Skandapurāṇa Adhyāya 89
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0890010: सनत्कुमार उवाच।
SP0890011: तेषां तद्वेगनुन्नानां प्रभग्नानां नशिष्यताम्।
SP0890012: त्राणार्थमतिदीप्ताक्षो हिरण्याक्षो ऽग्रहीत्पदम्॥ १॥
SP0890021: अन्धकश्च महामायो भ्रातरश्चास्य तत्समाः।
SP0890022: शतं रथसहस्राणां सर्वेषामपलायिनाम्॥ २॥
SP0890031: प्रह्लादश्च सहभ्राता हिरण्यकशिपोः सुतः।
SP0890032: विप्रचित्तिः सहभ्राता सैंहिकेयैश्च तैः सह।
SP0890033: गृह्ण गृह्णेति नर्दन्तो देवान्प्रत्युद्ययुस्तदा॥ ३॥
SP0890041: तेषां तेषां च संग्रामः सुघोरः समपद्यत।
SP0890042: ग्रहाणामिव कालान्ते गजानामिव चाजने॥ ४॥
SP0890051: इन्द्रस्त्वष्टा च पूषा च हिरण्याक्षं महाबलम्।
SP0890052: संगत्य सायकैस्तीक्ष्णैः सर्वमर्मस्वताडयन्॥ ५॥
SP0890061: तेषां धनूंषि चित्राणि अस्यतां तु दिवौकसाम्।
SP0890062: मायाबलेन दैत्येन्द्रो व्यष्टम्भयत दीप्तिमान्॥ ६॥
SP0890071: तानि विष्टम्भितानि स्म तदा दैत्येन मायया।
SP0890072: नानमन्ति यथापूर्वं ततस्ते ह्याकुलाभवन्॥ ७॥
SP0890081: सो ऽपि दैत्यो महामायो नदित्वा मेघनिस्वनम्।
SP0890082: बबन्ध तेषां गात्राणि समन्तादस्त्रमायया॥ ८॥
SP0890091: तान्बद्धान्प्रसमीक्ष्यैवमकर्मण्यान्महाबलान्।
SP0890092: यन्तारो वाहनैः क्षिप्रं जह्रुस्तस्माद्रणाजिरात्॥ ९॥
SP0890101: अथ कालो यमश्चैव धनेशो मित्र एव च।
SP0890102: वरुणो वसवः सर्वे अश्विनौ च महाबलौ॥ १०॥
SP0890111: प्रगृहीतायुधाः क्रुद्धास्तिष्ठ तिष्ठेतिवादिनः।
SP0890112: अभ्यद्रवन्त वेगेन हिरण्याक्षं महासुरम्॥ ११॥
SP0890121: तेषामापततां संख्ये स दैत्यः क्रोधमूर्छितः।
SP0890122: सर्वेषां सायकैस्तीक्ष्णैर्बिभेद कवचान्युधि॥ १२॥
SP0890131: ते भिन्नकवचाः सर्वे क्रोधात्प्रज्वलिताननाः।
SP0890132: ससर्जुरस्त्रमुख्यानि तदाप्रतिहतान्युत॥ १३॥
SP0890141: यमो दण्डं ससर्जास्य तथा कालश्च किंकरम्।
SP0890142: धनेशश्चाशनिं घोरं वरुणः पाशमेव च।
SP0890143: भगश्च मुसलं घोरमन्ये चान्यांस्तथा शरान्॥ १४॥
SP0890151: तान्स दैत्यो हसन्नेव सायकैर्मर्मभेदिभिः।
SP0890152: व्यष्टम्भयददीनात्मा शक्रहस्तं यथा भवः॥ १५॥
SP0890161: साधुवादांस्ततो हृष्टा दानवानां महारथाः।
SP0890162: समं चक्रुश्च संपूज्य हिरण्याक्षाय सर्वतः॥ १६॥
SP0890171: अपरे नैतदाश्चर्यं दितिपुत्रस्य संयुगे।
SP0890172: कश्यपेन प्रसूतस्य राज्ञो ऽस्माकं च स्वामिनः॥ १७॥
SP0890181: अपरे सिंहनादांश्च बाहुशब्दांश्च पुष्कलान्।
SP0890182: चक्रुर्हृष्टाश्च वाद्यानि तदा सर्वाण्यवादयन्॥ १८॥
SP0890191: एवं तेषां प्रहृष्टानां दानवानां महाहवे।
SP0890192: पाराशर्य गिरो बह्व्यः श्रूयन्ते स्तुतिसंहिताः॥ १९॥
SP0890201: तेषां प्रहर्षं ज्ञात्वा तं देवभङ्गं च तं तदा।
SP0890202: सर्वप्राणिचरो वायुरसुरानभिदुद्रुवे॥ २०॥
SP0890211: सहस्रनल्वमात्रेण स रथेन प्रभञ्जनः।
SP0890212: समन्ताद्ध्वजयुक्तेन पताकाशतमालिना॥ २१॥
