Skandapurāṇa Adhyāya 77
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0770010: सनत्कुमार उवाच।
SP0770011: स गत्वा तां सभां व्यास अपश्यद्दैत्यदानवान्।
SP0770012: प्रावृट्काले ऽम्बुदान्मत्तान्यथेन्द्रः समुपस्थितान्॥ १॥
SP0770021: मोत्तिष्ठतेति तान्सर्वानवोचदसुराधिपः।
SP0770022: मघापञ्चकमासाद्य भार्गवो ऽम्बुधरानिव॥ २॥
SP0770031: ततो जाम्बूनदे दिव्ये उपविष्टो वरासने।
SP0770032: उद्गच्छन्निव संप्राप्य उदयं तेजसां पतिः॥ ३॥
SP0770041: भाति सिंहासनासीनः स राजा सुरविद्विषाम्।
SP0770042: मेरुशृङ्गमिवासाद्य सबलाको महाम्बुदः॥ ४॥
SP0770051: तस्योपविष्टस्य तदा सर्व एव सुरद्विषः।
SP0770052: जयेति चक्रुरुत्थाय वेदा इव पितामहम्॥ ५॥
SP0770061: स तेषां मध्यगो भाति हिरण्याक्षो ऽसुरेश्वरः।
SP0770062: मध्ये कलभवृन्दानां यथा मत्तो महागजः॥ ६॥
SP0770071: बभूवुरुपविष्टास्ते तूष्णीमेवासुरास्तदा।
SP0770072: सिसृक्षवो जलं काले नीलाम्भोदा इवोन्नताः॥ ७॥
SP0770080: सनत्कुमार उवाच।
SP0770081: स तेषामिङ्गितं ज्ञात्वा कालं च सुरतापनः।
SP0770082: हिरण्याक्षः स्वयं राजा तानुवाच सुरद्विषः॥ ८॥
SP0770091: यूयं सर्वे महामायाः शृणुध्वं संयताः समम्।
SP0770092: कालप्राप्तं च पथ्यं च शिष्या इव गुरोर्वचः॥ ९॥
SP0770101: मम भ्राता प्रियो ह्यासीज्ज्येष्ठः पूज्यो यथा पिता।
SP0770102: हिरण्यकशिपू राजा महात्मा सत्यसंगरः॥ १०॥
SP0770111: धार्मिकश्च वदन्यश्च यज्वा दाता तपोन्वितः।
SP0770112: आहिताग्निश्चतुर्वेदः सर्वभूतसुखावहः॥ ११॥
SP0770121: राज्यार्थे स हतो देवैर्निकृत्या मूढमानसैः।
SP0770122: तस्य दुःखेन तप्यामि शुष्यामि च महासुराः।
SP0770123: सलिलादुद्धृतं ग्रीष्मे पद्मं कुसुमितं यथा॥ १२॥
SP0770131: तेषां कर्तुमहं दण्डं शक्तो ऽस्म्यसुरविद्विषाम्।
SP0770132: भवतां तत्र बालानां रक्षार्थं नोद्यमाम्यहम्॥ १३॥
SP0770141: सो ऽहं दण्डं स्वयं कर्तुमेकाक्यसुरविद्विषाम्।
SP0770142: गमिष्यामि न संदेहो मा भीर्भवतु वो ऽसुराः॥ १४॥
SP0770150: सनत्कुमार उवाच।
SP0770151: तस्य तद्वचनं श्रुत्वा दानवास्ते मुदान्विताः।
SP0770152: परस्परमवेक्षन्त व्रीडया परयान्विताः॥ १५॥
SP0770161: विप्रचित्तिस्तदनुजो भ्रातरं तं महाबलम्।
SP0770162: उवाच प्रणतः सम्यगर्थवन्मधुरं वचः॥ १६॥
SP0770171: न संदेहो हताः सर्वे त्वयैकेनासुरद्विषः।
SP0770172: यदि युद्धेन तिष्ठन्ति मायां कांचिदनाश्रिताः॥ १७॥
