Skandapurāṇa Adhyāya 80
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0800010: सनत्कुमार उवाच।
SP0800011: तस्मिन्महति युद्धे तु वर्तमाने महाभये।
SP0800012: दानवांस्तांस्तदा देवाः समन्तात्पर्यवारयन्॥ १॥
SP0800021: मृत्युः कालो यमश्चैव कृतान्तः कलहस्तथा।
SP0800022: निकृतिर्व्याधयश्चैव वैरं क्रोधश्च वीर्यवान्॥ २॥
SP0800031: नरकाश्चैव ते सर्वे यमदूताश्च सर्वशः।
SP0800032: प्रेताश्च पितरश्चैव चत्वारो ये गणा दिवि॥ ३॥
SP0800041: वामनश्चैव यो देवः किंकराश्च महाबलाः।
SP0800042: एते सर्वे तदाविश्य संजघ्नुर्दानवं बलम्॥ ४॥
SP0800051: यमदूतैर्विभिन्नाङ्गा भग्नसक्थत्रिकोरसः।
SP0800052: निष्टनन्ति क्षितौ दैत्या निरयेष्विव पापिनः॥ ५॥
SP0800061: यमदण्डविनिष्पिष्टा मृत्युपाशोग्रपाशिताः।
SP0800062: कृतान्तवशगाः सर्वे ते ऽभज्यन्त दितेः सुताः॥ ६॥
SP0800071: ते हन्यमाना दैतेया मृत्युना च यमेन च।
SP0800072: त्रातारमलभन्तो वै तत्र तत्रैव बभ्रमुः।
SP0800073: तथा तांस्तत्र तत्रैव भ्रमन्तो जघ्नुरार्दिताः॥ ७॥
SP0800081: ततो हाहाकृतं सर्वं दानवानां बले ऽभवत्।
SP0800082: साधु साध्विति देवानां यमं पूजयतामभूत्॥ ८॥
SP0800091: अथ प्रह्लादतनयो विरोचन इति श्रुतः।
SP0800092: स गजेन तदाभ्येत्य देवानां बलमर्दयत्॥ ९॥
SP0800101: सह तेन महामायो गजेन समधावत।
SP0800102: यमं प्रदक्षिणं कृत्वा द्रोणमेघ इवापरः॥ १०॥
SP0800111: स शरैर्बहुभिस्तीक्ष्णैरकुण्ठाग्रैरयस्मयैः।
SP0800112: वरुणं च धनेशं च वायुं चैवाभ्यवर्षत॥ ११॥
SP0800121: स संछाद्य तदा भासं भास्करस्य शितैः शरैः।
SP0800122: अवाकिरत तान्देवान्संवर्तक इवाम्बुदः॥ १२॥
SP0800131: ते शराचितसर्वाङ्गा वध्यमानाः पुनः पुनः।
SP0800132: क्षणेन समपद्यन्त देवाः सर्वे विचेतसः॥ १३॥
SP0800141: यान्तमायान्तमप्राप्तं प्राप्तं दूरस्थमेव च।
SP0800142: यं यतो वीक्षते दैत्यस्तं ततो ऽभिजघान सः॥ १४॥
SP0800151: नित्यायतधनुर्दैत्यः पारिवेषीव भास्करः।
SP0800152: दुर्निरीक्ष्यः समभवद्युगान्ताग्निरिवोत्थितः॥ १५॥
SP0800161: अथैवमस्यतो व्यास वरुणः कार्मुकं तदा।
SP0800162: चिच्छेद सुमहद्धीमांस्तर्जयन्दानवेश्वरम्॥ १६॥
SP0800171: वायुस्तीक्ष्णैः शरैस्तस्य कवचं सर्वतो ऽहरत्।
SP0800172: धनेशो ऽशनिघातेन गजमस्य न्यसूदयत्॥ १७॥
