Skandapurāṇa Adhyāya 79
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0790010: सनत्कुमार उवाच।
SP0790011: व्यूढे सुराणां सैन्ये ऽथ स्थिते युद्धाय दंशिते।
SP0790012: दानवानां बलं घोरं समदृश्यत भीषणम्॥ १॥
SP0790021: ते दानवबलं दृष्ट्वा देवाः सर्वे सवासवाः।
SP0790022: सिंहनादानकुर्वन्त वादित्ररवमिश्रितान्॥ २॥
SP0790031: स नादः सुमहान्व्यास सागरस्येव मथ्यतः।
SP0790032: आपूरयज्जगत्सर्वं युगान्ताम्बुदनिस्वनः॥ ३॥
SP0790041: ततो दानवशार्दूलाः सर्वे दृष्ट्वा सुरोत्तमान्।
SP0790042: व्यूहस्कन्धास्थितान्सम्यग्वीक्षांचक्रुः परस्परम्॥ ४॥
SP0790051: तानीक्षमाणान्संदृश्य स्थितान्दानवयूथपान्।
SP0790052: उवाच भार्गवं व्यास हिरण्यनयनः स्वयम्॥ ५॥
SP0790061: एते व्यूहमिमं कृत्वा देवास्तिष्ठन्त्यभीतवत्।
SP0790062: मन्यन्ते दानवान्युद्धे वयं जेष्याम सर्वशः॥ ६॥
SP0790071: स भवान्युक्तमस्यैव देवव्यूहस्य भेदनम्।
SP0790072: कुरु मायाप्रतिव्यूहमस्माकमपि मा चिरम्॥ ७॥
SP0790080: सनत्कुमार उवाच।
SP0790081: एवमस्त्विति संप्रोच्य अर्धचन्द्रमकुर्वत।
SP0790082: खगस्य तस्य यच्छेत्तुं शिरः कायादियेष सः॥ ८॥
SP0790091: चकार तस्य शृङ्गे तु प्रह्लादान्धकदानवौ।
SP0790092: धारां निवातकवचान्पौलोमान्कालकासुतान्॥ ९॥
SP0790101: विरोचनं बलिं चैव विप्रचित्तिं सहानुजैः।
SP0790102: प्रह्लादभ्रातरश्चैव ससुहृद्वर्गबान्धवान्।
SP0790103: पृष्ठं चक्रे महायोगी मध्यं राजा तथैव च॥ १०॥
SP0790111: उवाच चेदं विश्रब्धो भार्गवः शत्रुतापनः।
SP0790112: हिरण्याक्षमिदं युक्तं काले पथ्यं च सर्वशः॥ ११॥
SP0790121: दैवतव्यूहभेत्तायं महाव्यूहो हि वः कृतः।
SP0790122: युद्धं कुरुत भद्रं वो मन्मन्त्रपरिपालिताः॥ १२॥
SP0790131: परस्परं च रक्षन्तः सर्वे चित्रास्त्रयोधिनः।
SP0790132: महामायान्सुरान्सर्वे यथा नैवाभिमन्यत॥ १३॥
SP0790141: ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः।
SP0790142: आडम्बरा डिण्डिमाश्च पटहाश्च महास्वनाः॥ १४॥
SP0790151: नानाविधानि चान्यानि प्रवाद्यन्त सहस्रशः।
SP0790152: देवानां दानवानां च मदसत्त्वप्रदानि वै॥ १५॥
SP0790161: ततः प्रमर्दतेत्युक्त्वा दानवा दानवेश्वरैः।
SP0790162: ममर्दुर्देवतानीकं प्रहताः सर्वशस्तदा॥ १६॥
SP0790171: देवा अपि च संयत्तास्तपोयोगबलान्विताः।
SP0790172: दानवान्विविधैः शस्त्रैरभिजघ्नुः कृतागसः॥ १७॥
SP0790181: असीनां पात्यमानानां शिरसां हस्तिनामपि।
SP0790182: आसीच्छब्दो महाघोरो वंशानामिव पाट्यताम्॥ १८॥
SP0790191: विकृष्यतां कार्मुकाणामिषूणां च विमुच्यताम्।