SP0770181: अबलास्ते न संदेहो निकृत्या बलिनस्तु ते।
SP0770182: प्रसादयित्वा शिरसा यद्ब्रवीमि निबोध तत्॥ १८॥
SP0770191: बालैरपि हि यत्प्रोक्तमुपपत्त्या प्रसाधितम्।
SP0770192: तद्ग्राह्यमिति वेधोभिः शास्त्रविद्भिः समीरितम्॥ १९॥
SP0770201: हिरण्यकशिपू राजा भ्राता नो ज्येष्ठ उत्तमः।
SP0770202: सो ऽपि शक्तो ऽहमित्येव एकाकी देवतैर्हतः॥ २०॥
SP0770211: महाबलो ऽपि बहुभिरशक्तैर्हन्यते बलात्।
SP0770212: आक्रन्दं हि विना राजन्नतो विज्ञापयामि ते॥ २१॥
SP0770221: भवतस्तु वयं बाला न तेषामसुरेश्वर।
SP0770222: शक्ता वयं सुयुद्धेन तान्हन्तुं कुलपांसनान्॥ २२॥
SP0770231: अनुस्मरन्तो वैरं च वयं हंस्याम देवतान्॥ २३॥
SP0770241: यथा तव न निद्रास्ति हिरण्यकशिपोर्वधात्।
SP0770242: तथास्माकं महाराज मा नो बालान्यथा चर॥ २४॥
SP0770251: यत्र नो योक्ष्यसे राजन्समे वा विषमे ऽपि वा।
SP0770252: तरिष्यामो वयं तद्वै महामत्स्य इवार्णवम्॥ २५॥
SP0770261: प्रह्लादो ऽयं सहभ्राता ससुतः ससुहृज्जनः।
SP0770262: एक एवाह्वयेत्सर्वान्यथा सिंहो महाद्विपान्॥ २६॥
SP0770271: बलिरेष च दैत्येन्द्र एक एव शरीरवान्।
SP0770272: सुरान्सयमवित्तेशाञ्छक्तः सर्वान्प्रबाधितुम्॥ २७॥
SP0770281: अयं बाणश्च तत्पुत्रो राजा बाहुसहस्रधृक्।
SP0770282: एक एव सुरान्सर्वान्विनाशयितुमुद्यतः॥ २८॥
SP0770291: कालनेमिर्महेष्वासो दनुपुत्रः प्रतापवान्।
SP0770292: एक एव सुरान्सर्वान्विनाशयितुमुद्यतः॥ २९॥
SP0770301: इमौ सुन्दनिसुन्दौ च भ्रातरौ बाहुशालिनौ।
SP0770302: उभावेकाकिनौ युद्धे देवान्हन्तुं समुद्यतौ॥ ३०॥
SP0770311: अयं मयश्च विक्रान्तस्तारकस्तार एव च।
SP0770312: अन्ये च दानवाः शूराः शक्ता देवान्प्रबाधितुम्॥ ३१॥
SP0770321: वधिष्यामः सुरान्सर्वान्व्याधा इव मृगान्वने॥ ३२॥
SP0770331: शूरो ऽयमन्धकः श्रीमान्ब्रह्मदत्तवरस्तथा।
SP0770332: प्रसह्य सर्वांस्तान्युद्धे नेष्यते वै यमालयम्॥ ३३॥
SP0770341: एवमेनं समाश्रित्य पालितानेन चैव हि।
SP0770342: करिष्यामो महद्युद्धं देवतानां भयंकरम्॥ ३४॥
SP0770351: पूर्वदेवा वयं सर्वे पश्चात्ते देवताभवन्।
SP0770352: कथं बिभेम तेषां वै सिंहानां शरभा इव॥ ३५॥
SP0770360: सनत्कुमार उवाच।
SP0770361: तस्य तद्वचनं श्रुत्वा अन्धकः सो ऽसुरेश्वरः।
SP0770362: उवाच वचनं तत्र हर्षयन्दानवेश्वरान्॥ ३६॥
SP0770371: महाबला वयं राजन्बलहीनाः सुराश्च ते।