SP0800181: तं तथा निकृतं दृष्ट्वा बलिर्बाणश्च तावुभौ।
SP0800182: प्रह्लादो भ्रातृभिः सार्धं लोकपालानुपाद्रवत्॥ १८॥
SP0800191: तेषामापततामेव लोकपाला महाबलाः।
SP0800192: शरैराशीविषाकारैश्चक्ररक्षानपोथयन्॥ १९॥
SP0800201: वायुर्बाणस्य विशिखैः कार्मुकाणि विकर्षतः।
SP0800202: चिच्छेद युगपद्व्यास तदद्भुतमिवाभवत्॥ २०॥
SP0800211: स च्छिन्नधन्वा संक्रुद्धस्तोमराणि तदासृजत्।
SP0800212: चिक्षेप तानि वेगेन वायुरन्यां दिशं पुनः॥ २१॥
SP0800221: हयांश्च पुनरेवास्य शरैः संनतपर्वभिः।
SP0800222: ससूतान्परमायस्तो ह्यनयद्यमसादनम्॥ २२॥
SP0800231: स रथाद्बलिजः क्रोधादवप्रुत्य महाबलः।
SP0800232: गदां गृहीत्वा वेगेन श्वसनं समुपाद्रवत्॥ २३॥
SP0800241: तस्यापतत एवाथ भगवाननिलस्तदा।
SP0800242: शरैराशीविषाकारैर्गदां तां समकृन्तत॥ २४॥
SP0800251: स निकृत्तगदश्चापि बाणः प्रहरतां वरः।
SP0800252: प्रगृह्य तु गदामन्यां चिक्षेप च जहास च॥ २५॥
SP0800261: तामापतन्तीं वेगेन गदां बाणस्य खेचरीम्।
SP0800262: आक्षिप्य वायुर्व्यधमदन्यां दिशमदीनवत्॥ २६॥
SP0800271: विमुखं तमथालक्ष्य वायुना च शरार्दितम्।
SP0800272: पुत्रं बलिर्द्रुतं व्यास रथेन समपादयत्॥ २७॥
SP0800281: तावेकरथसंयत्तौ बभतुर्दानवेश्वरौ।
SP0800282: सूर्याचन्द्रमसौ यद्वत्पूर्णमास्यां समागतौ॥ २८॥
SP0800291: अथ तेषां च तेषां च तद्युद्धमभवत्तदा।
SP0800292: - - - - - - - - - - - - - - - -॥ २९॥
SP0800301: तान्निरुद्धानथाज्ञाय लोकपालैर्महाबलैः।
SP0800302: निवातकवचाः सर्वे कालकेयाश्च दंशिताः॥ ३०॥
SP0800311: पौलोमाः सैंहिकेयाश्च शम्बरः कालशम्बरः।
SP0800312: अन्धकश्च महादैत्यो हिरण्याक्षश्च विश्रुतः॥ ३१॥
SP0800321: सर्वे व्यूहममुञ्चन्तो दानवा युद्धलालसाः।
SP0800322: चक्रुर्वेगं महावेगाः समेघा इव सानवः॥ ३२॥
SP0800331: तानापतत एवाथ यमो दण्डेन वीर्यवान्।
SP0800332: अवारयत ते तस्थुश्चित्रपट्टार्पिता इव॥ ३३॥
SP0800341: तान्यमस्य भयाद्दैत्यान्दृष्ट्वा सर्वानवस्थितान्।
SP0800342: अन्धको यममभ्येत्य तिष्ठ तिष्ठेति चाब्रवीत्॥ ३४॥
SP0800351: महता स रथेनेत्य धनुर्विस्फार्य चासकृत्।
SP0800352: यमं ललाटे दशभिर्बाणैर्विव्याध वीर्यवान्॥ ३५॥
SP0800361: पञ्चभिर्महिषं चास्य षड्भिः कालं तथाग्रतः।
