Skandapurāṇa Adhyāya 78
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0780010: व्यास उवाच।
SP0780011: भगवन्दितिपुत्रेषु प्रयातेष्वमरावतीम्।
SP0780012: अमराः किमकुर्वन्त एतदिच्छामि वेदितुम्॥ १॥
SP0780021: कथं तद्विदितं तेषां को मन्त्रश्चेष्टितं च किम्।
SP0780022: उत्तरं किं च देवास्ते प्रत्यपद्यन्त यत्नतः॥ २॥
SP0780031: धार्मिकाश्च कृतज्ञाश्च विद्वांसश्छिन्नसंशयाः।
SP0780032: इष्टाः सर्वस्य लोकस्य किमकुर्वन्त देवताः॥ ३॥
SP0780040: सनत्कुमार उवाच।
SP0780041: शृणु व्यास यथा देवा उत्तरं प्रतिपेदिरे।
SP0780042: असुराणां च यद्युक्तं प्रत्यकुर्वन्त दंशिताः॥ ४॥
SP0780051: उद्युक्तेष्वेव दैत्येषु देवानां भयसूचकाः।
SP0780052: संजज्ञुरमरावत्यामुत्पाता दारुणा भृशम्॥ ५॥
SP0780061: पिशिताशाः खगास्तत्र भ्रमन्त्युपरि सर्वशः।
SP0780062: मम्लुर्माल्यानि देवानां गन्धश्चैवाशुभो ववौ॥ ६॥
SP0780071: हयादयो न हेषन्ते विमदाश्च गजाभवन्।
SP0780072: अनभ्रे भयदं वर्षमपतद्रुधिरं बहु॥ ७॥
SP0780081: आयुधानि च दीप्यन्ते सधूमं शक्तिनन्दन।
SP0780082: कबन्धान्धस्तदादित्यो युद्धं चात्र प्रदृश्यते।
SP0780083: द्वयोः पुरुषयोर्व्यास हाहाकारश्च सर्वशः॥ ८॥
SP0780091: देवानामरतिश्चैव चित्तं चापि समुत्सुकम्।
SP0780092: स्फुरन्ति वामनेत्राणि जृम्भिका चोपजायते॥ ९॥
SP0780101: खगा दीना विकूजन्ति भयदा ह्यपरे तथा।
SP0780102: अग्निश्च दीप्यते तत्र सशब्दो रूक्ष एव च॥ १०॥
SP0780111: एतांश्चान्यांश्च विविधानुत्पातान्भयसूचकान्।
SP0780112: दृष्ट्वा प्राह गुरुं शक्रो बृहस्पतिमिदं वचः॥ ११॥
SP0780121: भगवन्किमिदं घोरं भयं नः समुपस्थितम्।
SP0780122: यदिमे सूचयन्त्युग्रा उत्पाता नः सुदारुणाः॥ १२॥
SP0780131: नेमे निष्कारणं मन्ये न चाप्यल्पं हि तद्धि नः।
SP0780132: यदिमे सूचयन्त्युग्राः कल्पान्त इव दारुणाः॥ १३॥
SP0780141: तस्य तद्वचनं श्रुत्वा देवाचार्यो बृहस्पतिः।
SP0780142: निरीक्ष्य बुद्ध्या संचिन्त्य प्रोवाचेदं तदा वचः॥ १४॥
SP0780151: यद्भवानाह तत्तथ्यं नेमे निष्कारणं कृताः।
SP0780152: निमित्तमत्र सुमहद्भविष्यति न संशयः॥ १५॥
SP0780161: निमित्तमादिदैत्येन्द्रो हिरण्यकशिपुः पुरा।
SP0780162: स हतो नरसिंहेन प्राप्तं राज्यं च वः पुनः॥ १६॥
SP0780171: अद्य वर्षसहस्राणि द्वादशैव सुनिर्वृताः।
SP0780172: युष्माभिरखिला लोका भुज्यन्ते सुमहात्मभिः॥ १७॥
SP0780181: दैत्याधिपा निरुत्साहा दानवैः सह शेरते।
SP0780182: पाताले दनुपुत्राश्च दुःखशोकसमाहताः॥ १८॥
SP0780191: हिरण्याक्षस्तु दैत्येन्द्रो हिरण्यकशिपोर्वरः।