SP0770372: पश्यध्वं देवतान्सर्वान्हतान्यमपुरोगमान्॥ ३७॥
SP0770381: अद्य तं राजहन्तारं दुरात्मानं कुलाधमम्।
SP0770382: मयैकेन हतं पश्य आदित्यानां कनीयसम्॥ ३८॥
SP0770391: अद्य मातादितिस्तेषां दुःखक्लिन्नाश्रुलोचना।
SP0770392: जलं दास्यति सर्वेषां यमस्य पुरवासिनाम्॥ ३९॥
SP0770401: तिष्ठध्वं दानवाः सर्वे पर्याप्तो ऽहं दुरात्मनाम्।
SP0770402: अस्माकं राज्यहन्तॄणां मृत्युरस्मि समागतः॥ ४०॥
SP0770410: सनत्कुमार उवाच।
SP0770411: तस्य तद्वचनं श्रुत्वा हिरण्याक्षः प्रतापवान्।
SP0770412: उवाच दानवान्व्यास जयेप्सुरसुराधिपः॥ ४१॥
SP0770421: अद्य पुष्यश्च नक्षत्रमस्माकं बलकारकम्।
SP0770422: अद्यैव दंशिताः सर्वे द्रुतं निर्यात दानवाः॥ ४२॥
SP0770431: अथ ते दानवाः शीघ्रं वाहनानि मुदा युताः।
SP0770432: प्रोत्सारयन्त संग्रामे योग्यानि रिपुबाधने॥ ४३॥
SP0770441: शीघ्रं कुरुध्वं सज्जानि गच्छामो देवतान्प्रति।
SP0770442: - - - - - - - - - - - - - - - -॥ ४४॥
SP0770451: तेषां स तुमुलः शब्दो वाहनानां बभूव ह।
SP0770452: मन्दरेणेव भिन्नस्य क्षीरोदस्य पुरा महान्॥ ४५॥
SP0770461: ममाश्वस्तव सिंहो ऽयं ममायं गजयूथपः।
SP0770462: रथो ऽयं कस्य सम्पन्नो युद्धोपकरणैर्भृशम्॥ ४६॥
SP0770471: निर्यान्तु सर्वे दैत्येन्द्रा यास्यामः पृष्ठतो वयम्॥ ४७॥
SP0770481: आरोहस्व रथं शीघ्रं किं रथेन ममाद्य वै।
SP0770482: पदातिरेव संग्रामे हंस्याम्यद्यासुरद्विषः॥ ४८॥
SP0770491: वंशवीणाखगोन्मिश्रः प्रलाप इव योषिताम्॥ ४९॥
SP0770501: अथ शुक्रस्तदाभ्येत्य भृगोः पुत्रो महातपाः।
SP0770502: हिरण्याक्षमुवाचेदं हर्षयन्दानवेश्वरम्॥ ५०॥
SP0770511: महाशान्तिः कृता ते ऽद्य रक्षा च सह दानवैः।
SP0770512: जहि सर्वान्सुरान्युद्धे न तवास्ति पराजयः॥ ५१॥
SP0770521: धारयिष्यामि युध्यन्तं लोकान्यज्ञ इवापरः॥ ५२॥
SP0770531: ततः प्रदक्षिणं कृत्वा शुक्रं मूर्ध्ना प्रणम्य च।
SP0770532: भार्गवं पुरतः कृत्वा निर्जगाम स मन्दिरात्॥ ५३॥
SP0770541: ततो भेर्यश्च शङ्खाश्च पणवानकगोमुखाः।
SP0770542: आडम्बरा डिण्डिमाश्च भम्भाश्च पटहैः सह॥ ५४॥
SP0770551: झर्झर्यो दर्दुराश्चैव सुघोषा मर्दलास्तथा।
SP0770552: कटंकटाः पेपुकाश्च तथा चैवैकपुष्कराः॥ ५५॥
SP0770561: पञ्चाक्षाः परिधीकाश्च मुकुन्दा मुरजास्तथा।
SP0770562: लम्पाका जलमत्ताश्च अवाद्यन्त सहस्रशः॥ ५६॥
SP0770571: गायनैश्चैव गायद्भिः स्तुवद्भिः सूतमागधैः।