SP0800362: मृत्युं द्वादशभिश्चैव कृतान्तं चैव सप्तभिः॥ ३६॥
SP0800371: भ्रामयन्स पुनश्चापमिन्द्रायुधसमप्रभम्।
SP0800372: ननादाम्बुदवद्व्यास पुनर्विव्याध चैव तम्॥ ३७॥
SP0800381: हिरण्याक्षसुतो ज्येष्ठ अन्धको ऽहं महाबलः।
SP0800382: ब्रह्मणा च वरो दत्तो मह्यमित्यवघोषयत्॥ ३८॥
SP0800391: तस्यैवं वदतस्तूर्णं सूर्यपुत्रः प्रतापवान्।
SP0800392: रथं चिच्छेद संक्रुद्धो दण्डेन विनिपातयन्॥ ३९॥
SP0800401: सकार्मुके रथे तत्र मथिते ह्यन्धकस्तदा।
SP0800402: गदामुद्यम्य वेगेन प्रेताधिपमथाद्रवत्॥ ४०॥
SP0800411: तस्य तां दण्डघातेन गदां सर्वामचूर्णयत्।
SP0800412: शिरस्येनं पुनः क्रुद्धो दण्डेन समताडयत्॥ ४१॥
SP0800421: जितेन्द्रियो मुनिर्यद्वत्स्पृष्टो विषयगोचरैः।
SP0800422: न चचाल महासंख्ये दण्डं चास्य समाहनत्॥ ४२॥
SP0800431: अथाप्रतिहतं दण्डमन्धकेन पराहतम्।
SP0800432: पुनः प्रतिहतं दृष्ट्वा जहसुर्दानवेश्वराः॥ ४३॥
SP0800441: सिंहनादं सवादित्रं बाहुशब्दांश्च सुस्वरान्।
SP0800442: चक्रुः साध्वन्धकेत्येवं चुक्रुशुश्च मुहुर्मुहुः॥ ४४॥
SP0800451: अन्धको ऽपि तदाभ्येत्य नर्दमानो यथार्णवः।
SP0800452: तलेनाहत्य महिषाद्यमं भूमौ न्यपातयत्॥ ४५॥
SP0800461: ततो हाहाकृतं देवैर्गृह्ण गृह्णेति दानवैः।
SP0800462: व्यूहभङ्गश्च देवानामभवच्छक्तिनन्दन॥ ४६॥
SP0800471: अथ मृत्युश्च कालश्च कृतान्तश्चैव ते त्रयः।
SP0800472: अन्धकं बहुभिः पाशैर्बबन्धुः क्रोधमूर्छिताः॥ ४७॥
SP0800481: पाशान्स तेषां दैत्येन्द्रो विच्छिद्य सुमहाबलः।
SP0800482: बाहुपाशेन बलवान्कृतान्तमवबन्धत॥ ४८॥
SP0800491: स बद्धो बाहुपाशेन कृतान्तः क्रोधमूर्छितः।
SP0800492: उत्क्षिप्यान्धकमुद्धूतो निनाय बलवान्बलात्॥ ४९॥
SP0800501: तं नीयमानं संप्रेक्ष्य हिरण्याक्षः सुतं स्वकम्।
SP0800502: जघान सायकैस्तीक्ष्णैः कृतान्तं सुभृशं दृढैः॥ ५०॥
SP0800511: तस्य गात्राणि सर्वाणि संधींश्चैव महाबलः।
SP0800512: विव्याध निशितैर्बाणैः स विष्टब्धो व्यतिष्ठत॥ ५१॥
SP0800521: तं बाणैर्विवृतं दृष्ट्वा देवाः सर्वे सवासवाः।
SP0800522: रक्षन्तः समवर्तन्त भीमोद्यतकरायुधाः॥ ५२॥
SP0800531: अथ किखरमृदङ्गवेणुवीणापणवसुघोषकडिण्डिमानकानाम्।
SP0800532: असुरसुरबले महांस्तदानीं समभवदग्रवरः स तूर्यनादः॥ ५३॥
SP0809999: इति स्कन्दपुराणे ऽशीतितमो ऽध्यायः॥