक्षांसि पिशाचाः पन्नगैः सह।
SP0930232: उत्तरेण तथान्ये च प्रपद्यन्त यथा मृगाः॥ २३॥
SP0930241: तेषु भग्नेषु दैत्येन्द्राः पृष्ठतो विकृतायुधाः।
SP0930242: अभ्यधावन्त गर्जन्तो भयं तेषां व्यदर्शयन्॥ २४॥
SP0930251: ततो मुहूर्तं ते गत्वा हिरण्याक्षेण वारिताः।
SP0930252: निवृत्ताः समतिष्ठन्त सर्वे ऽमर्षवशंगताः॥ २५॥
SP0930261: अथोवाच तदा क्रुद्धान्हिरण्याक्षो हसन्निव।
SP0930262: दैत्यदानवनाथांस्तानिदं वचनकोविदः॥ २६॥
SP0930271: किमेभिरबलैरद्य युष्माकं दैत्यदानवाः।
SP0930272: अवबद्धैश्च रुद्धैश्च मृतसंज्ञैर्दुरात्मभिः॥ २७॥
SP0930281: हतास्ते नात्र संदेहो येषां राज्यमिदं हृतम्।
SP0930282: नैषां जीवितमस्त्यद्य मा त्वरध्वं सुबालिशाः॥ २८॥
SP0930291: अबला अपि संरब्धा निराशा जीविते ऽपि च।
SP0930292: भवन्त्यतिबलाश्चैव दुर्जयाश्च न संशयः॥ २९॥
SP0930301: सहसोत्पतितानां च निराशानां च जीविते।
SP0930302: न शक्यमग्रतः स्थातुमित्युवाच सदोशना॥ ३०॥
SP0930311: यदेतद्राज्यमित्याहुः प्राणा ह्येते महात्मनाम्।
SP0930312: स तेषां हरति प्राणान्यस्तेषां राज्यमाहरेत्॥ ३१॥
SP0930321: तेषामद्य हृतं राज्यं किं तैर्मृतसमैः सुरैः।
SP0930322: आपूरयाम स्थानानि देवानां दानवेश्वराः॥ ३२॥
SP0930330: सनत्कुमार उवाच।
SP0930331: ततस्ते सहिरण्याक्षाः प्राविशन्नमरावतीम्।
SP0930332: रत्नानि जगृहुर्व्यास विजयं चावघोषयन्॥ ३३॥
SP0930341: आरक्षमात्मनस्तत्र चक्रुराप्तैश्च ते ऽसुराः।
SP0930342: आश्वासयन्त पौरांश्च तथा प्रकृतयश्च ह॥ ३४॥
SP0930351: पौरापि हि तदार्घेण तथैवोपायनैर्वरैः।
SP0930352: आशीर्भिश्चासुरश्रेष्ठं हिरण्याक्षं प्रणेमिरे॥ ३५॥
SP0930361: तान्समाश्वास्य दैत्येन्द्रो ह्यध्यास्य च वरासनम्।
SP0930362: कार्याणि कृत्वा सर्वेषामगच्छद्वरुणालयम्॥ ३६॥
SP0930371: ते सिंहनादैर्विविधैश्च वाद्यैः प्रवल्गनास्फोटितकूजितैश्च।
SP0930372: महासुरा दानवराजसिंहं जग्मुः समन्तात्परिवार्य सर्वे॥ ३७॥
SP0939999: इति स्कन्दपुराणे त्रिणवतितमो ऽध्यायः॥