SP0790192: आसीत्तत्र महाञ्छब्दो गिरीणामिव भिद्यताम्॥ १९॥
SP0790201: गच्छद्भिर्भिन्दिपालैश्च शक्तिभिस्तोमरैस्तथा।
SP0790202: आकाशमभवत्सर्वं खद्योतैरिव संवृतम्॥ २०॥
SP0790211: शिरोभिश्चरणैश्चैव बाहुभिश्च निपातितैः।
SP0790212: क्षणेन युद्धभूमिः सा विषमा समपद्यत॥ २१॥
SP0790221: दन्तिभिः पर्वताकारैर्हयैर्धुर्यै रथोत्तमैः।
SP0790222: कबन्धैश्चाभिनृत्यद्भिर्दुर्निरीक्ष्यमभूत्क्षणात्॥ २२॥
SP0790231: आतपत्रैश्च हारैश्च कवचैस्तलभैरपि।
SP0790232: निष्कसूत्रैः सुमुकुटैः केयूरैः कुण्डलैरपि॥ २३॥
SP0790241: कण्ठत्राणैर्विचित्रैश्च दुकूलैर्मणिभिश्च ह।
SP0790242: कुथाभिश्च विचित्राभिर्भुजैः साभरणैरपि॥ २४॥
SP0790251: चामरैर्हेमदण्डैश्च घण्टाभिश्चाङ्कुशैरपि।
SP0790252: विभाति भूतलं तत्र ज्योतिर्भिर्द्यौरिवावृता॥ २५॥
SP0790261: क्रुद्धः केशेषु संगृह्य विरथो ऽपि महारथः।
SP0790262: रथिनं रथमाप्रुत्य निजघान बलाद्बली॥ २६॥
SP0790271: तत्र चान्यो गजेनाशु अभिपत्य महाबलः।
SP0790272: रथं चिक्षेप निर्वृत्ते कुशमुष्टिं यथाध्वरे॥ २७॥
SP0790281: क्षिप्तो गजं समुत्पत्य सगजं गजिनं स च।
SP0790282: शरैराशीविषाकारैरनयद्यमसादनम्॥ २८॥
SP0790291: हतमप्येष तुरगः सादिनं पतितं क्षितौ।
SP0790292: उपास्ते पादतः सुप्तं गुरुं शिष्यो यथात्मवान्॥ २९॥
SP0790301: ससूते निहते योधे रथमेते हयोत्तमाः।
SP0790302: वहन्ति पुरुषाः क्षीणा ज्ञानवन्त इवागमान्॥ ३०॥
SP0790311: अयमन्यः सुबद्धो ऽपि दैत्येन सुरपुंगवः।
SP0790312: बाहुभ्यां वेष्टयित्वैनं प्रययौ देवतान्तिकम्॥ ३१॥
SP0790321: अयमाधावतो यस्य गजस्य भुजमाछिनत्।
SP0790322: स तेनैव गजेनोग्रः पपात विनिसूदितः॥ ३२॥
SP0790331: अयमन्येन संयुक्त अन्येनागत्य घातितः।
SP0790332: स चाप्यन्येन देवेन सो ऽप्यन्येन पुनर्हतः॥ ३३॥
SP0790341: एते पदातयश्चान्ये बहवः संहता भृशम्।
SP0790342: रथिनं मोहयित्वा तु जघ्नुरेनमभीतवत्॥ ३४॥
SP0790351: एवमाकाशगाः सिद्धा ऋषयश्चारणास्तथा।
SP0790352: साधयन्ति रमन्ते च गायन्ति च जपन्ति च॥ ३५॥
SP0790361: हरन्त्यप्सरसश्चैव योधांस्तत्र रणे हतान्।
SP0790362: पिशाचाश्चापि मोदन्ति नृत्यन्ति च निकुम्भिलाः॥ ३६॥
SP0790371: तत्प्रवादितगान्धर्वं छिन्नभिन्नविदारितम्।
SP0790372: युद्धगान्धर्वमभवद्भीरूणां भयवर्धनम्॥ ३७॥
SP0790381: ते ऽन्योन्यघातक्षतसर्वदेहाः सुरासुरा वैरमनुस्मरन्तः।
SP0790382: जघ्नुस्तदा राक्षसतुल्यरूपाः स्वराज्यहेतोर्जयमीप्समानाः॥ ३८॥
SP0799999: इति स्कन्दपुराण एकोनाशीतितमो ऽध्यायः॥