०८६

Skandapurāṇa Adhyāya 86

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0860010: सनत्कुमार उवाच।
SP0860011: ततो दग्धे रथे खस्थो दानवः स विरोचनः।
SP0860012: वेगेनासिं विनिष्कृष्य स पूष्णो निशिताञ्छरान्॥ १॥
SP0860021: चिच्छेदापततः सर्वान्कार्मुकं चैव वीर्यवान्।
SP0860022: तथा चैनं पुनर्मूर्ध्नि खड्गेन समताडयत्॥ २॥
SP0860031: स तेन सुप्रहारेण क्षरद्रुधिरमस्तकः।
SP0860032: रथोपस्थे पपाताशु वृत्तोत्सव इव ध्वजः॥ ३॥
SP0860041: पतितं तं स दैत्येन्द्रः प्रगृह्याशु महाबलः।
SP0860042: चिक्षेप देवराजानं नर्दमानः पयोदवत्॥ ४॥
SP0860051: बलिं विव्याध मित्रश्च जत्रुदेशे शरैस्त्रिभिः।
SP0860052: बलिरेकेन भल्लेन तस्य चिच्छेद कार्मुकम्॥ ५॥
SP0860061: अथैनं पुनरन्येन हृदये समताडयत्।
SP0860062: स मूढो मृतकल्पश्च रथोपस्थे ससाद ह॥ ६॥
SP0860071: तं सारथिर्मृत्युभयाद्विषण्णं मित्रमास्थितम्।
SP0860072: अपोवाह तदा व्यास ततो दैत्या विचुक्रुशुः॥ ७॥
SP0860081: बाणं विव्याध वरुणः क्षुद्रकाणां शतेन ह।
SP0860082: स कार्मुकशतानि स्म पञ्च बाणः प्रतापवान्।
SP0860083: आकृष्य युगपत्क्रुद्धः शरांश्चिक्षेप तावतः॥ ८॥
SP0860091: तानापतत एवाथ वरुणो लघुहस्तवान्।
SP0860092: एकैकं पञ्चधा कृत्वा बाणं विव्याध पञ्चभिः॥ ९॥
SP0860101: ततो ऽस्य कार्मुकान्सर्वान्वरुणः प्रहसन्बली।
SP0860102: चिच्छेद सायकैस्तीक्ष्णैस्तदद्भुतमिवाभवत्॥ १०॥
SP0860111: अथ च्छिन्नधनुर्दैत्यस्तस्य चिक्षेप वै गदाम्।
SP0860112: छिन्नां दृष्ट्वा च तां भूयो गदाः पञ्चासृजद्बली॥ ११॥
SP0860121: स एकस्यां तदासक्तस्ता गदा नाभ्यवीक्षत।
SP0860122: अवीक्षिताश्च ताः सर्वाः पेतुस्तस्य तदोपरि॥ १२॥
SP0860131: काचिन्मुकुटमारुह्य निपपात महीतले।
SP0860132: काचिच्च कार्मुकं घोरं हस्तादस्य न्यपातयत्॥ १३॥
SP0860141: काचिद्ध्वजं दृढं दिव्यं चिक्षेप धरणीतले।
SP0860142: काचिद्धयांस्तदाहत्य पांसुग्रासांश्चकार ह॥ १४॥
SP0860151: उरस्यूरूदरे कट्यामपरास्तस्य ता गदाः।
SP0860152: पतत्यः सुमहाघोरा आर्तिं चक्रुर्महाभयाः॥ १५॥
SP0860161: एवं स तेन विरथः कृतः कृच्छ्रेण धीमता।
SP0860162: वरुणस्तं समुत्सृज्य जगामान्यद्रणाजिरम्॥ १६॥
SP0860171: यमो ऽन्धकं समासाद्य तिष्ठ तिष्ठेति चोदितः।
SP0860172: अन्धकस्य ततो दण्डं रथं प्रति समुत्सृजत्॥ १७॥
SP0860181: स रथं तस्य संचूर्णं कृत्वा शतसहस्रशः।
SP0860182: यमहस्तं पुनर्गत्वा तथैव समतिष्ठत॥ १८॥
SP0860191: अन्धको ऽपि रथं त्यक्त्वा गदापाणिर्महाबलः।
SP0860192: यमं समभिदुद्राव क्रोधाद्वह्निं समुद्गिरन्॥ १९॥
SP0860201: स तस्य धावतो वेगात्पितृराजो यमः स्वयम्।
SP0860202: दण्डेनैव गदामुग्रां भस्मसायुज्यमानयत्॥ २०॥
SP0860211: स प्रहस्य तदा चैनमुवाच प्रसभं यमः।
SP0860212: भवतो धाम यदभूत्तत्ते विनिहतं मया॥ २१॥