SP0770572: दिव्याभिः कुलवृद्धाभिः स्त्रीभिश्च कृतमङ्गलाः॥ ५७॥
SP0770581: द्वार्यपश्यन्रथं क्.ल्प्तं यथा देवमयं हरः।
SP0770582: शतनल्वप्रमाणं तं दिव्यं जाम्बूनदं दृढम्॥ ५८॥
SP0770591: असङ्गतुरगैः श्वेतैस्त्रिसाहस्रैर्मनोजवैः।
SP0770592: अमरैः कामगैर्दिव्यैः श्रमदुःखविवर्जितैः॥ ५९॥
SP0770601: यन्ता रथस्य तस्यासीन्मकरो नाम विश्रुतः।
SP0770602: पुत्रो गरुत्मतो व्यास खगः कामगमः शुभः॥ ६०॥
SP0770611: तमसौ जयशब्देन आशीर्भिश्चाभिपूजितः।
SP0770612: आरुरोह रथं राजा एकचक्रं यथा रविः॥ ६१॥
SP0770621: कवची बद्धतूणीरः शरी खड्गी शरासनी।
SP0770622: बद्धगोधाङ्गुलित्रश्च कण्ठत्राणकृतस्तथा॥ ६२॥
SP0770631: ध्वजेन महता चैव च्छत्त्रेण च विभूषितः।
SP0770632: बह्वीभिर्वैजयन्तीभिः सबलाक इवाम्बुदः॥ ६३॥
SP0770641: तस्य च्छत्त्रं तदा भाति किरीटोपरि संस्थितम्।
SP0770642: सविद्युतः पयोदस्य पौर्णमास्यां यथा शशी॥ ६४॥
SP0770651: खट्वाङ्गं तस्य चाभाति ध्वजो दिवमिवाक्रमन्।
SP0770652: त्रैलोक्यस्योपघातादौ केतुर्दीप्त इवोदितः॥ ६५॥
SP0770661: तादृगेव रथो ऽस्यासीत्सुतस्य सुमहात्मनः।
SP0770662: अन्धकस्य तदा व्यास महाजलदनिस्वनः॥ ६६॥
SP0770671: अथ याहीति तेनोक्तो रथयन्ता सुरद्विषा।
SP0770672: त्रिसाहस्रान्हयाग्र्यांस्तु संरब्धः प्रत्यचूचुदत्॥ ६७॥
SP0770681: प्रचोदितास्तमूहुस्ते जवना वातरंहसः।
SP0770682: हयाः कामगमाः सप्त रवेरिव महारथम्॥ ६८॥
SP0770691: तस्याग्रतस्तदा शुक्रो रथेनाम्बुदनादिना।
SP0770692: उद्गच्छत इव व्योम्नि तस्यैवाभूद्यथा बुधः॥ ६९॥
SP0770701: दक्षिणे तस्य पार्श्वे च अभूदन्धकदानवः।
SP0770702: दक्षिणायनमासाद्य यथा लोकस्य भास्करः॥ ७०॥
SP0770711: द्वितीयं पार्श्वमाश्रित्य विप्रचित्तिरभूत्स्थितः।
SP0770712: भारतस्येव वर्षस्य हिमवान्पर्वतोत्तमः॥ ७१॥
SP0770721: पृष्ठतश्चाग्रतश्चैव यथाप्रीति ययुस्तथा।
SP0770722: अपरे दानवाः शूराः शशाङ्कस्य यथा ग्रहाः॥ ७२॥
SP0770731: तत्सैन्यं प्रचलं भाति व्रजन्तं मुनिसत्तम।
SP0770732: सविद्युत्स्तनयित्नूनामम्भोदानामिवात्यये॥ ७३॥
SP0770741: हयहेषितशब्दं च मत्तद्विरदबृंहितम्।
SP0770742: वल्गितास्फोटितोत्क्रुष्टं सिंहनादोद्धतं ययौ॥ ७४॥
SP0770751: तद्धि तूर्यरवसिंहनादितैरश्वहेषितगजोग्रबृंहितैः।
SP0770752: बाहुशब्दकुचितावनादितैर्याति दानवबलं भयावहम्॥ ७५॥
SP0779999: इति स्कन्दपुराणे सप्तसप्ततितमो ऽध्यायः॥