SP0890221: जवेन यन्तृणा यत्नान्निगृहीतेन शब्दवान्।
SP0890222: प्रपूरयन्दिशः सर्वाः सहसा प्रत्यदृश्यत॥ २२॥
SP0890231: स पञ्चभिः शरैस्तीक्ष्णैर्दैत्यराजानमव्यथः।
SP0890232: आहत्य योजने तस्माद्देशात्क्षिप्रमवासृजत्॥ २३॥
SP0890241: अन्धकं च ततः षष्ट्या विप्रचित्तिं च सप्तभिः।
SP0890242: मयं पञ्चाशता विद्ध्वा सप्तभिः सप्तभिः पुनः॥ २४॥
SP0890251: दैत्यांश्च दानवांश्चैव सर्वान्विव्याध तत्क्षणात्।
SP0890252: पुनः पुलोमपुत्रांश्च निवातकवचानपि॥ २५॥
SP0890261: ते तेन बहुभिर्विद्धाः शरैरसुरपुंगवाः।
SP0890262: दिक्षु सर्वासु विक्षिप्ता योजनान्तरिताः स्थिताः॥ २६॥
SP0890271: यान्यांश्च ते विमुञ्चन्ति गदामुसलपट्टसान्।
SP0890272: तान्सर्वान्भगवान्वायुर्दानवोपर्यपातयत्॥ २७॥
SP0890281: ते हता हन्यमानाश्च स्वमुक्तैरायुधैर्भृशम्।
SP0890282: आर्तनादान्प्रकुर्वाणाः प्राद्रवन्त दिशो दश॥ २८॥
SP0890291: सो ऽपि वायुर्महावेगो बभञ्ज रथसत्तमान्।
SP0890292: पांसुवर्षेण च पुनश्चक्षूंष्येषामपूरयत्॥ २९॥
SP0890301: तथा स्म भयसंत्रस्ता नोत्ससर्जुस्तदा शरान्।
SP0890302: शस्त्राणि च तथान्यानि पुञ्जशश्चावतस्थिरे॥ ३०॥
SP0890311: तस्य तत्कर्म संवीक्ष्य हिरण्याक्षः प्रतापवान्।
SP0890312: उवाच दानवान्सर्वान्गर्हयन्दितिनन्दनः॥ ३१॥
SP0890321: धिग्वो दैत्या बलं सर्वं धिङ्मायां धिक्पराक्रमम्।
SP0890322: विसृज्य रणमव्यग्रा यात स्त्रीकर्मसेविनः॥ ३२॥
SP0890331: ये यूयं रणमध्यस्था जीविते सति बालिशाः।
SP0890332: एकेन वायुना भग्ना धिग्वस्तन्मन्त्रितं पुरा॥ ३३॥
SP0890341: अथवा यन्मया प्रोक्तं यूयं बाला इति क्रमात्।
SP0890342: तत्तथा नास्ति संदेहो बालैरिव हि वः कृतम्॥ ३४॥
SP0890351: तिष्ठध्वं बालवत्सर्वे रक्षन्तो जीवितं स्वकम्।
SP0890352: अहमेको विजेष्यामि वायुमेनं प्रपश्यत॥ ३५॥
SP0890361: ततः स पर्वतो भूत्वा दितिपुत्रः प्रतापवान्।
SP0890362: समन्ताद्वायुवेगं तं समवारयदव्यथः॥ ३६॥
SP0890371: वायुं निवारितं ज्ञात्वा पर्वतेन तदा विभुम्।
SP0890372: अन्धको बाहुपाशेन अवप्रुत्याबबन्ध तम्॥ ३७॥
SP0890381: स बद्धो बाहुपाशेन जगदायुः प्रतापवान्।
SP0890382: संप्रगृह्यान्धकं शीघ्रमुत्पपात विहायसा॥ ३८॥
SP0890391: तस्योत्पतितमात्रस्य प्रगृह्यान्धकदानवम्।
SP0890392: राहुर्गदां महारौद्रीं क्षिप्रं मूर्ध्नन्यपातयत्॥ ३९॥
SP0890401: अभ्येत्य पादयोश्चैव विप्रचित्तिर्महाबलः।
SP0890402: जग्राह सुमहाग्राहो मत्सानिव महार्णवे॥ ४०॥
SP0890411: स तेन सुप्रहारेण विह्वलः प्राणिगोचरः।
SP0890412: अन्धकेनाभिसंयुक्तो भ्रामितो विप्रचित्तिना॥ ४१॥
SP0890421: स भ्राम्यमाणो विबभौ स्रस्तहारस्रगम्बरः।
SP0890422: अलातमिव संदीप्तं निशायां मुनिसत्तम॥ ४२॥
SP0890431: भ्राम्यमाणं समालक्ष्य पुनर्देवाः सवासवाः।
SP0890432: वेगं चक्रुर्महावेगा गृह्ण गृह्णेतिवादिनः॥ ४३॥
SP0890441: विप्रचित्तिस्तु तान्दैत्यः संरब्धानुद्यतायुधान्।
SP0890442: आलक्ष्य सुबहून्संख्ये गर्जमानान्पयोदवत्॥ ४४॥