SP0780192: स नूनं भ्रातुरन्विच्छन्हतस्य प्रतिकारिताम्॥ १९॥
SP0780201: सर्वैरभ्येति दैत्येन्द्रैर्दानवैश्च समावृतः।
SP0780202: सपुत्रपौत्रो दैत्येन्द्रो महाबलपराक्रमः॥ २०॥
SP0780211: अन्धकश्चापि पुत्रो ऽस्य ब्रह्मणा ह्यमरः कृतः।
SP0780212: न स शक्यो युधा हन्तुं ततो वो भयमुत्थितम्॥ २१॥
SP0780221: तद्भवन्तः सुसंनद्धाः सर्वे युद्धाय दंशिताः।
SP0780222: प्रतीक्षध्वं महासत्त्वा यावदौत्पातिकं स्थितम्॥ २२॥
SP0780231: तस्य तद्वचनं श्रुत्वा शक्रः सर्वांस्तदा सुरान्।
SP0780232: उवाच सज्जीभवत युद्धाय कृतनिश्चयाः॥ २३॥
SP0780241: भयं महदिदं प्राप्तं मा तिष्ठत निरुद्यमाः।
SP0780242: मा नः संप्राप्य दैत्येन्द्रा हन्युर्मत्तानिवामरान्॥ २४॥
SP0780251: अथ वायुस्तदाभ्येत्य शक्रं सर्वासुरान्तकम्।
SP0780252: उवाच प्राञ्जलिर्भूत्वा देवानामेव संसदि॥ २५॥
SP0780261: एष दैत्यो हिरण्याक्षः सर्वासुरसमावृतः।
SP0780262: आयाति देवता हन्तुं भ्रातुर्वधमनुस्मरन्॥ २६॥
SP0780271: तद्भवान्दंशितः सम्यक्सहास्माभिर्महाबलः।
SP0780272: जयायोत्तिष्ठ देवेन्द्र विनाशाय सुरद्विषाम्॥ २७॥
SP0780280: सनत्कुमार उवाच।
SP0780281: ततः स भगवान्व्यास महात्मा देवराट्स्वयम्।
SP0780282: अभेद्यं कवचं दिव्यं जाम्बूनदविभूषितम्॥ २८॥
SP0780291: दत्तं मन्त्रेण विधिवत्पुत्रेणाङ्गिरसः स्वयम्।
SP0780292: आबबन्धात्मनः शक्रो मेघदुन्दुभिनिस्वनः॥ २९॥
SP0780301: स तेन कवचेन स्म भाति शक्रः प्रतापवान्।
SP0780302: सविद्युदुल्कैरम्भोदैर्नद्धो मेरुरिवाचलः॥ ३०॥
SP0780311: ततो गोधाङ्गुलित्राणं तलत्रं चैव भास्वरम्।
SP0780312: आबबन्ध स्वयं मन्त्रैस्तस्य देवो बृहस्पतिः॥ ३१॥
SP0780321: इषुधीनक्षयांश्चैव खड्गं चैवामृतोद्भवम्।
SP0780322: आबबन्धास्य मन्त्रेण यदजय्यं सुरारिभिः॥ ३२॥
SP0780331: ततो ऽस्मै सशरं चापं वज्रं चासुरदारुणम्।
SP0780332: मन्त्राभिमन्त्रितं सम्यक्प्रददौ जयवर्धनम्॥ ३३॥
SP0780341: मङ्गलानि ततस्तस्य दर्शयामास वीर्यवान्।
SP0780342: घटं च पूर्णं मत्स्यं च ऐरावतमथापि च॥ ३४॥
SP0780351: कल्पितं बहुभिर्दिव्यैराचार्यैः कल्पवादिभिः।
SP0780352: अर्चितं धूपितं चैव धूपनैः क्रोधदर्पदैः॥ ३५॥
SP0780361: ततस्तं स तदा देव आरुरोह मतङ्गजम्।
SP0780362: भद्रलक्षणसंपन्नं चतुर्दन्तं क्षरन्मदम्॥ ३६॥
SP0780371: आरूढः स तदा भाति ऐरावतगजं विभुः।
SP0780372: उदयाचलमौलिस्थ उद्यन्निव दिवाकरः॥ ३७॥
SP0780381: पाण्डरेणातपत्रेण सुरराट्संबभौ तदा।
SP0780382: श्वेतपर्वतराजो ऽसौ शशिनेव महामुने॥ ३८॥
