Skandapurāṇa Adhyāya 82
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0820010: सनत्कुमार उवाच।
SP0820011: तांस्तथांशेन दैत्येन्द्रान्कल्यमानानितस्ततः।
SP0820012: दृष्ट्वा वलो महामायो यन्तारमिदमब्रवीत्॥ १॥
SP0820021: नयस्व मां यतो ऽंशो ऽयं दुरात्मा दहते बलम्।
SP0820022: यावदेनं शितैर्बाणैर्नयामि यमसादनम्॥ २॥
SP0820031: तस्यापतत एवांशस्तदा प्रहरतां वरः।
SP0820032: ध्वजं चिच्छेद बाणेन हयांश्चैकैकशस्तदा॥ ३॥
SP0820041: भल्लेन च शिरः कायाद्यन्तुराशु न्यपातयत्।
SP0820042: तं चैव पञ्चभिर्बाणैर्ललाटे समविध्यत॥ ४॥
SP0820051: तस्य दैत्यस्य ते भान्ति ललाटे पञ्च सायकाः।
SP0820052: घनोदरविनिष्क्रान्ता भास्करस्येव रश्मयः॥ ५॥
SP0820061: दैत्यो ऽपि हि तदामर्षी वियदुत्पत्य रोषितः।
SP0820062: सायकैर्बहुभिर्व्यास सो ऽंशं समकिरद्बली॥ ६॥
SP0820071: सवृष्टिरिव जीमूत उत्पात इव चाशनिम्।
SP0820072: करान्दिवाकरो यद्वत्तुषारं चन्द्रमा इव॥ ७॥
SP0820081: तथा स दानवो दर्पाद्वलः प्रहरतां वरः।
SP0820082: अंशं समाकिरत्तीक्ष्णैः सायकैर्मर्मभेदिभिः॥ ८॥
SP0820091: ध्वजं चिच्छेद चैवास्य बहुधा दानवेश्वरः।
SP0820092: हयान्वेगहतान्कृत्वा सारथिं चाप्यसारथिम्।
SP0820093: कार्मुकं बहुभिर्बाणैर्व्यधमत्तिलशस्तदा॥ ९॥
SP0820101: यथांशं स चकारोग्रं तथान्यानपि देवतान्।
SP0820102: निरुद्यमान्महामायश्चकार विररास च॥ १०॥
SP0820111: क्वचिज्जीमूतसंकाशः क्वचिद्भास्करसंनिभः।
SP0820112: क्वचित्सोमाग्निकल्पश्च क्वचित्ताराग्रहैः समः॥ ११॥
SP0820121: क्वचित्पर्वतसंकाशः क्वचित्खगवपुर्धरः।
SP0820122: क्वचिदाकाशमाविश्य अदृश्यः सो ऽसृजच्छरान्॥ १२॥
SP0820131: शरोपचितगात्रं तच्छिन्नभिन्नविदारितम्।
SP0820132: निष्पन्दं मूकवत्सर्वं देवानां बलमाबभौ॥ १३॥
SP0820141: नष्टवादित्रनिनदं हयहेषितवर्जितम्।
SP0820142: गजबृंहितविभ्रष्टं शान्तयोधोग्रनादितम्।
SP0820143: निष्पन्दं तद्बलं भाति चित्रपट्टार्पितं यथा॥ १४॥
SP0820151: ऊर्ध्वं निरीक्षते तत्र यः कश्चिद्विबुधो बले।
SP0820152: वलस्तस्य शरैर्वक्त्रमकरोद्विविधं बली।
SP0820153: चेष्टाविरहिताश्चासन्यथा मोक्षपथि स्थिताः॥ १५॥
SP0820161: तांस्तथा सीदतः सर्वान्दृष्ट्वा बलमहार्णवे।
SP0820162: वायुर्जयन्तः पूषा च भगश्च सुमहाबलः।
SP0820163: नदन्तस्ताञ्छरांस्तस्य वलस्य समवारयन्॥ १६॥
SP0820171: वायुस्तस्य महावेगः शरान्मेघादिवोदितान्।
SP0820172: मुच्यतो मुच्यमानांश्च मुक्तांश्चैवाहरद्बली॥ १७॥
SP0820181: भगो ऽस्य कार्मुकं दिव्यमच्छिनत्प्रहसन्निव।
SP0820182: देहत्राणं तथा पूषा जयन्तश्चेषुधी तथा।
SP0820183: समार्दयञ्छरैस्तीक्ष्णैर्देवा रविसमप्रभाः॥ १८॥
SP0820191: सो ऽर्द्यमानस्तदा देवैर्बली दानवपुंगवः।
SP0820192: वृक्षैः काननजैर्व्यास युयुधे भीमविक्रमः॥ १९॥
SP0820201: तान्द्रुमांस्ते तदा क्षिप्तान्वलेन बहुधा शुभान्।
SP0820202: चक्रुः शरैर्देवतेन्द्रास्ततः स गिरिमाव्रजत्॥ २०॥
SP0820211: गृहीत्वा स महच्छृङ्गं समृगव्यालकिन्नरम्।
SP0820212: चिक्षेप सुमहन्नादं प्रकुर्वाणो ऽतिदारुणम्॥ २१॥
SP0820221: अथापतन्तं वेगेन पवनो बलवान्बलात्।