SP0860221: साम्प्रतं त्वामपि पुनर्नयिष्यामि स्वमालयम्।
SP0860222: अहं हि सर्वलोकस्य मरणे हेतुरीश्वरः॥ २२॥
SP0860231: मया वैरं समासाद्य क्व मे जीवन्विमोक्ष्यसे।
SP0860232: अद्य त्वा निहनिष्यामि सुदृष्टं क्रियतां जगत्॥ २३॥
SP0860241: अथवा त्वं गतः पूर्वमद्यैवान्धक मत्पुरम्।
SP0860242: पुनर्द्रष्टासि तत्रैव सर्वानेतान्सुरद्विषः॥ २४॥
SP0860250: सनत्कुमार उवाच।
SP0860251: अथैवंवादिनं युद्धे निर्भीरन्धकदानवः।
SP0860252: उवाच तं यमं क्रुद्धं क्रोधाद्दीप्तानलेक्षणः॥ २५॥
SP0860261: हिरण्याक्षसुतो दृप्त अन्धको ऽस्मि सुरान्तकः।
SP0860262: महायोगबलोपेतो नास्मि प्राकृतदानवः॥ २६॥
SP0860271: अङ्गाद्येन समुत्कृत्य भागान्मांसस्य कार्षिकान्।
SP0860272: संवत्सरशतान्यष्टौ पञ्च चैव हुतो ऽनलः॥ २७॥
SP0860281: तुष्टो ब्रह्मा ददौ यस्य सदैवामरतां शुभाम्।
SP0860282: सो ऽहं नाम्ना महासत्त्वो मृत्युस्तव न संशयः॥ २८॥
SP0860291: न त्वं मम कृतो मृत्युः सिंहस्येव वने शशः।
SP0860292: अहं तु भविता मृत्युस्तव नास्त्यत्र संशयः॥ २९॥
SP0860301: अद्य त्वाहं दुरात्मानं सर्वलोकभयंकरम्।
SP0860302: हत्वा श्रेयो विधास्यामि त्रैलोक्यस्येति मे मतिः॥ ३०॥
SP0860311: देवानां च भवान्नित्यं हन्तव्यो विप्रिये स्थितः।
SP0860312: तेषामपि प्रियं हृद्यं भविष्यति हते त्वयि॥ ३१॥
SP0860321: न त्वयासादितं पूर्वं हरता जीवितानि ह।
SP0860322: किंचिद्भूतं महद्भूतं तेन त्वं निर्भयः सदा॥ ३२॥
SP0860331: देवास्तव भयाद्भीता अशक्तास्त्वद्वधे ततः।
SP0860332: अमृतादीनि लिप्सन्ति पूजयन्ति सदा च ते॥ ३३॥
SP0860341: अद्य त्वयि हते क्रूरे निर्द्वन्द्वास्ते ऽपि सासुराः।
SP0860342: अमृतेन यथा प्रीतिं करिष्यन्ति न संशयः॥ ३४॥
SP0860351: अद्य गर्वं च दर्पं च योगमाहात्म्यमेव च।
SP0860352: प्राणैः सहैव देहात्ते नाशयिष्यामि सर्वशः॥ ३५॥
SP0860360: सनत्कुमार उवाच।
SP0860361: स एवमसुरेन्द्रेण तर्जितो भास्करात्मजः।
SP0860362: दण्डेनासुरशार्दूलमुत्तमाङ्गे ऽभ्यताडयत्॥ ३६॥
SP0860371: कालश्च किंकरेणैव हृदये समताडयत्।
SP0860372: मृत्युश्चाशनिना क्षिप्रं शिरस्येव व्यताडयत्॥ ३७॥
SP0860381: कण्ठे च नियतिस्तस्य पाशं चिक्षेप दारुणम्।
SP0860382: कृतान्तः परिघेनैनं गण्डदेशे समाहनत्॥ ३८॥
SP0860391: स तैरमोघैर्याम्यैश्च प्रहतो ऽन्धकदानवः।
SP0860392: पुष्पवृष्ट्या यथा कश्चिन्नार्तिमानभवत्तदा॥ ३९॥
SP0860401: न पाशास्तस्य लीयन्ते दण्डो वा परिघो ऽपि वा।
SP0860402: अन्यानि चास्य तीव्राणि न दुःखाय भवन्त्युत॥ ४०॥
SP0860411: ततः सर्वैस्तदोत्क्रुष्टं दानवैः सर्वतोदिशम्।
SP0860412: अवाद्यन्त च तूर्याणि मुमुदे चान्धको भृशम्॥ ४१॥
SP0860421: स तेषां तुष्टिशब्देन मदवीर्यसमीरितः।
SP0860422: विनद्याम्बुदवद्व्यास यममेवाभिदुद्रुवे॥ ४२॥