SP0890451: अभीक्ष्णं भीमसंह्रादं वायुं दानवयूथपः।
SP0890452: चिक्षेप शक्रमुद्दिश्य गिरौ वज्रं यथैव सः॥ ४५॥
SP0890461: स चापि तेन विक्षिप्तो लब्धसंज्ञो महाबलः।
SP0890462: विहाय वेगं देवेन्द्रमुपतस्थे कृताञ्जलिः॥ ४६॥
SP0890471: ततो वायुश्च देवाश्च सर्व एव सहानुगाः।
SP0890472: अभ्यद्रवन्त दैत्येन्द्रान्प्रगृहीतवरायुधाः॥ ४७॥
SP0890481: तेषां तेषां च संग्रामः सुघोरः समपद्यत।
SP0890482: सिंहानामिव दृप्तानां विजने शरभैः सह॥ ४८॥
SP0890491: तत्र केचिद्विनिहताः सुप्रहारेण मूर्छिताः।
SP0890492: साधु साध्विति भाषन्तः प्राणानूर्ध्वं वितत्यजुः॥ ४९॥
SP0890501: अपरे देवदैत्येन्द्राः पदान्मुक्ता महाबलाः।
SP0890502: परेणाभ्याहतं शूरं संरक्षन्तः स्वपुत्रवत्॥ ५०॥
SP0890511: केचिद्धत्वापि सुबहून्देवदानवसत्तमाः।
SP0890512: अविक्षताः शितैः शस्त्रैरात्मानं गर्हयन्त्युत॥ ५१॥
SP0890521: अशस्त्रं केचिदभ्येत्य देवदैत्या महाबलाः।
SP0890522: धर्मयुद्धमभीप्सन्तस्त्यक्त्वा शस्त्राण्ययोधयन्॥ ५२॥
SP0890531: बहवस्तत्र दैत्येन्द्रा युयुधुर्भीमविक्रमाः।
SP0890532: देवाश्च नाहता ये वै नाभिघ्नन्ति कदाचन॥ ५३॥
SP0890541: पदातयस्तत्र सर्वे योधयन्ति पदातिनः।
SP0890542: सादिनः सादिभिः सार्धं रथिनो रथिभिः सह।
SP0890543: गजिनो गजिभिश्चैव तथा युद्धमवर्तत॥ ५४॥
SP0890551: एवं तेषां स संग्रामो देवानां दानवैः सह।
SP0890552: अवर्तत शतान्यष्टौ वर्षाणां तु महाभयः॥ ५५॥
SP0890561: अथ दैत्यो महामायो गजेनाम्बुदवर्चसा।
SP0890562: तोमरं सुमहद्बिभ्रद्युगान्तानलवर्चसम्॥ ५६॥
SP0890571: कोकिलाञ्जनमेघाभो विश्रुतो यो विरोचनः।
SP0890572: सो ऽभ्यद्रवत्तदा देवानीतिः सस्यानिवोत्थितान्॥ ५७॥
SP0890581: स गजेन प्रभिन्नेन मुखाडम्बरघोषिणा।
SP0890582: अभिदुद्राव देवेन्द्रं तिष्ठ तिष्ठेति चाब्रवीत्॥ ५८॥
SP0890591: तस्यापतत एवाथ भगवान्पाकशासनः।
SP0890592: जत्रुदेशे शरं घोरं निचखान ररास च॥ ५९॥
SP0890601: अनुभूय प्रहारं तं स दैत्यो भीमविक्रमः।
SP0890602: तस्यास्यतस्तोमरेण बिभेद करमुद्धतम्॥ ६०॥
SP0890611: अथास्य तोमरोद्भिन्नाद्धस्ताद्धेमविभूषितम्।
SP0890612: पपात तद्धनुर्दिव्यं महाशनिसमस्वनम्॥ ६१॥
SP0890621: ततो ऽस्य भूयो दैत्येन्द्रो व्याकुलस्य तदा गजम्।
SP0890622: तोमरेण बिभेदाशु कुम्भदेशे महाबलः॥ ६२॥
SP0890631: स भिन्नस्तेन दैत्येन वने मत्त इव द्विपः।
SP0890632: अनङ्कुशः सन्नमृद्नात्स्वं बलं ह्यनिवारितः॥ ६३॥
SP0890641: ते तथा वध्यमानास्तु आदित्या दैत्यदानवैः।
SP0890642: भयार्दिता दिशः सर्वा व्यपालयन्त सर्वशः॥ ६४॥
SP0890651: ततः शङ्खाश्च भेर्यश्च वाद्यानि विविधान्यपि।
SP0890652: सिंहनादांश्च संचक्रुर्दैत्यदानवसंमताः॥ ६५॥
SP0890661: तच्छिन्नभिन्नप्रविदारणातुरं गजेन दैत्यैश्च पुनर्विलोडितम्।
SP0890662: बलं महद्दैवतपालितं बभौ यथार्णवो मन्दरमन्थविक्षतः॥ ६६॥
SP0899999: इति स्कन्दपुराण एकोननवतितमो ऽध्यायः॥