SP0820222: जहार शृङ्गं तच्चापि पपातासुरमूर्धसु॥ २२॥
SP0820231: दानवानां तदा कोटिमेकां वीर्यवतां युधि।
SP0820232: जघान वलमुक्तं तद्गिरिशृङ्गं महास्वनम्॥ २३॥
SP0820241: तान्हतान्दानवांस्तेन शृङ्गेण दितिनन्दनाः।
SP0820242: दृष्ट्वा देवांश्च तानुग्रानभज्यन्त सहस्रशः॥ २४॥
SP0820251: रथैरश्वैर्गजैश्चैव तथा चैव पदातयः।
SP0820252: उत्सृज्य वाहनानन्ये जीवितेनार्थिनस्तदा।
SP0820253: प्रपलीना भयाद्दैत्या दानवाश्च सहस्रशः॥ २५॥
SP0820261: द्रवतस्तांस्तदाभ्येत्य हिरण्याक्षः स दानवः।
SP0820262: विप्रचित्तिश्च दनुजः प्रह्लादश्च महाबलः॥ २६॥
SP0820271: यममुक्तो ऽन्धको दैत्यस्तारकः शक्रतापनः।
SP0820272: ऊचिरे दानवान्सर्वान्दैत्यांश्च भयविह्वलान्॥ २७॥
SP0820281: भो भो दानवशार्दूला दैत्याश्च सुरशत्रवः।
SP0820282: किं पलायत तिष्ठध्वं मा भयं वो ऽस्तु दानवाः।
SP0820283: क्व गता दानवा यूयं सुखं लप्स्यथ विज्वराः॥ २८॥
SP0820291: एते बलमजानन्तो देवाः पूर्वं महाबलाः।
SP0820292: न प्रमर्दन्ति पाताले स्थितानप्यसुरोत्तमाः॥ २९॥
SP0820301: साम्प्रतं तु बलैर्हीनाञ्ज्ञात्वा वो ऽसुरसत्तमाः।
SP0820302: निःशेषान्प्रकरिष्यन्ति पाताले ऽपि कुलाधमाः॥ ३०॥
SP0820311: मा यात विनिवर्तध्वं रक्षां कुरुत सर्वशः।
SP0820312: सुयुद्धेनात्मनो दैत्या मा भयं वो ऽस्तु जीविते॥ ३१॥
SP0820321: क्व गतं दनुजत्वं वः क्व गता दैत्यता च वः।
SP0820322: क्व च वैरं सुरैः सार्धं क्व राज्यहरणं गतम्॥ ३२॥
SP0820331: यद्वैरं यश्च वो दर्पः कुलजन्म च यद्धि वः।
SP0820332: यच्च तद्गर्जितं पूर्वं तस्य कालो ऽयमागतः॥ ३३॥
SP0820341: यत्त्वब्रूत तदा दैत्या न बाला वयमित्युत।
SP0820342: वयमेकैकशो योग्या देवानां नाशनेति च।
SP0820343: तस्य कालो ऽयमद्येह प्राप्तः किं विपलायत॥ ३४॥
SP0820351: तत्सर्वं गर्जितं वो ऽद्य जानाम्यहमतः परम्।
SP0820352: शरदम्बुदवद्दैत्या व्यर्थं मा यात भीषिताः॥ ३५॥
SP0820361: निवर्तध्वमधर्मज्ञा युध्यध्वं कृतनिश्चयाः।
SP0820362: वीक्षध्वं मे सपुत्रस्य महत्कर्म कुलाधमाः॥ ३६॥
SP0820371: कश्यपस्य सुतः श्रीमान्हिरण्याक्षो ऽस्मि दानवाः।
SP0820372: अन्धकश्च सुतो ऽयं मे ब्रह्मदत्तवरः शुभः॥ ३७॥
SP0820381: हिरण्यकशिपोर्वीर्यं यदभूदसुरोत्तमाः।
SP0820382: द्विगुणं तन्ममाप्यस्ति वीक्षध्वं तदशङ्किताः॥ ३८॥
SP0820391: अद्य देवान्मया सर्वान्हतान्पश्यत दानवाः।
SP0820392: संग्रामे यदि तिष्ठन्ति सर्वे देवा ममाग्रतः॥ ३९॥
SP0820401: अद्य त्रैलोक्यमव्यग्रं हतेष्वसुरशत्रुषु।
SP0820402: विज्वरा भोक्ष्यथ सुखं मयेन्द्रेणासुरोत्तमाः॥ ४०॥
SP0820411: मा वो ऽस्तु भयमद्येह यथा तिष्ठन्ति साधवः।
SP0820412: सपुत्रं मां युधि तथा वीक्षमाणास्तु तिष्ठत॥ ४१॥
SP0820420: सनत्कुमार उवाच।
SP0820421: त एवमुक्ता विप्रेन्द्र गजास्तोत्त्रार्दिता इव।
SP0820422: विनिवृत्ताः पुनः सर्वे लज्जयाभिसमावृताः॥ ४२॥
SP0820431: ते छत्त्रसंछादितवक्त्रपद्मा लज्जासमाविष्टविरागवक्त्राः।
SP0820432: न तस्य राज्ञो मुखतो ऽवतस्थुस्तिमेरिवान्तः सलिले ऽल्पमीनाः॥ ४३॥
SP0829999: इति स्कन्दपुराणे द्व्यशीतितमो ऽध्यायः॥