०८४

Skandapurāṇa Adhyāya 84

E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0840010: सनत्कुमार उवाच।
SP0840011: स युद्धयज्ञस्तत्राग्रो राज्यार्थमभवत्तदा।
SP0840012: तत्र यज्वा स्वयं देवः सहस्राक्षः प्रतापवान्।
SP0840013: सह देवैः सुराध्यक्षः कुशास्तस्य शरा मताः॥ १॥
SP0840021: आयुधानि विचित्राणि स्रुचो यैर्हूयते हविः।
SP0840022: हविः प्राणाः समाख्याता अग्निर्मृत्युर्महाप्रभः॥ २॥
SP0840031: मन्त्राश्चास्त्राणि दिव्यानि पुरोडाशाः शिरांस्यपि।
SP0840032: सोमस्तत्र जयो ऽभूच्च रुद्राश्चाध्वर्यवो ऽभवन्॥ ३॥
SP0840041: आदित्या बह्वृचश्चासन्नौद्गात्रं वसुभिः कृतम्।
SP0840042: ब्रह्मा समभवच्चात्र स्वयं देवो बृहस्पतिः॥ ४॥
SP0840051: शामित्रे चाश्विनौ तौ तु यज्ञ एवं व्यवर्तत।
SP0840052: पशुस्तत्राभवद्दैत्यो हिरण्याक्षः सहानुगैः॥ ५॥
SP0840061: हिरण्याक्षो ऽभवद्यज्वा दैत्यानां शिबिराधिपः।
SP0840062: विप्रचित्तिरभूद्धोता प्रस्थातारश्च दानवाः॥ ६॥
SP0840071: उद्गाता चैव प्रह्लादः शुक्रो ब्रह्मा च सुव्रतः।
SP0840072: पशुरिन्द्रः सहस्राक्ष एवं सो ऽयजदव्ययः॥ ७॥
SP0840081: तस्मिंस्तदा महायज्ञे वर्तमाने भयावहे।
SP0840082: इन्द्रः समासदद्दैत्यं हिरण्याक्षं महाबलम्।
SP0840083: वायुरभ्याययौ तूर्णं विप्रचित्तिं महाबलः॥ ८॥
SP0840091: सक्तो ऽंशः शम्बरेणाशु वलेन भग एव च।
SP0840092: विरोचनेन पूषा च मित्रो बलिमथासजत्॥ ९॥
SP0840101: बाणेन वरुणः सार्धमन्धकेन यमः सह।
SP0840102: जयन्तेनेल्वलः सार्धं मयेन सह चन्द्रमाः॥ १०॥
SP0840111: अहिर्बुध्नेन राहुश्च कापाली शतकेतुना।
SP0840112: अजैकपात्कालनेमिं ज्वरः कार्तस्वनेन च॥ ११॥
SP0840121: प्रह्लादेनार्यमा सार्धमनुह्लादेन वै धरः।
SP0840122: ध्रुवो ह्रदेन संसक्तो ह्यन्ये चान्यैर्महाबलाः॥ १२॥
SP0840131: हिरण्याक्षस्तथेन्द्रस्य दृढमायम्य कार्मुकम्।
SP0840132: विव्याध गजमेकेन कुम्भदेशे महाबलः॥ १३॥
SP0840141: देवेन्द्रं पञ्चभिर्बाणैर्जत्रुदेशे समाहनत्।
SP0840142: षड्भिर्ललाटे विव्याध गजं भूयश्च सप्तभिः॥ १४॥
SP0840151: स गजस्तैः शरैर्भिन्नः क्षरद्रुधिर आबभौ।
SP0840152: गैरिकाम्बुपरिस्रावी श्वेतः पर्वतराडिव॥ १५॥
SP0840161: तस्य क्रुद्धस्तदा शक्रो वज्रेण शतपर्वणा।
SP0840162: प्रहारमददद्व्यास गण्डदेशे ननाद च॥ १६॥
SP0840171: स वज्रघातं दैत्येन्द्रः पुष्पघातमिवोर्जितः।
SP0840172: अचिन्तयानः सगजं शक्रमेवार्दयद्बली॥ १७॥
SP0840181: गजो ऽपि तेन निर्भिन्नः शरैर्बहुभिरुज्ज्वलैः।
SP0840182: हविषेवानलः क्रोधात्प्रजज्वाल जगर्ज च॥ १८॥