SP0780391: चामरावीजितं भाति तस्य वक्त्रमतिप्रभम्।
SP0780392: हंसांसावीजितं फुल्लं शरदीव महोत्पलम्॥ ३९॥
SP0780401: तस्य पार्श्वे जयन्तश्च पुत्रः शक्रस्य धार्मिकः।
SP0780402: कार्त्तिकेय इवाभाति रुद्रस्य दयितः सुतः॥ ४०॥
SP0780411: ततो यमश्च पुण्ड्रेण महिषेण महाबलः।
SP0780412: कालदण्डं पुरस्कृत्य कोटीभिर्दशभिर्वृतः॥ ४१॥
SP0780421: निर्जगाम कुबेरश्च राक्षसैर्बहुभिर्वृतः।
SP0780422: यक्षैः पुण्यजनैश्चापि तथान्यैर्देवतैरपि॥ ४२॥
SP0780431: तेषां द्वादश कोट्यस्ताः सहस्राणि च विंशतिः।
SP0780432: शतानि च तथाशीतिस्तथैवाष्टाधिका पुनः॥ ४३॥
SP0780441: वरुणो निर्ययौ चैव पुत्राणां दशभिः शतैः।
SP0780442: यादोभिस्ते वृताः सर्वे कोट्यस्ता एकविंशतिः॥ ४४॥
SP0780451: अनलश्च ततो देवः कोटीभिर्दशभिर्वृतः।
SP0780452: निर्ययौ सह पुत्रेण ससुहृद्वर्गबान्धवः॥ ४५॥
SP0780461: ततो वायुर्महातेजाः सर्वव्यापी महाबलः।
SP0780462: अक्षौहिणीभिर्दशभिर्निर्जगाम महाबलः॥ ४६॥
SP0780471: आदित्या निर्ययुः सर्वे दशाक्षौहिणिकर्षिणः।
SP0780472: एकैकशश्च ते व्यास सर्वे दिव्यास्त्रयोधिनः॥ ४७॥
SP0780481: तथा रुद्राश्च निर्जग्मुर्महामाया महाबलाः।
SP0780482: एकैकशस्तदा सर्वे षोडशाक्षौहिणीवृताः॥ ४८॥
SP0780491: वसवो दशभिश्चैव अष्टाभिश्चाश्विनावुभौ।
SP0780492: तथैवाङ्गिरसो देवाः सर्वे ते ऽक्षौहिणीवृताः॥ ४९॥
SP0780501: यामा धामाश्च साध्याश्च लेखा ये च महाबलाः।
SP0780502: ते ऽपि कोटीशतैः सर्वे दशभिः सह संगताः॥ ५०॥
SP0780511: गन्धर्वाणामभूत्कोट्यो विंशत्येव महात्मनाम्।
SP0780512: पन्नगानां चतुःषष्टिः खगानां चैव विंशतिः।
SP0780513: पिशाचानां च कोट्यस्ताः पञ्चाशत्तत्र संगताः॥ ५१॥
SP0780521: राज्ञां सहस्रमेवासीन्मनुष्याणां महात्मनाम्।
SP0780522: एतदेव बलं सर्वमभूत्तत्राभिसंगतम्॥ ५२॥
SP0780531: दृष्ट्वा तद्बह्वपर्यन्तं देवानां बलमुत्तमम्।
SP0780532: उवाच जीवं जीवानां राजा परमधर्मवित्॥ ५३॥
SP0780541: भगवन्क्रियतां व्यूहो यः स्यात्तेषां दुरात्मनाम्।
SP0780542: अभेद्यश्चाप्रधृष्यश्च यं न वेत्ति च भार्गवः॥ ५४॥
SP0780551: तस्य तद्वचनं श्रुत्वा बृहद्बुद्धिर्बृहस्पतिः।
SP0780552: उवाच देवताध्यक्षं शक्रं देवतसन्निधौ॥ ५५॥
SP0780561: न तदस्ति महेष्वास मयि यद्भार्गवो महान्।
SP0780562: न वेत्ति यस्य वा भेदं न कुर्यात्पाकशासन॥ ५६॥
SP0780571: उशना स तु यद्वेत्ति महायोगी महायशाः।
SP0780572: न चैव तदहं वेद्मि मत्तो वरतरो हि सः॥ ५७॥
SP0780581: स तु तीक्ष्णतया चैव मानाच्चैव शचीपते।
SP0780582: प्रमादं कुरुते तेषु तेन सर्वत्र लभ्यते॥ ५८॥