SP0860431: स गत्वा तस्य वेगेन हन्यमानो ऽपि किंकरैः।
SP0860432: आजघान महावेगो मुष्टिनोरसि तं यमम्।
SP0860433: पुण्ड्रं च महिषं तस्य शिरस्यभ्यहनत्पदा॥ ४३॥
SP0860441: तावुभौ विह्वलौ तत्र भ्रमित्वा किंचिदन्तरम्।
SP0860442: हित्वान्धकं ततस्तूर्णं ययतुर्मुनिसत्तम॥ ४४॥
SP0860451: जयन्तश्चेल्वलं प्राप्य विव्याध दशभिः शरैः।
SP0860452: तस्येल्वलश्चकर्ताशु ध्वजं रत्नविभूषितम्।
SP0860453: हयानां चैव योक्त्राणि प्रतोदं चैव काञ्चनम्॥ ४५॥
SP0860461: विना योक्त्रैर्हयास्तस्य रथं त्यक्त्वा समुद्धताः।
SP0860462: नाना विजग्मुर्हेषन्तो जयन्तो विरथो ऽभवत्॥ ४६॥
SP0860471: स रथं संपरित्यज्य भूस्थः शक्रात्मजः प्रभुः।
SP0860472: इल्वलस्य हयान्सूतं ध्वजं चैव न्यपातयत्॥ ४७॥
SP0860481: तावुभौ विरथौ भूत्वा अन्योन्यविजयैषिणौ।
SP0860482: अविध्येतां तदान्यस्य कार्मुकं सायकैः शितैः॥ ४८॥
SP0860491: परस्परविनिर्मुक्तानुभौ संवार्य सायकान्।
SP0860492: अस्त्रैरस्त्राणि संवार्य नेदतुः सागराविव॥ ४९॥
SP0860501: अथ शक्रसुतः श्रीमांल् लब्ध्वा तस्य तदान्तरम्।
SP0860502: धनुश्चिच्छेद भल्लेन ननाद च पुनः पुनः॥ ५०॥
SP0860511: स विकृत्तधनुर्दैत्यः खड्गं दीप्तानलप्रभम्।
SP0860512: भ्रामयित्वा विचिक्षेप तमप्यस्याच्छिनत्तदा॥ ५१॥
SP0860521: गृहीत्वाथास्य पतितां गदां हेमविभूषिताम्।
SP0860522: भ्रामयित्वा तु चिक्षेप सा प्रदुद्राव वेगवत्॥ ५२॥
SP0860531: स यावत्तां गदां घोरां शरैः संनतपर्वभिः।
SP0860532: विचिच्छेद दितेः पुत्रस्तावदस्याच्छिनद्धनुः॥ ५३॥
SP0860541: अथ यावन्न निस्त्रिंशं जग्राहादितिनन्दनः।
SP0860542: तावदेनं पदा दैत्यो वामेनोरस्यताडयत्॥ ५४॥
SP0860551: तमेव तस्य जग्राह पादं तु स महाबलः।
SP0860552: जयन्तो ऽभ्रामयच्चैनं नर्दमानो यथाम्बुदः॥ ५५॥
SP0860561: ततो हाहाकृतमभूदसुराणां बले महत्।
SP0860562: यात त्रायत दैत्येन्द्रमिल्वलं शीघ्रमित्युत॥ ५६॥
SP0860571: देवानां सिंहनादाश्च शङ्खशब्दाश्च पुष्कलाः।
SP0860572: तूर्याणि चाप्यवाद्यन्त साधु साध्विति चाभवत्॥ ५७॥
SP0860581: जयन्तो ऽपि यथा चक्रं विधाता बलवांस्तथा।
SP0860582: भ्रामयामास तं दैत्यं युगान्ताम्बुदवन्नदन्॥ ५८॥
SP0860591: अथ स्वयं हिरण्याक्षः सो ऽन्धको बलिरेव च।
SP0860592: बाणो ऽथ विप्रचित्तिश्च शम्बरो ऽथ विरोचनः॥ ५९॥
SP0860601: कालकेयाश्च ते दैत्याः पौलोमाः सिंहिकासुताः।
SP0860602: निवातकवचाश्चैनं समन्तात्पर्यवारयन्॥ ६०॥
SP0860611: स तैः शरैर्गदाभिश्च परिघैर्दीर्घवेधनैः।
SP0860612: अन्यैश्च बहुभिश्चित्रैरायुधैः प्रहतो भृशम्॥ ६१॥
SP0860621: स हन्यमानस्तं देवो जयन्तः शक्रनन्दनः।
SP0860622: हिरण्याक्षोपरि क्षिप्त्वा प्राद्रवद्येन देवताः॥ ६२॥
SP0869999: इति स्कन्दपुराणे षडशीतितमो ऽध्यायः॥