SP0840191: स वेगं महदास्थाय अङ्कुशेन च चोदितः।
SP0840192: हिरण्याक्षरथं तूर्णं जग्राह रथकूबरे॥ १९॥
SP0840201: गृहीत्वा स तदोत्क्षिप्य चिक्षेप गजसत्तमः।
SP0840202: मेरुशृङ्गमिवोत्क्षिप्य समेघं श्वेतकुण्डली॥ २०॥
SP0840211: गत्वा मुहूर्तं वेगेन पतद्रथवरो बभौ।
SP0840212: स्वर्भानुना हतः पूर्वं सरथो भास्करो यथा॥ २१॥
SP0840221: तं तु सम्यक्स्थितं भूमौ हिरण्याक्षरथं पुनः।
SP0840222: आजगाम गजस्तूर्णं जिघृक्षन्मुनिसत्तम॥ २२॥
SP0840231: प्रसारितकरो दन्ती स्तब्धदृक्कर्णवालधिः।
SP0840232: अभ्यधावत वेगेन गरुत्मानिव पन्नगम्॥ २३॥
SP0840241: तमापतन्तं वेगेन समीक्ष्यासुरसत्तमः।
SP0840242: चचार स तदा व्योम्नि गरुत्मानिव मण्डलम्॥ २४॥
SP0840251: तं तु मण्डलमावृत्तं गजो ऽप्यनु तथैव हि।
SP0840252: स्तब्धदृक्कर्णलाङ्गूलः प्रसारितकरो ऽभ्रमत्॥ २५॥
SP0840261: हाहाकृतमभूत्सर्वं साधु साध्विति चोभयोः।
SP0840262: बलयोर्देवदैत्यानां मूकवच्चाभवत्पुनः॥ २६॥
SP0840271: साध्विन्द्रेति च देवानां गजेति च पुनः पुनः।
SP0840272: साधु दैत्येति चान्येषां हिरण्याक्षेति चैव हि॥ २७॥
SP0840281: स गजस्कन्धगो भाति भ्रमन्सुरगणेश्वरः।
SP0840282: सपक्षमिव शैलेन्द्रमहिमो ऽग्निः समास्थितः॥ २८॥
SP0840291: हिरण्याक्षश्च सरथो भ्रमन्भाति महासुरः।
SP0840292: गरुत्मन्तमिवास्थाय रणे कृष्णो महाबलः॥ २९॥
SP0840301: युध्यमानस्तु दैत्येन्द्रो दृढमायम्य कार्मुकम्।
SP0840302: देवराजं शरैस्तीक्ष्णैः समन्तात्पर्यवारयत्॥ ३०॥
SP0840311: स तैः शरैस्तदा व्यास मर्मसन्धिषु ताडितः।
SP0840312: वज्रेण शतधारेण धनुरस्य व्यशातयत्।
SP0840313: हयानां चैव योक्त्राणि सर्वाण्येव न्यकृन्तत॥ ३१॥
SP0840321: रश्मींश्च सूतहस्तस्थान्प्रतोदं चैव काञ्चनम्।
SP0840322: चिच्छेद बहुधा शक्रः प्रहसन्निव वीर्यवान्।
SP0840323: छिन्नयोक्त्रास्ततो ऽस्याश्वाः स्वच्छन्दाः संप्रतस्थिरे॥ ३२॥
SP0840331: हिरण्याक्षो ऽप्यवप्रुत्य गदया समताडयत्।
SP0840332: गजं सुरपतिं चैव खड्गेन स महासुरः॥ ३३॥
SP0840341: स गजस्तेन घातेन त्यक्त्वा तं रथसत्तमम्।
SP0840342: शकृन्मूत्रे सृजन्व्यास प्राद्रवद्बलवांस्ततः।
SP0840343: मर्दमानो नदंश्चैव भ्रामयाणः शिरस्तथा॥ ३४॥
SP0840351: असिनाभिहतश्चापि देवराजो महाबलः।
SP0840352: नार्तिमानभवत्संख्ये न चास्य क्षतमाबभौ॥ ३५॥
SP0840361: स दानवेन्द्रप्रहतेन दन्तिना महाबलः प्रस्रुतदानगन्धिना।
SP0840362: अमृष्यमानः प्रययौ प्रमाथिना हिरण्यनेत्रेण युधि प्रबाधितः॥ ३६॥
SP0849999: इति स्कन्दपुराणे चतुरशीतितमो ऽध्यायः॥