SP0780591: अहं सहिष्णुभावेन मार्दवेन परेण च।
SP0780592: अप्रमत्तश्च सर्वत्र तव भाग्यैश्च रक्षितः।
SP0780593: बुद्ध्या तमतिरिच्यामि विबुधेश्वर नित्यशः॥ ५९॥
SP0780601: तस्मात्ते ऽहं करिष्यामि व्यूहं श्येनमतिप्रभम्।
SP0780602: येन तान्दानवान्संख्ये कंचित्कालं विजेष्यथ॥ ६०॥
SP0780611: ततः स भगवाञ्जीवश्चक्रे व्यूहमतिप्रभम्।
SP0780612: श्येनं नाम महायोगी देवानां हितमादधत्॥ ६१॥
SP0780621: ग्रीवायां तस्य संचक्रे वित्तेशं वरुणं तथा।
SP0780622: अनलं चैव वायुं च जयन्तं चैव शक्रजम्॥ ६२॥
SP0780631: शिरश्चक्रे यमं तस्य मृत्युं कालं च तावुभौ।
SP0780632: वक्त्रमस्याकरोज्जीवश्चन्द्रसूर्यौ च चक्षुषी॥ ६३॥
SP0780641: एकपक्षं चकारास्य रुद्रान्सर्वान्स वै द्विजः।
SP0780642: द्वितीयं पक्षमादित्यान्मध्यं तस्य पुरन्दरम्॥ ६४॥
SP0780651: पादौ च वसवस्तस्य अश्विनौ च महाबलौ।
SP0780652: गन्धर्वाः पन्नगाश्चैव नखांस्तस्य समाश्रिताः॥ ६५॥
SP0780661: पक्षिणश्च महासत्त्वान्पिशाचांश्च महाबलान्।
SP0780662: पुच्छं तस्याकरोत्सर्वान्देवानन्यांस्तथोदरम्॥ ६६॥
SP0780671: राजानस्तस्य पादस्थास्तले भूतान्न्यवेशयत्।
SP0780672: महाबलान्महोत्साहान्सर्वान्देवान्सभासदः।
SP0780673: - - - - - - - - - - - - - - - -॥ ६७॥
SP0780680: सनत्कुमार उवाच।
SP0780681: स कृत्वा तं खगव्यूहं मन्त्रेणैवाभिमन्त्र्य च।
SP0780682: उवाच देवराजं तं बृहस्पतिरिदं वचः॥ ६८॥
SP0780691: कल्पितो ऽयं महाव्यूहः कृता रक्षा च पार्थिव।
SP0780692: अतः परं विधानस्य कर्म नास्मासु विद्यते॥ ६९॥
SP0780701: जय शत्रून्रणे शक्र देवतैरभिरक्षितः।
SP0780702: मया चाथर्वणैर्मन्त्रैस्तपसा च बलेन च॥ ७०॥
SP0780711: कुरु कर्म यथाशक्ति अमरो ह्यसि पार्थिव।
SP0780712: देवाश्चाप्यमराः सर्वे युध्यन्तु सुरपार्थिव॥ ७१॥
SP0780721: भाग्यानां जय आयत्तो नान्यत्र सुरपुंगव।
SP0780722: जहि शत्रून्महाबाहो मा भीर्भवतु ते रणे॥ ७२॥
SP0780731: ततः शङ्खाश्च भेर्यश्च पटहा डिण्डिमास्तथा।
SP0780732: आडम्बराश्च भम्भाश्च कृकवा गोविषाणिकाः॥ ७३॥
SP0780741: मर्दलाः पेपुकाश्चित्रा मेघतूर्याणि सर्वशः।
SP0780742: अवाद्यन्त महार्हाणि शतशो ऽथ सहस्रशः॥ ७४॥
SP0780751: तेन शब्देन योधानां युद्धहर्षो महानभूत्।
SP0780752: सिंहनादानकुर्वन्त वल्गितास्फोटितानि च॥ ७५॥
SP0780761: देवास्ततः शङ्खमृदङ्गवाद्यैरमोघसर्वायुधदीप्तहस्ताः।
SP0780762: निर्जग्मुरिन्द्रादिसुरप्रधाना जयैषिणः शत्रुवधेप्सवश्च॥ ७६॥
SP0789999: इति स्कन्दपुराणे ऽष्टसप्ततितमो ऽध्यायः॥