०८८

Skandapurāṇa Adhyāya 88

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0880010: सनत्कुमार उवाच।
SP0880011: अर्यमा बहुभिर्बाणैः प्रह्लादं दैत्यपुंगवम्।
SP0880012: आजघान नदन्घोरं ध्वजं चास्य व्यशातयत्॥ १॥
SP0880021: प्रह्लादो ऽप्यर्यमन्तं वै रथं त्यक्त्वैव वीर्यवान्।
SP0880022: प्रदुद्राव यथा राहुः समये तिमिरापहम्॥ २॥
SP0880031: आधावन्तं च वेगेन विहस्तं रिपुमर्यमा।
SP0880032: जघान बहुभिर्बाणैः प्रह्लादं दैत्यपुंगवम्॥ ३॥
SP0880041: शरानगणयन्नेव हिरण्यकशिपोः सुतः।
SP0880042: क्रोधान्मानाच्च दर्पाच्च वेगेन समधावत॥ ४॥
SP0880051: गृहीत्वा कूबरे तस्य रथं हेमपरिष्कृतम्।
SP0880052: चिक्षेप सह सूतेन ततो हर्षान्ननाद च॥ ५॥
SP0880061: अनुह्लादो धरं प्राप्य तेन विद्धः स्तनान्तरे।
SP0880062: असिं निष्कृष्य वेगेन धरस्य रथमासदत्॥ ६॥
SP0880071: ध्वजमीषां हयांश्चैव सारथिं धनुरेव च।
SP0880072: छित्त्वा स्कन्धे धरं चैव पुनः स्वरथमभ्यगात्॥ ७॥
SP0880081: कर्मणा तेन दैत्यस्य धरो भयसमीरितः।
SP0880082: अनुह्लादं ततस्त्यक्त्वा ययाविन्दुरथं प्रति॥ ८॥
SP0880091: ध्रुवस्तु ह्रदमासाद्य कृत्वा युद्धं महाभयम्।
SP0880092: माययाभिजितो युद्धे प्राद्रवद्भयपीडितः॥ ९॥
SP0880101: एवमन्यैश्च दैत्येन्द्रैरन्ये देवा महाबलाः।
SP0880102: निर्जितास्तर्जिताश्चैव युद्धाय च पुनः स्थिताः॥ १०॥
SP0880111: ततः संकुलमेवाभूद्देवानां दानवैः सह।
SP0880112: परस्परजिगीषूणां युद्धं भीरुभयावहम्॥ ११॥
SP0880121: ततो भेर्यश्च शङ्खाश्च पटहाः सैकपुष्कराः।
SP0880122: झर्झर्यः पेपुकाश्चैव डिण्डिमा गोविषाणिकाः।
SP0880123: अवाद्यन्त बले व्यास उभयेषां सहस्रशः॥ १२॥
SP0880131: ततो ऽसृगोघप्रभवा पताकाध्वजपादपा।
SP0880132: गजाश्वग्राहबहुला रथप्रवरकच्छपा॥ १३॥
SP0880141: केशशैवालबहुला धनुर्ज्याकृततन्तुका।
SP0880142: निष्टनन्तोग्रमण्डूका दुकूलच्छत्रफेनिला॥ १४॥
SP0880151: उष्णीषवरहंसा च करपादशिरोपला।
SP0880152: हारकेयूरसिकता मुकुटोत्फुल्लपङ्कजा॥ १५॥
SP0880161: मनुष्यकफपङ्का च प्राणजीवितनाशनी।
SP0880162: प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी॥ १६॥
SP0880171: तस्यां स्नायन्ति रक्षांसि पिबन्ति च रमन्ति च।
SP0880172: नृत्यन्ते चापि विविधा भीरूणां भयदास्तदा॥ १७॥
SP0880181: गृध्रा गोमायवश्चैव शुनो जर्जरवायसाः।
SP0880182: चक्षूंषि करपादान्त्रान्भक्षयन्तो दिने दिने॥ १८॥
SP0880191: ममायं हस्तिनः पादो ममायं मेदपट्टकः।
SP0880192: ममायं च करः शुभ्रो ह्रदश्च रुधिरस्य ह॥ १९॥
SP0880201: ममायं तव नायं च गृह्ण पश्येति चैव हि।
SP0880202: कलहं चक्रिरे तत्र क्रूराः पिशितभोजनाः॥ २०॥
SP0880211: त्यक्त्वान्ये च हतास्तत्र स्वदेहान्सुमहारथाः।
SP0880212: विमानैः स्त्रीजनाकीर्णैः प्रययुर्ब्रह्मणः सदम्॥ २१॥
SP0880221: अपरे पापकर्माणो हन्यमाना रुषान्वितैः।
SP0880222: पतन्ति नरके घोरे क्रन्दमाना मुहुर्मुहुः॥ २२॥
SP0880231: केचिदार्तस्वरं कृत्वा याचमानास्तृडार्दिताः।
SP0880232: म्रियन्ते पुरुषा युद्धे शतशो ऽथ सहस्रशः॥ २३॥
SP0880241: दशन्तश्च तृणान्यन्ये तात पुत्रेति चापरे।
SP0880242: क्रन्दमाना नरा भीताः प्राणान्कृच्छ्रेण तत्यजुः॥ २४॥
SP0880251: संदष्टौष्ठपुटाः केचिद्देवासुरमहारथाः।
SP0880252: शरसंभिन्नमर्माणः पतन्त्युर्व्यां द्रुमा इव॥ २५॥
SP0880261: अशिवानि शिवा नेदुरट्टहासांश्च राक्षसाः।
SP0880262: आर्तनादांश्च पुरुषास्तथैव गजवाजिनः॥ २६॥
SP0880271: सिंहनादाश्च शूराणां बाहुशब्दाश्च पुष्कलाः।
SP0880272: धनुषां कृष्यमाणानां शब्दो वाद्यरवस्तथा॥ २७॥
SP0880281: अथेन्द्रश्च धनेशश्च यमः कालश्च वीर्यवान्।
SP0880282: वरुणो मरुतश्चैव विश्वेदेवाश्च सर्वशः॥ २८॥
SP0880291: मित्रश्चैव जयन्तश्च भगः पूषार्यमा तथा।
SP0880292: कापाली चापि यो रुद्रो वसवश्च महाबलाः।
SP0880293: नासत्यश्चैव दस्रश्च पृश्नयश्च सुरोत्तमाः॥ २९॥
SP0880301: एते चान्ये च देवानां प्रवरा बाहुशालिनः।
SP0880302: दानवानां बले वेगं वेगवन्तो ऽभिचक्रिरे॥ ३०॥
SP0880311: सागरा इव गर्जन्तो युगान्ते अनला इव।
SP0880312: प्रभञ्जना इवाकाले महान्त इव चाचलाः॥ ३१॥
SP0880321: वृषभा इव नर्दन्तो बृंहन्त इव कुञ्जराः।
SP0880322: ग्रसन्तश्च यथा ग्राहाश्छिन्दन्तो मकरा इव॥ ३२॥
SP0880331: वर्षमाणा इव घनाः सिंहा इव च नर्दनाः।
SP0880332: दानवानां बलं सर्वे वेगेनैव व्यनाशयन्॥ ३३॥
SP0880341: तद्देववेगप्रहतातिवेगं बलं समन्ताद्दनुदानवानाम्।
SP0880342: भवत्यनाधारमतिप्रसक्तं तृणं यथा वह्निमुखावसक्तम्॥ ३४॥
SP0889999: इति स्कन्दपुराणे ऽष्टाशीतितमो ऽध्यायः॥